OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 31, 2017

भारतस्य प्रत्याक्रमणानि साधारण जनान् उद्दिश्य न
        नव दिल्ली> काश्मीरस्य नियन्त्रण-रेखायां सङ्घर्र्षः वर्धिते सति भारत-पाकिस्तानयोः DGMO इति सैनिक पदयोः विराजमानयोः अधिकारिणोः मिथः मेलनम् अभवत्। भारतस्य सेनानिर्देशकः लफ्टनन्ट् जनरल् (D GMO) ए के भट् एव पाकिस्तानस्य निर्देशकेन सह भाषणमकरोत्। पाकिस्थानस्य पक्षतः कोपप्रेरणा भविष्यति चेत् शक्तया रीत्या प्रत्याक्रमणं भविष्यति इति भट्टः चर्चायाम् अवदत्। नियन्त्रणरेखायाम् भारतेन कोपप्रेरणां विना गोलिका प्रहरः क्रियते इति पाकिस्थानस्य दुरारोपणं भट्टेन निरस्थम्। पाकिस्थानस्य साहाय्येन भीकरैः क्रियमाणः लूण्डनप्रवेशस्य रोधनमेव क्रियते भारतेन इत्यपि सः प्रत्युत्तरमदात्। सामान्यजनान्‌ लक्षीकृत्य कदापि नासीत् भारतस्य प्रत्याक्रमणम् इति च सः अवदत्।
भूटान-नरेशस्य चतुर्दिवसीयभारतयात्रा
             नवदिल्ली >भूटाननरेश: जिग्‍मेखेसरनामग्‍यालवांगचुक: चतुर्दिवसीयभारतयात्रायै अद्य राजधान्यां नवदिल्ल्याम् आयाति । भारतप्रवासावधौ श्रीवांगचुक: राष्‍ट्रपतिप्रधानमन्त्रिभ्यां सह सम्भाषणं करिष्यति । प्रधानमन्त्रिणा नरेन्द्रमोदिना भूटाननरेशस्य सम्‍माने रात्रिभोजस्यायोजनं विधास्यते। उपराष्‍ट्रपति: वेंकैयानायडु: विदेशमंत्री सुषमास्‍वराज: अन्यमंत्रिणश्च श्रीवांगचुकेन सह मेलनं करिष्यन्ति। पक्षद्वयस्य परस्परसहयोगस्य विविधप्रकरणानां प्रगते: समीक्षा अपि सम्भाव्यते।
ब्रह्मपुत्रां लक्ष्यीकृत्य चैना। जलमाहर्तुं बृहत् 'टणल्' सज्जीकुर्वन्ति।
      नवदेहली> दोक् ला संघर्षस्स पुरतः ब्रह्मपुत्रानद्याः जलं चैनायाः षिड्जियाड् क्षेत्रे नेतुं प्रयत्नः प्रचलति। सहस्र कि. मी दूरेण टणल् निर्मीय जलं स्वीकर्तुमेव लक्ष्यम्। न्यूनेन व्ययेन चैनया टणल् निर्मीयते इति माध्यमेन संस्तूयते। यून्नान् क्षेत्रे ६०० कि.मी दूरेण टणलस्य निर्माणं चैनया आगस्त्मासे एव आरब्धा। नवीनेन पद्धत्या षिड्चियाड् क्षेत्रं कालिफोर्णिया सदृशं परिवर्तयति इति चैनया उक्तम्। ब्रह्मपुत्रानद्याः जलस्वीकरणं चैना जनानां पुरतः कदापि चर्चां अकरोत्। एषा प्रक्रिया बंग्लादेश् राष्ट्रं बाधते।
          चैना इण्डिया बंग्लादेश् इति त्रिषु राष्ट्रेषु प्रवहती बृहती नदी भवति ब्रह्मपुत्रा। चैनायां यार्लुड् टिसाड्पो इति बंग्लादेश् राष्ट्रे जमुना इति इण्डियायां ब्रह्मपुत्रा इति एषा नदी कथ्यते। बंग्लादेश् राष्ट्रे बंगाल् समुद्रे एषा पतति। विश्वस्य दीर्घतमासु नदीषु एका एषा।
निरुद्धानां मुद्रारूप्यकाणां गणना न परिसमाप्ता।
         नवदिल्ली > नरेन्द्रमोदिसर्वकारेण संवत्सरैकस्मात् पूर्वम् असाधूकृतानि यानि मुद्रारूप्यकाणि वित्तकोशान् प्रतिनिवर्तितानि, इतंःपर्यन्तं न गणनां पूर्तीकृतानीति भारतीय रिसर्व् बैङ्क् संस्थया उक्तम्। अतिनूतनसाङ्केतिकविद्यामुपयुज्य प्रवर्तमानेन मुद्रापत्रप्रमाणीकरणेन एव निरुद्धानि ५००, १००० रूप्यकाणां धनपत्राणां मूल्यनिर्णयः परिशोधना च क्रियते। परन्तु एषा प्रक्रिया इतःपर्यन्तं पूर्तीकृतेति रिसर्व बैङ्केनैव स्पष्टीकृतम्।
अग्निसायकानां निर्माणं अनुवर्तिष्यते - इरानस्य राष्ट्रपतिः रूहानि।
           दुबाय् > इरानस्य राष्ट्रपतिना 'हसन् रूहानि'ना उच्यते यत् अग्निसायकानां निर्माण-योजनायाः कदापि प्रतिनिवर्तिष्यते इति। इयं राष्ट्रान्तर-नियमानां लङ्धनं न अतः अग्निसायकानां निर्माणम् अनुवर्तितुमेव निश्चितः। अवश्यानुसारम् उपयोक्तुं विविध-गणस्थानि आयुधानि निर्मातुं प्रभवामः इति रूहानि दुबाय् देशे अवदत्।
यु एस् जनप्रतिनिधि-सभायाम् इरानम् उपरोद्धुमुद्दिश्य आयोजितायाः मतदान-प्रक्रियायाः पश्चात् एव इरानस्य प्रतिकरणम्।  सायक-निर्माणस्य कारणेन यु एस् राष्ट्रेण इरानस्य उपरि  स्वयमेव उपरोधितम् आसीत्। आणवायुध-वहनक्षमस्य सायकस्य निर्माणम् इरानस्य योजनायां नास्ति इति रूहानिना उक्तम्।

