OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 28, 2023

 "संस्कृतभाषाशिक्षणवर्गः" इत्यनेन "गृहे गृहे संस्कृतम्" सम्पूर्णं राज्यं लाभं प्राप्स्यति - विनय श्रीवास्तव: ।

वार्ताहरः - सचिन शर्मा, उत्तरप्रदेशः ।

उत्तरप्रदेश संस्कृत-संस्थानम् उत्तरप्रदेश-सर्वकारस्य भाषाविभागस्य अन्तर्गतं मार्चमासे प्राविधिकस्तरं क्रियमाणानां कक्षानां समाप्तौ, जेसी अतिथिगृहे सप्तदिवसीयस्य शिक्षकप्रशिक्षणस्य च समाप्तेः अवसरे, गृहे गृहे संस्कृतयोजना अन्तर्गत निरालनगरे संस्थाननिदेशकः विनयश्रीवास्तवः कार्यक्रमे प्रशिक्षुभ्यः प्रशिक्षकेभ्यः च प्रमाणपत्रं वितरितवान्। प्रशिक्षून् सम्बोधयन् सः अवदत् यत् भवन्तः मण्डलस्तरस्य संस्थायाः राजदूतरूपेण कार्यं करिष्यन्ति। उत्तरप्रदेशस्य संस्कृतसंस्थानं शीघ्रमेव जिलास्तरस्य समन्वयकान् स्थापयिष्यति, न केवलं ऑनलाइन, अपितु प्रथमचरणे प्रत्येकस्मिन् गृहे संस्कृतभाषास्तरं सुदृढं कर्तुं प्रयतते।

द्वितीयचरणे प्रत्यक्षसंस्कृतप्रशिक्षणस्य कार्यं भविष्यति। यस्मिन् विद्यालय-ग्राम पंचायत-ग्रामप्रमुख-केन्द्र इत्यादीनां सहयोग: स्वीकरिष्यते।

प्रशिक्षणप्रमुखः सुधिष्ठमिश्र: प्रशिक्षणस्य इतिहासं कथयन् प्रशिक्षून् भाषाशिक्षणार्थं प्रेरितवान्।

योजना सर्वेक्षिका डॉ.चन्द्रकलाशाक्यः अवदत् यत् यद्यपि संस्थानम् ऑनलाइन संस्कृतभाषाशिक्षणं, योगप्रशिक्षणं, वास्तु, ज्योतिषशास्त्रं, पुरोहितकर्मादिकं च करोति तथापि एषा "गृहे गृहे संस्कृतयोजना" एकाद्वितीययोजनास्ति, यया सम्पूर्णं राज्यं संस्कृतमयं भविष्यति ।

प्रशासनिक अधिकारी दिनेशमिश्रः अवदत् यत् सिविलसेवापरीक्षाया: निःशुल्कप्रशिक्षणं, कम्प्यूटरसहायकसंस्कृतशिक्षणं, पुस्तकालयः, छात्रवृत्तिप्रशासनं, अनुदानयोजना, पाण्डुलिपिसंशोधनम् इत्यादीनां सर्वयोजनानां पोर्टलद्वारा गृहे उपविष्टेन जनेन लाभः प्राप्तुं शक्यते।

प्रख्यातः भाषाविदः टिकारामपाण्डेयः स्वभाषणद्वारा प्रशिक्षूणां भाषायाः प्रचारार्थं मार्गदर्शनं कृतवान् ।

भाषाविद् विमलेश मिश्रा द्वारा शिक्षणचरणेषु सूक्ष्मतया उक्तम् । प्रशिक्षण समन्वयक धीरज मैठाणी, राधा शर्मा च उभाभ्यां समग्रयोजनायाः कार्यान्वयनस्य रूपरेखा प्रस्तुता। अस्मिन् प्रकरणे

जगदानन्द झा उभ्याभ्यां धन्यवाद:

दत्तः उक्तञ्च संस्थानेन गुरु पूर्णिमा, महर्षि वाल्मीकि जयंती, आद्यशंकराचार्य जयंती, धन्वन्तरी जयंती इत्यादय: कार्यक्रमाः निरन्तरं संचाल्यन्ते। अस्मिन् अवसरे प्रशिक्षक: सचिन शर्मा , अमित सामवेदी, नूतनविष्णुरेग्मी, शशिकान्त:, पंकज शर्मा, दीपक पाण्डेय: , राजन दुबे, अंशु गुप्ता, पूजा , मीना, मनीषा, सविता इत्यादिभ्यः एवं 150 प्रशिक्षुभ्यः प्रमाणपत्राणि वितरितानि। प्रशिक्षुषु  रमा न्यौपाने, सूर्य प्रकाशः उभाभ्यां संचालनं तरुणः , संध्या गुप्ता, आस्था शुक्लः इत्यादिभिः स्वप्रस्तुतयः अनुभवाः च प्रकटिताः। अवसरेऽस्मिन्  पदाधिकारिणः,कर्मचारिणः सामाजिकाः च उपस्थिताः। सर्वेभ्यः प्रशिक्षकेभ्यः प्रशिक्षुभ्यः च पाठ्यक्रमपुस्तकानि प्रदाय कार्यक्रमस्य समापनम् अभवत्। आभासीयमाध्यमेन ऑनलाइन-रूपेण संचालितानां कक्षाणां प्रशिक्षकाः शिक्षिकाः च सम्बद्धाः एव आसन् ।