OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 30, 2019

भारतस्य सम्पद्व्यवस्था अतिशीघ्रं पुरोगच्छन्ती भवति - सौदी स्थानपतिः।

 नवदहली > भारतस्य सम्पद्व्यवस्था अतिशीघ्रं पुरोगच्छन्ती भवति इति सौदी स्थानपतिना डा. सौद्बिन् मुहम्मद् अल्सादिना  अभिप्रेतम्। भारते १०० बिल्यण् डोलर् धनस्य निक्षेपः सौदि अरेब्यायाः परिगणनायां वर्तते इति सः अवदत्। भारतस्य ऊर्जसम्बन्‍धानां लक्ष्याणां निर्वहणं सौहृदराष्ट्रमित्यर्थे सौदि अरेब्यायाः दायित्वं भवतीति स्थानपतिना अभिप्रेतम्।

Sunday, September 29, 2019

पञ्चदिनात्मकसन्दर्शनाय करसेनाधिपः मालिद्वीपं प्रति।
    नवदेहली> उभयपक्षप्रतिरोधबान्धवस्य दृढीकरणाय करसेनाधिपः बिपिन् रावत् मालिद्वीपं प्रस्थितवान्‌। सः मालिद्वीपस्य अध्यक्षेन इब्राहिं मुहम्मद् सोलिना सह चर्चां करिष्यति।मालिद्वीपस्य प्रतिरोध-विदेशकार्यसचिवाभ्यां साकमपि मेलनं भविष्यति। युद्धोपकरणानां सैनिकवाहनानां च परस्परदानं चर्चायाः मुख्यविषयः भवति।
अण्टर्-१८ साफ् कप् फुट्बोल्-चरित्रं विरच्य भारतम्।
   काठ्मण्टु > अण्टर्-१८ साफ् कप् फुट्बोल् मध्ये बङ्गलादेशदलं पराजित्य भारतं किरीटं प्रापयत्। क्रीडायां भारतम् एकमुपरि लक्ष्यद्वयेन बङ्गलादेशदलं पराजयत्। अण्टर्-१८ साफ् कप् फुट्बोल् मध्ये भारतस्य प्रथमकिरीटं भवति इदम्।

Saturday, September 28, 2019

आतङ्कवादिनां कृते निवृत्तिवेतनं दीयमानं एकंं राष्ट्रं भवति पाकिस्थानः - इम्रान खानस्य वक्त्रं वक्रीकृत्य भारतम्।
  न्यूयोर्क् > पाकिस्थानस्य प्रधानमन्त्रिणा इम्रानखानेन यू एन् सार्वजनिक सभायां कृतस्य प्रभाषणस्य भारतं शक्तया भाषया प्रत्युत्तरमदात्। इम्रानस्य वाक् कस्यचित् राष्ट्रतन्त्रज्ञाय न युज्यते, युद्धमुख-प्रेषणमेव अस्य फलम् इति भारत विदेशकार्यसचिवा विधिषा मेय्त्रा यू एन्‌ सभायाम् अवदत् ।
 यु एन् समित्याः तीव्रवादपट्टिकायाम् अन्तर्गताः १३० आतङ्कवादिभ्यः २५ आतङ्क सङ्घटनायै च अभयप्रदाता भवति पाकिस्थानः । आतङ्कवादिने  निवृतवेदनं प्रदास्यमानः राष्ट्रः भवति पाकिस्थानः इति सा यु एन् सभायाम् अवदत्‌।



३७० अनुच्छेदनिष्कासनम् - परिदेवनानि न्यायाधिपस्य रमणस्य पीठं परिगणयिष्यति ।
       नवदहली > जम्मू काश्मीराय प्रत्येकाधिकारं दीयमानस्य सप्तत्यधिक त्रिशतम् (३७० ) अनुच्छेदस्य निष्कासनं प्रतिरुद्ध्य समर्पितानि परिदेवनानि  रमणस्य न्यायाधीशस्थाने  परिगणयिष्यति । ओक्टोबर् ५ मध्ये एतदुपरि वादः आरभ्यते। एतत्‍सम्बन्ध्य उच्चतरन्यायालयेन केन्द्रसर्वकारं प्रति ज्ञापकशासनं प्रतिरोधप्रतिज्ञासमर्पणाय प्रेषितमासीत्I तथापि, सर्वकारेण काश्मीरे प्रातःकालीनं नियन्त्रणादिकं प्रतिनिवृत्तम्।
लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य परिशीलकः।
 अफ्गानिस्थान् > दक्षिणाफ्रिकादलस्य भूतपूर्वक्रीडकः  लान्स् क्लूस्नर् अफ्गानिस्थानक्रिकेट् दलस्य प्रशिक्षकत्वेन नियुक्तः। अफ्गानिस्थानदलस्य परिशीलकस्थानं प्रति लब्धेभ्यः पञ्चाशत् आवेदनेभ्यः एव क्लूस्नरस्य नियमनमभवत्। नवम्बर् मासे जायमाना वेस्ट् इन्टीस् परम्परा क्लूस्नरस्य प्रथमदाैत्यं भवति।
कृषिविषयोऽपि पाठ्यप्रणाल्याम् अन्तर्भविष्यति- केरलस्य शिक्षामन्त्री।
   तिरुवनन्तपुरम्> कृषिः अस्माकं संस्कृतेः सूचिका भवतीति आशयं निर्धार्य पाठ्यपद्धत्यां पाठान् सज्जीकरिष्यतीति केरलस्य शिक्षासचिवः सि.रवीन्द्रनाथः। कार्षिकमण्डलं प्रति युवकानाम् आकर्षणाय केरलस्य सामान्यशिक्षाविभागेन  क्रियमाणस्य "पाठं ओन्न् पाटत्तेक्क्" (प्रथमः पाठः केदारं प्रति) इति कार्यक्रमस्य राज्यस्तरीयोद्घाटनसभायां प्रभाषयन् आसीत् सचिवः। पठनमिव कृषिरपि मानवजीवनस्य भागः करणीयः इति सचिवेन अभिप्रेतम्। कार्षिकवृत्तिं प्रति ज्ञानं एकैकस्यापि छात्रस्य आवश्यकम् इति सः अवदत्। उद्‌घाटनकार्यक्रमे कार्षिकसचिवः वि.एस्. सुनिल्कुमारः अध्यक्षः आसीत्। कार्यक्रमेऽस्मिन् कार्षिकविभागः  संयुक्ततसहकारी भवति।
पाला उपनिर्वाचनं - माणि सि काप्पन् विजयीभूतः। 
माणि सि काप्पन्। 
पाला [केरलं] > पाला विधानसभामण्डले सम्पन्ने उपनिर्वाचने वामपक्षदलाय [एल् डि एफ्] चरित्रविजयः। एन् सि पि दलस्य स्थानाशी माणि सी काप्पनः २९४३ मतदानानां भूरिपक्षे विजयीभूतः। यु डि एफ् संघस्य  ५४ संवत्सराणां अनुस्यूतविजयस्य बन्धनमेव काप्पनस्य विजयेन वामपक्षदलेन प्राप्तम्। 
  केरलकोण्ग्रस् एम् विभागस्य स्थापकनेतुः के एम् माणिनः आजीवनान्तमण्डलमासीत् कोट्टयं जनपदस्थं  पाला। माणिनः मृत्युः तत्र उपनिर्वाचनाय हेतुरभूत्।

Friday, September 27, 2019

पाकिस्थानेन आतङ्गवादः निर्वापनीयः- यु.एस्
 युणैटड् नेषन्स् > भीकरतां सम्बन्ध्य पाकिस्थानं प्रति सूचनां दत्वा अमेरिक्कदेशः। आतङ्गवादं प्रति पाकिस्थानेन सत्यसन्धतया प्रतिप्रवर्तनं स्वीकरणीयमिति अमेरिक्कदेशस्य प्रधाननयतन्त्रज्ञेन अभिप्रेतम्। एवं कृते सत्येव भारतपाकिस्थानयोः मध्ये जातानां समस्यानां परिहारः साध्यते। तदर्थं सीमाप्रदेशमुल्लङ्घ्य क्रियमाणानाम् आतङ्गवादप्रवर्तनानां निष्कासनाय पाकिस्थानेन प्रयत्नः करणीयः इति सः अवदत्। यु.एन्. सामान्यसभायां यु.एस्.आक्टिङ् कार्यदर्शा आलीस् वेल्स् अपि कार्यमिदम् असूचयत्।
जम्मूकाश्मीरे कलामस्य नाम्नि गवेषणकेन्द्रम् 
 
