OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 1, 2022

 मिखायेल् गर्बच्चोवः यशःशरीरोSभवत्। 

मोस्को> विंशशतकस्य चरित्रगतेः परिवर्तनं कृतवान्, तृतीयविश्वमहायुद्धस्य अग्रात् लोकं रक्षितवान् , सोवियट् राष्ट्रसमूहस्य अन्तिमः राष्ट्रपतिः मिखायेल् गर्बच्चोवः दिवं गतः। मोस्कोस्थेन 'सेन्ट्रल् क्लिनिक्कल्' आतुरालयेन वृत्तान्तमिदं गतदिने निगदितम्। 

  सोवियट् यूणियन् इति राष्ट्रस्य समग्रप्रगत्यर्थं गर्बच्चोवेण आविष्कृतं 'ग्लास्नोस्ट्' [विशालमनः],  पेरिस्ट्रोयिक्का' [पुनर्निर्माणं] इति कृतनामधेयं परिष्करणद्वयं विधिवैपरीत्येन पराजयमभवत्। प्रबलराष्ट्रेषु अनुवर्तिताभ्यः  आणवस्पर्धाभ्यः गर्बच्चोवस्य प्रतिनिवर्तनं पाश्चात्यराष्ट्रैः सह शीतयुद्धस्य विरामकारणमभवत्। तेन  प्रक्रमेण सः १९९० तमस्य शान्तिनोबल् सम्मानार्हः जातः।