OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, June 30, 2024

 उपेन्द्र द्विवेदी स्थलसेनाधिकारी अभवत्। 

नवदिल्ली> लफ्टनन्ट् जनरल् उपेन्द्र द्विवेदी स्थलसेनाधिकारिरूपेण कार्यभारं स्वीकृतवान्। पाकिस्थान-चीनयोः सीमासु दीर्घकालं यावत् सेवामनुष्ठितवान् सः अद्यावधि उपाधिकारी आसीत्।

 लडाके सैनिकवाहनं नदीप्रवाहे मग्नम्। 

पञ्च सैनिकानां वीरमृत्युः। 

ले> काश्मीरे लडाकप्रदेशस्य पूर्वस्यां दिशि चीनस्य नियन्त्रणरेखासमीपे श्योकनद्यां सञ्जाते आकस्मिके शीघ्रजलप्रवाहे ५ सैनिकाः वीरमृत्युं प्रापुः। सैनिकेषु  'टाङ्क्'नामकं यानेन  नद्याः तीरान्तरं प्राप्तुं प्रयत्नं कृतवत्सु अप्रतीक्षिते जलप्रवाहे निपतिताः। 

  सिन्धुनद्याः पोषकनदी भवति श्योका। हिमानां द्रवणेन अप्रतीक्षितजलप्रवाहस्य सम्भावना विद्यते। जलवितानस्य औन्नत्यात् रक्षाप्रवर्तनं विफलमभवत्। 

  दौलत् बेग् ओल्डि सैनिकपत्तनस्य ५२ आर्मेड् विभागे प्रवर्तमानाः सैनिकाः एव दुर्घटनायां निपतिताः। मृत्युमुपगतेषु एकः जे सि ओ पदस्थः  इतरे चत्वारः भटाः च आसन् ।

 वीरभारतम् ; सूर्यभारतम्। 

टि - २० विश्वकिरीटं भारताय। दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजयत।

लब्धकिरीटः भारतदलः विजयाह्लादे। 

# भारतस्य द्वितीया टि - २० किरीटोपलब्धिः # विराटकोलिः [७६/५९] श्रेष्ठक्रीडकः। 

बार्बडोसः> अन्तिमक्षेपणचक्रे  सूर्यकुमारयादवस्य अविस्मरणीयम् अत्युज्वलं च कन्दुकनिग्रहणम्! स्रंसितमिति सन्दिग्धं किरीटमासीत् दक्षिणाफ्रिकायाः कन्दुकताडकं डेविड् मिल्लर् इत्यस्य बहिर्नयनेन सूर्यकुमारेण प्रत्याहृतम्। उत्साहः  अन्तिमकन्दुकं यावत् दीर्घितायाम् अन्तिमस्पर्धायां दक्षिणाफ्रिकां ७ धावनाङ्कैः पराजित्य भारतस्य टि -२० किरीटोपलब्धिः। 

  स्पर्धायाः प्रथमपादे भारतेन २० क्षेपणचक्रैः १७६ धावनाङ्काः सम्प्राप्ताः। विराट कोलिः ५९ कन्दुकैः ७६ धावनाङ्कान् सम्पादितवान्। प्रत्युत्तररूपेण २० क्षेपणचक्रैः दक्षिणाफ्रिकया ८ क्रीडकानां विनष्टे केवलं १६९ धावनाङ्काः सम्पादिताः। 

  विराटकोलिः अस्याः क्रीडायाः श्रेष्ठक्रीडकरूपेण चितः। जस्प्रीत बुम्रः क्रीडाश्रृङ्खलायाः श्रेष्ठक्रीडकरूपेणापि चितः।

 आकाशवाणीतः संस्कृत-वार्ताप्रसारणस्य पञ्चाशत्-वर्षाणि अद्य पूर्णतामेति। सर्वविधं शुभं कामयामहे।


Saturday, June 29, 2024

 दिल्ली विमानपत्तनस्य आवरणवितानं भञ्जितं ; एकः मृतः, ६ आहताः। 

नवदिल्ली> गतदिने सञ्जाते तीव्रवर्षे दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रियविमानपत्तनस्य प्रथममन्दिरस्य  आवरणवितानं प्रभञ्ज्य कार् यानचालकः मृतः। अन्ये षट् जनाः कठिनतया व्रणिताः। 

  ह्यः उषसि सार्धपञ्चवादने आसीदियं दुर्घटना। यत्र यात्रिकाः प्रस्थानार्थम् अवतरन्ति तस्य टेर्मिनल् मन्दिरस्य आवरणवितानं प्रभञ्ज्य कार् यानानामुपरि अपतत्। नैकानि कार् यानान्यपि भञ्जितानि।

 राष्ट्रराजधानी तीव्रवर्षायां निमग्ना। 

नवदिल्ली> तीव्रवर्षेण भारतराजधानी ह्यः जले निमग्ना। १९३६ तमसंवत्सरात् परं कठिना वर्षा आसीत् गतदिने जातमिति सर्वकारेण निगदितम्। २४ होरासु २२८ मिल्लीमीटर् परिमिता वर्षा अवर्षत्। 

  मुख्यवीथ्यः जले निमग्नाः इत्यतः गमनागमनसुविधा स्थगिता। दुर्घटनानिवारणार्थं  विद्युदपि विच्छेदिता। जनजीवितं दुस्सहं जातम्।

 विदेशकेदाराणां रक्षादौत्याय केरलस्य 'ड्रोण्'यन्त्राणि। 

फिया क्यू डि १० ड्रोण् यन्त्रेण सह देवन् चन्द्रशेखरः,देविका, प्रौद्योगिकाधिकारी अतुलः च। 

कोच्चि> विदेशराज्याणां गोधूम-बार्ली-कनोला केदारेषु ऊर्वरकप्रयोगः औषधप्रोक्षणम् इत्यादिषु कर्मसु केरले जातानि ड्रोण् यन्त्राणि सज्जानि सन्ति। आलप्पुष़ा जनपदे चेर्तला पट्टणक्काट् पुरवासिनौ देवन् चन्द्रशेखरः, तस्य सोदरी देविका, इत्यनयोः नेतृत्वे आरब्धः कार्षिकसंरम्भः 'फ्यूसलेज् इनवेषन्स्' [Fuselage Innovations] इत्यनेन निर्मितानि ड्रोण् यन्त्राणि विदेशराष्ट्रेषु  कार्षिकसाह्यं यच्छन्ति।  यू के, कानडा राष्ट्राभ्यां २५ संख्यकानां यन्त्राणाम् आदेशपत्रं लब्धम्।जूलाय् मासान्ते यन्त्राणि विदेशं नेष्यन्ति। 

  'फिया क्यू डि १०' इति कृतनामधेयानि एतानि यन्त्राणि १६० संख्याकानि अस्मिन् वर्षे केरलम्, आन्ध्रप्रदेशः, कर्णाटकं, राजस्थानं, तमिलनाटु राज्येषु  विक्रीतानि सन्ति। १० लिटर् परिमितशेषीयुक्तानि एतानि २५ मिनिट् कालं यावत् डयित्वा सम्यक् रीत्या ऊर्वरकौषधानि प्रोक्षिष्यन्ति। एकस्य यन्त्रस्य मूल्यं ५ लक्षतः ९ लक्षपर्यन्तमस्ति। 

  कोच्चि नगरस्थे कलमशेरि 'मेकर् विल्लेज्' मध्ये आरब्धाय अस्मै संरंभाय केन्द्रव्योमयानमन्त्रालयस्य अङ्गीकारः २०२३ तमे वर्षे लब्धः।

Friday, June 28, 2024

 टि - २० भारत-दक्षिणाफ्रिका अन्तिमस्पर्धा। 

इङ्लण्टं पराजितवतः भारतदलस्य आह्लादः। 

गयाना> टि-२० विश्वचषकक्रिकट् स्पर्धाश्रृङ्खलायाः पूर्वान्यचक्रे दक्षिणाफ्रिका भारतं च विजयपीठं प्रापतुः। शनिवासरे रात्रौ बार्बडोसनगरे अन्तिमस्पर्धा भविष्यति। 

   गतदिने ट्रिनिडाड् नगरे सम्पन्ने पूर्वान्त्यचक्रस्य प्रथमस्पर्धायां  दक्षिणाफ्रिका अफ्गानिस्थानं नव कन्दुकताडकानां बलेन पराजयत। अङ्कोपलब्धिः - अफ्गानिस्थानं ११. ५ क्षेपणचक्रे ५६ धावनाङ्कैः सर्वे बहिर्नीताः। दक्षिणाफ्रिका - ८. ५ क्षेपणचक्रे एकेन ताडकविनष्टेन ६० धावनाङ्काः। 

  रात्रौ गयानानगरे सम्पन्नायां  द्वितीयस्पर्धायां वर्तमानवीरः इङ्लण्टदलः भारतेन ६८ धावनाङ्कैः पराजितः। वर्षापातेन मध्ये मध्ये स्थगिते प्रथमचरणे निश्चिते २० क्षेपणचक्रे भारतं सप्त क्रीडकानां विनष्टेन १७१ धावनाङ्कान् उपालभत। प्रत्युत्तररूपेण इङ्लण्टदलः १०३ धावनाङ्कान् समाहृत्य बहिर्गतः। रोहितशर्मा [५७/३९], सूर्यकमारयादवः [४७/३६] च भारतस्य विजयशिल्पिनौ।

 मद्यनयप्रकरणं - केज्रिवालः सि बी ऐ संस्थया निगृहीतः। 

नवदिल्ली> मद्यनयप्रकरणे ई डीम् अनुगम्य सि बी ऐ संस्था अपि दिल्ल्याः मुख्यमन्त्रिणम् अरविन्द केजरिवालं न्यग्रहीत्। दिनत्रयं यावत् केजरिवालं सि बी ऐ संघस्य अधीने संस्थाप्य न्यायालयेन आदिष्टं च। 

  ई डि प्रकरणे न्यायव्यवहारानुसारं तिहार् कारागृहे वर्तमानं केजरिवालं तत्र गत्वा परिपृच्छनानन्तरं बुधवासरे न्यायालयमानीय एव निग्रहणप्रक्रियामकरोत्।

Thursday, June 27, 2024

 ओम् बिर्लः लोकसभाध्यक्षः। 

नवदिल्ली> प्रशासनपक्षतः भा ज पा सदस्यः ओम् बिर्लः लोकसभानाथरूपेण चितः। गतलोकसभायाः अध्यक्षः अपि स एवासीत्। 

  विपक्षतः कोण्ग्रसदलस्य सदस्यः कोटिक्कुन्निल् सुरेशः अपि स्थानाशी आसीत्। किन्तु विपक्षेन मतदानप्रक्रिया नोन्नीता। अतः ओम् बिर्लवर्याय प्रधानमन्त्रिणा समर्पितः प्रस्तावः शब्दमतेन अङ्गीकृतः।

