OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 28, 2019

'सम्प्रतिवार्ताः' इति विद्यालयीयछात्राणां संस्कृत-वार्ता-प्रस्तुतिः शततमं सोपानम् आरूढा
        विश्वे प्रप्रथममेव भवति विद्यालयीय छात्राणां अन्तर्जालीयं वार्ताप्रसारणम्। तदपि प्राचीनायां संस्कृतभाषायां नूतनेन विद्युत्माध्यमेन इति आश्चर्यजनकं च।
     केरलस्य सर्वशिक्षा अभियानेन सप्तदशोत्तर द्विसहस्र (२०१७ ) तमे संवत्सरे सर्वश्रेष्ठ शैक्षिकप्रवर्तनत्वेन चितः आसीत्‌ अयं कार्यक्रमः।  राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च  छात्राणां वार्ता प्रस्तुतेरुपरि अभिनन्दनानि समर्पयन्ति।   सम्प्रतिवार्तायाः छात्रवार्ता प्रवाचकाः बहुवारं भारतस्य वरिष्ठवार्ताप्रवाचकस्य बलदेवानन्दसागरस्य अभिनन्दनवचसा पुरस्कृताः।  कार्यक्रमस्य उपज्ञाता अय्यम्पुष़ हरिकुमारः अपि स्वस्य कर्मकुशलतायै अभिनन्दनेन सम्मानितः अस्ति।
     आधुनिके अन्तर्जालयुगे संस्कृतभाषया कृतः  नूतनपदक्षेपः भवति अयं कार्यक्रमः।  अन्यासु भाषासु यत् इतःपर्यन्तं न शक्यं तत् इदं प्रथमतया संस्कृतभाषया कृतम् इति संस्कृत-प्रेमिणाम्  अभिमानास्पदं भवति।
       केन्द्र-राज्य-सर्वकारयोः किमपि आर्थिक साहाय्यम् एतावत् पर्यन्तं न लब्धम्।  अतः स्वकुटुंबस्य यापनाय समार्जितधनम् उपयुज्य इमं वार्ताप्रस्तुतिं शततमं सोपानपर्यन्तं सः नीतवान्। कैश्चित्  संस्कृतानुरागिभिः लघुसाहायं कृतं चेदपि 'वीडियो' कार्यक्रमः इत्यस्मात् प्रभूतं धनम् आवश्यकमस्ति।  आभारतं छात्राः सम्प्रतिवार्तायां वार्ताप्रस्तुतीकरणाय वाञ्छन्तः सन्ति। अतः कार्यक्रमः स्थगयितुं न शक्यते। केन्द्रसर्वकारस्य आर्थिकसाहाय योजनायाः (अष्टादशी) कृते  प्रार्थितः अस्ति। लघु बालकायै अभिप्रेरणा दायकः भवति कार्यक्रमः तथापि साहायं न लब्धम्।
       बहु प्रयासेन भवति वार्ताप्रस्तुतेः चलनखण्डस्य उल्लेखनम्। राज्ये छात्रः यत्र निवसति तत्र स्वयमेव सम्प्राप्य गृहे वीडियो गृहसौविध्यं विरच्य  चलखण्डमुद्रणं करोति अय्यम्पुष़ हरिकुमारमहाभागाः ।   तदनन्तरं चित्रसंयोजनादि संगणकीय क्रियापि स्वयमेव कृत्वा भवति अन्तर्जालद्वारा प्रसारणम् । 
जनं TV माध्यमेन सम्प्रतिवार्तायाः अष्ट छात्राः तत्समय वार्ता प्रसारणं कृतवन्तः इति साभिमानम् अपश्यन् संस्कृतप्रेमिणः ।
       प्रतिबुधवासरं भवति प्रसारणम्। राज्यान्तरादपि वार्ता-प्रवाचकत्वेन भवितुमुद्दिश्य बहवः दूरवाणी तथा ईमेल् द्वारापि निवेदनानि प्रेषयन्ति इति हरिकुमारेण उक्तम्। किन्तु तादृश सुविधा-करणाय स्वस्य सकाशे  धनं नास्ति इत्यस्ति तस्य खेदः। सर्वकारस्य साहायमस्ति चेत् समीचीनतया कार्यक्रमः चालयितुं शक्यते इत्यस्ति तस्य शुभेच्छा। www.samprativartah.in इत्यस्ति ऑण् लैन् पत्रिकायाः सङ्केतः।
इस्लामिकराष्ट्राणाम् उपवेशने विशिष्टातिथिः सुषमा महाभागा।
 पाकिस्थानेन प्रतिषेधः प्रकाशितः।
      नवदिल्ली> अबुदाबि राष्ट्रे आयोजिते  ओ ऐ सि (Organisation Of Islamic Co - Operation) उपवेशने भारतस्य विदेशकार्यमन्त्रिणी सुषमा स्वराजमहाभागा विशिष्टातिथिरूपेण  आमन्त्रिता इति कारणेन पाकिस्थानः तस्य विप्रतिपत्तिः प्रकाशितः। सुषमा महाभागां निमन्त्रणाय कृतः प्रक्रमः प्रतिहर्तुं यू ए इ विदेशकार्यमन्त्रिणं अभ्यर्थितवान् इति पाकिस्थानस्य विदेशकार्यमन्त्री षा मेहमूद्‌ खुरेषी इस्लामाबादे कृते वार्तामेलने अवदत्। मार्च्मासस्य १,२ दिनाङ्कयोः एव प्रचलिष्यति मेलनम्। ५७ अङ्गाः सन्ति ओ ऐ सि इति दले।

Tuesday, February 26, 2019

जैशप्रमुखेण मसूद अजहरेण पञ्चविंशति: वर्षपूर्वम् एकस्यां चपेटिकायामेव समस्तं विवरणं प्रकटितमासीत् 
 
-पुरुषोत्तमशर्मा
•मसूद अजहर: 1994तमे वर्षे कश्मीरस्य अनंतनागक्षेत्रात् निगडित: आसीत्
•1999तमे वर्षे कंधारविमानापहरणानन्तरम् अजहर:  तत्कालीनभाजपाप्रशासनेन विमोचित: आसीत्
•पूर्वरक्ष्यधिकारिणा प्रोक्तं यत् विवरणज्ञातुम् अजहरे काठौर्यावश्यकता न भवति स्म

       नव देहली> देशे सर्वाधिक-प्रबलातङ्क्याक्रमणकर्तु:  जैश-ए-मोहम्मदातङ्कि-गुल्मप्रमुखेण मसूद-अजहरेण सह परिपृच्छावधौ काठोर्येण परिपृच्छावश्यकता कदापि नाभवदिति सहस्योद्घाटनम्  सिक्किमस्य प्राक्तनारक्षि-महानिदेशकेन अविनाशमोहनाने इत्यमुना कृतम्।  तेन 1994 तमे वर्षे अजहर: परिपृष्ट: आसीत्। अमुनोक्तं यत् अधिकारिण: एकस्यां चपेटिकायामेव अजहरेण सर्वा: गोप्यसूचना: अस्मभ्यं प्रदत्तासीत्।

     तेन प्रोक्तं यत्  "अहं बहुवारम् (अजहरम्) कोटबलवालस्थि कारागारे मिलितवान्। स: परिपृष्ट:। परिपृच्छावधौ तस्मै काठोर्यप्रवर्तनावश्यकता नैवानुभूता। स्वल्पापीडानन्तरं तत: सूचना: प्राप्यन्ते स्म।"
मोहनाने वर्येणोक्तं निगडनावधौ अजहरेण पाकिस्ताने प्रवर्तमानातंकिगतिविधिविषये आवेदनप्रक्रियाविषये च उक्तमासीत्।
"तेन अफगानातंकिनां कश्मीरोपत्यकायां प्रवेश: अथ च हरकत-उल-मुजाहिदीन,हरकत-उल-जेहाद-ए-इस्लामी इत्यनयो: हरकत-उल-अंसारगुल्मे परिवर्तनस्य विवरणं प्रदत्तमासीत्। आत्मानं तस्य महासचिवत्वं च प्रतिपादितमासीत्।"
     1994 तमे वर्षे अजहर: पुर्तगालस्य पारगमनपत्रेण बांग्लादेशमार्गात् भारते प्रविष्ट: आसीत्। अनंतनागादसौ 1994तमे वर्षे फेब्रुअरे मासे निगडीकृत:। अनन्तरं 1999तमे वर्षे कंधारविमानपहरणानन्तरं यात्रिणां सुरक्षां निध्याय मसूद अजहर: तात्कालिकभाजपाप्रशासनेन विमोचित: आसीत्।
भारतस्य प्रत्याक्रमणे जैषे इ भीकरदलस्य त्रयः नियन्त्रणालयाः भग्नाः। ३०० आतङ्किजनाः मृताः।
-बिजिला किषोरः
  काश्मीरम्> पुल्बम भीकराक्रमणस्य प्रत्याक्रमणरूपेण सोमवासरे भारतेन आतङ्कवादिनां शिबिराणि आक्रमितानि। जैषे इ मुहम्मद् भीकराणां त्रयः नियन्त्रणालयाः आक्रमणेन भग्नाः। ३०० आतङकिनः हताःI १२ मिराज् २००० युद्धविमानान् उपयुज्य आसीत्  भारतसेनायाः प्रत्याक्रमणम्। बालकोट्, चकोट्टि, मुसाफिर् बाद्‌देशेषु विद्यमानेषु आतङ्कवादिनां शिबिरेषु आसीत् विस्फोटकवर्षणम्। ५० किलोमीट्टर् दूरं व्योमसीमाम् उल्लङ्ख्य आसीत् विस्फोटकप्रयोगः।
     पुल्वाम आक्रमणानन्तरं प्रत्याक्रमणं प्रतीक्ष्यमाणा  पाकिस्थानसेना सीमायां प्रतिरोधाय श्रद्धालुः स्यात् इति मनसि निधाय आसीत् प्रत्याक्रमणम् । भारतसमयः ३:३० वादने आसीत् भारतस्य सुसज्जं प्रत्याक्रमणम्।