Monday, October 30, 2017

श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य श्रीप्रमुखस्वामीमहाराजद्वारस्य लोकार्पणविधिः
भारतवर्षः सन्तविभूतीनां जन्म-कर्मस्थानम्। विश्ववन्द्यप्रमुखस्वामिमहाराजो महाविभूतिस्वरूपः। तस्य जीवनं युगातीतगाथारूपम् आसीत्। यत्र तस्य नाम संयुज्यते तत् खलु दिव्यताभाजनं भवति नात्र शङ्कापङ्कलेशावकाशः। अधुनैव तादृशः प्रसङ्गः संस्कृतविश्वस्य गौरवप्रदः सञ्जातः। द्वादश-स्वयंभूज्योतिर्लिङ्गेष्वाद्यतमे सोमनाथमहादेवस्य प्रभासक्षेत्रे संस्थिते श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य प्राङ्गणे अत्यद्भूतं द्वारं बीएपीएसस्वामिनारायण-संस्थासौजन्येन विनिर्मापितम्। तस्य नाम श्रीप्रमुखस्वामिमहाराजद्वारम्। 51’ परिमितमुच्चैःस्थं 69’ परिमितं

Sunday, October 29, 2017

अण्डर् - १७ लोकचषकः - इङ्गलण्ट् दलस्य विजयभेरी। 
        कोल्कोत्ता > 'फिफा'याः ऊनसप्तदशवयस्कानां पादकन्दुकस्पर्धायाः अन्तिमे द्वन्द्वे इङ्लण्ट्दलस्य उज्वलविजयः। 'साल्ट् आन्ड लेक्' क्रीडाङ्गणे शनिवासरे संवृत्ते अन्तिमप्रतिद्वन्द्वे स्पेयिन् दलं द्वयं प्रति लक्ष्यकन्दुकपञ्चकेन पराजित्य आङ्गलेयकुमाराः किरीटं प्राप्तवनतः। अण्डर् १७ क्रीडायां तेषां प्रथमं किरीटं भवत्येतत्। 
    मत्सरस्य पूर्वार्धस्य अन्तिमं निमिषं यावत् स्पेयिन् दलं सेर्जियो गोमस् नामकेन क्रीडकद्वारा  एकपक्षीयेन लक्ष्यकन्दुकद्वयेन अग्रे आसीत्। इङ्ग्लण्ट क्रीडकस्य ब्रूस्टर् नामकस्य प्रतिलक्ष्यकन्दुकेन पूर्वार्धं समाप्तम्। इङ्ग्लण्ट् दलस्य  उत्साहभरितेन  प्रत्याक्रमणेनैव उत्तरार्धस्य प्रारम्भः। गोमसेन प्राप्तं लक्ष्यकन्दुकयुगलं निष्प्रभं कृत्वा पुनरपि चत्वारः लक्ष्यकन्दुकाश्च स्पेयिन् जाले पतिताः। गिब्स् वैट् [१], गूहि [१], फोडन् [२] इत्येते क्रीडकाः लक्ष्यकन्दुकान् प्राप्तवन्तः।
यन्त्रमनुष्याय सौदि अरेब्या-राष्ट्रे पौरत्वम् अदात्।
   रियादः> क्रित्रिम-बौद्धिक-शिल्प-विज्ञानम् उपयुज्य निर्मिताय सोफिया इति मानवविकार-विचारयुक्ताय यन्त्रमानवाय सौदि अरेब्य राष्ट्रेण पौरत्वं दत्तम्।  एषा यन्त्रविशेषा भाषणं कर्तुं प्रभवति तथापि स्वस्य विकार-विचारानपि प्रकाशयितुं शक्ता च भवति इयं सोफिया। विगते बुधवासरे एव पौरत्ववितरण प्रक्रिया आयोजिता। हान्सण् रोबोटिक् नामिका संस्थया एव सोफिया निर्मिता। 