 टि - २० : पूर्वान्त्यचक्रम् अद्य। 

किङ्स्टण्> टि - २० क्रिकट् विश्वचषकस्पर्धायाः पूर्वान्त्यचक्रे अद्य द्वौ प्रतिद्वन्द्वौ सम्पत्स्येते। प्रथम चरणे दक्षिणाफ्रिक्का अफ्गानिस्थानेन सह स्पर्धते। ट्रिनिडाड् नगरे प्रातः ६ वादने   भवति स्पर्धा। 

   द्वितीयचरणे भारतम् इङ्लण्टेन सह रात्रौ ८ वादने गयाना नगरे प्रतिस्पर्धिष्यते। अन्तिमस्पर्धा शनिवासरे रात्रौ ८ वादने बार्बडोस् नगरे भविष्यति।

Wednesday, June 26, 2024

 केरले वर्षाकालः प्रबलः। 

व्यापकनाशः, उपदशजनाः मृताः। 

कोच्चि> केरलराज्ये दक्षिणपश्चमीयः मण्सूण् वर्षाकालः प्रबलः जातः। आकेरलं लक्षद्वीपसमूहे च शक्ता वर्षा अनुवर्तते। 

  केरले भूरिशः जनपदेषु वर्षाकालदुष्प्रभावः जनजीवने दुरितं वपति। वृक्षप्रपातेन मृत्पातेन च नैकानां जनानां जीवहानिरजायत। एरणाकुलं जनपदे नेर्यमङगलं स्थाने वृक्षः चलतः कार् यानस्योपरि पतित्वा एकः मृतः। अन्ये त्रयः यात्रिकाः आहताः। इटुक्कि जनपदे गृहस्योपरि मत्पतित्वा गृहनाथा दिवंगता। कण्णूर्जनपदे अपि समानरीत्या चत्वारः जनाः मृत्युमुपगताः।

  तिरुवनंतपुरम्, आलप्पुष़ा, कोल्लं  कण्णूर् इत्यादिषु जनपदेषु प्रचण्डवातेन वृक्षाः मूलोत्पाटिताः सन्तः गृहाणां वाहनानां चोपरि पतित्वा बहुनाशः अभवत्।

 लोकसभाध्यक्षनिर्वाचनम् अद्य; राहुलगान्धी विपक्षनेता। 

विपक्षनेता राहुलगान्धिः। 

नवदिल्ली> २८ तमायाः संसदः अध्यक्षः अद्य निर्वक्ष्यते। अद्य प्रभाते ११वादने अस्ति निर्वाचनम्। शासनपक्षतः भाजपासदस्यः ओम् बिर्ला विपक्षतः कोण्ग्रसदलीयः कोटिक्कुन्निल् सुरेशः च स्थानाशिनौ भवतः। अध्यक्ष-उपाध्यक्षस्थानयोः शासन-विपक्षपक्षयोर्मध्ये उभयसम्मतिः न जाता इत्यतः एव स्पर्धा जायते। 

  लोकसभायाः विपक्षनेतृरूपेण कोण्ग्रसः नेता राहुलगान्धिः ऐककण्ठ्येन चितः। 'इन्डिया'सख्यस्य उपवेशनानन्तरं कोण्ग्रसदलस्य राष्ट्रियसचिवप्रमुखः  के सि वेणुगोपालः वृत्तान्तममुं निगदितवान्।

 लोकसभासदस्यानां शपथग्रहणं सम्पूर्णम्। 

 संस्कृते शपथं कृतवन्तः बहवः सदस्याः। 

नवदिल्ली> १८ तमलोलसभायाः सर्वे सदस्याः गतदिनद्वयेन शपथग्रहणनकुर्वन्। प्रथमं सभायाः तात्कालिकाध्यक्षरूपेण चितः भर्तृहरि मेताबः राष्ट्रपतिभवने द्रौपदी मुर्मू वर्यायाः समक्षे शपथग्रहणमकरोत्। ततः तस्य अध्यक्षतायां सभाकार्यक्रमाः समारब्धाः। 

  तत्र प्रधानमन्त्री नरेन्द्रमोदी प्रथमं शपथवाचनं कृतवान्। अनन्तरं तात्कालिकाध्यक्षाय साह्यं क्रियमाणाः सदस्याः, काबिनट्पदीयाः मन्त्रिणः, सहमन्त्रिणः तदनन्तरं अक्षरमालाक्रममनुसृत्य विविधराज्यस्थानां सदस्याः इत्येवं क्रमेण सत्यशपथं कृतवन्तः। 

  हिन्दीं आङ्गलं च विना सदस्याः स्वस्वमातृभाषासु च शपथग्रहणं स्वीकृतवन्तः। 

  बहवः सदस्याःसंस्कृतभाषायामपि शपथग्रहणं कृत्वा राष्ट्रस्य संस्कृतिं उन्नीतवन्तः। मध्यप्रदेशतः ५,दिल्ली,असमः, गुजरात्, छतीसगढ्, गोवा, कर्णाटकम्, आन्ध्रप्रदेशः इत्यादिभ्यः राज्येभ्यः चिताः सदस्याः संस्कृते शपथग्रहणं कृतवन्तः।

Tuesday, June 25, 2024

 पुनरुपयोगक्षमं विक्षेपयानं - अनुस्यूतविजयत्रयेण ऐ एस् आर् ओ। 

चित्रदुर्गा आकाश यान परीक्षणकेन्द्रे RLV पुष्पकं अवतरति। 

बङ्गलुरु> ऐ एस् आर् ओ संस्थायाः पुनरुपयोगक्षमस्य विक्षेपणयानस्य [Re usable Launch Vehicle - RLV] तृतीयमन्तिमं च स्वयंनियन्त्रितोत्तरणपरीक्षणं विजयकरमभवत्। रविवासरे चित्रदुर्गा चल्लक्करस्थे आकाशयानपरीक्षणकेन्द्रे आसीदिदं परीक्षणम्। 

  अत्यन्तं दुष्करावस्था आसीदपि वाहनं उत्तमरीत्या उत्तरणमकरोदिति ऐ एस् आर् ओ संस्थया निगदितम्। 

  पुष्पकमिति कृतनामधेयं RLV वाहनमेव परीक्षणे प्रवृत्तम्। विक्षेपणवाहनं बहिराकाशात् प्रतिनिवृत्ते सति जायमानाः अतिवेगोत्तरणदशाः पुनःसृष्ट्वा आसीत् परीक्षणम्। पुनरुपयोगक्षमं विक्षेपणवाहनं २०३० तमे वर्षे साक्षात्कर्तुं शक्यते इति प्रतीक्षते।

 रष्यायाम् आक्रमणपरम्परा - २० मरणानि। 

मोस्को> रूस् राष्ट्रस्य उत्तरकोकसस् क्षेत्रे डेगस्थानं प्रदेशे आराधनालयान् आरक्षककेन्द्रं च विरुध्य रविवासरे विधत्तायाम् आक्रमणपरम्परायां २० जनाः हताः। एषु १५ आरक्षकाः भवन्ति। एकः ओर्तडोक्स् विभागस्य पुरोहितः च। 

   डेगस्थानस्य  मखच्कल इत्यस्मिन् महानगरे डर्बन्ट् नामके तीरदेशनगरे च आसन् आक्रमणानि प्रवृत्तानि। द्वौ क्रिस्तीयाराधनालयौ, द्वे सिनगोगमन्दिरे , एकं आरक्षणपरिशोधनकेन्द्रं च आक्रमितानि। ऐ एस् इति भीकरसंघटनेनैव आक्रमणं कारितमिति सूच्यते।

 आस्ट्रेलियां पराजित्य भारतम् उपान्त्यचक्रं प्राविशत्। 

सेन्ट् लूसिया> टि - २० विश्वचषकक्रिकट् स्पर्धा श्रृङ्खलायाः 'सूपर् ८' श्रेण्यां भारतम् आस्ट्रेलियां २४ धावनाङ्कैः पराजित्य उपान्त्यचक्रं प्राविशत्। उपान्त्यचक्रे गुरुवासरे इङ्लाण्ट् भारतस्य प्रतियोगी भविष्यति। 

  प्रथमं कन्दुकताडनं कृतवता भारतेन पञ्च ताडकानां विनष्टे २०५ धावनाङ्काः सम्पादिताः। रोहित शर्मणः उज्वलं कन्दुकताडनमासीत् [४१ कन्दुकैः ९२ धावनाङ्काः] भारतस्य तादृशधावनाङ्कोपलब्धेः कारणम्। श्रेष्ठक्रीडकपदमपि रोहितशर्मणे लब्धम्। प्रतिक्रियाताडने आस्ट्रेलिया सप्त क्रीडकानां विनष्टे केवलं १८१ धावनाङ्कान् उपलभ्य पराभवं प्राप।

Monday, June 24, 2024

 अनुवर्तते संस्कृतस्य परम्परा तथा संस्कृतेः अपि। 

   स्वर्गीगीयायाः सुषमास्वराजवर्यायाः पुत्री बांसुरी स्वराजवर्या अपि संस्कृतेन एव लोक सभायां शपथवाचकमपठत्। संस्कृतेः परम्परा अनुवर्तते। अधुना अस्याः शपथग्रहणस्य

चलनमुद्रिका फेस्बुक् यू नालिका इन्स्टाग्राम् आदिषु समूहपटलेषु त्वरितवेगेन प्रसारिता वर्तते।

लोकसभायाम् अद्य प्रायश: षोडश- (१६) लोकसभा-निर्वाचिताः प्रतिनिधय: संस्कृतेन शपथं स्वीकृतवन्तः
मध्यप्रदेशत:- ८
1. श्रीमती संध्या राय भिण्ड
2. श्रीमती लता वानखेडे सागरः
3.श्री जनार्दन मिश्रा रीवा
4. श्री राजेश मिश्रा सीधी
5 .श्री रोडमल नागर राजगढः 
6 .श्री महेन्द्र सोलंकी देवासः 
7.श्री गजेन्द्र सिंह पटेल खरगोनः
8.दुर्गादास उइके बैतूलः

 देहलीप्रान्ततः बाँसुरीस्वराजः, असमप्रान्ततः
दिलीपसैकिया, छत्तीसगढ़तः चिन्तामणिमहाराजः हरियाणातः श्रीसतपाल ब्रह्मचारी(काँग्रेस्) गुजरात्ततः डा. हेमांगजोशी, गोवातः श्रीपदनैकः, आन्ध्रप्रदेशतः कष्णप्रसादटेन्नेटी, उत्तरकर्णाटकतः विश्वेश्वरहेगडे़ च शपथं संस्कृतेन कृतवन्तः।