    नवदहली > प्रतिरोधमण्डले भारतं शक्तं कर्तुं गवेषणकेन्द्रम् सज्जीकरोति। भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल्कलामं प्रति आदरसूचकत्वेन गवेषणकेन्द्रस्य नामकरणं "कलां सेन्टर् फोर् सयन्स् आन्ट् टेक्नोलजि" इति कर्तुं निर्णयः जातः। राष्ट्रस्य सैनिकशक्तये आवश्यकानि अत्याधुनिकायुधानि निर्मातुं  प्रतिरोधसाङ्केतिकविद्यायाः विकसनं  लक्ष्यीकृत्य गवेषणायैव केन्द्रं संस्थाप्यते। डिफन्स् रिसर्च् आन्ट् डवलप्मेन्ट् ओर्गनैसेषनस्य नेतृत्‍वं आयोजनायै निश्चितम् वर्तते। गवेषणकेन्द्रस्थापनाय धारणापत्रे जम्मू केन्द्रविश्वविद्यालयेन सह डि आर् डि ओ हस्ताक्षरम् अकरोत्। दहल्यां सञ्जाते मेलने केन्द्रप्रतिरोधसचिवेन राजनाथसिंहेन एव धारणापत्रे हस्ताक्षरं कृतम्।

Wednesday, September 25, 2019

जलोपप्लवः, वृष्टिजलेन पूणे निमज्जितम्, २८,००० जनाः अन्यत्र प्रेषिताः।
      मुम्बै> अतिवृष्टिपातेन महाराष्ट्रस्य पूणे प्रदेशे द्वादश (१२) जनाः मारिताः। मुम्बै बंगलूरु राष्ट्रिय-मार्गसमीपे खेदशिवपुर ग्रामे  सुप्ताः पञ्चजनाः जलेन सह गताः आरक्षकाधिकारिणा सन्दीप् पट्टील् इत्यभिधानकेन उक्तम्।। पुरन्दरमण्डलात् द्वौ अदृश्यौ अभवताम्। २८००० जनाः सुरक्षितस्थानं प्रति प्रेषिताश्च।

    अर्णेश्वरमण्डले भित्तिं पतित्वा नववयस्कः मृतः। अन्ये चत्वारः अपि तेन सहमृताः। सिंहगढ् मार्गसमीपं जल प्रवाहेन नीतात् कार् यानात् मृतदेहः लब्धः। बारामत्याः निम्नप्रदेशात् १०००० जनाः सुरक्षितस्थानं प्रति प्रेषिताः। पूणे नगरस्य निम्नप्रदेशात् ५०० जनाः अपि सुरक्षितस्थानं प्रति प्रेषिताः सन्ति।
अबुदाबि राज्ये छात्राणम् अन्ताराष्ट्रं वैज्ञानिकं प्रदर्शनं समारब्धम्‌।
    विज्ञानं प्रायोगिकजीवने येन केनप्रकारेण प्रयोजकीभवेत् विश्वस्य सद्विकासाय कथम् उपयोक्तव्यम् इत्यादीन् विषयान् मनसि निधाय  छात्राणाम् अनुसन्धान प्रयत्ननि एव अन्ताराष्ट्रिय वैज्ञानिक प्रदर्शने अवतारयति। 
  भारतं तथा अन्ये ७० सङ्‌ख्याधिकानि राष्ट्राणि च अस्मिन् प्रदर्शने भागं स्वीकुर्वन्ति। आहत्य  २५०० संख्याकाः विज्ञानोत्सुकाः छात्राः भागं स्वीकुर्वन्ति। अस्मिन् ५०० छात्राः यू ए ई राष्ट्रतः भवन्ति। वातावरण व्यत्ययेन  जायमानायाः समस्यायाः पारं गन्तुम् उपकारका नूतना विद्या, क्षेत्रेषु कीटनाशिनीनां प्रयोगाय उदग्रयानकं (drone) गार्हिकाम् अग्निदुर्घटनां रोद्धुं निर्मितम् उपकरणम् इत्यादि शताधिकानि विज्ञान-दर्शनानि अस्यां प्रदर्शिन्यां प्रदर्शितानि सन्ति । गुरुवासरे प्रदर्शिनी समापयिष्यति।

Tuesday, September 24, 2019

उत्तरभारते तथा पाकिस्थानीय भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। रिक्टर् मापिकायां ५.८ इति अङ्कितम्।
(पाकिस्थानस्य मिरपुरस्य टिट्वर् चित्रम्।)
   नवदिल्ली> उत्तरभारते तथा पाकिस्थानस्य भूभागेषु च भूकम्पः अभवत्। २३ जनाः निहताः। मृतानां संख्या अधिका स्यात्। अद्य  सायं ४ः४५ वादने आसीत् घटना। भूकम्पस्य शक्तिः रिक्टर् मापिकायां ५.८ इति   अङ्किता। भारते नवदिल्ली, चण्डीगड्, कश्मीरः, पाकिस्थाने इस्लामाबाद् तथा विविधमण्डलेषु च  भूकम्पः अभवन् इत्यस्ति प्रथमावेदनम्। 
   पाकिस्थानस्य मिरपुरे नाशव्याप्तिः अधिका इत्यस्ति आवेदने। पन्थानः लम्बरीत्या भग्नाः बहवः जनाः क्षताः च। भारते जनापायः वस्तुनाशः वा न आवेदितः। पाक् अधीनः काश्मीरः एव भूकम्पस्य प्रभवकेन्द्रम्  इति निजीयाः काचन संस्थायाः आवेदनम् अस्ति।
बालाकोटे जय्षे शिबिरं पुनरपि आरब्धम्। भारतं प्रति ५०० आतङ्कवादिनः। 
    चेन्नै> पाकिस्थानस्य बालाकोटे पुनरपि आतङ्कवादिभिः रणशिबिरं उद्घाटितम्। ५०० संख्याकाः भीकराः भारतं प्रवेष्टुं सज्जा भूत्वा तिष्ठन्ति इति आवेदनं स्थलसेनाधिपेन विपिनरावत्तेन अङ्गीकृतम्। सीमामुल्लंख्य आतङ्किभिः क्रियमाणस्य आक्रमणस्य प्रत्युत्तरमिव भारतेन पूर्वकृत-द्रुताक्रमणादपि शक्तं स्यात् नूतनम् इति विपिनरावात्तेन पाकिस्थानाय पूर्वसूचना प्रदत्ता। पाकिस्थानस्योपरि अधिकतया प्रक्रमान् स्वीकर्तुं भारतः सज्जः भवति। किं करिष्यति केन प्रकारेण करिष्यति इति पाकिस्थानेन ऊह्यते चेत् तेभ्यः वरम् इत्यपि बिपिनरावत्तः अवदत्। यू एन् सभायां काश्मीरस्य विषयमघिकृत्य प्रधानमन्त्री नरेन्द्रमोदी वक्तुकामः अासीत्। ततः पूर्वमेव भवति सेनाधिपस्य ईदृशोक्तिः॥