  विश्वे प्रप्रथममेव यन्त्रमनुष्याय पौरत्व प्राप्ति:। अपूर्वमयेन अनेन अङ्गीकारेण स्वाभिमानेन विजृम्भते , पौरत्वं लब्धवती प्रथमयन्त्र विशेषः इति इतिहासप्रधानो भवति इति च यन्त्रकन्या सोफिया प्रत्युत्तरमदात् । मनुप्याणां कृते उत्तम जीवित-यापनाय अवश्यकानि कार्याणि दातुमेव स्वस्य निर्मित-बुद्धिः उपयोक्तुं उद्दिश्यते। लोकोयं श्रेष्ठस्थलवत् परिवर्तयितुं यावच्छक्यं तावत्  करिष्ये इति च सोफियया उक्तम्।

Saturday, October 28, 2017

नीतिपीठेषु जनानां विश्वासः नष्टो मा भूत् – राष्ट्रपतिः रामनाथ कोविन्दः।

         कोच्ची >नीति-न्याय-व्यवस्थायां जनानां विश्वासः अत्यधिकतया अस्ति। तस्य विश्वासस्य संरक्षणे दायित्वम् अभिभाषकनां एव भवति इति राष्ट्रपतिना रामनाथ कोविन्देन अभिभाषकाः प्रबोधिताः। एरणाकुलं जनपदे केरलीयोच्चन्यायालयस्य वज्रजयन्तीसमरोहस्य समापनाधिवेशनम् उद्घाटयन् भाषमाणः आसीत् महोदयः। सामान्यजनानां केवलं नीतिलाभेन किमपि प्रयोजनं नास्ति। जनानां कृते न्यायालयस्य आदेशाः मातृभाषायां लब्धुं व्यवस्थापि करणीया इत्यपि राष्ट्रपतिना प्रबोधिताः।
अज्ञातयानानां घट्टनेन मारिताः १७७८ -यानधावनं संख्याफ्लकं पिधाय।
         कोच्ची> केरळेषु भारवाहनानां घट्टनेन अष्टसप्तत्यधिक-सप्तदशजनाः (१७७८) मृताः। ( २००५ - २०१६ संवत्सरस्य गणनेयम् ) घट्टितेषुयानेषु ५७५७ यानानि अज्ञातानि। इदानीमपि राज्येषु पण्यसंवहन -यानानि पञ्चीकरण-संख्यां पिधाय वा रहितेन वा निर्बाधं गच्छन्ति। घट्टितानि यानानि स्थगनं विना गच्छन्ति तर्हि  तेषां पञ्चीकरण-संख्यां द्रष्टुं सन्दर्भः नास्ति। निरीक्षण-चित्रग्राह्यामपि एतेषां चित्रं सुव्यक्ततया न लभते। पृष्टतः संख्याफलकं नास्ति इत्यनेनैव अवस्था रूक्षा एवI एतदधिकृत्‍य संवत्सरात्पूर्वं 'सम्प्रतिवार्ताया' आवेदितः आसीत्। छात्राणां वार्ताप्रसारण-कार्यक्रमे सप्रमाणं वार्ता संप्रेषिता आसीत्। पालक्काट् - कोच्ची राष्ट्रियमार्गे घण्डाभ्यन्तरेण शताधिकानि भारयानानि यान्ति। वाहन-नियमानुसारं दण्डार्हः दोषः भवति। किन्तु एतस्य पालनाय किमपि अत्र न प्रवर्तते।

