OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 16, 2024

 होरायां १३० कि. मी वेगः। आ गमिष्यति वन्दे मेट्रो। 


   चेन्नै> वन्दे मेट्रो इति पट्टिकाशकटस्य परीक्षण धावनं विनाविलम्बं भविष्यति इति इन्टग्रल् कोच् फाक्टरि संस्थाधिकारिणः अवदन्। जूण् जुलै मासे एव परीक्षणधावनं भविष्यति। १२ यात्रापेटिकाः सन्त्यस्मिन्। 'मेमु' रेल् यानस्प परिष्कृतं रूपं भवति इदम्। होरायां ११० -१३० इति वेगेन भविष्यति अस्य धावनम्। यानानां मिथः घट्टनस्य परिहाराय कवचः इति सुविधा अपि अस्मिन् सजीकृतः अस्ति। प्रति पेटिकायां शतानाम् उपवेष्टुं तथा  द्विशतानां स्थातुं च शक्यते। प्रथमयात्रा चेन्नैतः तिरुप्पतिपर्यन्तं भविष्यति।

Wednesday, May 15, 2024

 केरळेषु अध्यापकानां कृते शैक्षिकसत्रं समारब्धम्।

 गोश्रीपुरम्> केरळेषु अध्यापकानां कृते  शैक्षिकसत्रं समारब्धम्। पञ्चदिनात्मकम् इदं प्रशिक्षणसत्रं राज्यस्य विविधेषु भागेषु अध्यापकसङ्गमः इति नाम्ना आयोजितम् अस्ति। केरळसर्वकारस्य शैक्षिकविभागेन सत्रमिदम् आयोजितम्॥


Tuesday, May 14, 2024

 चतुर्थचरणे ६७. २५% मतदानम्। 

बहुषु स्थानेषु अक्रमप्रवर्तनानि। 

९६ लोकसभामण्डलेषु ह्यः सम्पन्ने निर्वाचने ६७. २५% सम्मतदायकाः स्वाभिमतं विनियुक्तवन्तः इति निर्वाचनायोगेन सूचितम्। गतं चरणत्रयमपेक्ष्य मतदानस्य शतमानं अधिकं वर्तते। 

  अधिकतरं मतदानं पश्चिमवंगे अङ्कितं - ८६. ०८%। न्यूनतमं तु श्रीनगरे - ३७%। पश्चिमवंगे तत्र तत्र संघर्षाः जाताः। बोलपुरं मण्डलस्थे केतुग्रामे कश्चन तृणमूलप्रवर्तकः बोम्बाक्रमणे हतः। आन्ध्रे गुण्डूरु मण्डलस्थे कस्मिंश्चित् मतदानस्थाने 'वै एस् आर् कोण्ग्रस् दलीयः विधानसभासदस्यः शिवकुमारनामकः मतदायकमताडयत् इत्यनेन संघर्षः जातः। 

  चरणचतुष्टये समाप्ते ७० % मण्डलेषु निर्वाचनं समाप्तम्।  दक्षिणभारतस्य सर्वेषु राज्येषु मतदानं सम्पूर्णमभवत्।

Monday, May 13, 2024

केन्द्रीयमाध्यमिकशिक्षामण्डल-परिणामः घोषितः।

   नवदिल्ली> केन्द्रीय-माध्यमिक शिक्षा-मण्डलेन (सी.बी.एस.ई.) इत्यनेन दश-द्वादश-कक्षयोः परिणामाः घोषिताः।  द्वादशकक्षायां सप्ताशीति दशमलव नवाष्ट प्रतिशतं छात्राः उत्तीर्णाः। यत् विगतवर्षापेक्षया शून्यदशमलवषड्पञ्च प्रतिशतम् अधिकं वर्तते। अस्य वर्षस्य सञ्जातपरीक्षायां चतुर्विंशतिसहस्राधिकं छात्रैः पञ्चनवतिः प्रतिशतं अङ्काः समर्जिता तत्रैव सपादलक्षाधिकं छात्रैः प्रतिशतं नवति अङ्काः अधिगताः। छात्राः www.cbseresults.nic.in इत्यत्र उतवा www.cbse.gov.in इत्यत्रापि स्वीयपरिणामान् अवलोकयितुं शक्नुवन्ति। प्रधानमन्त्री नरेन्द्रमोदी सी.बी.एस.ई;  परिक्षायाम् उत्तीर्णनां छात्राणाम् अभिनन्दनं कृतवान्।  छात्राणाम् उपलब्ध्या तेषां नैरन्तर्येण विहित प्रयासैः अत्यन्तं गर्वितः अस्ति इति एकेन सामाजिक-अन्तर्जाल-माध्यमेन सः उक्तवान्। 

 लोकसभा-निर्वाचनस्य चतुर्थचरणस्य मतदानं समारब्धम्।

     लोकसभा निर्वाचनस्य चतुर्थचरणस्य मतदानं  अद्य प्रातः सप्तवादने समारब्धम्। नवराज्यानाम् एकस्य केद्रशासितप्रदशस्य च षण्णवतिः लोकसभासनेषु भवति अद्यतनमतदानम्। एते  तेलगानायाः सप्तदश उत्तरप्रदशस्य त्रयोदशझारखण्ड-ओडिशा- राज्ययोः प्रत्यक चत्वारि  आन्ध-प्रदर्शशस्य पञ्चविंशतिः महाराष्ट्रस्य एकादश मध्यप्रदेश-पश्चिमबंगयोः अष्ट बिहारस्य पञ्च  सहैव जम्मू-कश्मीरस्य एकम् आसनं च वर्तते। लोकसभानिर्वाचनस्य चतुर्थचरणाय आहत्य सप्तदशाधिक- सप्तशतं प्रत्याशिनः नैर्वाचनिक-समराङ्गणेषु सन्ति। 