Monday, September 23, 2019

वातावरण-व्यत्यय-दुर्घटनां विरुद्ध्य १६ वयस्कायाः संग्रामः। १३९ राष्ट्राणि भागं स्वीकृतानि।
ग्रीट्टा तन्बर्गः
     न्युयोर्क्> वातावरण-व्यत्यय-दुर्घटना तथा आगोलतापनं च विरुद्ध्य १६ वयस्कायाः नेतृत्वे संग्रामः। परिस्थितिसंरक्षणमुद्दिश्य आयोजितेषु बृहत्तमेषु प्रथमः संग्रामः भवति एषः इति अनुमीयते। १३९ राष्ट्राणि भागभाक्भूते संग्रामे छात्राः एव अधिकतया सन्ति।
     वातावरणप्रतिसन्धौ दूयमानाय लोकाय प्रतीक्षां वितरति षोडशवयस्कायाः ग्रीट्टा तुन्बर्गस्य मनशक्तिः। स्वीडनस्य छात्रा भवति एषा। वातावरणाय परिस्थितये च राष्ट्रान्तरतले प्रक्रमाः स्वीकर्तव्याः, तदपि शीघ्रात् शीघ्रतरम् इति तुनबर्गः वाञ्छति। अस्य मासस्य २३ दिनाङ्के आयोजिते ऐक्य-राष्ट्रसभायाः वातावरण शिखरमेलने भागं स्वीकर्तुं न्यूयोर्कनगरं प्राप्‌ता सा अत्रत्याः संग्रामस्य च नेतृत्वम् अलङ्करिष्यति।
आह्लादश्रृङ्गमारुह्य 'हौडि मोदी'
चित्रे- अमेरिक्कराष्ट्रस्य हूस्टण् देशे हौडि मोदी सङ्‌गमे नरेन्द्रमोदी ट्रम्पः च
   हूस्टण्> विश्वस्य बृहत्तमस्य जनतन्त्रराष्ट्रस्य हृदयमेलनमासीत् हौडिमोदी महामेला। हूस्टण् नगरे रविवासरे सम्पन्ने मेलने भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह यु एस् राष्ट्रपतिः डोणाल्ड् ट्रंपः अपि सभायाम् सन्निनिहितः आसीत्। ४० निमेषपर्यन्तं सः वेदिकायाम् उपस्थितः आसीत्। कार्यक्रमे भागं स्वीकर्तुमेव आसीत् तस्य हूस्टण् सन्दर्शनम्।
    ५०००० संख्यामितः भारतवंशजाः अमेरिकस्य नागरिकाः स्वात्मनेतारं द्रष्टुं एन् आर् जि पादकन्दुकक्रीडाक्षेत्रं प्राप्तवन्तः आसन्। फ्रान्सिस् 'मार्पाप्प' इत्यस्य अनन्तरम् उज्वलं स्वागतं लभ्यमानः  अन्यतमः वैदेशिकः राष्ट्रनेता भवति नरेन्द्रमोदी इति अमेरिक्कस्य वार्तापत्रिकाः आवेदयन्ति। 'एकः स्वप्नः प्रकाशपूरितः श्वः' इति सन्देशम् उद्वहन् आयोजिते कार्यक्रमे ट्रम्पः सक्षात् समागतः इति उभयोः राष्ट्रयोः राजनैतिक व्यावसायिक बन्धः अधिकतया शक्तं भविष्यति इत्यस्य सूचना  इति राजनैतिकनिरीक्षकाः अभिप्रेन्ति॥

Sunday, September 22, 2019

चीनम् आदर्शरूपेण स्वीकृत्य नागरिकाणां मुखं प्रत्यभिज्ञातुं भारतं सज्जायते।
आदर्शचित्रम्।
    नवदिल्ली> स्वस्य नागरिकाणां मुखं प्रत्यभिज्ञातुं चीनम् आदर्शरूपेण स्वीकृत्य भारतं सज्जयते इत्यस्ति नूतनम् आवेदनम्। समागते मासे मुखप्रत्यभिज्ञान-संविधानस्य निर्माणाय प्रक्रिया समारप्स्यते इति अन्ताराष्ट्र वार्ता माध्यमः 'ब्लूम् बर्गः' आवेदयति। आराष्ट्रं संस्थाप्यमानां निरीक्षण छायाग्राह्याम् इमाः नूतनतान्त्रिकविद्यायाः उपयोगाय सन्दर्भः स्यात् इत्यस्ति अवेदनस्य सूचना।
   पारपत्र-विवरणानि, कुकर्मिणः, अप्रत्यक्षजनाः, अज्ञातानां मृतशरीराणां विवरणानि च इत्येते नूतन विद्यया सह संबद्धाः स्युःयुः। एवं चेत् राष्ट्रस्य  सम्पूर्णजनाः सर्वकारस्य निरीक्षण-दृष्टिपदे भविष्यति इति गुण-दोषयुतो भवति। अङ्‌गबलेन अतिन्यूनं भवति आरक्षक-नागरिकयोः अनुपातः। ७८४ जनानां कृते एकः आरक्षकः इत्यस्ति अधुनातन गणनानुपातः। विश्वस्य निम्नतमो अनुपातः भवति अयम्I 'डाट्टा' संरक्षणनियमः सक्षमः नास्ति भारते इति कारणेन आशङ्गाजनकं च भविष्यति नूतनप्रक्रमः॥

Saturday, September 21, 2019

 राष्ट्रिय संस्कृतसम्मेलनं समारब्धम्
    नवदिल्ली> त्रिदिवसीयं राष्ट्रियं संस्कृत-सम्मेलनम् अद्य (सेप्टेम्बर-मासस्य 21-दिनाङ्कात्) नवदिल्ल्याम् आरब्धम्। अत्र उद्घाटनसत्रे बीज-वक्तव्यं व्याहरन् सुख्यातः संस्कृतविद्वान् डॉ.गौतमभाई-पटेलः 'संस्कृतभाषायाः भाषिक-वैविध्यम्' इति सम्मेलनविषयमवलम्ब्य विस्तरेण व्याख्यापितवान्। सम्मेलनमिदं दिल्ल्याः संस्कृत-अकादम्या आयोजितम् । 