अज्ञातयानानां घट्टनेन सञ्जातः अपघाताः
वत्सरः  अपघाताः     मृताः    क्षतजाः
2016    201       86      164
2015    433       106     392
2014    529       151     499
2013    263       128     130
2012    207       91       115
2011    303       152     158
2010    339       163     190
2009    308       135     196
2008    326       156     187
2007    1015     238     862
2006    934       195     802
2005    1100     177     737
केरळम् विविधमण्डलेषु आदर्शभूतं राज्यमिति राष्ट्रपतिः। 
       अनन्तपुरी > आतिथ्यव्यवहारः, स्वास्थ्यमण्डलं, विनोदसञ्चारः, बोधनकलाविज्ञानं (Information Technology, इत्यादिषु मण्डलेषु राज्यान्तराणाम् आदर्शभूतं राज्यं भवति केरलमिति राष्ट्रपतिः राम् नाथ् गोविन्दः प्रकीर्तितवान्। ह्यः केरलं प्राप्तः सः पल्लिप्पुरं प्रदेशे आयोज्यमानायाः 'टेक्नो सिटि' परियोजनायाः प्रथमसर्वकारभवनसमुच्चयस्य शिलास्थापनं कुर्वन् भाषमाणः आसीत्। केरलं 'डिजिटल् भारतस्य' शक्तिस्रोतः (Power House) अभवत्। राष्ट्रे भूयिष्ठं जङ्गमदूरवाणीव्यापनभूतं राज्यमस्ति केरलम्। राष्ट्रपतिना उक्तम्। 
    राज्यपालः पि सदाशिवम् अध्यक्षपदमलंकृतवान्। मुख्यमन्त्री पिणरायि विजयः , मन्त्री कटकंपल्ली सुरेन्द्रः आदयः प्रमुखाः सन्निहिताः आसन्।