 ओस्कार् पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः। 
 होलिवुड् >  ९१ तम ओस्कार् चलच्चित्रपुरस्काराः प्रख्यापिताः। पीटर् फारलि नामकेन संविधानं कृतं ग्रीन् बुक् इति चलच्चित्रं वरिष्ठचित्राय पुरस्कारं स्वायत्तीकृतवत्। 'रोमो' इत्यस्य चित्रस्य निदेशकः अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः अभवत्।
  ओलीविया कोल्मान् नामिका 'दि फेवरिट्' इत्यस्मिन् चित्रे अभिनयेन श्रेष्ठनटिरूपेण पुरस्कृता। वरिष्ठनटस्तु रमी मालिक् नामकः , चित्रं - 'बोहीमियन् राप्सेड्'। पुरस्काराः उद्घुष्टाः - 'ग्रीन् बुक्' वरिष्ठचलनचित्रं, अल्फोण्सो कोरोण् श्रेष्ठः निदेशकः।

Monday, February 25, 2019

भीकरारक्षकसंघट्टने त्रयः भीकराः व्यापादिताः , डि वै एस् पि पदीयः सैनिकश्च वीरमृत्युं गतौ। 
श्रीनगरं > कश्मीरस्य कुल्गाम् जनपदे तुरीगाम् प्रदेशे भीकरान् प्रति संघट्टने काश्मीर् आरक्षकदलस्य डि वै एस् पि स्थानीयः कश्चन स्थलसेनाभटश्च वीरमृत्युमुपगतौ। त्रयः भीकराः सुरक्षासेनया व्यापादिताः। 
  तुरिगामे कस्मिंश्चित् भवने भीकराः निलीताः वर्तन्ते इतिसूचनानुसारं स्थलसेनायाः राष्ट्रिय रैफिल् दलं , सिआर् पि एफ् दलं, काश्मीर् आरक्षकदलस्य सविशेषोद्यमसङ्घश्च [स्पेषल् ओपरेषन् ग्रूप्] मिलित्वा कृते पदक्षेपे आसीत् भीकराणां वधः। सविशेषोद्यमसंघस्य नेता आसीत् हतः डि वै एस् पि अमन् ठक्कुरः। निहताः भीकराः जेय्षे मुहम्मद् सङ्घांगाः इति सूचना।
किसान् सम्मान निधिः प्रारब्धा। 
प्रथमं १.१ कोटि जनानां संख्याने २,०००रूप्यकाणि। 
   लख्नौ>  नरेन्द्रमोदीसर्वकारस्य आयव्ययपत्रकं वाग्दानमनुसृत्य राष्ट्रस्य कृषकाणां कृते प्रतिसंवत्सरं ६,००० रूप्यकाणाम् आर्थिकसाहाय्यं लभ्यमाना 'किसान् सम्मान निधिः' इत्यायोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। राष्ट्रस्य कृषकाणाम् इच्छापूर्तीकरणमेव अनया योजनया सफलतामेतीति उत्तरप्रदेशस्य खोरख्पुरे उद्घाटनं कुर्वन् प्रधानमन्त्रिणा उक्तम्। 
  'औण् लैन्' द्वारा धनविनिमयं कृत्वा आसीत् योजनायाः प्रारम्भ प्रधानमन्त्रिणा कृतः। १.१कोटि कृषकाणां संख्यानेषु ह्य एव प्रथमसोपानत्वेन २,००० रूप्यकाणि प्राप्स्यन्तीति तेनोक्तम्। अवशिष्टानामर्हाणां कृते अचिरादेव धनं प्राप्स्यति।

Sunday, February 24, 2019

केरले अग्निताण्डवः, बङ्गुलुरु नगरेऽपि आसुराग्निः।
   कोच्ची>  केरलराज्यस्य विविधप्रदेशेषु गतदिने महती अग्निबाधा सञ्जाता। जीवनाशः नाभवदपि कोटिशः रूप्यकाणां नाशनष्टाः अभवन्। केषुचित्स्थानेषु जनजीवनं दुस्सहममवर्तत। बङ्गुलुरु नगरे यलहङ्का व्योमसेनानिलयसमीपे व्योमप्रदर्शनकार्यक्रमाय सज्जीकृते यानोपस्थाने संवृत्तायामग्निबाधायां त्रिशतं कार् यानानि अग्निसात्कृतानि। 
   कोच्चीनगरसमीपे ब्रह्मपुरं प्रदेशे विद्यमानायां मालिन्यसंस्करणशालायां प्रवृत्ते वह्निग्रहणे  विषवायुलिप्तघनधूमण्डनेन २५ कि मी. विस्तृतप्रदेशस्थाः जनाः दुरितमन्वभवन्।  नगरहृदयस्थं 'मङ्गलवनं नामकमुपवनं ह्यः अनलभोजनमभवत्। वयनाट् जनपदे 'बाणासुरपर्वतः' वनाग्निबाधितो जातः। दशसहस्रं  एक्कर् परिमितानि तृणवनानि दग्धानि। 
   मैसूरु समीपस्थे व्याघ्रसंरक्षणकेन्द्रे तथा मुतुमला वन्यजीविसङ्केते च सञ्जाते वह्निव्यापने ६०० एकर् परिमिता वनभूमिः दग्धा।

Saturday, February 23, 2019

नरेन्द्रमोदी 'सियूल्
 शान्तिपुरस्कारेण' सम्मानितः।
नरेन्दमोदी सोल् शान्तिपुरस्कारं स्वीकरोति। 
सियूल् >  दक्षिणकोरियाराष्ट्रस्य 'सियूल्  प्रैस् फौणडेषन्' संस्थया  दीयमानः २०१८ संवत्सरस्य शान्तिपुरस्कारः भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वीकृतः।  कीर्तिफलकेन सहितं लक्षद्वयं डोलर् भवति पुरस्कारः। संख्या 'नमामि गङ्गा' आयोजनायाः कृते समर्प्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।
   अन्ताराष्ट्रसहवर्तित्वाय आगोलार्थिकमानविकविकासेभ्यः प्रधानमन्त्रिणा दत्तानि योगदानान्येव तं सियूल्  शान्तिपुरस्काराय अर्हतामकुर्वन्। पुरस्कारो$यं भारतीयानां कृते समर्प्यत  इति प्रधानमन्त्रिणा उक्तम्। गतैः पञ्चभिः संवत्सरैः भारतेन प्राप्तानि लाभानि सर्वाणि जनानाम् इच्छाशक्तेः फलमिति तेन सूचितम्।