Friday, September 20, 2019

संस्कृताध्ययन-ससंरक्षणाय सर्वकारः प्रोत्साहनं दद्यात्।- प्रमीला शशिधरन्।
-राजकृष्णः श्रीकृष्णपुरम्
    पालक्काट्> सार्वजनीन-शिक्षासंरक्षण-यज्ञमिव संस्कृत-शिक्षारक्षायै  प्राधान्यं सर्वकारैः न दीयते। प्रथमकक्ष्यातः सर्वप्रथमं पाठनं समारब्धे राज्ये तेषां छात्राणां गणनानुसारं विद्यालयेषु पर्याप्तसंख्यकान् शिक्षकान् नियोजयेयुः इति पालक्काट् नगरसभाघ्यक्षा प्रमीला शशिधरन् स्वीय उद्घाटनभाषणे आदत्। केरलसर्वकारस्य सार्वजनीन-शिक्षाविभागस्य नेतृत्वे पालक्काट् वटक्कन्तरा कृष्णकृपा सभामण्डपे राज्यस्तरीय-संस्कृतदिनाचरणे उद्घाटयन्ती भाषमाणा आसीत् सा।
     छात्रेषु सच्छीलं संवर्धयितुं संस्कृतभाषाध्ययनं प्रेरयति। उपनिषदादयः संस्कृतभाषायामेव रचिताः। वरिष्ठाः भक्तिमार्गं यदा प्रविशन्ति तदा भक्तिग्रन्थानध्येतुं संस्कृताध्ययनसन्नद्धाः प्रभवन्ति। अतः संस्कृतशिक्षा-विकासाय सर्वकारैः इतोप्यधिकं प्रोत्साहनं देयमिति सा न्यगादीत्।  नगरसभा-सदस्या श्रीमती सुमति सुरेष् अध्यक्षपदमलञ्चकार। राज्य-पाठ्यपद्धतिसमिति-सदस्यः  प्रो. वि. माधवन् पिल्ला महोदयः  संस्कृतदिनसन्देशं दत्तवान्। पण्डितरत्नं डो. पी.के. माधवन् महोदयः  मुख्यप्रभाषणमकरोत्।
     अभिनयतिलकं कूटियाट्टकलाकारः पी.के.जी. नम्ब्यार्, पद्मश्री पि आर् कृष्णकुमार् , पि.एन्. नटराजः, डो. एन्.एं इन्दिरा प्रभृतयः संस्कृतपण्डिताः, कुमारि पार्वति वि जे,  हरिप्रसादः च समारोहे समादृताः। अध्यापकेभ्यः आयोजितायां साहित्य-रचनाप्रतियोगितायां विजेतृभ्यः पुरस्कारान् अदात्। श्री आर् एस्  षिबूमहोदयः, श्रीमती सुनीति महाभागा महेष्, जयप्रकाशः, पि दिवाकरः च स्वाशयान् प्राकटयत् । अपराह्ने संस्कृत-ह्रस्वचित्रप्रदर्शनं, संगीतशिल्पम्, कलाकार्यक्रमाः उपस्थापिताः ।
आर्थिकवर्धनाय  सर्वकारीयवित्तकोशः चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यति- भारतस्य वित्तमन्त्रिणी 
-सन्दीपकोठारिः
   नवदेहली> आर्थिकव्यवस्थायाः वर्धनार्थं  वित्तमंत्रिण्या  निमर्लासीतारमणमहाभागया नवप्रकल्पाः प्रकल्पिताः प्रोक्तं च यत् सर्वकारीयवित्तकोशः अग्रिममासे चतुश्शतजनपदेषु ऋणमेलाम् आयोक्ष्यतीति। व्यवस्थेयं नोन् बैंकिंङ् फैनान्स् कम्पनी इत्येतस्मै अथ च रिटेल् ग्राहकेभ्यो भविष्यति। एषु च गृहक्रेतारः कृषका अपि सम्मिलिष्यन्ति। ३ अक्टूबरतः ७ अक्टूबरपर्यन्तं आदिमचरणे द्विशतजनपदानि अपि च ११ अक्टूबरतः अवशिष्टद्विशतजनपदानि संपृक्ताः भविष्यन्ति। वित्तमंत्रिण्या प्रोक्तं यत् उत्सवकाले अधिकाधिक- ऋणवितरणनिश्चयार्थं कार्यमिदं समनुष्ठितम्। वित्तकोशाः बोधिताः यत् सूक्षलघुमध्यमोद्योगबद्ध- ऋणं ३१ मार्च २०२० पर्यन्तं एन् पी ए इति न समुद्घोषितं स्यादिति।
    अप्रैल्- जून् त्रैमासिके 'जीडीपी ग्रोथ्' इति न्यूनीभूत्वा षड्वर्षस्य निम्नस्तरे ५ प्रतिशतमागतम्। सर्वकारः ग्रोथ् इति अभिवृद्ध्युपायान् विकरोति। अस्मै च चतुर्वारं घोषणा संजाता। वित्तमंत्रिण्या गतशनिवासरे रिएल् एस्टेट् इति अथ च एक्सपोर्टसेक्टर् इत्यस्मै मुक्तिसम्बद्धनिर्णयाः कल्पिताः। ३० तम दिनाङ्के आगस्त मासे दशवित्तकोशानां लयनं  विहितम्। एतत्पूर्वं २३ दिंनाके वैदेशिकनिवेशकेषु 'सर्चार्ज् वृद्धिप्रतिग्रहणस्य सममेव आटोसेक्टर्  इति मुक्तप्रकल्पानायै संसूचना प्रदत्ता आसीत्।

Thursday, September 19, 2019

शत्रूणाम् उपग्रहाः नियन्त्रकं ग्रहीत्वा पातयेत्। नियन्त्रकग्राहकान् निमन्त्र्य अमेरिक्कस्य व्योमसेना।
Cartoon vector created by brgfx
www.freepik.com
    वाषिङ्टण्> बाह्याकाशे विद्यमानान् शत्रु राष्ट्राणां चारोपग्राहान् प्रतिरोद्धुम् अमेरिक्कः सज्जतां करोति। तदर्थं तन्त्रजालिक प्रतिरोधाय तन्त्रनियन्त्रकचोराः (cyber hacker) अमेरिकया निमन्त्रिताः। तैः अमेरिक्कस्य प्रतिरोध विभागेन आयोक्ष्यमाणे नियन्त्रकग्रहण स्पर्धायां विजयं प्राप्तव्यम्। भूमिं परिभ्रमन्तान् उपग्रहाणां नियन्त्रकं गृहीत्वा  तेषुविद्यमानान् छायाग्राहीन् भूमीतः चन्द्रं प्रति अभिमुखीकरणमेव कर्तव्यः तथा भूतलनिलयग्रहणाय च अनुज्ञा दास्यते। विजयीभ्यः २०२० तमे अयोक्ष्यमाणे डिफ्कोण् उपवेशने तेषां कौशलं प्रदर्शितव्यम्।
     शत्रुराष्ट्राणां  व्यामसेनायाः आसूत्रणानि निरीक्षितुम् एव चारोपग्रहाः उपयुज्यन्ते। अतः स्वस्यराष्ट्रस्य शत्रूणाम् उपग्रहाः  नियन्त्रकं ग्रहीत्वा पातयेत् इत्यस्ति अमेरिक्कस्य नूतना परियोजना।
विभिन्नक्षेत्रेषु संस्कृतदिनाचरणम्
इरिङ्ङालक्कुकुट शैक्षिकजनपदे न्या
यवादी वि आर् सुनिल कुमारः उद्‌‌घाटयति।




Wednesday, September 18, 2019

आराम्को आक्रमणस्य पश्चात् शिलातैलमूल्यम् अतिवर्धितम्।
आराम्को शिलातैलशोधकेन्द्रः।
    कोच्ची> सौदिअरेब्य राष्ट्रे आराम्को शिलातैलशोधकेन्द्रः तैलक्षेत्रं च हूतिभिः आक्रमिताः आसन् । ततः पश्चात् इदानीं शिलातैलमूल्यम् अतिवर्धितम्। सोमवासरे तैलमूल्ये प्रतिशतं दशाधिकम् इति वर्धनमभवत्। एष्यायाः विपणिषु वेस्ट् डेक्सास् इन्टर्मीडियट्ट् श्रेणीस्थ अशुद्धतैलस्य १०.६८% इति वर्धयित्वा बारल् मानस्य ६०.७१ डोलर् धनम् अभवत्।  ब्रेन्ट् श्रेण्यां तु तैलमूल्यम् ११.७% इति वर्धनं कृत्वा बारल् मानस्य ६७.३१ डोलर् धनम् इतित्यपि अभवत् च।
   शनिवासरे आसीत् हूतिनः ड्रोण् द्वारा आक्रमणम्। अक्रमणे महाग्निः सञ्जाता इत्यनेन उत्पादनं भागिकतया स्तगितम्।

Tuesday, September 17, 2019

केरलराज्यस्तरीय संस्कृतदिनाचरणम्  पालक्काट् जनपदे।
-राजकृष्णः श्रीकृष्णपुरम्
     संस्कृतपठन पाठन विकासाय केरलसर्वकारेण बह्यः योजनाः आविष्कृताः। भारते प्रप्रथमं प्रथमकक्ष्यातः आरभ्य संस्कृतम् अध्येतुं व्यवस्था अद्य केरलेष्वेव वर्तते। अधुना केरले सर्वकारेण द्वादशतमं संस्कृतदिनाचरणम् समुचितरूपेण आयोज्यते ।

     श्रावणपूर्णिमातिथौ एव संस्कृतदिनं आचरति । १९६९ तमे वर्षे यदा  एं.सी. चग्ला वर्यः केन्द्रीय-मानव-संसाधन-मन्त्रिपदव्याम् आसीनः तदा प्रभृत्येव संस्कृत-दिनाचरणस्य प्रारम्भः अभवत्। आकाशवाण्यां संस्कृतवार्ताप्रसारः संस्कृतदिनाचरणं च सममेव प्रारभत। वाजपेयी सर्वकारः २०००-०१ वर्षः संस्कृतवर्षत्वेन समाचरत्। तदा प्रभृति संसकृतदिनाचरणं संस्कृतसप्ताहाचरणरूपेण पर्यणमयत्।

     अस्य वर्षस्य राज्यस्तरीयः संस्कृतदिनाघोषः २०१९ सेप्तम्बर् १९ दिनाङ्के पालक्काट् श्री. एं.पी. केशवप्पणिक्कर् नगरे (कृष्णकृपा सभागृहं, वटक्कन्तरा) आयोज्यते। केरल विधा