Friday, October 27, 2017

सयामीस् युग्मापत्ययोः शस्त्रचिकित्सायां विजयः 
        नव दिल्ली > दिल्लीस्थ AIMS चिकित्सालये युगलजौ सफलतया विभक्तौ। एतयोः मस्तकस्य उपरिभागे आसीत् युगलत्वम् । त्रिंशत् भिषग्भिः अष्टादश-होरापर्यन्तं कृतायाः दीर्घायाः शल्यक्रियायाः फलस्वरुपौ भवति एतौ शिशू। क्रित्रिम-श्वसनदायक-यन्त्रस्य साहाय्येन एव श्वासोच्छ्वासं कुरुतः। द्विसप्तति होरानन्तरमेव उज्जीवन-स्थितिमधिकृत्य किमपि वक्तुं शक्यते इति वदन्ति भिषजाः।
ओडीषा राष्ट्रस्य कन्दमाली देशस्थौ पुष्पाञ्जली-कन्हार दम्पत्ययोः अपत्यौ भवतः एताै जगन्नाथ-बलरामौ। एयिम्स् चिकित्सालयस्य नाडीचिकित्सा-विभागाध्यक्षस्य महावैद्यस्य अशोक् कुमार् महापात्रावर्यस्य नेतृत्वे आसीत् शल्यक्रिया। 
ऐतयोः चिकित्सार्थं ओडीषा राज्यसर्वकारेण कोटिरूप्यकाणां साहाय्यं दत्तमासीत्। त्रिंशत् लक्षं जननेषु अन्यतमः भवति एतादृशः। साधारणतया जननात्परं प्रतिशतं पञ्चाशात्  शिशवः मृत्युं यान्ति। प्रतिशतं पञ्चविंशतीनामेव चिकित्सार्थं सन्दर्भः लभते च ।
राष्ट्रपतिः अद्य केरलं प्राप्नोति। 
             अनन्तपुरी > द्विदिनात्मकसन्दर्शनाय भारतराष्ट्रपतिः रामनाथकोविन्दः अद्य केरलराजधानीम् अनन्तपुरीं प्राप्नोति। शुक्रवासरे शनिवासरे च विविधानां परियोजनानाम् उद्घाटनानि करिष्यति। अपराह्ने २.५० वादने तिरुवनन्तपुरं प्राप्यमाणः राष्ट्रपतिः , ३.३०वादने पल्लिप्पुरं प्रदेशस्थायाः 'टेक्नो सिटि' योजनायाः उद्घाटनं करिष्यति। राज्यपालः पि सदाशिवं, मुख्यमन्त्री पिणरायि विजयः इत्यादयः कार्यक्रमे भागभागं करिष्यन्ति। अद्य सायं षड्वादने अनन्तपुर्यां नगरसभायाः नेतृत्वे पौरस्वीकरणम् आयोज्यमाणमस्ति। 
      शनिवासरे प्रभाते ९.३०वादने कोच्चीं प्राप्यमाणः राष्ट्रपतिः उच्चन्यायालयस्य 'वज्रजूबिली' आघोषाणां समापनसम्मेलनस्य उद्घाटनं करिष्यति। अनन्तरं १२.३०वादने दिल्लीं प्रतिनिवर्तते च।
स्पेयिन् - इङ्लण्ट् अन्तिमस्पर्धा। 

                 मुम्बई/कोल्कत्ता > ऊनसप्तदशवयस्कानां [अण्डर् - १७] भुवनचषकपादकन्दुकस्पर्धायाः अन्तिमस्पर्धा स्पेयिन्-इङ्लण्ट् दलयोर्मध्ये भविष्यति। कोल्कत्तायां 'साल्ट् लेक्' क्रीडाङ्कणे संवृत्ते एकस्मिन् उपान्त्यमत्सरे इङ्गण्ट् दलेन एकं प्रति त्रयः लक्ष्यकन्दुकक्रमेण ब्रसील् दलं पराजितम्। मुम्बय्यां डि वै पाटील् क्रीडाण्कणे प्रचलिते अन्यस्मिन् प्रतिद्वन्द्वे आफ्रिक्कन् पादकन्दुकस्य वीरतां प्रकटिवन्तं मलि दलं ३-१इति लक्ष्यकन्दुकक्रमेण पराजित्य स्पेयिन् दलं अन्त्यचक्रं प्रविष्टवत्।
चैनाया: भीषा; नाविकसेनया अधिकमहानौका: विमानानि च विन्यस्यन्ते।। 
     नवदिल्ली> चैनाया: भीषां प्रतिरोद्धुं राष्ट्रसुरक्षां शक्तीकर्तुं च नाविकसेनाया: नवीनतन्त्रम्। नाविकसेनया एतदर्थम् अधिकमहानौका: विमानानि च विन्यस्यन्ते। भारतमहासमुद्रे चैनामहानौकानां सान्निद्ध्यं वर्धमानं निरीक्षते। मईमासात् चैनाया: द्वादशाधिकमहानौका: मज्जननौका: नशीकरण्य: रहस्यनौकाश्च भारतसमुद्रे सन्ति। समुद्रचोरान् प्रतिरोद्धुमेव एतदिति चैनाया: विशदीकरणम्।  चैनाया: प्रतिरोधं रोद्धुं अधिकतया पञ्चदशमहानौका: पेर्ष्यन् समुद्रे  वङ्गसमुद्रे  मलाक्का समुद्रभागे च विन्यस्यन्ते। एतदतिरिच्य विमानानि अपि एता: मेखला: प्रति प्राप्तिसौकर्याय विन्यस्यन्ते सेनया।
माध्यमाधिकारिणाम् सुरक्षां दृढीकर्तुम् अधिकारिणां कृते निर्देशः ।