Thursday, February 21, 2019

उत्तरध्रुवस्य स्थानः सैबीरियं प्रति। कौतुकेन वैज्ञानिकाः
      वैज्ञानिकान् अत्भुत-स्तब्धान् कृत्वा भौमकान्तिकस्य उत्तरध्रुवस्य स्थानान्तरं भवति। भूमेः कान्तिकध्रुवः सङ्कल्पित स्थानतः  भ्रंशितः इति अधुनातन समस्या। कानड देशतः सैबीरियं प्रति गच्छन्नस्ति ध्रुवः।
भूकान्त-मण्डलाधारेण प्रवर्तमानः 'नाविगेषन्' इति सुविधाः त्रुटितविवरणानि दीयमानानि सन्ति। एतस्याः परिहाराय विंशत्युत्तर द्विसहस्रतमे निश्चितं लोक कान्तिक आदर्शमानकनवीकरणं अस्मिन् मासस्य चतुर्थ दिनाङ्के (२०१९ फ़ेब्रु. ४) कृतम्। महानौकायाः सञ्चारगतिः 'गूगिल् माप्'  इत्यस्य प्रवर्तनानि च  नूतनमानकानुसारेण करणीयं। जर्मानीय वैज्ञानिकेन काल् फ्रीड्रिक् गौस् (Carl Friedrich Gauss) इत्याख्येन भौमकान्तिक मण्डलस्य आधारः भूमेः अन्तर्भागे इति प्रथमतया अनुमितः (1830)। ब्रिट्टणस्य परीक्षकः जयिंस् क्लार्क् इत्याख्यः उत्तरकान्तिकध्रुवं कनेडियदेशस्य आर्टिक् मध्ये इति निश्चितवान्। (1831) तस्मिन् समये ध्रुवस्य स्थानभ्रंश गतिवेगः प्रतिसंवत्सरं १५ कि. मी आसीत्I इदानीं सः ५५ कि.मी इत्यस्ति।

Wednesday, February 20, 2019

उत्तराखंड- चम्पावतजनपदम्। राट्रिय सेवा योजनायाः शिबिरस्य आयोजनम्।
आवेदनम् - अमित् ओली
    प्रतिवर्षस्य भाँति अस्मिन् वर्षेऽपि राजकीयं इण्टर कॉलेज खेतीखान- राष्ट्रिय सेवा योजनायाः शिबिरस्य आयोजनं N.S.S. योजनायाः कार्यक्रमः, अधिकारी कविन्द्र सिंहः बरफालस्य सानिध्ये आरम्भोऽभवत्, वर्षेऽस्मिन् सप्तदिवसीयः विशेष शिबिरस्यायोजनं ओलीग्रामे अभूत्, एकादश-कक्षायाः सर्वे पञ्चाशत् छात्राः सप्तदिवसात् गृहात् दूरं भूत्वा, शिबिरे निवासङ्कृतवन्तः तथा च तत्र वृक्षारोपणे, स्वच्छता कार्ये, सामाजिक कार्यैन्येषु कार्येषु च योगदानङ्कृतवन्तः। समेषां छात्राणां विभाजनं, पञ्च भिन्नेषु दलेषु प्रतिदश जनानां समूहेषु अभवत्। एतेषु सप्तदिवसेषु छात्रान् ज्ञानवर्धकसूचना प्रदत्ता। सर्वान् छात्रान् दिनचर्यायाः अनुपालनं करणाय प्रेरितङ्कृतम्। सप्तदिवसपर्यन्तं एते पूर्णं समर्पणभावेन गृहं प्राप्य स्वच्छता अभियानाय कार्यं कृतवन्तः, यत्र कुत्रापि अवकरं दृष्टवन्तः, ते स्वयमेव स्वच्छं कृतवन्तः। नदीनां देवालयानां स्वच्छता तु एते शिविरकालैव कृतवन्तः। सप्तदिवसेषु शिबिरेऽस्मिन् छात्राः बहु किमपि ज्ञातवन्तः ज्ञानार्जनं कृतवन्तः। 
      सप्तदिवसेषु प्रतिदिनं बौद्धिकं सत्राणि प्रचालितानि आसन्। यस्मिन् बालानां कृते उपयोगीविषयाः आसन्।  N.S.S. कार्यक्रमस्य आरम्भः कवीन्द्रसिंह बरफालेन छात्रैः द्वारा सरस्वती वन्दनायाः माध्यमेन कृतम्। अस्य शिबिरस्य मुख्यातिथिः माननीय नवीनेन दीपप्रज्जवलनं सम्पादितम्। शिबिरस्य प्रथमे दिवसे सर्वे ग्रामीणाः शिबिरे आगत्य छात्राणां उत्साहवर्धनं कृतवन्तः। संदीपः कलखुडिया वर्यस्य दिशा-निर्देशने सामाजिककार्याय प्रतिदिनं छात्राणां प्रशिक्षणमभवत्। शिबिरस्य अन्तिमे दिने समापनसमारोहे विशिष्टातिथिः रूपेण प्रियंका गड़कोटी वर्या छात्रान् धन्यवादं ज्ञापितवती।

Tuesday, February 19, 2019

तनयायाः विवाहासग्ध्यर्थं स्वरूपितम् धनं दिवङ्गतानां वीरसैनिकनां कुटुम्बेभ्यः  दत्तवान् पिता।
       गुर्जरराज्यस्थ सूरत् देशे वज्रव्यापारी देवषी मनेक इत्याख्यः एव  अयम् आदर्शपुरुषःI विवाहसग्ध्यर्थं सञ्चितं एकादशलक्षं रूप्यकाणि तेन पुल्वाम संघटने वीरमृत्युं प्राप्तानां सैनिकानां कुटुम्बेभ्यः दत्तवान्।  अतिरिच्य पञ्चलक्षं रूप्यकाणि सेवासमितिभ्यः दत्तानि इति टैंस् नौ न्यूस् डोट् कोम् आवेदितम्।
      फ़ेब्रुवरिमास्य पञ्च दशदिनाङ्के आसीत् मनेकस्य पुत्याः आमी  तथा मीठ् साङ्वी इत्ययोः विवाहः। तदनन्तरदिने एव आसीत् सग्धिः निश्चिता ।  किन्तु पुल्वाम दुर्घटनायाः कारणेन सग्धिः मास्तु , तत् राशिः सैनिकानां कुटुम्बेभ्यः दातुं वधूवरयोः कुटुम्बौ निश्चितवन्तौ
पाक् सैनिक-न्यायालयस्य न्यायाधिपः नियमबिरुदरहितः - जादवस्य दण्डः नियमविरुद्धः इति भारतम्।

  हेग्> कुलभूषण जादवाय मृत्युदण्डः इति उक्तवतः पाक् सैनिकन्यायालयस्य न्यायाधिपानां नियमेषु आधारपरिज्ञानमपि नास्ति इति भारतेन उच्यते। कुलभूषण जातवस्य याचिकायां न्यायालयस्य प्रक्रमाः सूतार्यतारहिताः आसन्। अन्ताराष्ट्रनीतिः न पालिता इत्यपि आन्ताराष्ट्र नीतिन्यायालये आयोजिते न्यायविस्तारे भारतेन उक्तम्। सर्वेषां समीचनाय न्याय विस्तारप्रक्रमाय अधिकारः अस्ति इति भारताय उपस्थितः सोलिसिट्टर् जनरल् हरीष् साल्वा महोदयेन सूचितम्। किन्तु जादवाय सा सुविधा न लब्धा। पाकिस्थानस्य सैनिकन्यायालयस्य प्रक्रमेषु सुतार्यता स्वल्पापि नास्ति। अनेन प्रकरेण १६१ संख्याकाः जनाः पाकिस्थानेन मृत्युदण्डिताः इत्यपि भारतेन स्ववादाः उन्नीताः।
पुल्वामा भीकराक्रमणं - सूत्रधारः निहतः।
 'मेजर्' स्थानीयः अभिव्याप्य चतुर्णां सैनिकानां वीरमृत्युः।
कश्चन देशवासी  अपि मृतः। 
 नवदिल्ली >  चत्वारिंशत् सैनिकानां मृत्युकारणभूतस्य पुल्वामा भीकराक्रमणस्य सूत्रधारः पाक्भीकरः तस्य अनुयायी च गतदिने भारतसेनया कृते  संघट्टने निहतः। जेय्षे मुहम्मद् नामिकायाः भीकरसंस्थायाः नेता मसूद् असर् इत्यस्य अनुयायी कम्रान् इति खासि रषीदः , तस्य अनुचरः हिलाल् अहम्मदश्च ह्यः १२ होराभिः अनुवर्तिते घोरे संग्रामे व्यापादितौ।
   सैनिकाक्रमणे मेजर् विभूति शङ्कर् दौन् दियालः, हरिसिंहः, षियो रामः, अजय् कुमारः इत्येते सैनिकाश्च वीरमृत्युमुपगताः। कश्चन प्रदेशवासी अपि परस्परगोलिकाशस्त्राक्रमणे मृतः।