 केरलमन्त्रिमण्डले नूतन‌ः मन्त्रिः ओ आर् केलुः शपथग्रहणं कृतवान्। 

ओ आर् केलुः। 

अनन्तपुरी> वयनाट् जनपदस्थे मानन्तवाटि मण्डलस्य सामाजिकः ओ आर् केलुः केरलस्य 'पिणरायि मन्त्रिसभां' प्रति नूतनमन्त्रिरूपेण शपथग्रहणमकरोत्। ह्यः राजभवने आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः सत्यवाचनमकारयत्। परिशिष्टजाति-वर्ग विभाग एव तस्मै कार्यकर्तृत्वाय विहितः। 

  वर्तमानीयः मन्त्री के राधाकृष्णः लोकसभासदस्यत्वेन चितः इत्यतः सः स्थानत्यागं कृतवान्। तस्य स्थाने अस्ति केलुवर्यस्य नियुक्तिः। किन्तु कार्यकर्तृत्वविभागे अनल्पः हानिरजायत च।

 मावोवादि आक्रमणं - द्वयोः सैनिकयोः वीरमृत्युः। 

सुक्म [छत्तीसगढ़]> छत्तीसगढ़स्थे सुक्मजनपदे मावोवादिभिः गुप्तवपितं 'ऐ ई डि' नामकं स्फोटकं विस्फोट्य द्वौ सि आर् पि एफ् सैनिकौ वीरमृत्युमुपगतौ। शनिवासरे आसीदयं दुरापन्नः। 

  केरले अनन्तपुरीजनपदे पालोट् प्रदेशीयः आर् विष्णुः [३५], उत्तरप्रदेशीयः शैलेन्द्रः [२९] च वीरमृत्युमुपगतौ भटौ। विष्णुः सि आर् पि एफ् मध्ये यानचालकः अस्ति।

 टि - २० 'सूपर् ८ - आस्ट्रेलिया अफ्गानिस्थानेन पराजिता।

अद्य भारत-आस्ट्रेलिया प्रतिद्वन्द्वः। 

किङ्स्टण्> टि - २० विश्वचषकस्पर्धाश्रृङ्खलायाः 'सूपर् ८' इति कृतनामधेये प्रपूर्वान्त्यचरणे आस्ट्रेलियादलस्य अप्रतीक्षितपराजयः। गतदिने सामान्येन दुर्बलेन  अफ्गानिस्थानेन सह सम्पन्ने प्रतिद्वन्द्वे आस्ट्रेलियादलः २१ धावनाङ्कैः पराजितः। स्पर्धायाः प्रथमपादे कन्दुकताडनं कृतवता  अफ्गानिस्थानेन २० क्षेपणचक्रैः ८ ताडकविनष्टे १४८ धावनाङ्कानि सम्प्राप्तानि। प्रत्युत्तररूपेण ताडनक्रियामारब्धवान् आस्ट्रेलिया दलः १९. २ क्षेपणचक्रे १२७ धावनाङ्कान् आसाद्य सर्वे बहिर्गताः। अफ्गानिस्थानाय २१ धावनाङ्कानां परिवर्तनविजयः!

  अद्य सायं भारतेन अग्निपरीक्षणं प्रतीक्षते। अफ्गानिस्थानेन पराभवं स्वीकृत्य कथञ्चिदपि विजयलाभाय दृढनिश्चयेन आगम्यमानः आस्ट्रेलिया दल एव भारतस्य प्रतियोगी। क्रीडितां सर्वक्रीडां विजयीभूतः इत्यमितात्मविश्वासेन एव भारतस्य आगमनम्। अद्यतनक्रीडायां केवलविजयेनैव भारतस्य पूर्वान्त्यचक्रप्राप्तिः।

Sunday, June 23, 2024

 आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य तुल्यं स्थानम् अधिगच्छेत्। 

   नवदिल्ली> विगते जनुवरि मासस्य प्रतिवेदनानुसारम् आणवायुधसञ्चयेषु पाकिस्थानः भारतस्य उपतुल्याः आणवायुधसञ्चयाः सन्ति इति संसूचितम् । Stockhome international peace research institute इत्यस्य प्रतिवेदने अस्ति इदं विवरणम्। एतत् अनुसृत्य पाकिस्थानस्य पार्श्वे १७० शस्त्राणि सन्ति। भारतस्य पार्श्वे १७२ शस्त्राणि च सन्ति। चीनस्य पार्श्वे ५०० शस्त्राण्यपि सन्ति ।

 'नलन्दः' नाम विश्वविद्यालयस्य पुनरुद्धारणं समभवत्।

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत। अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम्॥ परित्राणाय साधूनाम् विनाशाय च दुष्कृताम्। धर्मसंस्थापनार्थाय सम्भवामि युगे युगे॥ 

 इति भगवद्गीतावाणिम् स्मारयन् विश्वविद्यालयः भवति नलन्दः। पञ्चमशदाब्दे वैदेशिकानाम् आक्रमणेन नामावशेषमापन्नः अयं विश्वविद्यालयः अधुना पुनर्जनिं प्राप्य पुनरवतरति। नलन्द दः विश्वविद्यालयस्य नूतन परिसरस्य उद्घाटनं भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। भारतस्य सुवर्णकालः इदानीं समारब्धः  इति नरेन्द्रमोदिना उक्तम्।

 अखिलभारतीय-उत्तराखण्डमहासभाभारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं लखनोमहानगरे सुसम्पन्नम्।

-वार्ताहर:-कुलदीपमैन्दोला। लखनऊ।

    अखिलभारतीयोत्तराखण्ड-महासभा-भारतस्य सप्तदशतमं राष्ट्रियसम्मेलनं जवाहरलालनेहरू- राष्ट्रीययुवाकेन्द्रहुसैनाबादरोडचौकलखनों महानगरे शनिवासरे   महासभाया: राष्ट्रियाध्यक्षस्य चंददत्तजोशीवर्यस्य  अध्यक्षतायां  दीपप्रज्ज्वालनेन सह प्रारभत्। शशिभूषण-अमोलीद्वारा सरस्वतीवन्दनाद्वारा परम्परानिर्वहनं कृतम्। 

   द्विदिवसीये राष्ट्रियसम्मेलने कार्यक्रमेस्मिन् विभिन्नप्रदेशेभ्य: समागतानाम्  अतिथीनां स्वागतं माल्यादिभि: सञ्जातं। कार्यक्रमस्य कुशलसञ्चालनं  जनार्दनप्रसादबुडाकोटीवर्येण कृतं। सम्मेलनेस्मिन् राधाबिष्टद्वारारचितपुस्तकस्य काव्यझरना इत्यस्य विमोचनं महासभाया: पदाधिकारिभि: कृतं ।

महासभाया: सम्मेलने त्रिनिर्वाचनप्रभारिणां सानिध्ये पुरातनकार्यकारिणी समाप्ता अभवत् च रविवासरे नवकार्यकारिण्या:  गठनं मतदानमाध्यमेन संजातं। सम्पूर्णनिर्वाचनप्रक्रिया श्रीमतीराधाबिष्ट:, मनमोहनदुदपुडी, मोहनचन्दजोशी इत्येषां त्रयाणां निर्देशने सफला अभवत्। शनिवासरे नामांकन च रविवासरे मताधिकारस्य प्रयोग: नवकार्यकारिण्या: कृते अभवत् ।

  महासचिवपदे श्री जनार्दनबुडाकोटी नवमहासचिव: निर्वाचितोभवत् स: विजयरावतं पराजितवान्। अन्यपदेषु सर्वसम्मत्या निर्विरोधरूपेण कार्यकारिण्या: पदाधिकारिण: ससम्मानेन महासंगठनाय कार्योद्देश्यविषये संकल्पबद्धा: अभवन्। राष्ट्रीयाध्यक्ष: भवानसिंहरावत:, राष्ट्रियोपाध्यक्ष: गजेंद्रसिंहचौहान: एवं धर्मानन्दरतूड़ी, राष्ट्रियपरामर्शक:  वीरेंद्रदत्तसेमवाल:, राष्ट्रियकोषाध्यक्ष: विजेंद्रध्यानी व राष्ट्रियप्रवक्ता महावीरसिंहपुण्डीर: निर्विरोधनिर्वाचिता: अभवन्। सर्वेभ्य: महासभासंरक्षक: महन्तयोगीराकेशनाथ:  निर्वाचितेभ्य:   शुभाशीषं प्रदाय  वर्धापनं दत्तवान्।


   कार्यक्रमेस्मिन्  श्रीमती सुनन्दा असवाल:, श्रीमती संगीता रावत:, श्रीमती नीलमजुयाल:, श्रीमती रजनी राणा, के. डी. जोशी, भवानसिंहरावत:, अवधेशकोठारी, आर.पी.जुयाल:, हेमंतगडिया, अशोक: असवाल:, जगदीशबुटोला, शशिभूषण-अमोली, कुलदीपमैन्दोला, मदनमोहनबिष्ट:, बलवन्त वांणगी, जे. एस. राणा,  , प्रवीणपुरोहित:, चादय: सदस्या: पदाधिकारिण: उपस्थिता: आसन्।

 ए टि ए निदेशकप्रमुखः निष्कासितः। 

नवदिल्ली> राष्ट्रियपरीक्षाणां आयोजनाधिकारसंस्था ए टि ए इत्यस्य निदेशकप्रमुखः [Director General] सुबोधकुमारसिंहः तत्स्थानात् निष्कासितः। सेवानिवृत्तः ऐ ए एस् अधिकारी प्रदीपसिंह खरोलः तत्पदे नियुक्तः। 

  नीट् परीक्षायाः भ्रष्टाचारमधिकृत्य अन्वेष्टुं सि बी ऐ संस्थां नियुज्य केन्द्र विद्याभ्यासमन्त्रालयेन आदेशः घोषितः।

 १८ तमलोकसभायाः प्रथमसम्मेलनं श्वः आरभ्यते। 

नूतनं संसद्मन्दिरम्। 

नवदिल्ली> भारतस्य १८ तमलोकसभायाः प्रथमं मेलनं   श्वः आरभ्य जूलाय् तृतीयदिनाङ्के समाप्स्यते। सम्मेलनस्य सुगमं प्रवर्तनं चर्चितुम् अद्य समेषां राजनैतिकदलानां उपवेशनमद्य आयोजितमस्ति। 

  पूर्वतनसम्मेलनानि व्यतिरिच्य शासकपक्षस्य बलहीनता विपक्षसख्यस्य शक्तिभद्रता च अस्य सम्मेलनस्य विशेषता अस्ति। 