Monday, September 16, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,
  कविकुलगुरु कालिदास-विश्वविद्यालयः
  नमांसि, सर्वासामपि भाषाणां भाषितार: (प्रयोक्तार:)भवन्ति विविधस्तरीया:।सुशिक्षिता: इव अशिक्षिता: अपि भवन्ति, पण्डिता: इव पामरा: अपि भवन्ति,सुज्ञा: इव अल्पज्ञा: अपि भवन्ति, महानगरवासिन: इव कुग्रामवासिन: अपि भवन्ति। अत: अयं 'भाषितप्रपञ्च:' सुविस्तृत:। सर्वेषामपि प्रयोगानुकूल्यं तु सरलमानकसंस्कृतात् एव भवेत्। ये सरलतामेव इच्छेयु: ते अपि स्वमत्यनुगुणं व्यवहरेयु: यत् तत् अपि कदाचित् काठिन्याय भवेत्। सरलमानकसंस्कृतं एतां समस्यां परिहर्तुम् अर्हति। मित्राणि, वयं समाजे सरलमानकसंस्कृतस्य प्रचाराय प्रयत्नरताः भवेम।
 जयतु  संस्कृतम् जयतु भारतम् ॥
वर्षः अक्रीडत् ; भारत - दक्षिणाफ्रिक्का २० - २०स्पर्धा परित्यक्ता। 
धर्मशालाक्रीडाङ्कणं समावृतं वर्तते।
   धर्मशाला [हिमाचल प्रदेशः] >  तीव्रवर्षाहेतुतः भारत-दक्षिणाफ्रिक्कयोर्मध्ये निश्चिता प्रथमा विंशति - विंशति प्रतियोगिता परित्यक्ता। अत्र 'हिमाचलप्रदेश क्रिक्कट् असोसियेषन्' क्रीडाङ्कणे आसीत् स्पर्धा निश्चिता। किन्तु प्रभाते एव आरब्धेन वर्षेण 'टोस्' अपि कर्तुं न शक्यते स्म। अतः स्पर्धां त्यक्तुं निश्चिता॥
सप्तापत्यानि विदेशेषु निवसन्ति, ९३ वयस्का माता एकाकी, आरक्षकाः श्रावणपर्वणि अन्नवस्त्रादिना सह तस्यै   सग्धिं अपरिवेषयन्। 

(त्रेस्याम्मया सह भाषमाणः आरक्षकप्रमुखाः अन्ये सहकारिणश्च।) 
     मङ्कोम्प्>केरळम्> समयः मध्याह्नः समुपगच्छति। तण्टुलं पचनाय संस्थाप्य ९३ वयस्का वृद्धमाता 'त्रेस्याम्म' विश्रमाय प्रकोष्टं प्रति मन्दम् चलति। अद्य श्रावणदिनं तथापि तस्यै विशेषता नास्ति। अपत्यानि सप्त सन्ति, सर्वे विदेशेषु दूरेषु च। बृहदाकारगृहे सा एकाकी एव। तस्याः मुखम् अधिकतया खिन्नम् अभवत्। 
   झटिति तदभवत्I अतिथयः समागताः एटत्वा देशस्थ आरक्षकप्रमुखः सेसिल् क्रिस्ट्यन् राजः तस्य सहकारिणश्च आसन् एते। अपत्यान् मनसिनिधाय विचिन्तयन्तः वृद्धमातुः पुरतः अन्यानि षट् अपत्यानि प्रत्यक्षीभूतानि।  आरक्षकेषु एकैकः तेषां गृहेषु निर्मितानि भोज्यानि स्थापितवन्तः। गार्गी नामिका स्वस्य हस्तेन नूतनवस्त्राणि तां धारितवती। अनन्तरं  ते   सग्धिं अपरिवेषयन्। केवलं तण्डुलोदनेन प्रतिदिनम् अन्नं भुक्तवती सा अरक्षकापत्यैः साकं मिष्टान्नं खादितवती। अनन्दन वा सन्तापेन वा सा रुरोद। 
   जनमैत्री आरक्षक-विभागस्य निरीक्षणे आसीत् कतिपयदिनानि यावत् वृद्धमातुः गृहम्। ते श्रावण सग्धिः तत्रैव भवतु इति निश्चितवन्तः। अनन्तरं तस्याः पुत्रान् आहूय्य मातुः शिश्रूषायै व्यवस्थां निरदिशत् च।

Sunday, September 15, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलसान्निद्ध्यं दृष्टम्।
    लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
  भूतलात् ११० प्रकाशवर्षे दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति।

Friday, September 13, 2019

वैज्ञानिकलोकाय प्रतीक्षां वितीर्य के २-१८ बि इति ग्रहे जलं सान्निद्ध्यं दृष्टम्।
     लण्टन्> भूमेः बहिः जीवस्पन्दः अस्ति वा इति अन्विष्यमाणाय वैज्ञानिकलोकाय प्रतीक्षा-निर्भरः आसीत्  ​नूतनं दर्शनम्। सौरयूथस्य बहिः  रक्तवर्णयुक्तं लघ्वाकारयुतं नक्षत्रं परितः​ भ्रममाणं के २-१८ बि इति ग्रहे भवति जलसान्निद्ध्यम्। मनुष्यवासयोग्यः अन्तरिक्षः बाष्परूपो जलांशः च अस्ति इति वैज्ञानिकैः दृष्टम्।  नेचर् अस्ट्रोणमि जेर्णल् मध्ये प्रकाशिते अध्ययने भवति नूतनं विवरणम्। लण्टन् विश्वविद्यालयस्य कलाशालायाः अनुसन्धान-विभागेन -एव अध्ययनं कृतम्। इदंप्रथमतया एव भवति सौरयूथस्य बहिः जलबाष्पदर्शनम्।
     भूतलात् ११० प्रकाशवर्षं दूरे भवति ग्रहस्य स्थानम्। भूभारात् अष्टगुणित भारयुतस्य अस्य ग्रहस्य आकरः भूमेः द्विगुणितः अस्ति। 

Thursday, September 12, 2019

काश्मीर् विषये व्यवहारः न भविष्यतीति ऐक्यराष्ट्रसभा ; पाकिस्थानस्य प्रत्याघातः। 
जनीवायां यू एन् सम्मेलने वक्ता स्टीफन् डुजरिक्
 जनीवा > यू एन् संस्थायाः मानवाधिकारसमित्यां पाकिस्थानस्य भारतविरुद्धप्रस्तावे तद्राष्ट्रं सभायामेव प्रत्याघातविधेयमभवत्। काश्मीर्विषये मानवाधिकारसमित्याः व्यवहारः अवश्य इति पाकिस्थानस्य निर्देशः समित्या निरस्तः।
 यू एन् मुख्यकार्यदर्शिनः वक्त्रा स्टीफन् डुजरिक् इत्यनेन स्पष्टीकृतं यत्  अस्मिन् विषये द्वयोः राष्ट्रयोः वादप्रतिवादान् सम्यगधिगम्य यू एन् संस्थायाः मुख्यकार्यदर्शी अन्टोणियो गुटरस् वर्यः राष्ट्रद्वयं प्रति चर्चां कृतवान्। काश्मीरविषये ऐक्यराष्ट्रसभायाः पूर्वस्यां पदस्थित्यां व्यत्ययः न जातः, समस्या उभयोः राष्ट्रयोः परस्परचर्चया परिहर्तव्या इत्येव यू एन् समित्याः मतमिति स्टीफन् वर्येण उक्तम्।।
'सुधर्मा' दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः भविष्यति।