Monday, February 18, 2019

पुलवामा संत्रासः आक्रमणम् : ४८ देशैः पाकिस्तानं सन्दिष्टम्, उक्तं यत् आतंकवादाय स्थानं नास्ति 
- साक्षी चौरसिया
     नवदेहली> पुलवामायां सी आर् पी एफ् प्रति जैश-ए-मोहम्मदस्य प्रहारस्य पश्चादपि अष्टचत्वारिंशत् देशैः अस्य आलोचनां क्रीयमाणः न केवलं भारतम् अपितु विभिन्नैः देशैः संघटनैश्च पाकिस्तानं तस्य आतंकी संघटनैः सह सम्बन्धाय तर्जित:। अस्य आक्रमणस्य आलोचनां कुर्वत्सु बुल्गारिया अथ च सेशल्स वत् लघु लघु देशाः अपि सन्ति। तथा च अमेरिका, जापान, ब्रिटेन वत् विशालदेशाः अपि सन्ति। सउदी अरब, यूएई, बहरीन वत् पाकिस्तानस्य मित्रदेशाः अपि सन्ति, अपि च संयुक्तराष्ट्रं शंघाई-सहयोग-संघटन्(सीएसओ) वत् विशालान्तराष्ट्रिय संस्थानानि अपि सन्ति।
     दक्षिण-एशियायां पाकिस्तानं विहाय सर्वेऽपि देशाः यथा अस्य आक्रमणस्य विरोधे भारतेन सह तिष्ठन्तः सन्ति, तेन तु स्पष्टं यत् दक्षिण-एशिया-क्षेत्रीय-सहयोग-संघटनस्य (सार्क) गोष्ठीं आयोजनस्य चिन्तनं कुर्वन् पाकिस्तानस्य लक्ष्यं अधुना पूर्णं न भविष्यति। विदेशमंत्रालयस्य सूत्रानुसारं यादृशं अन्ताराष्ट्रिय-समुदायः पुलवामा-आक्रमणस्य पश्चाद् आतंकवादस्य विरोधे अस्ति तादृशं उदाहरणं न्यूनमेव दृश्यते।

Sunday, February 17, 2019

केरलराज्यस्य प्रथमः मेट्रो आरक्षकालयः उद्घाटितः
   कोच्ची> राज्यस्य प्रथम-मेट्रो आरक्षकालयः केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन उद्घाटितः। कलमशेरी प्रदेशस्थ कुसाट् मेट्रो रेल् याननिस्थानस्य समीपे एव भवति अयम् आरक्षकालयः I मेट्रो रेल् संबन्ध अभियोगाः इदानीमारभ्य अस्य आरक्षकालयस्य परिधौ भविष्यन्ति। अभियोग परिहारे शीघ्रता यात्रिकानां परिदेवने परिहारः च आरक्षकालयस्य विशेषदायित्वम्। C I, SI द्वयं विशेषतया एका वनिता SI १६ आरक्षकाः च अत्र सन्ति।

Saturday, February 16, 2019

स्वयं प्रतिरोधाय भारतस्य अधिकारः अस्ति- यु एस्
   वाषिङ्टण् > आतङ्कवादान् विरुद्ध्य प्रतिरोधं कर्तुं  भीकरवादान्  मार्जनं कर्तुं च भारताय अधिकारः अस्ति। तदर्थं भारताय  समर्थनम् अस्ति इति  अमेरिक्क राष्ट्रेण निवेदितम्। पुल्वाम भीकराक्रमणस्य पश्चात् भारतस्य राष्ट्रियोपदेष्टारं दूरवाणिद्वारा आहूय्य यू एस्  राष्ट्रस्य राष्ट्रियोपदेष्टा जोण् बोल्टणः एव स्वस्य राष्ट्रस्य समर्थनम् ज्ञापितवान्।  आतङ्कवादिनं समर्थनं कृतवान्तं पाकिस्थानं एतादृशोद्यमाः स्थगयितुं निर्दिश्ये इति जोण् बोल्टणः अवदत्। यू एस् राष्ट्रस्य 'स्टेट् सेक्रट्टरि' मैक् पोंपियो च विषयेस्मिन् स्वस्य  राष्ट्रस्य भारताभिमुख समर्थनं कृतवानासीत् I भीकराणां कृते सुरक्षितस्थानं यच्छन् पाकिस्थानः लोकसुरक्षायाः भीषा इत्यपि तेन ट्वीट् कृतम्।

Friday, February 15, 2019

मूल्ययुक्तस्य समाजस्य सृष्टये सर्वैः संस्कृतभाषा पठनीया - नगरसभाध्यक्षः टि एल् साबुः ।

     सुल्त्तान् बत्तेरी /केरलम्>  संस्कृतभाषायां कश्चित् अनिर्वचनीयः  शक्तिः वर्तते इत्यतः सद्गुणयुक्तस्य समाजस्य सृष्टये सर्वैः छात्रैः संस्कृतभाषा पठनीया इति वयनाट् जनपदस्य सुल्तान् बत्तेरी नगरसभायाः अध्यक्षेण टि एल् साबु वर्येणोक्तम्। केरलसंस्कृताध्यापकफेडरेषन् नामकस्य संस्कृताध्यापकानां संघनटस्य ४१ तमं राज्यस्तरीयं सम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। असंस्कृतं मृत्पिण्डं यथा कश्चन शिल्पी सुन्दरं मूल्ययुक्तं च शिल्पं रचयति तथा एव कश्चनाध्यापकः बालकं छात्रं समाजाय उत्कृष्टगुणैर्युक्तं पौरं कर्तुं सर्वथा दायित्वयोग्यः भवति । यतो हि समाज्य रूपकल्पना कक्ष्याप्रकोष्ठायामेव सम्भवति।
     उद्घाटनोपवेशने प्रदेशस्य प्रमुखः सहकारी नीतिज्ञः पि वेणुगोपालः अध्यक्षपदमलङ्करोति स्म। सर्वासां भारतीयभाषाणां मातृत्वत्वेन वर्तमानां संस्कृतभाषां केवलम् अध्यापकवृत्तिम् अतिरिच्य इतरेषु आधुनिकेषु मण्डलेषु प्रयोक्तुं शक्नुयादिति तेनोक्तम्। 
     सम्मेलने अस्मिन् फेडरेषन् संस्थायाः राज्यस्तरीयनेतारः पि पद्मनाभः, पि एन् मधुसूदनः, पि जि अजित् प्रसादः, सि पि सनल् चन्द्रः इत्येते , इतरे अध्यापकसंघटनानेतारः एन् ए विजयकुमारः [के एस् टि ए], पि एस् गिरीष्कुमारः [के पि एस् टि ए], षौक्कमान् के पि [के एस् टि यू] इत्येते च सन्निहिताश्चासन्।
प्रत्याक्रमणाय अनुज्ञा दत्ता - प्रधानमन्त्री नरेन्द्रमोदी।

   नवदिल्ली> पुल्वामप्रदेशे आपन्नं  भीकराक्रमणं विरुद्ध्य प्रत्याक्रमणं भविष्यति। एतस्य पृष्टतः के के सन्ति ते  विना विलम्बं दण्डिताः भवेयुः तान् विरुद्ध्य प्रक्रमान्  स्वीकर्तुं सैनिक-विभागानां कृते अनुज्ञा दत्ता अस्ति। सैनिकानां क्षमतायां विश्वासः अस्तीत्यपि  भारतप्रधानमन्त्रिणा मोदिना उक्तम्। वन्दे भारतएक्स्प्र इत्यस्य उद्घाटन वेलायां भाषमाणः आसीत् सः। राष्ट्रान्तरेण अवगणितानि प्रातिवेशिकराष्ट्राणि निगूढतया भारतं नाशयितुं प्रयत्नं कुर्वन्तः सन्ति। अवसरेस्मिन् भारतेन सह वर्तितेभ्यः राष्ट्रेभ्यः धन्यवादं अर्पितवान्, तथा च आक्रमणेन हतेभ्यः आदराञ्जलयः च आशंसितवान् मोदी महोदयः।

जम्मुकाश्मीरे ४४ सैनिकानां वीरमृत्युः 
      श्रीनगरम्> विगते गुरुवासरे राष्ट्रे आपन्नेषु महत्या  भीकराक्रमणः आसीत्  पुल्वाम प्रदेशे दुर्भूतः। ४४ सि आर् पि एफ् सैनिकाः वीरमृत्युं प्राप्ताःसंख्याधिकाः क्षताः। २५४७ सैनिकेन सह गतानां यानव्यूहानां प्रति आत्मघातिना आक्रमणं कृतम्।  पाकिस्थानम्  आस्थानं कृत्वा प्रवर्तमानः  जैषे मुहम्मद् इति भीकरदलम् आक्रमणस्य दायित्वं स्वीकृतम्।
    उग्रस्फोटनेन बस्यानम् केवलं लोहखण्डः इति परिणितः। शरीरभागाः  आक्रमणस्थलं परितः प्रसृताः। २०१६ संवत्सरे  उरि सेनाशिबिरम् आक्रम्य २३  सेनान्यः हत्यानन्तरं जम्मुकाश्मीरे प्रवृत्ते बृहदाक्रमणः भवति अयम्। सैनिकानां ७८ यानानां व्यूहस्य मध्ये जैषे भीकरः आदिल् अहम्मद् इत्याख्यः विस्फोटकान् निभृतं यानम् अतिशीघ्रं चालयित्वा एव अपघातः कृतवान्। ३५० किलोमितेन विस्फोटकेन अवन्तिप्पोरा मार्गे आसीत् आक्रमणम् ।
संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन् 
कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्
     नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् ।