       नव दहली > माध्यमाधिकारिणां वार्तहराणाम् च सुरक्षितत्वम् प्राधान्येन अनुवर्तितुं केन्द्रअभ्यन्तरमन्त्रालयेन निर्दिष्ट: । तत्  तत् प्रान्ताधिकारिभ्यः निर्देशो अयम् प्रदत्तः । गैरीलेङ्केषस्य (कर्णाटके) राजेष् मिश्रमहोदयस्य (उत्तर प्रदेशे) तथा दहल्यां माध्यम कार्यकर्तृणां मातुः, तृपुरायाम्  शन्तनुभौमिक्कस्य च निधनकारणात्‌ अधुना अयं निर्देशः I
  प्रजातन्त्र-व्यवस्थायामस्याम् माध्यमस्य प्राधान्यमस्ति। अस्य संविधानस्य  आधारस्थम्भः भवति माध्यमम् । तस्य पालनं शासनसंविधान-घटनाबद्धमस्ति। निर्वहणम् अनिवार्यं च । माध्यम-कार्यकर्तृणाम् संरक्षणम् जागरूकतया सर्वकारः कुर्यात् इति केन्द्रनिर्देश: I

Thursday, October 26, 2017

'भारतमाला' योजना - ५०० जनपदान् बद्ध्नाति। मार्गदैर्घ्यः कोच्ची पर्यन्तम्।
          नावदिल्ली> आराष्ट्रं पञ्चशतं जनपदान् मिथः संबन्द्ध्य भारतमाला नामिका योजना प्रावर्तयते। अनया योजनया नूतन-मार्गनिर्माणमेव उद्दिश्यते।  पञ्चसंवत्सराभ्यन्तरे पूर्तीकृतेभ्यः पन्थानः प्रथमे श्रेण्यां  अष्टशताधिक चतुर्विंशतिसहस्र कि मी परिमितं दूरं (२४८००) निर्मीयते। योजनायाः कृते पञ्च-त्रिंशद्सहस्रोत्तर-पञ्चकोटि रुप्यकाणि व्ययीक्रियते इति गतागतमन्त्रिणा नितिन् गड्करि महोदयेन वार्तामेलने उक्तम्। योजनायाः भागतया चतुश्चत्वारिंशत् (४४) साम्पदिकोपकक्षायां मुम्बै-कोच्ची, तूत्तुक्कुटी-कोच्ची च अन्तर्भवति। राष्ट्रे मार्गाः राष्ट्रियमार्गाः सेतवः च अनया योजनया निर्मीयन्ते। साम्पदिकोपकक्षा, कोङ्कणमार्गाः, समीपराष्ट्रं प्रति संबन्धाय मार्गाः सीमा प्रदेश मार्गाः च, अतिवेग मार्गाः च  भारतमालायोजगायाम् अन्तर्भवन्ति।
गुजरात्त् विधानसभानिर्वाचनम् दिसम्बर् ९ दिने 
                नवदिल्ली>निर्वाचनायेगेन गुजरातविधानसभाया: द्वयाशीत्युत्तरैकशतम् आसनानां कृते मतदानतिथि: समुद्घोषिता। प्रथमचरणेे दिसमम्बरमासस्य नवमे दिने द्वितीयचरणे च दिसम्बरस्य चतुर्दशे दिने मतदानम् आयोजयिष्यते । मुख्‍यनिर्वाचनयुक्‍त: ए.के. जोती: प्रावोचत् यत् प्रथमचरणे नवाशीति: द्वितीयचरणे च त्रिनवतिस्थासनेभ्य: मतदानं भविष्यति । प्रथमचरणाय नवम्बरमासस्य चतुर्दशदिनांके द्वितीयचरणाय विंशतिदिनाङ्के अधिसूचना प्रख्यापयिष्ते । मतगणना हिमांचलगुजरातयो: सहैव दिसम्बरमासस्याष्टादशदिनाङ्के भविष्यति।
भूकम्पप्रवचनाय कृत्रिमबौद्धिकसंविधानम् ।ब्रिस्टण् केम्ब्रिज् विश्वविद्यालयौ विजयं प्रातवन्तौ। 
               लण्टन् > भूचलनस्य पूर्वसूचनां दातुं कृत्रिमबौद्धिकयन्त्रसंविधानैः शास्त्रज्ञाः। अमेरिक्का-राष्ट्रस्य बोस्टण् विश्वविद्यालयः, ब्रिट्टनस्य केम्ब्रिज् विश्वविद्यालयः इत्येतयोः शास्त्रज्ञाः दुरन्तनिवारणमण्डले सुप्रधानम् अभीक्षणं कृतवन्तः।
    भूचलनानानां तेषां पूर्वं जायमानानां प्रकम्पनानां मिथः बन्धं ससूक्ष्मं  निरीक्ष्य एव अस्य यन्त्रविशेषस्य प्रवर्तनं विदधत्ते।  भूचलनं बहुवारं जायमानान् प्रदेशान् सूक्ष्मतया निरीक्षितुमपि अनेन संविधानेन शक्यते। परीक्षणशालायां भूचलनप्रकम्पाः कृत्रिमत्वेन संसृष्ट्य आसीत् परीक्षणानि । भूचलनवेलायां सविशेषतया जायमानानाः शब्दाश्च अनेन सविशेषयन्त्रेण प्रत्यभिज्ञाताः।