 सरस्वतीपुरम् > मैसूरु > विश्वप्रसिद्धा सुधर्मा दिनपत्रिका पञ्चाशत् संवत्सराणि समुपगच्छति। सांस्कृतिकक्षेत्रे संस्कृतभाषाक्षेत्रे च पञ्चाशत् वर्षाणां पुण्यफलानि अवाप्य अनुस्यूतं संस्कृतवाङ्मय-प्रकाशनम् इति स्वधर्मपालने तिष्ठति एषा 'सुधर्मा'। इदानीं मोदानां कालः, सुधर्मा दिनपत्रिकायाः सुवर्ण-संवत्सरकार्यक्रमः श्वः सेप्तम्बर् १३ दिनाङ्के भविष्यति॥ 
    मङ्गलकाले सायं ४ वादने उडुपि पेजावरमठाधीशस्य श्री श्री विश्वेशतीर्थ श्रीपादानाम् अनुग्रहभाषणेन सुवर्ण-संवत्सरीय-कार्यक्रमस्य शुभारम्भः भविष्यति। श्री श्री विश्वप्रसन्नतीर्थपादाः पुस्तकस्य लोकार्पणं कृत्वा आशीर्वचनं प्रदास्यति। नव चत्वारिंशत् संवत्सरान् यावत् अनस्यूतप्रवाहानन्तरं पञ्चाशत् तमस्य संवत्सरस्य प्रथमसोपाने प्रविश्यताम् इति संस्कृतप्रेमिणः आशीर्वचसा सम्भृतः भवति फेस् बुक् वाड्साप्  आदयाः नूतनसञ्चारमाध्यमाः॥
पलास्तिकं विरुद्ध्य युद्धे कर्म कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्।
कर्मकरैः साकं नरेद्रमोदी  मालिन्यं पृथक्‌ करोति ।
   मथुर> पलास्तिक (Plastic) मालिन्यान् विरुद्ध्य युद्धे कर्मकरैः साकं भारतप्रधानमन्त्री अपि भागं स्वीकृतवान्। मालिन्याकारात् पलास्तिकं पृथक् क्रियमाणां स्त्रीणां साहाय्यं कुर्वन् नरेन्द्रमोदिनः चित्रम् आधुनिक-माध्यमद्वारा वितीर्य जनाः आघुष्यन्ते।
   राष्ट्रे एकवारमुपयुज्यमानः पलास्तिक-मालिन्यानां सम्पूर्ण-निर्मार्जनमुद्दिश्य आयोजिता 'स्वच्छता है सेवा' इति परियोजनायाः उद्घाटनाय समागतः आसीत् नरेन्द्रमोदी।  तदा मालिन्याकारतः पलास्तिकं पृथक् कुर्वन्तः स्त्रियः प्रधानमन्त्रिणा दृष्टा आसीत्। तदा तेषां समीपं गत्वा तैः साकं कर्मसु व्यापृतः आसीत् सः।

Wednesday, September 11, 2019

भारते राष्ट्रियाभयम् अभ्यर्थयन् पाकिस्थानस्य भूतपूर्वसामाजिकः। 
    चण्डीगढ् >  पाकिस्थानस्य भूतपूर्वः सामाजिकः बलदेवकुमारः भारतं राष्ट्रियाभयम् अयाचत। पाकिस्थानस्य प्रधानमन्त्रिणा इम्रान् खानेन नेतृत्वमावहतः 'तेहरी के इन्साफ्' नामकस्य राजनैतिकदलस्य अङ्गः भवति बलदेवः। ओगस्ट्मासादारभ्य पत्न्या भावनया अपत्यद्वयेन च सह पञ्चाबस्थे खन्ना नामके स्थाने बन्धुगृहे एव तस्य इदानींतनवासः। 
 हिन्दुधर्मीकः इत्यतः पाकिस्थानम् अधिवासः आपच्छङ्काम् उत्पादयतीति सः वदति।
भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। 
  जनीव> कश्मीरसमस्याम् उन्नीय भारतं विरुद्ध्य यु एन् मानवाधिकार-समित्यां पाकिस्थानेन परिदेवनं ददाति। ११५ पुटयुक्तं भवति परिदेवनम्। समितेः ४२ तमे उपवेशने भागभाक् कर्तुं पाकिस्थानस्य  विदेशकार्यमन्त्री षा महमूद्‌ खुरेषि जीवादेशं प्राप्तवानस्ति। काश्मीरसमस्या अन्ताराष्ट्रस्तरे उन्नयितुमुद्दिश्य भवति पाकिस्थानस्य अयं प्रक्रमः। किन्तु पाकिस्थानस्थ उद्देश्यं निष्फलं कर्तुं भारतेन यत्नः कृतः अस्ति। जम्मुकाश्मीरस्य समस्यायां न्यूनपक्षस्थानां जनानाम्  भीतिम्  अधिकृत्य तत्र विद्यमानान्‌ अत्याचारान् च मानवाधिकारायोगस्य अध्यक्षाय मिच्चल् बाच्ला  वर्याय भारतसङ्घः पूर्वमेव न्यवेदयत्। 
शूर्पद्वयं निभृतं शाकया सह प्रथमकक्ष्यायाः छात्रः।
इन्द्रजः स्वस्य क्षेत्रे I
  कोट्टारक्कर> केरळम् > श्रावणोत्सवदिनेषु शाकादिना सग्धिः केरलराज्यस्य अभिमानः एव' तदर्थं केरलाः गृहस्य पार्श्वे शाकादिकं रोपयन्ति। पञ्च-वयस्क: इन्द्रजः अपि स्वप्रयत्नेन शूर्पद्वय-समृद्घं शाकम् अवाप्य छात्रकृषकाणां पुरस्कारेण पुरस्कृतः।  शाकादयः केरलेषु समीपराज्यतः आगच्छन्ति। कृषि कार्येषु उदासीनतया सन्ति इदानीं युवानः। अतः जनानां प्रबोधाय सर्वकारेण कृता परियोजना भवति 'श्रावणोत्सवे एकशूर्पमितं शाका' इति। किन्तु इन्द्रजः शूर्पद्वयमितं शाकं समार्जितवान्। पारिप्पल्लि करिम्पालूर् राणिभाने विनोद बाबु - गङ्गाराणि दम्पत्ययोः सुपुत्रः भवति एषः।
  रोपणस्यूते भवति अस्य बालसस्य रोपणम्। कारवेलः, पटोलः , आर्दकं, भेण्डम्, मरीचः, अलावू, शाका, सूरणः  इत्यादि विविधानि शाकादीनि सन्ति तस्य उपवने। जैव-कीटनाशिनीम् उपयुज्य भवति कीटानां रोधनम्।

Tuesday, September 10, 2019

संस्कृतकवि: युवराजभट्टराईवर्य: साहित्य-अकादेमी युवापुरस्कारेण सभाजित:
    असमः> भारतसर्वकारस्य भाषासंस्कृतिमन्त्रालयस्य अंगभूतसंस्थया साहित्यअकादमीति संस्थया चतुर्विंशती राजमानितभाषाणां कृते ऐषमो वार्षिकयुवापुरस्कार:  वितरित:। सविशेषमिदमस्ति यत् एतेषु पुरस्कारेषु कविताविधाया: प्राबल्यम् अवर्तत. अकादमीद्वारा प्रतिवर्षम् प्रदीयमानेSस्मिन् युवापुरस्कारे ऐषमो वर्षे  युवापुरस्कारार्थं प्रचितासु कृतिषु कविताया: एकादश पुस्तकानि, कथाया: षट पुस्तकानि, पञ्च उपन्यास-ग्रन्था:, एकं  साहित्यिकालोचना-कृति-पुस्तकं समावेशितानि वर्तन्ते।

'साहित्य-अकादमी 2019 तम-वर्षीय-युवा-पुरस्कारार्थं  सर्वासां भाषाणां भाषाकोविदां  प्रतिनिधि-सदस्यानां प्रचयन-समितिद्वारा अनुशंसितेभ्यः युवलेखकेभ्य: विद्वद्भ्यश्च भारतसर्वकारस्य उक्तसंस्थया पुरस्कारा: वितरिता:।

एतदन्तर्गतं  श्रीयुवराजभट्टराईवर्यस्य भक्तिपरं वाग्विलासिनीति काव्यं संस्कृतभाषाया: युवापुरस्कारार्थं साहित्य-अकादम्या प्रचितमासत्। एतादृश-प्रतिष्ठित-पुरस्कार-प्राप्त-कर्ता असौ युवराजभट्टराई संस्कृतस्य  युवलेखक:, कवि:, वार्ताप्रसारक:, सम्पा