Thursday, February 14, 2019

देशस्य तृतीया महिला assistant comandante इति पदे नियुक्ता भूत्वा देशं गौरवान्वितं कृतवती—
-साक्षी चौरसिया
    संजयः निधिः, हिसारः> बालिकाः सहृदयाः भवन्ति। सौम्याः भवन्ति।.... परञ्चेततर्द्धसत्यमस्ति। ताः साहसी अपि भवन्ति। शौर्याः सन्ति। एवरेस्ट पर्यन्तं यान्ति। संतोषयादवेन आरभ्य शिवाङ्गी पाठकपर्यन्तम्। पर्वतारोहणेन, क्रीडासु स्वर्णिमप्रदर्शनेन सह दीर्घसंख्यायां प्रतिभागं कुर्वत्यः सन्ति। अर्द्धसैन्यबलेषु तु प्रभावशालिसु भूमिकायां सन्ति। हरियाणाराज्यस्य सोनीपतजनपदे सैक्टरद्वादशस्य निवासी सौम्या एकमुदाहरणमस्ति।
   सौम्यां बीएसएफ मध्ये हरियाणाराज्यस्य प्रथमा तथा च अखण्डभारतवर्षस्य तृतीया महिला assistant comandante इत्यस्य गौरवं प्राप्तमभवत्। बाल्यकालातेव सेनायाः आकांक्षी सौम्यया, 2016-तमे वर्षे मुरथलस्थितः दीनबन्धुः छोटूराम विज्ञानस्य एवञ्च प्रौद्योगिकी विश्वविद्यालयात् सङ्गणकविज्ञानस्य, इंजीनियरक्षेत्रे बीटेक एवञ्च संघलोकसेवा आयोगस्य परीक्षां लिखित्वा प्रथमप्रयासैवोत्तीर्णङ्कृतम्। तथा च ग्वालियर्टेनकपुरे स्थितः बीएसएफ अकादम्यां प्रशिक्षणाय गता। गत बुधवासररे आयोजिते दीक्षा-समारोहे सौम्या, स्वॉर्ड ऑफ ऑनर सम्मानेन अपि सम्मानिता अभवन्।
शीर्षन्यायालयस्य आदेशः कर्मकरौ पुनर्लेखनं कृतवन्तौ। न्यायाधीशेन तौ निष्कासितौ।
   नव दिल्ली> अनिल् अम्बानि इत्यनेन संबद्धे न्यायपीठ-अलक्ष्ययाचिकायां न्यायालयेन कृतादेशः पुनर्लेखनं कृत्वा प्राकाशयत् इति कुकर्मणा द्वौ कर्मकरौ निष्कासितौ। भारतसंविधानस्य विशेषाधिकारमुपयुज्य कोर्ट्मास्टर् इति पदे विराजमानौ मानव शर्मा , तपन कुमार चक्रवर्ती इत्याख्यौ एव निष्कासितौ। द्वावपि उपपञ्जीकरणाधिकारिणः समानस्थानयोः विराजमानौ आस्ताम्। बुधवासरे सायं मुख्यन्यायाधीशेन रञ्जन् गोगोय् वर्येण प्रक्रमः स्वीकृतः।
    'रिलयन्स् जियो' विरुद्ध्य 'एरिक्सण् इन्द्य' इत्यस्य याचिकायाम् अनिल अम्बानी साक्षात् आगन्तव्यम् इत्यादेशः न आगन्तव्यम् इति परिवर्त्य लिखितवन्तौ एतौ ।

Wednesday, February 13, 2019

विगते वर्षत्रयाभ्यन्तरे राष्ट्रे पुत्रेष्टिना स्वीकृतेषु ६०% शिशवः बालिकाः।
    नवदिल्ली> भारते गतेषु वर्षत्रयाभ्यन्तरेषु पुत्रेष्टिना स्वीकृतेषु ६०% शिशवः बालिकाः एव इति सर्वकारस्य गणना। १०२५तः २०१८ पर्यन्तं ६९६२ बालिकाः ४६८७ बालकाः च अपत्यत्वेन स्वीकृताः सन्ति इति लोकसभायां वनिता शिशुक्षेम-मन्त्रालयेन दत्ता   गणना एवायम्।
   भारते भारतात् बहिहिः च स्वीकृतानां बालिकानां गणना भवति इयम्। बलिकां प्रति विवेचनं न्यूनम् अभवत् इत्यस्य प्रमाणत्वेन इयं गणना निरीक्ष्यते विचक्षणैः।

Tuesday, February 12, 2019

दिल्यां वसतिगृहे अग्निबाधया ९ मृत्युः।
      नवदिल्ली> करोल् बागस्थे अर्पित् पालस् इति वसति गृहे महत्या अग्निबाधया नवजनाः मारिताः इति वार्तासंस्थाभिः आवेदितम्। अद्य प्रभाते सपाद पञ्चवादने एव दुर्धटना जाता। रक्षा प्रवर्तनानि प्रचलन्ति इदानीम्। षड्विंशति अग्निशमनसेना दलाः प्रवर्तननिरताः सन्ति। विद्युन्मार्गबाधा एव अग्निबाधायाः कारणम् इति अनुमीयते।   6:32am

Sunday, February 10, 2019

संस्कृताध्यापक मेलनं सुसम्पन्नम्
-बिजिला किषोरः
  कोष़िकोड् >  केरल-संस्कृताध्यापक फेटरेषन् दलस्य कोष़िकोड् जनपदस्य वार्षिकसम्मेलनं कुन्नमङ्गलं व्यापारभवने सुसम्पन्नम्। कार्यक्रमेस्मिन्  केरलसाहित्य अक्कादमी पुरस्कारजेता श्री वि सुधीर् महोदयः उद्गाटनमकुर्वन्। गुरोः गुरुः आत्मज्ञानमिति सः अवोचत। राज्यस्तरीय विद्यालयकलोत्सवे  Agrade प्राप्तवन्तः छात्राराः सम्मानिताः। संस्कृतक्षेत्रे कृताय योगदानाय श्री नारायणमहोदयाय पुरस्कारं दत्तम्। अध्यापकदलस्य राज्यस्तरीय अध्यक्षः श्री अजित् प्रसाद् महोदयः मुख्यभाषणमकरोत्। श्री अजित्, श्री सुजीशः, श्री बिजु काविल्, श्री श्रीधरः, श्री सि.पि सुरेश् बाबु च भागमवहन्। पञ्चाशदधिकाः अध्यापकाः भागं स्वीकृतवन्तः।
व्याजवैद्याः गृहीताः ५७ अनुमतिपत्राणि निवारितानि।
    मुम्बै> एम् बि बि एस् बिरुदं व्याजमिति ज्ञात्वा सप्तपञ्चाशत्  व्याजवैद्यानां अनुज्ञापत्रं महाराष्ट्र औषधायोगेन निवारितम्। बिरुदानन्तर बिरुदं सम्पाद्य पुनःपञ्जीकरणाय प्रार्थितानां सप्तपञ्चाशत् जनानां विरुदं व्याजं इति प्रत्यभिज्ञात्वा एव प्रक्रमः। चतुर्दशोत्तर द्विसहस्रं पञ्चदशोत्तर द्विसहस्र तमे संवसरे मुंबैस्थ सि पि सि इति वैद्यकलाशालातः बिरुदं प्राप्तवन्तः एते सप्तपञ्चाशत् जनाः। एतेषां बिरुदं व्याजमिति शङ्कया गते (२०१८) ओक्तोबर् मासे FIR पञ्जीकृत्य अन्वेषणम् आरब्धम् । छात्राणां पार्श्वतः धनं स्वीकृत्य व्याज-प्रमाणपत्रं दत्तवान् सि पि सि कलाशालायाः पूर्वछात्रः , वैद्यः स्नेहल् न्यातिः इत्याख्यः गृहीतः। 