  गतप्रशासनद्वये अपि भाजपादलस्य एकस्यैव केवलभूरिपक्षस्य अमितात्मविश्वासः आसीत्। किन्तु नरेन्द्रमोदिनः तृतीयं प्रशासनं परसाह्येनैव चलति इति परिमितिरस्ति। तथा च गतद्वयसभायामपि विपक्षनेता नासीत्, तदावश्यकाङ्गबलाभावात्। किन्त्विदानीं कोण्ग्रसदलाय विपक्षनेतृस्थानस्य अर्हता विद्यते, नेता क इति निर्णयः इतःपर्यन्तं नाभवदपि।

 विमानतुल्यः आकारः कश्चित् क्षुद्रग्रहः अद्य भूमेः समीपं प्राप्स्यति - नासा । 

विमानेन समं साकारः एकः क्षुद्रग्रहः अद्य रात्रौ भूमेः समीपम् आगमिष्यति इति नासा संस्थया प्रतिवेद्यते। १६५०० कि.मी वेगेन आगच्छन् अयं श्रुद्रग्रहः भूतलं स्प्रष्टुं सन्दर्भः ७२% अस्ति इति वैज्ञानिकाः वदन्ति। अद्य रात्रौ ११ः ३९ वादने घट्टनं स्यात्।

 कोष़िक्कोट् साहित्यनगरं - प्रख्यापनम् अद्य। 

युनेस्को संस्थायाः साहित्यनगरपदं लभ्यमानं राष्ट्रस्य प्रथमनगरम्। 

कोष़िक्कोट्> युनेस्कोसंस्थया साहित्यनगरम् इति कोष़िक्कोटस्य चयनं गतवर्षे ओक्टोबर् मासे आसीत्। तस्य औपचारिकं प्रख्यापनम् अद्य सायं ५. ३० वादने नगरस्थे मुहम्मदअब्दुल् रहमान् स्मारक मण्डपे राज्यस्य सांस्कृतिकविभागमन्त्रिणा एम् बी राजेष् वर्यः विधास्यति। भारतस्य प्रथमं पैतृकसाहित्यनगरं भवति कोष़िक्कोट्। 

  ज्ञानपीठपुरस्कारेण समादृताः एस् के पोट्टकाट्, एम् टि वासुदेवन् नायर्, अक्कितम् अच्युतन् नम्पूतिरिः  इत्येतान्  विना वैक्कं मुहम्मदबषीर्, उरूब्, सञ्जयः, कुट्ट्कृष्णमारारः,  तिक्कोटियन्, एन् पि मुहम्मद, एन् एन् कक्काट्, वत्सला, यू ए खादर्, सुभाष् चन्द्रन् इत्यादीनाम् अनेकेषां साहित्यसपर्यायाः केन्द्रं भवतीदं नगरम्। ५०० अधिकाः ग्रन्थशालाः ७० अधिकाः पुस्तकप्रसाधकशालाः च अस्मिन् नगरे विद्यन्ते। तदुपरि राष्ट्रस्य प्रमुखा पुरातनी  संस्कृतपण्डितसभा 'रेवती पट्टत्तानं' नामिका अत्रैव प्रचलति स्म। 

  विश्वस्य सर्गात्मकनगराणां नूतनायां पट्टिकायामेव कोष़िक्कोट् अन्तर्भूतम्। मध्यप्रदेशस्थाय ग्वालियोर् नगराय संगीतनगरमिति पदमपि लब्धम्।

Saturday, June 22, 2024

 'नीट्-नेट्'प्रकरणे आराष्ट्रं प्रतिषेधः शक्तः। 

नवदिल्ली> नीट् तथा यू जि सि नेट् परीक्षयोः प्रवृत्तयोः भ्रष्टाचारयोः देशे सर्वत्र प्रतिषेधः शक्तः अभवत्। एन् टि ए संस्था विजर्जनीया, नीट् पुनः परीक्षा करणीया इत्याद्यावश्यकान् उन्नीय राजधान्यां विविधविद्यार्थिसंघटनैः विपक्षीयदलैः प्रक्षोभः आयोजितः। 

  यू जि सि नेट् प्रश्नपत्रस्य स्रवणप्रकरणे सि बी ऐ अन्वेषणं प्रख्यापितम्। ५००० - ६ लक्षं रूप्यकेषु प्रश्नपत्रं विक्रीतमिति अधिगतम्। डार्क् नेट्, टेलिग्राम् इत्याद्येषु सामाजिकमाध्यमेषु प्रश्नपत्रं विक्रयणाय आसीत्। 

  तथा च, जूण् २५ - २७ दिनाङ्केषु विधातुमुद्दिष्टा शास्त्रविषयाणां नेट् परीक्षा परिवर्तिता। प्रौद्योगिककारणादेव परिवर्तनमिति एन् टि ए संस्थायाः विशदीकरणम्।

 बङ्गलुरु मध्ये द्वितीयं विमाननिलयमागच्छति।

बङ्गलुरु> कर्णाटके बङ्गलुरुप्रान्ते द्वितीयं विमाननिलयं निर्मातुं राज्यसर्वकारेण निश्चितम्। एतदर्थं भूक्षेत्रमधिगन्तुं यत्नः आरब्धः। परियोजनायाः साध्यतावेदनं समर्पयितुं मन्त्रिणा एम् बि पाटीलेन निर्दिष्टम्। 

  इदानीं बङ्गलुरुमध्ये केम्पगौडा अन्ताराष्ट्रियविमाननिलये सप्ततिलक्षाधिकत्रिकोटिपरिमिताः यात्रिकाः चतुर्लक्षं टण् परिमितं पण्यवस्तून्यपि व्यवह्रियन्ते। राष्ट्रस्य बहुसम्मर्दयुक्तं तृतीयं व्योमयाननिलयमिति सविशेषताप्यस्ति। 'तूमकुरु मार्गे' भवेत् द्वितीयं निलयमिति सूच्यते।

Friday, June 21, 2024

 उत्तरभारते ग्रीष्मकालः कठिनकठोरः। 

उष्णतरङ्गे ११४ जीवहानिः। 

नवदिल्ली> अस्य वर्षस्य ग्रीष्मकालः उत्तरभारते कठिनः कठोरश्च वर्तते। बहुषु राज्येषु उष्णतरङ्गस्य भीषायां जनाः दुरितमनुभवन्ति। अस्मिन् काले उष्णतरङ्गस्य काठिन्येन ११४ जनाः मृत्युमुपगताः। ४१,००० जनाः स्वास्थ्यसमस्यामनुभवन्ति। मार्च् प्रथमदिनाङ्कतः जूण् १८ तम दिनाङ्कपर्यन्तं लब्धं वृत्तान्तमनुसृत्य केन्द्रस्वास्थ्यमन्त्रालयेन बहिर्नीता गणना एषा। 

  गतदिनद्वये दिल्ल्यां ३४ जनाः उष्णतरङ्गेण मृताः। राजस्थानं, हरियानं, मध्यप्रदेशः, उत्तरप्रदेशः इत्यादिषु राज्येष्वपि उष्णतरङ्गदुरितमनुवर्तते। 

  प्रत्युत, कठिनवर्षाभिः उत्तरपूर्वीयराज्येषु प्रलयभीषा वर्तते।

 यू एस् प्रतिनिधिसंघः दलैलामम् अमिलत्। 

नवदिल्ली> चीनस्य प्रातिकूल्यं विगणय्य अमेरिकायाः जनप्रतिनिधिसंघः भारतं प्राप्य टिबटस्य आत्मीयनेतारं दलैलामम् अमिलत्। हिमाचलप्रदेशस्थे धर्मशालायां बुधवासरे आसीत् मेलनम्। 

  टिबटीयप्रकरणस्य परिहाराय यतिष्यते, दलैलामस्य  निश्चेतुं चीनस्य पदक्षेपं नाङ्गीकरिष्यतीति च संघेन प्रस्तुतम्। अमेरिकायाः शासन-विपक्षप्रतिनिधीनां सप्ताङ्गसंघः रिपब्लिकन् राजनैतिकदलस्य नेता मैकिल् मलोल् इत्यस्य नेतृत्वे एव दलैलामं समदर्शयत्।

Thursday, June 20, 2024

 दुराचारः - यू जि सि संस्थायाः 'नेट्' परीक्षा निरस्ता।

नवदिल्ली> नीट् परीक्षामनगम्य जूण् १८तमे दिनाङ्के एन् टि ए संस्थया  विधत्ता यू जि सि संस्थायाः 'नेट्' परीक्षा अपि केन्द्रसर्वकारेण निरस्ता। ८३ मानविकविषयेषु आसीत् परीक्षा। ओ एम् आर् सङ्केतमुपयुज्य कारितायां परीक्षायां 'सैबर्' कुत्सिताचाराः प्रवृत्ताः इति अधिगमनस्य आधारेणायं निर्णयः। प्रकरणेSस्मिन् केन्द्रप्रशासनेन सि बि ऐ अन्वेषणं प्रख्यापितम्। 

  ११. २लक्षं परीक्षार्थिषु ९. ०८लक्षं जनाः परीक्षां लिखितवन्तः। गृहमन्त्रालयस्य अधीने वर्तमानेन National Cyber crime Threat analytics Unit नामकेन प्रथमदृष्ट्या दुराचारः प्रवृत्तः इति स्थिरीकृतम्।

Wednesday, June 19, 2024

 इस्रयेले युद्धकार्यमन्त्रिमण्डलं नेतन्याहुः व्यसर्जत्। 

टेल् अवीव्> गासायुद्धे सुप्रधाननिर्णयान् विदधमानाम्  इस्रयेलस्य युद्धकार्यमन्त्रिसभां प्रधानमन्त्री बञ्चमिन् नेतन्याहुः व्यसृजत्। युद्धप्रकरणे  नेतन्याहोः क्रियाव्यवहारे प्रतिकूलतां प्राकट्य भूतपूर्वः रक्षामन्त्री जनरल् बन्नि ग्लान्स् त्यागपत्रं समर्पितवानासीत्। गासायां युद्धविराममालक्ष्य यू एस् राष्ट्रपतेः जो बैडनस्य आशयः नेतन्याहुना तिरस्कृतः इत्यतएव गान्सस्य स्थानत्यागः। एतदनुबन्ध्य आसीत् युद्धकार्यमन्त्रिसभायाः विसर्जनम्। अनेन नव मासान् यावत् अनुवर्तमाने युद्धविषये  सर्वकारस्य अनैक्यं स्पष्टमभवत्।

 नीट् परीक्षाव्यतिक्रमः - सर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषयन् सर्वोच्चन्यायालयः। 

"लघुव्यतिक्रमस्यापि कर्कशप्रक्रमः आवश्यकः।"