Monday, September 9, 2019

चन्द्रयानम्-२, विक्रमो नाम अवतारकः प्रतिलबधः।
पतनात् तम् उद्धातुम्  प्रयत्नः प्रचलति।

   बंगलूरु> चन्द्रयानं द्वे इति योजनायां विक्रमावतारकस्य पतनकारणम् अन्तिमक्षणानां दोलनमि अवगतम्। दोलनस्य नियन्त्रणाय कृतः प्रयत्नः नियन्त्रणसंविधानस्य नाशकारणम् अभवत्।‌ अतः चन्द्रोपरितले पतितमात्रेण अवतारकः पार्श्वभागमवलम्ब्य शयितः अभवत् इति घटनामधिकृत्य अनुसन्धानं कृतवन्तः समित्यङ्गाः अवदन्। विक्रं लाण्डरं उद्घातुं श्रमः इदानीं प्रचलति। पतितः विक्रमः 'ओर्बिटर्' इति यानस्य भागेन दृष्टम् आसीत्। योजनायाः १००% बिजयः नास्ति चेदपि चन्द्रोपरितलस्य चित्रग्रहणाय बाह्यानुसन्धानाय च  ओर्बिटर् भागः उपयोक्तुं शक्यते।

Sunday, September 8, 2019

वार्दोज जनपद: प्रतिगृहीतः अफ्गान् सेनया। १०० तालिबानीय-भीकराः हताः।
  वार्दोज>  उत्तरपूर्व बदक्षन प्रदेशस्य वार्दोज जनपदः अफ्‌गानिस्थानस्य सेनया प्रतिगृहीतः। शताधिकाः आतङ्कवादिनः युद्धे मृताः इति प्रतिरोध-मन्त्रालयेन प्रख्यापितः। मारितेषु आतङ्कवादिषु तालिबानस्य छायापालकः खारी फासियुद्दीन्, अन्ये वैदेशिकीयाः भीकराः च सन्ति।  भीकरैः सह सम्पन्ने सङ्घटने सुरक्षा सैनिकानामपि क्षतः अजयत इति प्रतिरोध-मन्त्रालयेन ज्ञापितम्।
'राष्ट्रं युष्माभिः साकं वर्तते' ऐ एस् आर् ओ वैज्ञानिकान् प्रति भारतीयानां प्रधानमन्त्री।

तस्य प्रधानमन्त्री तम् समाश्लिष्टटवान्
   बेङ्गलूरु> राष्ट्रम् ऐ एस् आर् ओ वैज्ञानिकैः सह आलम्बतया तिष्टामः इति भारतस्य प्रधानमन्त्री अवदत्। चन्द्रयानं-२ द्वे इत्यस्य अन्तिम-लक्ष्यस्थानप्राप्तिः नाऽभवत् इति घटनायां राष्ट्रं प्रति भाषमाणः आसीत् प्रधनमन्त्री नरेन्द्रमोदी। शनिवासरे उषाकालात् पूर्वं निश्चितः आसीत् मृदुलावतरणम्। किन्तु विक्रं इति नामाङ्कितस्य यान-भागस्य मृदुलावतरणात् पूर्वं योनन सह विद्यमानः वार्ताविनिमयसंबन्धः विनष्टः अभवत्।  मृदुलावतरणस्य  तत्समयदृश्य दर्शनाय समागतः आसीत् नरेन्द्रमोदी। 
       वयं पुनः अपि पुरतो गमिष्यामः, विजयश्रृङ्गाणि अधिक्रामयिष्यामः। मम विवक्षा एवमस्ति 'राष्ट्रं युष्माभिः साकं वर्तते इति। राष्ट्रस्य प्रगत्यर्थम् अहोरात्रं प्रयत्नं कुर्वन्तः सन्ति भवन्तः' इत्यपि मोदिना उक्तम्।

ऐ एस् आर् ओ निर्देशकं के शिवन् महोदयं नरेन्द्रमोदीवर्यः समाश्ववासयति स्म ।


नागरिकाः एवं वदन्ति।
- 'मन्त्रिणः एवं भवितव्यम्'। 

Saturday, September 7, 2019

चान्द्रदौत्यस्य न फलप्राप्तिः ; निराशया भारतं वैज्ञानिकलोकश्च। 
    बेङ्गलुरु >  भारतस्य अभिमानपरियोजना चन्द्रयानं - २ न लक्ष्यं प्राप्ता। चन्द्रस्य २ कि मी. निकटे प्राप्ते सति लान्डरात् सन्देशाः न लब्धाः। दिशाव्यतियानम् अभवत् द्रुतपतनम् अभवद्वा इति सन्देहः। 
  मृदुपतनसोपानस्य अन्तिमनिमेषं यावत् शास्त्रज्ञानां सर्वेषां भारतीयानां च प्रतीक्षां सफलीकृत्य सर्वं लान्डरस्य प्रवर्तनं पूर्वनिश्चितरूपेण सम्पन्नम्। किन्तु अन्तिमे निमेषे लान्डरात् भूमिं प्रति सन्देशाः संपर्काः स्थगिताः जाताः। तस्य किमभवदिति निर्णेतुं तदा न शक्यते स्म।

Friday, September 6, 2019

राष्ट्रियशिक्षकपुरस्काराः राष्ट्रपतिना वितरीताः ।
४६ शिक्षकाः स्वीकृतपुरस्काराः। 
  नवदिल्ली > राष्ट्रियशिक्षकदिनस्य अंशतया दिल्ल्यां सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः राष्ट्रिय-शिक्षकपुरस्कारान् वितरीतवान्। पुरस्कारार्हाः ४६ अध्यापकाः पुरस्कारान् स्वीकृतवन्तः। रजतकीर्तिमुद्रा, प्रमाणपत्रं, ५०,००० सहस्रं रूप्यकाणि च पुरस्कारे अन्तर्भवन्ति। मानव-संंसाधान-विकासमन्त्री रमेश् पोख्रियालः च कार्यक्रमे सन्निहितः आसीत्।

Thursday, September 5, 2019

भवन-वाहन ऋणानां शिखावृत्तिः न्यूनं भविष्यति।
    मुम्बै> अस्थिथिरर्णानां णानां शिखावृत्तिषु ओक्तोबर् मासस्य प्रथमदिनात् आरभ्य 'रिपो'क्रमवत् आधारमूल्यक्रमेण सह बन्धनीयः इति रिज़र्व बैंकेन वित्तकोशाः आदिष्टाः॥
भवन-वाहन ऋणानां अन्येषां वैय्यक्तिकऋणानां स्वयम् उद्योग सम्पादक-प्रवर्तकाणां ऋणानां च   शिखावृत्तिक्रमेषु न्यूनता भविष्यति अनेन आदेशेन। उच्च-वित्तकोशेन वित्तकोशानां कृते प्रदत्तः आर्थिकाश्वासः उपभोक्तृजनानां पार्श्वप्रापणाय भवति अयं प्रक्रमः। विगते सप्ताहे धनमन्त्रिण्‌या निर्माला सीतारामेण प्रख्यापिते आर्थिकोन्नयन योजनायाः प्रख्यापने समाश्वासप्रक्रमानधिकृत्य सूचितम् आसीत्।
सदाशिव समारंभाम् 
शङ्ककराचार्यमध्यमाम्।
अस्मदाचर्यपर्यन्ताम्
वन्दे गुरुपरम्पराम्॥ ॥