Saturday, February 9, 2019

छत्तीस्गढे दश मावोवादिनः हताः 
 बिजापुरं >  छत्तीसगढ़ राज्ये बिजापुरं जनपदस्य बस्तर् इत्यस्मिन् प्रदेशस्य वनान्तर्भागे दश मावोवादिजनाः रक्षिपुरुषैः सह सङ्घट्टने व्यापादिताः। मावोवादिभ्यः परिशीलनं क्रियमाणे स्थाने आसीत् सङ्घट्टनं प्रवृत्तम्। भैरांगढ् आरक्षकस्थानस्य सीमाप्रदेशः अस्तीदं स्थानम्। 
  आरक्षकाधिकारिणा निगदितं यत् तत्र सङ्घट्टनमनुवर्तते , किञ्च ११ आयुधानि दश मृतदेहाश्च लब्धानि। मावोवादिनां मृत्युसंख्या अधिका भवेदिति सूचना।
प्रतिमायाः कृते सार्वजनिक भण्डागारतः व्ययीकृतं धनं प्रत्यर्पणीयम्- शीर्षन्यायालयः।
    नव दिल्ली> लख्नौ नोयिडा नगरयोः विविध भागेषु गजप्रतिमा स्थापनाय  सार्वजनिक भण्डागारतः  व्ययीकृतं धनं स्वस्य पार्श्वतः एव प्रत्यर्पणीयमिति शीर्ष न्यायालयेन आदिष्टम्। बी एस् पी नेतृणी मायावती भवति न्यायालयेन आदिष्टा राजनैतिकनेतृणी। सार्वजनिक धनं राजनैतिकं लक्ष्यम् उद्दिश्य व्ययीकृतम् इत्यारोप्य  निवेदितायां याचिकायामेव न्यालयस्य निर्णायः।
    बि एस् पी इति दलस्य चिह्नः भवति गजः। गजप्रतिमां विहाय स्वकीयाप्रतिमाऽपि मायावत्या राज्यभण्डागारात् व्ययीकृत्य निर्मिता अस्ति। अस्याः प्रवृती कदापि न्यायी कर्तुं शक्यते इति मुख्यन्यायाधीशस्य रञ्जन् गोगोय्-वर्यस्य अध्यक्ष्ये विद्यमानेन न्यायपीठेनोक्तम्।

Friday, February 8, 2019

४५० आतङ्कवादिनः काश्मीरं प्राप्तवन्तः इत्यावेदनम्।
   उदयपुरम् > सीमानम्  उल्लङ्घ्य आगताः आतङ्कवादिनः आक्रमणाय सज्जताम् एति इत्यावेदनम्। पाकिस्थानस्य साहायेन  पञ्चाशतधिकचतुश्शतं (४५०) आतङ्कवादिनः आक्रमणाय सज्जो भूत्वा तिष्ठन्तः सन्तीति सूचना लब्धा इति सैनिकमहानिर्देशकः रणबीरसिंहः अवदत्। आतङ्कवादिभिः पाकिस्थानेषु  अधिनिविष्ठकाश्मीरेषु च षोडश (१६) शिबिराणि अयोक्षितानि सन्ति इत्यस्ति आवेदनम्I 
      काश्मीरस्य  सानुप्रदेशे उपचतुशतम् आतङ्कवादिनः प्रवर्तन निरताः सन्तीत्यपि  रणबीरसिंहः अवदत्। सीमायां पाक् सैनिकाः अतङ्कवादिनां कृते साहायं कुर्वन्तः सन्ति। गतपञ्चसंवत्सराभ्यन्तरे भारतसैनिकैः आहतेषु ८३५ आतङ्किषु ४९० जनाः पाकिस्थानिनः आसन् इत्यपि सः अवदत्।

ऐ एस् विषये अमेरिकराष्ट्रपत्युः निश्चयः, कथितम् एकसप्ताहेन भविष्यति निष्कासनम् -
-साक्षी चौरसिया
   वाशिंगटन, प्रेट > अमेरिकस्य राष्ट्रपतिः डाॅनल्ड-ट्रम्पस्य निश्चयः यत् अग्रिम सप्ताहात् इस्लामिक् स्टेट् आतंकी संगठनस्य इराक तथा सीरिया-देशतः पूर्णतः निष्कासनं भविष्यति। ऐ एस् संगठनेन सह स्पर्धाङ्कुर्वन् अमेरिकस्य पक्षदलीयः वैश्विक संगठनेन 2018 तमे वर्षे घोषितं यत् एतत् आतंकी संगठनम् इराक् तथा सीरियायाः मात्रमेक फीसदी क्षेत्रपर्यन्तं संक्षिप्तोऽभवत्। किन्तु तस्य अधिकारः अफ्गानिस्तानं, लीबिया, सिनाई तथा च पश्चिम अफ्रीकायाम्  अस्ति।
   बुधवासरे आई अ .एस संगठनं पराजयार्थं निर्मितं वैश्विक गठबन्धनस्य मंत्रिणां गोष्ठ्याम् उक्तं यत् “ ऐ एस् संगठनस्य समापनमभवत्, गठबंधनस्य सहयोगीदल तथा च सीरियाई दलाभ्यां सीरिया व इराकदेशे ऐ एस् संगठनस्य अधीनस्थः प्रायशः सर्वे क्षेत्राणि रिक्तानि अभवन्। इत्यस्य औपचारिकी घोषणा सम्भवतः आगामी सप्ताहे भविष्यति।
    अस्यां गोष्ठ्यां प्रायशः अशीतिः देशानां वरिष्ठराजनेतारः उपस्थिताः आसन्। ट्रम्पेनोक्तं यत् तस्य सहयोगीदलयोः मध्ये घनिष्ठसम्बन्धोऽभवत्। गत द्विवर्षयोः अमेरिक तथा सहयोगीदेशेन प्रायः विंशतिः सहस्र वर्गमील क्षेत्रेषु पुनः शतप्रतिशतं नियन्त्रणङ्कृतम्।
संस्कृतं सर्वासां भाषाणां जननी - राजस्थानस्य मुख्यमन्त्री।
     जयपुरम्> संस्कृतभाषा संरक्षणीया तदर्थं प्रचारणीया यत् संस्कृतं सर्वासां भाषाणां जननी वर्तते। भारते विद्यमानाः सर्वाः भाषाः संस्कृतपदानि स्वीकृत्य सम्पुष्टा जाताः। अतः तासां सुस्थितये संस्कृतभाषा संरक्षणीया प्रसारणीया च इति राजस्थानस्य  मुख्यमन्त्रिणा अशोक् गेहलोटेणोक्तम्। राष्ट्रिय संस्कृत महाधिवेशनस्य उद्घाटनभाषणं कुर्वन्नासीत् अयं महोदयः। राजस्थनस्य संस्कृतशिक्षा मन्त्री डा. करणसिंहः च मञ्चस्थः आसन्। 

संस्कृताभियानम्
- प्रा. डॉ. विजयकुमार: मेनन्
    नमांसि, यदा निस्वार्थभूतं, लोकोपकारकं किञ्चन स्वल्पं सेवाकार्यम् एव स्वस्य जीवनस्य कार्यम् इदम् इदमेव इति निश्चितं भवति, तस्मै लक्ष्यभूतकार्याय समर्पणपूर्वकस्य प्रयत्नस्य प्रारम्भ: यदा भवति च तदा तस्य कार्यकर्तु: जीवने कष्टं सुखायते,  सुखं कष्टायते, कण्टकं कुसुमायते, कुसुमं कण्टकायते, घर्म: शीतायते, शीतं घर्मायते, दारिद्र्यमेव श्री: भवति, इच्छानां दारिद्र्यं भवति। तदा एव जीवनम् अर्थपूर्णं भवति। जीवनकार्यं निश्चीयताम्। मित्राणि, संस्कृतसेवया जीवनकथा रोचिका, रसभरिता, साहसमयी, प्रेणादायिनी, सुश्राव्या, स्मरणीया च क्रियताम्। । जयतु  संस्कृतम् जयतु भारतम् ।

Thursday, February 7, 2019

केदारनाथे शून्यतापात्  पञ्चदशडिग्रीतः न्यूनं तापमानम्। हिमघनीभूता काश्मीरः अपरः हिमामाचलः इति तर्क्यते ।
-साक्षी चौरसिया