नवदिल्ली> वैद्यशास्त्रबिरुदप्रवेशपरीक्षायाः आयोजने यदि यस्मात्  कस्माच्चित् पक्षतः लघ्वपि व्यतिक्रमः अभवत् तर्हि तान् अपराधिनः विरुध्य कर्कशः प्रक्रमः करणीयः इति सर्वोच्चन्यायालयस्य विरामकालपीठेन प्रस्तुतम्। मेय् पञ्चमदिनाङ्के विधत्तायां परीक्षायां छात्रेभ्यः अनुकम्पाङ्काः अनुमोदिताः इत्यादिप्रकरणान् परिपृच्छ्य समर्पितासु याचिकासु नीतिपीठेन केन्द्रसर्वकारं एन् टि ए प्रति च निर्देशपत्रं प्रेषितम्। सप्ताहद्वयाभ्यन्तरे प्रत्युत्तरं दातव्यम्। 

  न्यायाधीशौ विक्रमनाथः, एस् वि एन् भट्टिः इत्येताभ्यां समेतेन नीतिपीठेन निरीक्षितं यत् ०. ००१ प्रतिशतं दुराचारः कृतः चेदपि कर्कशः प्रक्रमः करणीयः। छात्राणां कठिनप्रयत्नः माननीयः, कुत्सितमार्गेण यः कोSपि वैद्यः अभविष्यत्तर्हि तत् समाजाय दोषः भविष्यतीति च नीतिपीठेन अभिप्रेतम्।

 जोस् के माणिः, पि पि सुनीर्, हारिस् बीरान् इत्येते राज्यसभासदस्याः। 

अनन्तपुरी> केरलतः त्रयः राज्यसभां प्रति चिताः। वामदलपक्षतः जोस् के माणिः, पि पि सुनीर्, ऐक्यजनाधिपत्यसख्यात् हारिस् बीरान् इत्येते राज्यसभां प्रति प्रतिद्वन्द्वं विना चिताः।

   जोस् के माणिः अधुना राज्यसभासदस्यः भवति। एनं समेत्य बिनोय् विश्वं, एलमरं करीम् इत्येतेषां सदस्यत्वं जूलाई प्रथमदिनेङ्के समाप्स्यति। एतेषां स्थाने एव निर्वाचनं सम्पन्नम्।

Tuesday, June 18, 2024

 पश्चिमवंगे रेल् यानदुर्घटनया १५ मृताः; ६५ आहताः। 

रेल् यानदुर्घटनायाः दृश्यम्। 

डार्जिलिंग्> पश्चिमवंगराज्ये डार्जिलिंग् जनपदे दुरापन्नायां  रेल् यानदुर्घटनायां १५ यात्रिकाः  मृत्युमुपगताः। ६५ जनाः व्रणिताश्च। 

  ह्यः प्रभाते ८. ३० वादने न्यू जयपालगुरि रेल् याननिस्थाने आसीत् दुर्घटना। याननिस्थानात् प्रस्थितस्य काञ्चन् गंगा एक्स्प्रेस यानस्य पृष्ठभागे अतिवेगेन आगच्छत् पण्यवाहकयानम् अघट्टत्। घट्टनस्य आघाते यात्रायानस्य ४ कक्षाः विशीर्णाः। पण्ययानस्य कतिपयकक्षाश्च व्यतिचलितपथाः अभवन्। 

  मृतेषु त्रयः पण्ययानस्य यात्रायानस्य च सेवकाः भवन्ति। याननिस्थाने सङ्केतसंविधानं प्रवर्तनक्षमं नासीदिति सूच्यते। पण्ययानचालके जाता अनवधानता एव दुर्घटनाकारणमिति मन्यते।

 राहुलगान्धी वयनाट् त्यजति; राय्बरेलिं संरक्षति।

राहुलगान्धी प्रियङ्कागान्धी च। 

उपनिर्वाचने प्रियङ्का गान्धी वयनाटे स्पर्धिष्यते। 

नवदिल्ली> ह्यः इन्डियन् नाषणल् कोण्ग्रस् दलस्य राष्ट्रियाध्यक्षेण मल्लिकार्जुन खार्गे वर्येण निगदितं यत् कोण्ग्रस् नेता राहुलगान्धी स्वस्य वयनाट् मण्डलस्य लोकसभासदस्यपदं त्यक्त्वा रायबरेली मण्डलस्य सदस्यपदं संरक्ष्यति। गते सामान्यनिर्वाचने राहुलगान्धी मण्डलद्वयादपि लोकसभासदस्यरूपेण चितः आसीत्। किन्तु भारतस्य जनप्रातिनिध्यनियमानुसारं एकस्मादधिकात् मण्डलात् चितः चेत् फलप्रख्यापनस्य १४ दिनाभ्यन्तरे एकं स्थानमेव संरक्ष्य निर्णयः कार्यः। अतः ह्यः समायोजिते दलस्य प्रवर्तकसमित्युपवेशने उपर्युक्तः निर्णयः कृतः। 

  परन्तु राहुलगान्धिनः वयनाट्मण्डलं प्रति ममतामालक्ष्य आगामिन्युपनिर्वाचने तस्य सोदरी प्रियङ्का गान्धी तत्र कोण्ग्रसदलाय स्पर्धिष्यति। राजनैतिकस्पर्धासु स्वस्मै ऊर्जं प्रदत्तं वयनाट् मण्डलं परित्यक्तुं गान्धिपरिवारेण न शक्यत इति परं राहुलगान्धिनाप्युक्तम्। अत एव प्रियङ्कायाः स्थानाशित्वं प्रख्यापितम्।

Monday, June 17, 2024

 'नीट्' परीक्षायां दुराचारः अभवदिति केन्द्रमन्त्रिणा अपि अङ्गीकृतम्। 

नवदिल्ली> वैद्यकप्रवेशनपरीक्षायां नीट् यू जि नामिकायां कुचेष्टितानि  अभवन्निति केन्द्र विद्याभ्यासमन्त्रिणा धर्मेन्द्र प्रधानेनापि अङ्गीकृतम्। मेय् मासस्य द्वितीयपादे राष्ट्रिय परीक्षा नियोज्यसंस्थया [एन् टि ए] समायोजितायां परीक्षायाम् आभारतं २३ लक्षं छात्राः परीक्षां लिखितवन्तः। जूण् मासस्य चतुर्थे दिनाङ्के - यदा लोकसभानिर्वाचफलं प्रख्यापितं - प्रसिद्धीकृते फले ६७ छात्राः प्रथमाङ्कं प्राप्तवन्तः इति असाधारणा घटना जाता। सा एव परीक्षायां दुराचारः अभवदिति शङ्कायाः आधारः। 

 एन् टि ए संस्थया प्रशासनेन च प्रथमं दुराचाराक्षेपः निरस्तः। किन्तु गुजराते बिहारे च कतिपयपरीक्षाकेन्द्राणि आधारीकृत्य कुत्सितप्रवर्तनानि विधत्तानीति आरक्षकदलेन सूचितम्। १३ जनाः निगृहीताश्च। 

  विविधमण्डलेभ्यः प्रतिषेधः शक्तः अभवत्। सर्वकारस्य पक्षतः अपि विशदान्वेषणाय निर्दिष्टः। अस्मिन् प्रकरणे ये अपराधिनः सन्त्यपि ते दण्डयितव्याः भविष्यन्तीति विद्याभ्यासमन्त्रिणा उक्तम्।

 परिष्कृताः अपराधिकनियमाः जूलाई मासतः प्रबलं भविष्यति।

   नवदिल्ली> इदानीन्तनीयाः अपराधिकनियमाः परिष्कृत्य अविष्कृताः सन्ति। जूलाई मासतः एते नियामाः एव आभारतं प्राबल्यत्वेन आगमिष्यन्ति इति मन्त्रिणा अर्जुन राम मेख्वालेन उक्तम् । भारतीयन्यायसंहिता भारतीय -नागरिक -सुरक्षासंहिता भारतीयसाक्ष्य इत्येताः नियमाः एव प्रबलं करिष्यति।

 दक्षिणाफ्रिकायां सख्यसर्वकारः। 

रामफोसः राष्ट्रपतिः। 

केप् टौण्> त्रिशत् संवत्सराणामनन्तरं दक्षिणाफ्रिकायां सख्यसर्वकारः शासकपदं प्राप्स्यति। आफ्रिकन् नाशणल् कोण्ग्रस् राजनैतिकदलस्य [ए एन् सि] नेतृत्वे रूपवत्कृतस्य विपुलसख्यस्य 'राष्ट्रिय ऐक्य सर्वकारस्य' नेतृरूपेण ए एन् सि नेता सिरिल् रामफोसः [७१] चितः। आगामिनि सप्ताहे प्रिटोरियायां समायोत्स्यमाने समारोहे रामफोसः सत्यशपथं कृत्वा   नूतनसर्वकारं   नेष्यति।

 प्रसिद्धः वेदान्तपण्डितः प्रोफ के पि बाबुदासः दिवंगतः। 


कालटी> विख्यातः संस्कृतपण्डितः वेदान्तशिरोमणिः प्रभाषकः ग्रन्थकर्ता च प्रोफ के पि बाबुदासः दिवंगतः। ७२ वयस्कः आसीत्। कालटि श्रीशङ्करकलालये वेदान्तविभागे आचार्यः आसीत्। भारतस्य विख्यातेषु वेदान्तपण्डितेषु अन्यतमस्य तस्य आभारतं विपुला  शिष्यसम्पच्चास्ति। 

  श्रृङ्गेर्यां प्रतिवर्षं गणपतिवाक्यार्थसदसि तथा कालटि श्रृङ्गेरिमठे आयोज्यमानेषु श्रीशङ्करजयन्ति वाक्यार्थसदस्सु च स्थिरं सान्निध्यमासीत्। श्रेष्ठः प्रभाषकः साहित्यकारश्चायं कैरल्यै अपि वरिष्ठं योगदानं दत्तवान्। 'अरङ्ङ्', अहं ब्रह्मास्मि इत्याख्यायिकाद्वयं समेत्य बहवः ग्रन्थाः तस्य नाम्नि वर्तन्ते। दार्शनिकक्षेत्राय साहित्यलोकाय च दत्तं योगदानमालक्ष्य अनेके पुरस्काराः तस्मै लभन्ते स्म। माम्मन् मापिला, कैरली चिल्ड्रेन बुक् ट्रस्ट्,कलामण्डलं पुरस्काराः कतिपयाः भवन्ति। श्रृङ्गेरी शारदापीठात् वेदान्तपाण्डित्याय लब्धं सुवर्णाङ्गुलीयं, भारतीतीर्थपुरस्कारः, श्रीशङ्कर कल्चरल् सोसैटि इत्यस्मात् लब्धः विज्ञानपीठं पुरस्कारः इत्याद्यः बह्व्यः बहुमत्यः तं प्रति समागताः।

