OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 6, 2022

 दिल्ल्यां गंगाराममार्गस्थेन बालभारती पब्लिक स्कूल् इत्यनेन हर्षोल्लासेन मानित: शिक्षकदिवस:

वार्ताप्रेषक: युवराज: भट्टराई

(समवाप्त साहित्याकादेमीयुवपुरस्कार:)

नवदिल्ली> करोलबागमध्ये सर-गंगाराम चिकित्सालयमार्गस्थिते प्रतिष्ठिते शैक्षणिकसंस्थाने बालभारती पब्लिकस्कूल इत्याख्ये विद्यालये शिक्षक-दिवस समारोह: नितान्तमेव हर्षोल्लासेन परिपालित:।   विद्यालयस्य विशाल-सभागारे आयोजितस्य शिक्षकदिवस-कार्यक्रमस्य अवसरे विद्यालयस्य प्री प्राइमरी कक्षात: उच्चमाध्यमिक-कक्षा-पर्यन्तं अध्यापननिरताः सर्वे शिक्षका: सर्वा: शिक्षिकाश्च प्रतिभागितां कृतवन्तः। शिक्षक-दिवस-समारोह-कार्यक्रमस्य आरम्भ: प्रधानाचार्योपप्रधानाचार्यसहितै: समस्त-शिक्षकाभिभावक-संघस्य सदस्यैः दीप-प्रज्वालन-पूर्वकं कृतम्। तदनु पूर्व राष्ट्रपते: डा० सर्वपल्ली राधाकृष्णन् वर्यस्य चित्रे पुष्पार्पणमपि विहितम्। एतस्मिन् अवसरे सर्वै: शिक्षकै: पूर्वराष्ट्रपते: डा० सर्वपल्ली राधाकृष्णन् वर्यस्य स्वप्नानां साकारीकरणस्य दृढसंकल्प: कृत:।
तस्य अनुक्षणमेव विद्यालयस्य एव संस्कृत-विभाग-द्वारा प्रकाशिताया: अभिनव-पत्रिकाया: संस्कृतसौगन्धिका इत्यस्याः लोकार्पणं माननीयस्य
प्रधानाचार्यस्य श्रीलक्षवीरसहगलस्य करकमलाभ्यां विहितम्। युगपदेव अन्य-शिक्षक-द्वयेन लिखितं पुस्तकद्वयमपि अभूत् विमोचितम्।

अस्मिन् अवसरे विद्यालयस्य शिखरपुरुष: प्रधानाचार्य: श्रीलक्षवीर सहगलमहोदय: विद्यालये कार्यरतान् तान् अध्यापकान् ता: अध्यापिकाश्च सम्मानितवान् यैः याभिश्च विद्यालये निजसेवाया: पञ्चविंशतिः वर्षाणि सम्पूरितानि। श्रीसहगलवर्य: निजसम्बोधने ‘शिक्षकदिवसस्य महत्त्वं प्रतिपादयन् उक्तवान् यत् शिक्षकदिवसस्य पावने अवसरे वयं समस्तानां शिक्षकानां श्रद्वापूर्वकम् अभिनन्दनं वन्दनं च कुर्महे। एतदपि कामयामहे यत् शिक्षकानां सम्मानार्थं समर्पित: शिक्षक-दिवस: केवलं पर्वत्वेन उत्सवत्वेन एव न मान्येत अपितु एष: दिवस: शिक्षकानाम् आत्मचिन्तनस्य आत्ममन्थनस्य चापि पर्व भवतु। येन भारतस्य स्वर्णिम-भविष्यं विश्वस्मिन् अपि विश्वे समुज्ज्वलितं भवेत्। अथ च डाॅ. सर्वपल्ली राधाकृष्णन् सदृशानां साम्प्रतिक-शिक्षकानां समर्पणेन भारतम् शिक्षाया: प्रत्येकेषु क्षेत्रेषु जगद्गुरूभूय विश्वस्य कल्याणपथं प्रशस्तीकुर्यात्।अथ च अस्मिन् अवसरे अमुना विद्यालयस्य शैक्षिक-स्तरीयताया: संवर्धनार्थं शिक्षकेभ्य: नैके नूतना: उपक्रमा: पुरस्काराश्च घोषिता:। स्वीय-सम्बोधने प्राचार्य: प्रावोचत् यत् अस्माकं देशे शिक्षाया: क्षेत्रे या क्रान्ति: समागता अस्ति तत्र शिक्षकानां विशिष्टं योगदानमस्ति। गुरू-शिष्य-परम्परा तु अस्माकं संस्कृते: अभिज्ञानमेवास्ति। अत एव अस्माकं राष्ट्रे गुरो: स्थानं देवतुल्यं भवति। कथ्यते चापि गुरुर्देवो भव इति। अस्मिन्नेव क्रमे विद्यालयस्य प्रधानाचार्य: श्रीसहगल: प्रत्यपादयत् यत् यदा एक: जन: सफलता-शिखरं स्पृशति तदा तस्य एव सफलस्य जनस्य नाम जगति प्रकाशितं भवति। तस्मिन् उच्चपदे कदापि तस्य जनस्य शिक्षक: विराजमान: नैव भवितुं शक्नोति। किन्तु एतदपि सत्यमस्ति यत् विना शिक्षकं स: जन: तस्मिन् उच्चपदे नैव प्राप्तुं शक्नोति। अर्थात् कस्यचिदपि जनस्य सफलतायां एकस्य शिक्षकस्य बलिदानं तदपि मूकं बलिदानं निहितं भवति। सम्बोधनस्य पश्चात् अनेकानां नृत्य-नाट्य-सांगीतिक-प्रस्तुतीनाम् आनन्द: समस्तै: शिक्षकै: स्वीकृत:।एतस्मिन् कार्यक्रमे समस्त शिक्षकानां उपस्थिति: अवर्तत।