Wednesday, September 4, 2019

मेट्रो नूतनं यानमार्गपसारणम् उद्घाटितम्। 
   कोच्ची> केरलस्य अभिमानपरियोजनायाः मेट्रो रेल् यानयोजनायाः नूतनं यानमार्ग-प्रसारणं मुख्यमन्त्रिणा पिणरायि विजयेन समुद्घाटितम्। एऱणाकुलं महाराजास् निस्थानादारभ्य 'तैक्कूटं' पर्यन्तं ५. ६कि मी दूरपरिमितं भवति नूतनं सोपानम्। कटवन्त्र स्थाने सम्पन्ने कार्यक्रमे केन्द्रमन्त्री हरदीपसिंहपुरी अध्यक्षः अभवत्। मेट्रोमान् इतिविख्यातः ई. श्रीधरः , केरलस्य गतागतमन्त्री ए के शशीन्द्रः इत्यादयः प्रमुखाः कार्यक्रमे भागभाजः अभवन्।
कश्मीरे आर्थिकनिक्षेपाय जापानादीनि राष्ट्राणि। १५००० कोटि रूप्यकाणां परियोजनाः अङ्गीकृताः।
     नवदिल्ली> कश्मीरः प्रगत्यभिमुखं याति। १५००० कोटि रूप्यकाणां परियोजनाःI ४४ उद्योगसंस्थाः कश्मीरे व्यवसायिक संस्थायाः समारम्भाय सज्जो भूत्वा केन्द्रसर्वकारम् उपगताः। एतेषु ३३ संस्थायाः निवेदनानि सर्वकारेण अङ्गीकृतानि।
  ऐ टि & टेक्नोलजि, इन्फ्रास्ट्रच्चर्, रिन्यूवल् एनर्जि, मानुफाक्चरिङ्, होस्पिट्टालिट्टि, डिफन्स्, डूरिसम्, स्किल् - एड्‌यूकेषन् इति मण्डलेषु १५००० कोटि रूप्यकाणां परियोजना भवति। नवंबर् मासतः नूतनयोजनाः समारप्स्यन्ते इत्यस्ति आवेदनम्। एतत् अतिरिच्य रिलयन्स् आदयः अन्ताराष्ट्र-संस्थाः, जापानराष्ट्रं अन्यानि कानिचन  राष्ट्राणि च काश्मीरे आर्थिकनिक्षेपाय समागतेषु सन्ति।

Tuesday, September 3, 2019

बलदेवानन्द सागरः 'वाचस्पति' पुरस्कारेण सम्मानितः
  चित्रकूटम्> संस्कृतवार्ताप्रसारकत्वेन सुख्यातः डा बलदेवानन्द सागरः वाचस्पति पुरस्कारेण सम्मानितः  रामकथागायकस्य मोरारीबापू-चरणस्य करकमलाभ्याम् अद्य (ऋषिपञ्चमी, ऑगस्ट'२०१९) वाचस्पति-सम्माननम् अवाप्तम्। 'मम सारस्वत-साधनायाः दायित्वमितः परम् एधितम्' इति सम्मानं स्वीकृत्य सागर महोदयेन उक्तम्। संस्कृृत वार्ताप्रसारण मण्डले तथा संंस्कृतभाषाायाः प्रचारणक्षेत्रे च अनेन कृतं योगदानं पुरस्कृत्य भवति अयं पुरस्कारः। चित्रकूटस्थे कैलाासगुरुकुले आयोजितायाम् उपवेशने आसीत्‌ समम्माननम्।
पाकिस्थानानुकूलतया वक्तुम् कुलभूषणस्योपरि सम्मर्दः।
    इस्लामबाद्> पाकिस्थाने कारागृहे बन्धितस्य भारतनागरिकस्य कुलभूषण यादवस्योपरि शक्तः सम्मर्दः अस्ति इति भारतस्य विदेशकार्यमन्त्रालयः वदति। पाकिस्थानानुकूलतया वक्तव्यम् इत्यस्ति सम्मर्दः। स्वयं चारः इत्यङ्गीकृत्य  प्रज्ञापनां दातुम् पाकिस्थानेन कुलभूणः प्रेरितः इति विदेशकार्य-वक्ता रवीषकुमारः अवदत्। कुलभूषणजातवाय नयतन्त्र-साहाय्यं प्रदास्यानन्तरमासीत् भारतस्य इयम् उक्तिः।
    चारवृत्तिमारोप्य पाकिस्थानीयेन सैनिकन्यायालयेन कुलभूषणाय मृत्युदण्डः आदिष्टः आसीत्। किन्तु दैवदिष्ट्या दण्डं विरुद्ध्य अन्ताराष्ट्र नीति-न्यायालयात् भारतानुकूलतया आदेश-प्राप्तिः आसीत्। न्यायालया-देशानुसारं यादवाय नयतन्त्रसाहाय्यं प्रदातुं पाकिस्थानः निर्बद्धः अभवत्।  अनेन कारणोन आसीत् यादवेन सह मेलने भारताय अनुज्ञा प्रदानम्।

केरले 'पि वि सि फ्लक्स्' फलकानि निरुद्धानि।
    अनन्तपुरी > स्वास्थ्य पारिस्थितिक दोषाणां कारणभूतानि पि वि सि (Poly Vinail  Chloride) फ्लक्स् फलकानि केरले निरुद्धानि। सर्वकारीय निजीयकार्यक्रमाः, धार्मिकाचाराः, चलच्चित्र-निर्वाचनादीनां प्रचारणं, इत्यादीनाम् उद्घोषणाय फ्लक्स् इत्यस्य उपयोगः मुद्रणं  च निरुद्धम्। तत्स्थाने तान्तव-कागद-'पोलि एत्लिन्' इत्यादि पुनश्चंक्रमणक्षमाणां वस्तूनामुपयोगः कार्यः। विरुद्धप्रवर्तकानां द्रव्यदण्डः विहितः।

Monday, September 2, 2019

चन्द्रयानम् २,  'लान्टर' इत्यस्य अद्य विशेषबन्धच्छेदःI
     बंङ्गलूरु > भारतस्य अनुसन्धान-पेटकं चन्द्रयानम्-२ चन्दस्य समीपं प्रदक्षिणं करोति। रविवासरे सायं ६:२१ वादने विशेषयन्त्रम् उपयुज्य पथः क्रमीकृतः। चन्द्रपथ प्राप्त्यनन्तरं  पेटकस्य पञ्चमं पथसन्तरणं भवति इदम्। अनन्तर दौत्यः चन्द्रोपरितलप्राप्त्यर्थम् रोवरस्य अवतारणाय अवतारणयन्त्रस्य पेटकबन्धच्छेदः एव। सोमवासरे मध्याह्ने१२:३५ - १:४५ वादनस्य मध्ये 'लान्टर'स्य बन्धच्छेदः भविष्यति। शनिवासरे  उषसि १:३०- २:३० वादने चन्द्रस्य गर्तप्रदेशे मृदुलावतरणविद्यया लान्टरं अवतारयिष्यति।

Sunday, September 1, 2019

भारतस्य रूप्यकपत्रस्य २००० इत्यस्य निलीनप्रवेश: - प्रभवकेन्द्रं पाकिस्थानः। 
    नवदिल्ली> भारतस्य २००० इति रूप्यकपत्रस्य   व्याजपत्राणि पाकिस्थानीयेन भीकरदलेन निर्मितानि। सुरक्षानुबन्धतया कृतान्वेषणे विशेषान्वेणसंघेन पाकिस्थानस्य बन्धः प्रत्यभिज्ञातः। डि सि पि प्रमोद सिंह कुश्वन्तस्य नेतृत्वे विद्यमानेन अन्वेणसंघेन  पाकिस्थानीय चारसंघस्य ऐ एस् ऐ इत्यस्य प्रधानप्रतिनिधिः दिल्लीस्थ नेहृपालस् इत्यस्य समीपतः  गृहीतः। अज्ञावासिनः अधोलोकप्रवर्तकस्य महापातकिनः च दावूद् इब्राहिमस्य 'D' इति उद्योगसंस्थायाः प्रतिनिधिः भवति अस्लम् अन्सारिः। अस्य पार्श्वतः ५.०५ लक्षं रूप्यकाणां मूल्यभूतं २००० रूप्यकस्य व्याज रूप्यकपत्राणि बलेन गृहीतानि। भारतात् पलायितः दावूद् इब्राहिमः तस्य 'D' इति संस्था च भवतः व्याज रूप्‌यकपत्र-वितरणे ऐ एस् ऐ इत्यस्य प्रधानमध्यवर्तितिनौ।  'D' इत्यस्य केन्द्रकार्यालयः पाकिस्थाने कराची नगरे एव वर्तते।