Sunday, June 16, 2024

 संस्कृतपण्डिताय डो के जि पौलोस् वर्याय भाषासम्मान पुरस्कारः।

डा. के जि पौलोस्
  नवदिल्ली> केन्द्रसाहित्य अकादम्या दीयमानाय २०२३ तमस्य वर्षस्य 'भाषासम्मान' पुरस्काराय दक्षिणभारतक्षेत्रे प्रशस्तः संस्कृतपण्डितः केरलीयः डो. के जि पौलोस् वर्यः चितः। उत्तरभारतीयक्षेत्रे २०२१ तमस्य  वर्षस्य पुरस्काराय हिन्दिसाहित्यनिरूपकः डो. पुरुषोत्तम-अगर्वालः चितः। २०२३ तमस्य  वर्षस्य पुरस्काराय पञ्चाबि साहित्यकारः प्रोफेसर अवतारसिंहः अर्हः भवति। 

  तृप्पूणित्तुरा संस्कृतकलालये अध्यापकः, परं तत्रैव कलालयस्य प्राध्यापकपदम् अलङ्कृतवान् पौलोस् वर्यः कालट्यां श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य 'रजिस्ट्रार्' इति पदमलंकृतवान्। तदन्तरं कलामण्डलं मानितविश्वविद्यालयस्य  प्रथम कुलपतिरूपेण च तस्य वैभवं प्राकटयत्। उपत्रिंशत् ग्रन्थानां कर्ता सः ५० ग्रन्थानां प्रकाशकश्च भवति।

Saturday, June 15, 2024

 टि - २० विश्वचषकः - पाकिस्तानं,  न्यूसिलान्ट् दलौ बहिर्गतौ। 

फ्लोरिडा> विश्वक्रिकट् क्षेत्रे शक्तं दलद्वयं 'सूपर् ८' इति द्वितीयं चरणमदृष्ट्वा बहिर्गतम्। ए संघात् भारतेन सह यू एस् दलः 'सूपर् ८' चरणं प्रविष्टः। भारतं, यू एस् दलौ विरुध्य पराजितः पाकिस्थानदलः किरीटप्रतीक्षया आगतः अपि निराशया प्रतिनिवर्तते।

  सि संघे अन्तर्भूतः न्यूसिलान्टः स्पर्धाद्वये अवशिष्टे अपि अङ्कपट्टिकायां द्वितीयस्थानं प्राप्तुं न शक्यते। तत्स्थाने अफ्गानिस्थानं भविष्यति।

 स्वप्नान् अवशेष्य ते निश्चेतनशरीराः प्रत्यागतवन्तः। 

राज्यसर्वकाराय मन्त्रिमण्डलेन सह मुख्यमन्त्री पिणरायि विजयः श्रद्धाञ्जलिं समर्पयति। समीपे विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेष् गोपिश्च। 

शोकाश्रुभिः सह देशस्य अन्त्याञ्जलिः। 

कोच्चि> कुवैटे अग्निकाण्डे अकालमृत्युं प्राप्तवतां ४५ भारतीयपुरुषाणां मृतदेहान् ऊढ्वा भारतव्योमसेनायाः IAF C3oj विमानं शुक्रवासरे प्रभाते १० .२७ वादने कोच्चि अन्ताराष्ट्रियविमानिलयं प्राप। मृतप्रवासिनां  ३१ पुरुषाणां बन्धुजनाः  दुःखभारहृदयैः अश्रुपूर्णनयनैश्च प्रतीक्षन्ते स्म। स्वमन्त्रिमण्डलेन सह  राज्यमुख्यमन्त्री पिणरायि विजयः, विपक्षनेता वि डि सतीशः, केन्द्रसहमन्त्री सुरेश गोपिः इत्यादयः जननेतारः बन्धुजनान् आश्वासयितुम् अनन्तरप्रवर्तनानि समायोजयितुं च यथासमयं निलयं प्राप्तवन्तः। मृतदेहान् स्वीकृत्य अन्त्योपचारान् समर्प्य स्वकीयस्थानान् प्रति प्रेषयितुं जनपदाधिकारिणः एन् एस् के उमेश् वर्यस्य नेतृत्वे आम्बुलन्स् यानादिकं सर्वं सज्जीकृतमासीत्। १०. ४५ वादने केन्द्रविदेशकार्यसहमन्त्री वि के सिॆहस्य नेतृत्वे विमानसेवकाः २३केरलीयान् समेत्य ३१ प्रवासिनां भौतिकशरीराणि विमानतः बहिर्नीत्वा पूर्वमेव सज्जीकृतेषु मञ्चेषु शायितवन्तः। ११. ३० वादने राज्यमन्त्रिमण्डलेन सह मुख्यमन्त्री, केन्द्रसहमन्त्री सुरेष् गोपिः, इतरे जननेतारः अधिकारिणश्च अन्त्योपचारान् समर्पितवन्तः। राज्यसर्वकारस्य आदरसूचकः 'गार्ड् ओफ् ओणर्' बहुमतिश्च दत्तः। अनन्तरं १२. १५ वादने बन्धुजनेभ्यः मृतदेहाः समर्पिताः। 

   अनन्तरं २३ केरलीयप्रवासिनः अष्ट तमिल-कन्नटीयाः च निश्चेतनशरीराः  प्रतिनिवृत्तरहिताः च सन्तः बान्धवैः साकं  स्वस्ववासगृहं प्रति अन्त्ययात्रामारब्धवन्तः।

  अवशिष्टान्  १४ मृतदेहान् ऊढ्वा वायुसेनाविमानं दिल्लीं प्रस्थितम्। तस्मिन् अन्ध्रियाः अन्यराज्यीयाः प्रवासिदेहाः आसन्।

Friday, June 14, 2024

 कुवैट् अग्निकाण्डदुरापन्नः - आहत्य मरणानि ४९ ; भारतीयाः ४६;  तेषु केरलीयाः २४। 

कुवैट् सिटि> गतदिने मंगेफनगरे कर्मकराणां वाससमुच्चये दुरापन्ने अग्निकाण्डे मृतानां भारतीयानां संख्या ४६ अभवत्। अन्ये त्रयः फिलिप्पीनियाः इति सूच्यते। दुर्घटनायां मृतानां केरलीयानां संख्या २४ इति वर्धिता। 

  कोल्लं, पत्तनंतिट्टा, कण्णूर्, मलप्पुरं, आलप्पुष़ा, कासरकोट्, तिरुवनन्तपुरं जनपदवासिनः भवन्ति मृतेषु भूरिशः। सर्वेSपि स्वस्वपरिवारस्य एकैकाश्रयभूताः आसन्निति देशस्य शोकं द्विगुणीकरोति।

 आन्ध्रप्रदेशे चन्द्रबाबुनायिडुः  अधिकारपदमारूढवान्।

विजयवाडा> आन्ध्रप्रदेशे तेलुगुदेशं पार्टी [टि डि पि] दलनेतुः चन्द्रबाबुनायिडोः नेतृत्वे २५ अङ्गयुक्तं एन् डि ए मन्त्रिमण्डलं शपथवाचनं कृत्वा अधिकारपदं प्राप्तम्। चतुर्थवारमेव चन्द्रबाबुनायिडुः मुख्यमन्त्रिपदम् अलङ्करोति। 

   प्रधानमन्त्री नरेन्द्रमोदी, गृहमन्त्री अमित शाहः, जे पी नड्डः इत्यादयः प्रमुखाः भागं गृहीतवन्तः।

 ओडीशायां भाजपा सर्वकारः अधिकारपदं स्वीचकार। 

भुवनेश्वरम्> भाजपादलस्य गोत्रवर्गनेता मोहन चरण माझि इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं शपथवाचनमकरोत्। भुवनेश्वरे जनता क्रीडाङ्कणे सम्पन्ने समारोहे राज्यपालः रघुबरदासः सत्यवाचनमकारयत्।

  पट्नागरस्य सदस्यः वरिष्ठनेता के वि सिंहदेवः, तथा च निमापार इत्यस्मात् चितः  सदस्यः प्रवति परिदा इत्येतौ उपमुख्यमन्त्रिणौ भवतः।

Thursday, June 13, 2024

 यु ए इ देशे १७६० संवत्सरानन्तरम् अतिदीर्घदिवाकालः अस्मिन् मासे भविष्यति। तापमानं ४३° सेल्ष्यस् पर्यन्तं वर्धेत्।

   षार्जा> यु ए इ मध्ये २०२४ जून् २० तमे दिनाङ्के अतिदीर्घदिवाकालः अनुभववेद्यो भविष्यति। अस्मिन् दिने दिवाकालः१३ होरा ४८ निमेषाः भविष्यति। अस्मिन् संवत्सरे ग्रीष्मकालः पूर्वकालापेक्षया शीघ्रं प्रतिनिवर्तयिष्यते। विश्वस्मिन् बहुषु राष्ट्रेषु १७९६ संवत्सरानन्तरम् आकाशे ईदृशाः शास्त्रघटनाः संभविष्यति।

 पादकन्दुकपरिशीलकः टि के चात्तुण्णिः दिवंगतः। 

तृश्शिवपेरूर्> भारतस्य भूतपूर्वः पादकन्दुकक्रीडकः राष्ट्रस्य सर्वश्रेष्ठपादकन्दुकपरिशीलकेषु अन्यतमः टि के चात्तुण्णिवर्यः [७९] दिवंगतः। १९४५ जनुवरि २५ तमे दिनाङ्के केरले चालक्कुटि प्रदेशे लब्धजन्मा अयं पादकन्दुकक्रीडकः, परिशीलकः इत्यादिषु मण्डलेषु  अर्धशतकाधिककालं यावत् सक्रियः वर्तते स्म। 

  भारतसेनायाः ई एम् ई सेक्कन्दराबाद् संघेनैव चात्तुण्णिवर्यस्य औद्योगिकपादकन्दुकक्रीडाकाण्डस्य प्रारम्भः। ततः वास्को गोवा,ओर्के मिल्स् बोम्बे, सर्वीसस् दलेभ्यः  गोवा, महाराष्ट्रं, केरलम् इत्येतेषां राज्यानां संघेभ्यश्च सः पादत्रं व्यधरच्च। नेहरु चषकलाभे तस्य भागभागित्वम्  अविस्मरणीयं आसीत्। 

  १९७९ तमे केरलदलस्य परिशीलकोSभवत्। अनन्तरं एम् आर् एफ् गोवा, साल्गोकर्, मोहन्बगान्, के एस् ई बी, चर्चिल् गोवा, एफ् सि कोच्चिन् इत्यादीनां बहूनां  क्रीडासमाजानां [Club] परिशीलककञ्चुकमपि धृत्वा तान् विजयपीठमारोहयत्। चात्तुण्णिवर्यस्य निर्याणे विविधक्षेत्रीयाः प्रमुखाः अन्त्याञ्जलिं  समर्पितवन्तः।