Wednesday, October 25, 2017

म्यान्मर् राष्ट्रस्य कृते दीयमानं सैनिकसाहाय्यं स्थगयति।
              वाषिङ्टण् > रोहिन्ग्यन् वंशीयानां उपरि अनुवर्त्यमाने वंशीयातिक्रमे विप्रतिपत्या म्यान्मर् राष्ट्रायदीयमानं सैनिकसाहाय्यं स्थगयतुम् विचार्यते यू एस् राष्ट्रेणI  म्यान्मर् सैनिकनेतारं विरुध्य क्रियाविधयः इतोऽपि अधिकतया भविष्यन्ति इति यू एस् स्टेट् विभागस्य प्रवक्ता हेतर् नौवर्ट् उक्तवान्। इमं विषयमधिकृत्य सख्यदलेन साकं विचिन्तनमकरोत् इति च सः अवदत्। म्यान्मर् देशे जनाधिपत्य-संरक्षणमुद्दिश्य क्रियमाणाय प्रवर्तनाय साह्यम् अनुवर्तते। तद्वत् रोहिन्ग्यस्य माहम्मदीयानाम् उपरि क्रियमाणाः राखैन् राज्यस्य प्रतिसन्धीः परिहर्तुं प्रचाल्यमानाय प्रयत्नाय साह्यः भविष्यति। पलायितानां सुरक्षितरीत्या स्वदेशप्राप्त्यर्थं  सैविध्यं कल्पनीयम्। अभयार्थिनां कृते विना विलम्बं साहाय्यं करणीयमिति च यू एस् राष्ट्रण म्यान्मरः अभ्यर्थितः।
सिरियन् नगरे ऐ एस् भीकराः ११६ जनान् गणहत्यामकुर्वन्। 
        बय्रूत् > सिरियन् बलेन निश्चितपराजयाः 'इस्लामिक् स्टेट्' भीकराः मध्यसिरियस्थात् 'अल् खर्यातन्' नगरात् पलायनात् पूर्वं ११६ तद्देशवासिजनान् व्यापादितवन्तः। सैनिकानां कृते चारवृत्तिं कृत्वा सूचनाः दत्तवन्तः इत्यारोप्य आसीदयं प्रतीकारव्यवहारः इति सिरियन् मानवाधिकारनिरीक्षणसङ्घस्य नेता रमि अब्दल् रह्मानः अब्रवीत्। 
      विंशतिः दिनैः एव एतत्संख्याकाः जनाः व्यापादिताः। गोलिकाशस्त्रेण कण्ठच्छेदनेन च हननं कृतम्।