   श्रीनगरम्/देहरादून्/शिमला> उत्तराखंडे सार्धेकादश फीट् उच्चैः स्थितः केदारनाथधामे तापमानं रात्रिः समये शून्यतापात् पञ्चदशडिग्री न्यूनं भवति। गतमासे तत्र हिमपातः अभूत्, तदनन्तरं यातायातः, विद्युत्प्रवाहः, इत्येते सर्वे स्थगिताः। सर्वत्र अष्ट फीट् पर्यन्तं हिमः घनीभूतः अस्ति। हिमाचले शीतलवायुः वाति। अपि च काश्मीरे हिमपातेन सह वर्षाऽपि अभवत्। अग्रे द्विदिवसयोः अपि हिमपातवर्षयोः सम्भावना व्यक्ता।
हिमपातेन मार्गाः बाधिताः
   केदारनाथे बहुवारं हिमपातः अभवत्। राम बाड़ा केदारनाथयोः मध्ये एवलॉन्च कारणेन पदातयः मार्गाः अवरूद्धः। बहूषु स्थानेषु विद्युत् स्तम्भाः अपि त्रुटिताः। वातावरणावेक्षण-विभागस्यानुसारेण, केदारनाथस्थाने पुनः हिमपातस्य सम्भावना सूचिता। अत्र संलग्नाः पञ्चाशत् कार्यकर्तारः हिमपातानन्तरं पुनः आहूताः। अधुना तत्र केचन कार्यकर्तारः एव संलग्नाः सन्ति।
राष्ट्रिय संस्कृतसम्मेलनम्  अद्य  जयपुरे समारभ्यते।  
   जयपुरम्> त्रिदिनात्मकं संस्कृतसम्मेलनं जयपुरे अद्य समारभ्यते। राष्ट्रिय शोधसङ्गोष्ठी संस्कृतं एवं सर्वभाषा कविसम्मेलनं, वर्तमान शिक्षायां संस्कृताध्ययनस्य प्रसक्तिः इति विषय मधिकृत्य च विचाराः कार्यक्रमेषु सन्ति इति कार्यक्रमस्य महामन्त्री डा. राजकुमार जोशी अवदत् । आभारतं वर्तमानाः संस्कृतपत्रकाराः अपि सम्मेलने भागभाजः भविष्यन्ति।
शबरिगिरौ युवतीप्रवेशः - पुनःपरिशोधनायाचिकासु वादः  सम्पूर्णः ; विधिः प्रतीक्षते। 
 नवदिल्ली >  सर्वोच्चन्यायालयस्य 'शबरिगिरि युवतीप्रवेशविधिः' पुनरालोच्या इति विषये समर्पितासु याचिकासु वादो सम्पूर्णः। याचिकाः विधिनिर्णयाय आरक्षिताः। 
   ५९ याचिकाः परिगणिताः। सार्धत्रयीभिः खण्डाभिः दशसु  याचिकासु वादाः पञ्चाङ्गयुक्तनीतिपीठेन साक्षात् श्रुताः। अवशिष्टानां याचिकानां सारांशं सप्तदिनाभ्यन्तरे  लिखित्वा समर्पयितुं श्रावकाः निर्दिष्टाः । 
   विधिः पुनःपरिशोधनाविधेयः न भवेदिति केरलसर्वकारेण तथा 'तिरुवितांकू्र् देवस्वं' संस्थया च तर्कितम्।

Wednesday, February 6, 2019

अत्र नद्या: अवकरेण सम्पद्यते 'आजीविकावसर:' एकेन पथेन कार्यद्वयं 
-पुरुषोतमशर्मा

     भोपाल:> 'आम्रम् तु आम्रं बीजस्यापि धनं' लोकोक्ति: श्रुता स्यात् भवद्भि:। लोकोक्ते: चरितार्थतां ज्ञातुमीहन्ते चेदागच्छन्तु महाकालनगर्याम् उज्ज्यिन्याम्। देशस्य प्राचीनतमायां प्रथितनगर्याम् उज्ज्यिन्यां पवित्रक्षिप्रानद्यै पर्यावरणसंरक्षणाय च बृहत्पदक्षेप: समुत्थापित:। नद्या: तटवर्तिक्षेत्रेषु श्रद्धालुभि: साक्ष्यरूपेण प्रक्षिप्तेभ्य: वस्त्रेभ्य: रीसाइकल इति पुनरुपयोगविधिना शासकीयप्रपत्राणि अन्योपयोगिपत्राणि च निर्मातुं कार्यारम्भ: सञ्जात:। वैशिष्ट्यं यदस्ति यत् विपण्यां विद्यमानोत्पादानामेक्षया एतेषां मूल्यं त्रिगुणात्मकं न्यूनमस्ति। अनेन सहैव अनया परियोजनया स्वयंसहायतासमूहानां महिलाभ्य: आजीविकावसरा: समुत्पन्ना:।
     इयं परियोजना उज्ज्यिन्या: नगरनिगमेन स्वच्छभारतभियानान्तर्गतं प्रारब्धास्ति। नागरविकासविभागस्य अधिकारिणामनुसारेण सम्प्रति उज्ज्यिन्यां परियोजनेयं प्रारम्भिकस्वरूपेणारब्धास्ति। प्रयोगस्य सफलतानन्तरं प्रदेशस्य अष्टसप्तत्युत्तरत्रिशतं नगरनिकायेभ्य: कार्यलयप्रयोगाय प्रपत्राणाम् आपूर्ति: विधास्यते। उज्ज्यिन्यां नगरनिगमेन एतेषां प्रपत्राणां प्रयोग: प्रारब्ध:।

Tuesday, February 5, 2019

विजय मल्लः भारताय प्रतिदीयते। 
 लण्टन्  >  नवसहस्रं कोटिरूप्यकाणां ऋणवञ्चनां कृत्वा विदेशं प्रस्थितः मदिरासम्राजं  विजय् मल्ल्या नामकं भारतं प्रतिगमयितुं  ब्रिटेन राष्ट्रेण निर्णीतम्। एतद्विषयके आदेशे ब्रिटीष् गृहमन्त्री साजिद् जावेदः हस्ताक्षरमकरोत्। 
   मल्ल्यः प्रत्यर्पयितव्यः इत्यपेक्ष्य एस् बि ऐ अभिव्याप्य भारतीयवित्तकोशानां समूहः ब्रिट्टनं प्रति याचिकां समर्पयति स्म। तदनुसारमेवायं पदक्षेपः।
राष्ट्रिय संस्कृतसम्मेलनं फेब्रु. ७ दिनाङ्कादारभ्य- जयपुरे  
   जयपुरं> फेब्रुवरि सप्तम दिनाङ्कादारभ्य त्रिदिनात्मकं संस्कृतसम्मेलनं जयपुरे आयोक्ष्यते।  राष्ट्रिय शोधसङ्गोष्ठी संस्कृत एवं सर्वभाषा कविसम्मेलनं, वर्तमान शिक्षायां संस्कृताध्ययनस्य प्रसक्तिः आदि विषयाः कार्यक्रमेषु सन्ति इति कार्यक्रमस्य महामन्त्री डा. राजकुमार जोशी अवदत् ।
संस्कृताभियानम् 
-प्रा. डॉ. विजयकुमार: मेनन्
       नमांसि, सर्वस्य अपि दिने चतुर्विंशति: घण्टा: भवन्ति। तासां चतुर्विंशते: घण्टानां भागत्रयम्। प्रतिभागम्  अष्ट घण्टा:। एक: भाग: निद्रया याप्यते। एक: भाग: (किञ्चित् अधिक: अपि) वृत्त्यर्थं व्ययीक्रियते। अवशिष्ट: तृतीय: भाग: किमर्थम् उपयुज्यते, कथं याप्यते इति प्रश्न:। तस्मिन् समये निस्वार्थकार्यं, पुण्यसम्पादनकार्यं, लोकहितकार्यं वा कियत् क्रियते? अस्माभि: विभिन्नै: प्रकारै: इतरेभ्य: स्वीकरणं तु प्रतिदिनं क्रियते। किम् अस्माभि: इतरेषां कृते दानम् अपि प्रतिदिनं क्रियते?  मित्राणि, वयम् अस्माकं जीवने संस्कृतकार्याय समयदानं कृत्वा पुण्यं सम्पादयाम:। जयतु  संस्कृतम् जयतु भारतम् । 

Monday, February 4, 2019

यूनां कृते विज्ञानस्य, समाजस्य संस्कृतेश्च  समावेशः भवतु — प्रो॰ बलरामसिंहः

-साक्षी चौरसिया
   नवदेहली> यूनां कृते विज्ञानस्य, समाजस्य संस्कृतेश्च समावेशः इति विषयमधिकृत्य प्रो॰ बलरामसिंहेन व्याख्यानं कृतम्। देहल्याः मिराण्डाहाऊस् महाविद्यालये  आयोजिते "द्वाविंशतितमं सङ्युक्ता-चौधरी" इति स्मृतिव्याख्याने संस्कृतस्य वैज्ञानिकं स्वरूपं तथा च महत्तां प्रकटितम्। प्रसङ्गेऽस्मिन् विभिन्नतर्कैः सह विभिन्नानां पुस्तकानां विषयेऽपि छात्राः बोधिताः। येन माध्यमेन वर्तमानसमये यूनां कृते विज्ञानस्य संस्कृत्योश्च मध्ये सम्बन्धं स्थापयितुं शक्नुमः।