 कुवैट् मध्ये कर्मकराणां वासमन्दिरे अग्निप्रकाण्डः - ४९ जनानां जीवहानिः।

अग्निकाण्डबाधितः वाससमुच्चयः। 

 

४२ भारतीयाः; तेषु १०केरलीयाः। 

कुवैट् सिटी> कुवैट् राष्ट्रस्य मंगेफ् नामकनगरे वर्तमाने कस्याश्चित् निजीयकम्पन्याः कर्मकरैः सेवाकरैश्च वासं क्रियमाणे गृहसमुच्चये दुरापन्नेन अग्निकाण्डेन ४९ जनाः मृताः। तेषु ४२ जनाः भारतीयाः भवन्ति। चत्वारिशदधिकं जनाः आहताः वर्तन्ते। मृतेषु दश केरलीयाः सन्ति। 

  बुधवासरे प्रत्युषसि चतुर्वादने वाससमुच्चयस्य अधस्तरस्थात् सुरक्षाप्रकोष्ठात्  प्रथमं अग्निबाधा जातेति सूच्यते। ततः पाकशालस्थान् अनिलकोशान् अग्निबाधा अभवदिति दुरन्तस्य व्याप्तिमवर्धयत। 

  झटित्येव कुवैट्प्रशासनस्य नेतृत्वे रक्षाप्रवर्तनानि आरब्धानि। भारतस्य विदेशकार्यमन्त्रालयेन मृतान् आहतान् च प्रत्यभिज्ञातुं प्रक्रमाः विधत्ताः।

Wednesday, June 12, 2024

 मलावी उपराष्ट्रपतिः विमानदुर्घटनया मृतः।

सौलोस् चिलिमः। 

नव सहयात्रिकाश्च विनष्टप्राणाः। 

लिलोङ्वे> दक्षिणपूर्वीय आफ्रिक्कादेशः मलावी इत्यस्य उपराष्ट्रपतिः सौलोस् चिलिमः [५१] ९ सहयात्रिकाश्च विमानदुर्घटनया मृताः। राष्ट्रपतिना लासरस् चक्वेरा इत्यनेन ह्यः दूरदर्शनद्वारा इदं वृत्तान्तं विज्ञापितम्। 

  राष्ट्रराजधानी लिलोङ्वे इत्यस्मात् ३७० कि मी उत्तरदिशि एंसुसु स्थानं गतं विमानं सोमवासरे अप्रत्यक्षमभवत्। उत्तरदिशि वर्तमाने 'विफ्य' पर्वतप्रान्तीये काननक्षेत्रे ६०० जनैः दिनैकं यावत् विधत्ते अन्वेषणे दशजनानां मृतशरीराणि अधिगतानि। अननुकूलं पर्यावरणमेव दुर्घटनायाः कारणमिति मन्यते।

 लफ्ट. जनरल् उपेन्द्र द्विवेदी स्थलसैन्याधिपः। 

नवदिल्ली> लफ्टनन्ट् जनरल् उपेन्द्र द्विवेदी स्थलसैन्यस्य नूतनाधिपरूपेण केन्द्रसर्वकारेण नियुक्तः। जूण् ३०तमे दिनाङिके पदं स्वीकरिष्यति। इदानीं सः स्थलसैन्यस्य उपाधीशः भवति।  जूण् ३०तमे दिनाङिके सेवायाः विरम्यमाणस्य मनोज पाण्डे वर्यस्य स्थाने एव अस्य नियुक्तिः।

Tuesday, June 11, 2024

 मन्त्रिणां विभागाः निश्चिताः; नूतनसर्वकारः कर्मपथं प्राप्तः।

 पूर्वमन्त्रिवरिष्ठानां विभागेषु परिवर्तनं नास्ति।

नवदिल्ली> नरेन्द्रमोदिनः नेतृत्वे गतदिने शपथवाचनं कृत्वा अधिकारपदं प्राप्तः एन् डि ए सर्वकारः कर्मपथं प्राप्तः। तथा च मन्त्रिणां विभागाश्च निश्चिताः।

   राजनाथसिंहाय राष्ट्रस्य रक्षामन्त्रिस्थानं लभते। पूर्वप्रशासने अपि सः रक्षामन्त्री आसीत्। तथा अमित् शाहः [गृहकार्यं, सहयोगश्च], नितिन गड्करिः [वीथीगमनागमनं, राजमार्गः], निर्मला सीतारामः [वित्तकार्यं], एस् जयशङ्करः [विदेशकार्यं] एते वरिष्ठाः पूर्वप्रशासनविभागेषु एव अनुवर्तन्ते।

  शिवराजसिंह चौहानः कृषिः, कृषकक्षेमः, ग्रामविकसनं इत्येतेषां कार्यकर्ता भवति। विद्याभ्यासमन्त्री धर्मेन्द्रप्रधानः भवति। ३१ केबिनट् मन्त्रिणः ५ स्वतन्त्राधिकारयुक्ताः सहमन्त्रिणः ३६ सहमन्त्रिणश्च सन्ति। ते सर्वे स्वस्वकार्यालयेषु अधिकारपदं स्वीकृतवन्तः।

 टि - २० क्रिकेट विश्वचषकस्पर्धायां पाकिस्थानं विरुध्य भारतस्य विजयः। 

न्यूयोर्क्> विश्वचषकस्पर्धासु चिरवैरिणः पाकिस्थानस्य उपरि आधिपत्यमनुवर्त्य भारतम्। रविवासरे सम्पन्ने विंशति - २० विश्वचषकस्पर्धायां पाकिस्थानं षट् धावनाङ्कैः पराजित्य पट्टिकायां प्रथमस्थानं प्राप। 

  प्रतिद्वन्द्वस्य प्रथमचरणे भारतं २० क्षेपणचक्रेषु ११९ धावनाङ्कान् सम्पाद्य बहिर्गतम्। अनन्तरं क्षेपणचरणे जस्प्रीत बुम्रस्य अत्युज्वले क्षेपणचक्रे पाकिस्थानं २० क्षेपणचक्रेषु ७ - ११३ इति क्रमेण बहिरनयत्। एकस्मिन् समये पराजयम् अभिमुखीकृतं भारतं बुम्रस्य श्रेष्ठं क्षेपणमेव विजयप्रापणाय सहायकमभवत्। अतः स एव श्रेष्ठक्रीडकः।

Monday, June 10, 2024

 नुस्रैत् आक्रमणे मरणानि २७८ अभवन्। 

गासा सिटि> मध्यगासायां 'नुस् रैत्' नामके अभयार्थिशिबिरे हमासेन वासं कारितवतां बन्धितानां मोचनाय इस्रायलेन कृते सैनिकप्रक्रमे निहतानां संख्या २७४ जाता। ६९८ जनाः व्रणिताश्च। 

  असंख्यैः जनैः निवासं क्रियमाणः प्रदेशो भवति नुस् रैत्। तत्र शनिवासरे इस्रायलेन भुषुण्डिप्रयोगः आरब्धः। हमासेन प्रत्याक्रमणं कृतम्। सैनिकप्रक्रमेण बन्धनस्था‌ः चत्वारः बन्धिनः बलात्  मोचिताः इति इस्रायलेन निगदितम्।

 प्रौढः, प्रोज्वलः - मोदी ३.० शपथसमारोहः। 

नरेन्द्रमोदिवर्यः प्रधानमन्त्रिरूपेण शपथवाचनं करोति।

नवदिल्ली> राष्ट्रपतिभवने सम्पन्नः नरेन्द्रमोदी सर्वकारस्य तृतीयसंस्करणस्य  शपथवाचनसमारोहः प्रौढः, प्रोज्वलश्च समभवत्। अनेकेषां विदेशराष्ट्रनेतॄणां राष्ट्रस्य भिन्नमण्डलेभ्यः आमन्त्रितानां जनानां च सान्निध्ये नरेन्द्रमोदिनः नेतृत्वे ७२ अंगात्मकं एन् डि ए मन्त्रिमण्डलं सत्यशपथं कृत्वा अधिकारं स्वीकृतवत्। प्रधानमन्त्रिणं विना ३० संख्याकं 'क्याबिनट्' मन्त्रिणः, ५ स्वतन्त्राधिकारयुक्ताः सहमन्त्रिणः ३६ सहमन्त्रिणश्च मन्त्रिमण्डले अन्तर्भवन्ति। राष्ट्रपतिः द्रौपदी मुर्मू वर्या सर्वैः शपथवाचनम् अकारयत्। 

   प्रथमं नरेन्द्रमोदी ईश्वरनाम्नि राष्ट्रभाषायां शपथवाचनमकरोत्। तदनन्तरं वरिष्ठाः राजनाथसिंहः, अमित् शाहः, नितिन गड्करी, जे पि नड्डः, शिवराजसिंहचौहानः, निर्मला सीतारामः, इत्यादयः  भाजपा-एन् डिए नेतारः सत्यशपथमकुर्वन्।

 केरलाय द्वौ केन्द्रमन्त्रिणौ। 

सुरेष् गोपिः जोर्ज्कुर्यश्च सत्यवाचनमकुरुताम्।

जोर्ज् कुर्यः [वामे] सुरेष् गोपिः [दक्षिणे] च शपथं करोति।

     नवदिल्ली> इदंप्रथमतया लोकसभांप्रति केरलराज्यात् भाजपा सदस्यरूपेण चितः कैरल्याः अतुल्यः चलच्चित्राभिनेता सुरेष् गोपिः समेषां केरलीयानाम् अभिलाषं सार्थकं कृत्वा केन्द्रमन्त्रिरूपेण दैवनाम्नि शपथवाचनमकरोत्। तृश्शूर मण्डलादेव सः भाजपा स्थानाशिरूपेण स्पर्धयित्वा विजितवान्। सहमन्त्रिपदमेव तेन लब्धम्। 

  संसदीयसदस्यत्वं विना नरेन्द्रमोदिनः सर्वकारे अन्तर्भूतस्य जोर्ज् कुर्यस्य मन्त्रिपदप्राप्तिः अप्रतीक्षिता आसीत्। ४४ वर्षाणि यावत् भाजपा दलाय अनुवर्तितस्य अचञ्चलविश्वासस्य श्रद्धायाश्च प्रतिफलं भवति कुर्यवर्यं केन्द्रमन्त्रिपदं नीतम्। भाजपादलस्य केन्द्रनिर्वाहकसमित्यङ्गः, न्यूनपक्षायोगस्य उपाध्यक्षः एवं दलेन नियुक्तानि नैकानि स्थानानि तेनालङ्कृतानि।