Sunday, May 12, 2024

 संस्कृतभारती केरलराज्यम् - वार्षिकमेलनम् 

   पालक्काट् ११ , १२ मै २०२४. पूजनीयः स्वरूपानन्दसरस्वतीस्वामिपादः, समादरणीयः सङ्गीताचार्यः मण्णूर् राजकुमारनुण्णि, माननीया पालक्काट् नगरपालिकाध्यक्षा प्रमीलाशशिधरन् प्रोफ के शशिकुमारमहाशयः स्वागतसङ्घस्य संस्कृतभारत्याश्च आदरणीयाः पदाधिकारिणः कार्यकर्तारः तथा बहवः संस्कृतोपासकाश्च सन्निहिताःआसन् ।

Saturday, May 11, 2024

 पाम्पन् सेतोः निर्माणं आगमिनि मासे पूर्णतां प्राप्स्यति।

    चेन्नै> पाम्पन् द्वीपं रामेश्वरं च भूखण्डेन सह संबध्नातुम् आविष्कृतं नूतनलोहमार्गनिर्माणं अन्तिमपादं प्राप्नोति। महानौकायाः गमनसमये सेतुः उपरि उत्थास्यति। तदर्थं भीमाकारस्य उत्थापनयन्त्रस्य (Lift) Span इत्यस्य अतीव कठिनतरः उद्ग्रथनकर्म एव इदानीं प्रचलत् अस्ति। प्रक्षुब्धे समुद्रे २.८ कि. मि. आयते निर्मितस्य सेतोः३३१ स्थम्भाः९९स्तम्भबन्धाः (Grider ) च सन्ति। जूण् मासस्य अन्तिमपादे सेतोः निर्माणप्रवर्तनानि पूर्णतां प्राप्स्यति इति दक्षिण -रेल् यानविभागस्य अधिकारिणा प्रोक्तमस्ति।

Friday, May 10, 2024

 अशोकन् पुरनाट्टुकरा -भारतमुद्रा पुरस्कारः समर्पितः।

    अयुर्वेदभिषग्वराय डा. टि श्रीकुमाराय 'भारतमुद्रा' पुरस्कारः समर्प्यते। पि वि कृष्णन् , डा. वि के विजयः, पि. के राजन् मास्टर्, टि वि चन्द्रमोहन्, वैद्य एम् प्रसाद्, सुकुमारन् मास्टर्, एन् राजगोपालः, अनुरागः, अजिता, आर् नन्दकिषोरः, डा. एस् एन् महोष् बाबुः च भागं स्वीकृतवन्तः।

 अतिशक्तियुक्तः सौरवातः भूतले वास्यति। वैद्युतिवितरणं विमानसेवां च प्रबाधेत।

   वाषिङ्टण्> अस्मिन् सप्ताहान्ते सूर्यात् अतितीव्रः सूर्यवातः भविष्यति इति पूर्वसूचना अस्ति। सौरवातः भूमिं बाधिष्येत इति यु एस् राष्ट्रस्य बाह्याकाश -वातावरण - प्रवचन केन्द्रेण आवेदितम्। भूतले जीविनः भूमेः कान्तिकक्षेत्रेण सौरयूथवातात् संरक्ष्यते। किन्तु वैद्युतिवितरणश्रृङ्खलासु विघ्नाः भवेयुः। बाह्याकाशपेटिकाः स्वपथात् व्यतिचलेयुः इति वैज्ञानिकाः अभिप्रयन्ति। सूर्यस्य अन्तरिक्षे जायमानः सूर्यवातः शुक्रवासरे विलम्बेन आरभ्य रविवासरपर्यन्तं स्थास्यति इत्येव निगमनम्। मा किं६० निमेषः आरभ्य९० निमेषपर्यन्तं अस्य प्रभावः भविष्यति।

Tuesday, May 7, 2024

 राफाप्रदेशात्  अपसर्तुं इस्रयेलस्य निर्देशः - स्थलाक्रमणभीतिः।

जरुसलेमः> गासाप्रदेशस्य दक्षिणभागे १४ लक्षं पालस्तीनीयानाम् अधिवासभूमेः राफानगरात् अपसर्तुं तद्देशीयान् इस्रयेलस्य कर्कशनिर्देशः। अनेनात्र इस्रयेलस्य स्थलाक्रमणम् आरभ्यते इति आशङ्का जाता। राफाप्रदेशे स्थलयुद्धं न कुर्यादिति यू एस् राष्ट्रेण इस्रयेलं Skirt बहुवारमभ्यर्थितम्। 

  प्रत्युत, परं सुरक्षितमिति इस्रयेलेन निर्दिष्टं मुवासि नामकं प्रदेशं गन्तुमेव पालस्तीनीयान् प्रति निर्दिष्टमिति इस्रयेलसेनाधिकारिणा लफ्टणन्ट् केणल् नदव् शोशानी इत्यनेन उक्तम्।