   तेनोक्तं यत् न्यायदर्शनान्तर्गते तर्कसंग्रहे नवद्रव्याणाम् उपस्थितिः मन्यते। यस्य साक्षात् सम्बन्धः भौतिकविज्ञानेन सह अस्ति। अर्थात् आधुनिकयुगस्य वैज्ञानिकतायाः सम्बन्धः साक्षात् वैदिक प्रमाणैः सह अस्ति। एतत् सर्वं वेदेषु पूर्वोक्तमस्ति। यदि वयं वेदवाक्यानि त्यक्त्वा अपि पश्यामः तथापि सुश्रुतस्य शल्यचिकित्सा वैज्ञानिकतायाः अद्वितीयं प्रमाणमस्ति। आधुनिकसमये वैज्ञानिकैः क्रियमाणाः नित्यनूतनाः शल्यचिकित्साः सुश्रुतेन पूर्वमेव सिद्धं कृतम्।

  अग्रे प्रो॰ बलराममहोदयः अवोचत् यत् श्रीगणेशस्य स्वरूपं न केवलम् आध्यात्मिकम् अपितु भौतिक-दृष्टिकोणेन अपि ज्ञातुम् आवश्यकता वर्तते। तस्य बृहद् कर्णाभ्याम् उत्कृष्ट-श्रवण-शक्तिः प्रकटितः भवति। लम्बम् उदरम् अधिकग्रहणशक्तिं प्रकटयति। अपि च तस्य शुण्डा अस्मान् प्रेरयति यत् कीदृशमपि कार्यं भवेत् सदैव तत्परता भवितव्यम्। यदि वयम् उच्चशिक्षां, तीव्रविकासम् इच्छामः तर्हि अस्माकं चिन्तनं पञ्चाशत् वर्षेभ्यः अग्रे भवितव्यः।
   सभायामस्यां महाविद्यालयस्य संस्कृतविभागाध्यक्षा डॉ॰ रेखाअरोडा वर्यया सह विभिन्नमहाविद्यालयतः, संस्कृतभारतीतः आगताः पञ्चाशतधिकेकशतं(150) छात्र-छात्राः, शिक्षकाश्च उपस्थिताः अभवन्।

Sunday, February 3, 2019

शैक्षिकेतिहासः परम्परा च प्रदर्शययितुं कौतुकालयः स्थापयिष्यति- प्रकाश जावडेकरः ।

-बिजिलाकिषोरः

     नवदिल्ली> राष्ट्रस्य शैक्षिकेतिहासः, परम्परा च प्रदर्शयितुं  केन्द्रसरर्वकारेण कौतुकालयः संस्थापयितुं उद्दिश्यते इति  मानव-विभव-क्षमता विकसनमन्त्री श्री प्रकाश् जावेद्करःप्रावोचत्। सहस्राब्दस्य पुरातनत्वं कल्प्यते अस्माकं विद्याभ्यासचरित्रस्य। अनेके वैदेशिकाः अत्र आगत्यपठनं कृतवन्तः।नलन्दा, तक्षशिला च अस्माकं पैतृकसम्पत्तिं उत्बोधतयन्ति।
        स्वातन्त्र्यान्तोलनावसरे बालगङ्गाधरतिलकः,मदन् मोहनन् मालव्या च विद्यालयाः, कलालयाः च आरब्धवन्तौ। स्वातन्त्र्यानन्तरं विद्यार्जनाय तत् उपकारकमासीत्। नाषनल् म्यूसियम् ओफ् एजुकेषणल् हिस्टरि इति नाम्ना गवेषणकेन्द्रोयमारभ्यतेति तेन उत्बोधितं वर्तते।
ऋषिकुमार शुक्ला नूतनः सि बि ऐ निदेशकः। 
   नवदिल्ली>  मध्यप्रदेशस्य भूतपूर्वः आरक्षकाधिकारी ऋषिकुमारशुक्ला सि बि ऐ संस्थायाः निदेशकरूपेण नियुक्तः। किन्तु त्रिषु उन्नताधिकारसमित्यङ्गेषु अन्यतमः मल्लिकार्न खार्गे ऋषिकुमारस्य चयनं विरुध्य वियुक्तिप्रस्तावमकरोत्। सि बि ऐ निदेशक-नियुक्तिमार्गनिर्देशानां लङ्घनमारोप्य एव मल्लिकार्जुनस्य वियुक्तिः। 
  अलोकवर्मणः स्थाननिष्कासनानन्तरं   जनु.दशमदिनाङ्कादारभ्य निदेशकपदं रिक्तमासीत्। सि बि ऐ निदेशकनियुक्तेः कालविलम्बे सर्वोच्चन्यायालयेन असन्तुष्टिः प्रकटितः आसीत्।

Saturday, February 2, 2019

केन्द्रसर्वकारस्य आयव्ययपत्रं  जनप्रियं ; निर्वाचनोन्मुखम्।
 नवदिल्ली >  केन्द्रमन्त्रिणा पीयूष् गोयल वर्येण अवतारितं मध्यकालीनम् आयव्ययपत्रं आसन्नभाविनि वर्तमानं लोकसभानिर्वाचनं लक्ष्यीकृत्य सज्जीकृतमित्यतः जनप्रियं वर्तते। मध्यवर्तिजनाः, कृषकाः, भृतिभुजः इत्यादिजनान् केन्द्रीकृत्य कृतैः प्रख्यापनैः मतदानमेव लक्ष्यमिति स्पष्टं भवति।
   कृषकाणां कृते प्रतिसंवत्सरं ६०००रूप्यकाणां धनसाहाय्यरूपः 'प्रधानमन्त्री किसान् सम्मान् निधिः' , असंघटितानां कर्मकराणां कृते दीयमानः भूतपूर्वसेवाभृतिः , धेनुसंरक्षणाय उद्दिष्टा राष्ट्रिय कामधेनु आयोजना इत्यादीनि मुख्योद्घोषणानि भवन्ति।
   राष्ट्ररक्षामण्डलाय त्रिलक्षं कोटि रूप्यकाणां स्थानदानं इतःपर्यन्तं बृहत्तमं विहितमस्ति।येषां पञ्चलक्षं रूप्यकाणाम् आयः अस्ति, ते आयकरात् विमुच्यन्ते। एवम् आयव्ययपत्रं मध्यकालीनमपि जनप्रियं कृत्वा लोकसभानिर्वाचनम् अभिमुखीकर्तुं सर्वकारः सिद्धः भवति।

Friday, February 1, 2019

काश्मीरे हिमपातस्य कारणेन सप्ताहद्वयेन मार्गाः अवरुद्धाः, 270 जनाः आकाशमार्गेण प्रेषितवन्तः
-साक्षी चौरसिया

  श्रीनगरम्> बांदीपोरास्थाने द्विशतं यात्रिकाः गुरेजहेली इति सेवायाः माध्यमेन प्रेषिताः। कुपवाड़ां, बांदीपोरां प्रति गच्छन्तः  सर्वे मार्गाः गत-द्विसप्ताहेषु अवरुद्धाः सन्ति। श्रीनगरं, उत्तरीकाश्मीरे कुपवाड़ां, बांदीपोराञ्च प्रति गच्छन् सर्वे मार्गाः हिमपातेन कारणेन गत-सप्ताहद्वयेन अवरुद्धाः सन्ति। सीमायां स्थितैः दूरदूरस्थैः ग्रामैः सह सम्पर्कः अधुना नास्ति। केवलं तङ्गधारं प्रति गच्छन् मार्गः एव प्रचलितमस्ति। सर्वकारस्य प्रवक्तानां कथनमस्ति यत् श्रीनगरं, बांदीपोरायां अवरुद्धाः द्विशतं यात्रिकाः गुरेजहेली इति सेवायाः माध्यमेन सुरक्षितेषु स्थानेषु प्रेषिताः।

     उत्तरीकाश्मीरे प्रातः पुनः हिमपातः बुधवासरे प्रातः उत्तरीकाश्मीरस्य कुपवाड़ा, बांदीपोरा अपि च बारामुला स्थानेषु पुनः हिमपातोऽभवत्। मानसूनविभागस्य कथनमस्ति यत् आगामी दिवसद्वयोः एतेषु स्थानेषु हिमपातेन सह वर्षायाः सम्भावनाऽपि प्रतीयते।

    संस्थायाः सूत्राणां कथनमस्ति यत् आरक्षकैः (Police control room) एतेषामनुसारेण कुपवाड़ा-तङ्गधारस्य मार्गे पतितः हिमः मङ्गलवासरे अपसारितः। बुधवासरे वाहनानां गमनागमनाय मार्गाः उद्घाटिताः। आरक्षकानां कथनमस्ति यत् यदि हिमपातः अधिकः भविष्यति तर्हि मार्गाः पुनः अवरोधितुं शक्यते।