Sunday, June 9, 2024

 मोदिनः शपथवाचनसमारोहे विदेशराष्ट्रनेतारः भागं स्वीकुर्वन्ति।

नवदिल्ली> भारते नरेन्द्रमोदिनः नेतृत्वे अद्य सायं सम्पत्स्यमाने स्वस्य तृतीये मन्त्रिमण्डलशपथवाचनसमारोहे विदेशराष्ट्रनेतारः अपि भागं करिष्यन्ति। मालद्वीपस्य राष्ट्रपतिः डो मुहम्मद मुयिसुः, सेय्सल्स् राष्ट्रस्य उपराष्ट्रपतिः अहम्मद अफीफः, मौरीष्यसस्य प्रधानमन्त्री प्रविन्द कुमार जुगनोयः, श्रीलङ्कायाः राष्ट्रपतिः रनिल विक्रमसिङ्गे, बङ्गलादेशस्य प्रधानमन्त्री षेख् हसीना, नेपालस्य प्रधानमन्त्री पुष्पकमल प्रचण्डः, भूटानस्य प्रधानमन्त्री षरिङ्तोब्गे इत्येते सायं सपादसप्तवादनतः राष्ट्रपतिभवने समायोज्यमाने शपथग्रहणकार्यक्रमे साक्षिणः भविष्यन्ति। 

  मोदिना सह भाजपादलस्य वरिष्ठमन्त्रिणः, सहमन्त्रिणः, अन्ये सख्यदलमन्त्रिणश्च शपथं करिष्यन्ति। सत्यवाचनप्रक्रियायै राष्ट्रपतिभवनाङ्कणं पूर्णसज्जं वर्तते।

Saturday, June 8, 2024

 प्रशासनरूपीकरणाय राष्ट्रपतिः मोदिनम् आमन्त्रयत्। 

प्रशासनरूपीकरणाय मोदिवर्ये राष्ट्रपतिभवने प्राप्ते।

शपथवाचनं श्वः सायं राष्ट्रपतिभवने। 

नवदिल्ली> गतदिने प्राचीनसंसदीयभवनस्य केन्द्रमण्डपे समायोजिते एन् डि ए सख्यस्य उपवेशने नरेन्द्रमोदिवर्यः नेतृरूपेण चितः। अनन्तरं सायं सख्यनेतृभिः साकं राष्ट्रपतिभवनं प्राप्तवान् नरेन्द्रमोदी प्रशासनरूपीकरणाय अधिकारवादमुन्नीतवान्। ततः सर्वकाररूपीकरणाय राष्ट्रपतिः द्रौपदी मुर्मुः मोदिनमामन्त्रयच्च। 

  नूतनसर्वकारस्य शपथवाचनं रविवासरे सायं ७. १५ वादने राष्ट्रपतिभवने सम्पत्स्यति।

Friday, June 7, 2024

 सुनिल् छेत्री अन्ताराष्ट्रियपादकन्दुकक्रीडायाः निवृत्तः। 

स्वस्य अन्तिमस्पर्धायाः अनन्तरं सुनिलछेत्री। 

कोल्कोत्ता> भारतस्य पादकन्दुकेतिहासः सुनिल् छेत्री वर्याय आराधकाणां अश्रुपूर्णं यात्रामङ्गलम्। ह्यः कोल्कोत्तायां 'साल्ट् लैक्' क्रीडाङ्कणे सम्पन्नः भारत-कुवैट् विश्वचषकयोग्यताप्रतिद्वन्द्वः तस्य अन्तिमा अन्ताराष्ट्रियक्रीडा आसीत्। भारत-कुवैट् स्पर्धा लक्ष्यकन्दुकरहितसमस्थितिं प्राप्ता। 

  २००५ तमे वर्षे भारतस्य पादकन्दुकवस्त्रं धृतवान् छेत्रिवर्यः १९संवत्सराणि भारताय अक्रीडत्। २०१४तमे वर्षे भारतस्य नायकपदं अलंकृतवान्।   १५१ क्रीडेभ्यः ९४ लक्ष्यकन्दुकाणि सम्पादितवान्।

Thursday, June 6, 2024

 लोकसभानिर्वाचनं - एन् डि ए सख्याय निष्प्रभविजयः। 

मोदिनः नेतृत्वे तृतीयं प्रशासनं नवमदिनाङ्के। 

नवदिल्ली> भारतस्य अष्टादशे लोकसभानिर्वाचने भाजपादलेन नेतृत्वमावहते एन् डि ए सख्याय प्रतीक्षितः विजयः न लब्धः। भाजपादलनेतृत्वेन ४०० स्थानानि अभिमानितानि तथापि निष्क्रमणाधिष्ठितमतगणनासु  ३५० अधिकानि स्थानानि च प्रोक्तानि। किन्तु सख्यं २९१ स्थानैः तृप्तमभवत्। किन्तु विपक्षदलः 'इन्डिया' सख्यं आभारतं २३४ स्थानैः ऊर्जस्वलं प्रत्यागमनं कृतम्। 

  आहत्य ५४३ स्थानेषु एन् डि ए सख्येन प्राप्तेषु २९१ स्थानेषु २४० संख्याकं भाजपा दलस्य भवति। दलेनैव २७२ इति सर्वकाररूपीकरणयोग्या अवश्यसंख्याप्राप्तिः लप्स्यते इत्यभिलाषः व्यर्थः जातः। कोण्ग्रस् दलेन नेतृत्वमावहतः इन्डिया' सख्यस्य २३४ स्थानेषु कोण्ग्रस् दलेन ९९ स्थानानि प्राप्तानि। स्वतन्त्रादिभिः  अन्यैः १८ स्थानानि च प्राप्तानि। 

  नरेन्द्रमोदिनः नेतृत्वे नूतनं मन्त्रिमण्डलं जूण् ९तमे दिनाङ्के शपथवचनं करिष्यति। मोदिवर्यः तृतीयवारमेव प्रधानमन्त्रिपदं प्राप्नोति।

Tuesday, June 4, 2024

 पुल्वामायां द्वौ भीकरौ हतौ। 

श्रीनगरं> जम्मु काश्मीरस्य पुल्वामा जनपदे द्वौ लष्कर् ई तोयबा भीकरौ भारतसैन्येन सह प्रतिद्वन्द्वे हतौ। रियास् दरः, रयीस् दरः इत्येतौ एव हतौ। 

  गुप्तसूचनामनुसृत्य दक्षिणकाश्मीरस्य निहामप्रदेशे रविवासरस्य रात्रावेव ससैन्येन काश्मीर् आरक्षकदलेन अन्वेषणमारब्धमासीत्। अन्येद्युः प्रभाते एकस्मात् गृहात् सैन्यं प्रति भुषुण्डिप्रयोगः जातः। प्रत्याक्रमणे गृहस्थितौ द्वौ भीकरौ हतौ च।

 उष्णतरङ्गेण भारते २०० जनाः हताः।

   नवदिल्ली> उष्णतरङ्गदुर्घटनया भारतस्य विविध प्रदेशेषु द्विशताधिकाः जनाः मृत्युमुपगताः १४१ जनाः ओडीषा देशे मृताः। उत्तरप्रदेश-बिहार-ओडीषा प्रदेशेषु त्रिंशदधिकाः निर्वाचनोद्योगिनः सूर्यातपेन मृताः आसन्। एषु दिनेषु सूर्यातपतापमानः ५० डिग्रि सेल्ष्यस् आसीत्।

Monday, June 3, 2024

 लोकसभानिर्वाचनं - मतगणना श्वः। 

निष्क्रमणाधिष्ठितगणनायाम् एन् डि ए दलाय शासनपदप्रतीक्षा। 

नवदिल्ली> एप्रिल् मासस्य १९ तमे दिनाङ्तः जूण् १ पर्यन्तं सप्तचरणैः सम्पन्नस्य लोकसभानिर्वाचनस्य मतगणना आभारतं  श्वः प्रातः अष्टवादने आरप्स्यते। प्रथमा फलसूचना अर्धहोरानन्तरं लब्धुं शक्यते। 

  विविधाभिः संस्थाभिः सञ्चालितेषु निष्क्रमणाधिष्ठितमतगणनेषु [Exit Poll] भाजपा दलेन नेतृत्वमावहन् एन् डि ए दलः भूरिशस्थानानि सम्पाद्य नरेन्द्रमोदिनः नेतृत्वे पुनरपि प्रशासनं रूपीकरिष्यतीति प्रोच्यते।

 अरुणाचले भाजपा दलः सिक्किमे एस् के एम् दलश्च पुनरपि शासनपदं प्रविष्टवन्तौ। 

नवदिल्ली> विधानसभानिर्वाचने अरुणाचलप्रदेशराज्ये भा ज पादलेन पुनरपि शासनपदं प्रविष्टम्। अरुणाचले आहत्य ६० स्थानेषु ४७ स्थानानि विजित्य वर्तमानमुख्यमन्त्री पेमा खण्डु इत्यस्य नेतृत्वे भा ज पादलेन अनुस्यूतशासनपदं लब्धम्। कोण्ग्रस् दलः एकेनैव स्थानेन तृप्तोSभवत्। त्रिषु स्थानेषु स्वतन्त्रस्थानाशिनः विजयीभूताः।  अवशिष्टानि स्थानानि अन्ये प्रान्तीयदलाः प्राप्तवन्तः। 

  सिक्किमे ३२ स्थानेषु ३१ विजित्य मुख्यमन्त्री प्रेमसिंह तमाङ् इत्यनेन  नेतृत्वमावहन्  एस् के एम् [सिक्किम् क्रान्तिकारि मोर्चा] इति प्रान्तीयदलः शासनानुस्यूततां प्राप्तवान्। एकस्मिन् स्थाने विपक्षदलः एस् डि एफ् नामकः दलः विजयीभूतः।

 केरले नवाध्ययनवर्षाय अद्य शुभारम्भः।


 

कोच्ची> केरलराज्ये ग्रीष्मकालविरामानन्तरं विद्यालयाः अद्य उद्घाट्यन्ते। वर्षाकालस्य अनुगमनेनैव अस्मिन् वर्षे छात्राणाम् अध्ययनारम्भः इति सविशेषता अस्ति। वर्षाकालः कतिपयदिनेभ्यः पूर्वमेवारब्धः। 

  अस्मिन् संवत्सरे उपसार्धद्विलक्षं बालकाः प्रथमकक्ष्यायां प्रवेशं प्राप्तवन्तः। आकेरलं सर्वे विद्यालयाः प्रवेशनोत्सवाय सज्जाः सन्ति। राज्यस्तरीयमुद्घाटनं एरणाकुलं जनपदस्थे एलमक्करा सर्वकारीय उच्चतरविद्यालये प्रातः ९. ३० वादने  मुख्यमन्त्री पिणरायि विजयः करिष्यति।

  अस्मिन् वर्षतः पाठ्यायोजनापरिष्करणमनुसृत्य  प्रथम-तृतीय-पञ्चम-सप्तम-नवमकक्ष्यासु नूतनानि पाठपुस्तकानि  एव विद्यन्ते।