Tuesday, October 24, 2017

श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य श्रीप्रमुखस्वामीमहाराजद्वारस्य लोकार्पणविधिः
                भारतवर्षः सन्तविभूतीनां जन्म-कर्मस्थानम्। विश्ववन्द्यप्रमुखस्वामिमहाराजो
महाविभूतिस्वरूपः। तस्य जीवनं युगातीतगाथारूपम् आसीत्। यत्र तस्य नाम संयुज्यते तत् खलु दिव्यताभाजनं भवति नात्र शङ्कापङ्कलेशावकाशः। अधुनैव तादृशः प्रसङ्गः संस्कृतविश्वस्य गौरवप्रदः सञ्जातः। द्वादश-स्वयंभूज्योतिर्लिङ्गेष्वाद्यतमे सोमनाथमहादेवस्य प्रभासक्षेत्रे संस्थिते श्रीसोमनाथसंस्कृतविश्वविद्यालयस्य प्राङ्गणे अत्यद्भूतं द्वारं बीएपीएसस्वामिनारायण-संस्थासौजन्येन विनिर्मापितम्। तस्य नाम श्रीप्रमुखस्वामिमहाराजद्वारम्। 51’ परिमितमुच्चैःस्थं 69’ परिमितं लम्बायमानं 16’ स्थवीयो द्वारमिदम्। एतदेव तस्य भव्यतायाः साक्षि। यस्मिन् क्षीरार्णवशिल्पशास्त्रानुसारं नैकविधाः सरस्वतीनां सर्वेषां दर्शनानां कलानाञ्च प्रतिनिधिरूपाः कालिदास-वेदव्यास-पाणिनि-पतञ्जल्याद्यानां मूर्तयः जीवत्कल्पाः शोभन्ते। तस्य लोकार्पणं 6-10-2017 पुण्याहे सम्पन्नम् । तत्काले वर्तमानकुलपतिश्री-अर्कनाथचौधरीमहोदयेन व्याहृतं यदेतादृशं महाद्वारं मया विलोकितेषु 200 संङ्ख्याकविश्वविद्यालयेषु कुत्रापि नैव दृष्टिगोचरम्।
अस्मिन् ऐतिहासिकावसरे बीएपीएस संस्थायाः वरिष्ठसद्गुरुश्रीडॉक्टरस्वामिनः (स्वामिस्वयं- प्रकाशदासाः), संस्थाया अन्ताराष्ट्रियसंयोजका ईश्वरचरणदासस्वामिनः, प्रमुखस्वामिमहाराजेन सह चत्वारिंशदिधकवर्षपर्यन्तं भ्रमणकर्तारः स्वामिविवेकसागरदासस्वामिनः राज्यस्तरीय-नागरिकोड्डयनमन्त्रिवर्या जशाभाईबारडमहोदयाः महापौराः जगदीशभाईफोफंडीमहोदयाः अन्ये च समाहर्त्रादयाः महानुभावाः सम्मिलिताः।
प्रमुखस्वामिमहाराजस्य वर्तमानानुगामिमहन्तस्वामिमहाराजेन लन्दननगरात् वीडीओमाध्यमेन स्वाशिर्वचांसि व्याहरन् सम्भाषितं यत् –‘अस्माद् द्वाराद् यः कोपि गमनागमनं विधास्यति तस्यान्तःकरणशुद्धिः सम्प्त्स्यते।’ कार्यक्रमारम्भे आर्षशोधसंस्थाननिदेशकेन संस्कृतस्य महत्त्वं तथा स्वामिनारायणसंस्थायाः एतद्विश्वविद्यालयेन सहारम्भकालात् सम्बन्धो निरूपितः। कुलपति-महोदयेन भारतीयसंस्कृतिः संस्कृतसम्भृता इत्येतत् प्रत्यपादि। विवकसागरस्वामिभिः संस्कृत-संस्कृति-सन्त इत्येतेषां त्रयाणां महत्तां व्याहृत्य प्रमुखस्वामिमहाराजेन विहिता तेषामभिवृद्धिः सम्यक् परिवेषिता। ईश्वरचरणस्वामिभिः पूर्वगुरूणां संस्कृतानुरागं प्रतिपाद्य वर्तमानकाले प्रमुखस्वामिमहाराजेन लिखापितानि भद्रेशदासस्वामिविरचितप्रस्थानत्रयीभाष्याणि सगौरवं समुल्लेखितानि। मध्ये छत्रपतिशिवाजीमहाराजस्य सफलताया रहस्यरूपाया गुरुनिष्ठायाः तथा स्वधर्मनिष्ठायाः प्रतिपादकं नाटकं तथा संस्कृत-संस्कृतिसन्तमहिमवृद्धिप्रदं नृत्यं बालयुवाभिः निदर्शितम् । 2000 संख्याकाः जना गौरवमये कार्यक्रमेस्मिन् सम्मिलिताः। स्थानीयवर्तमानपत्रैः द्वितीयदिने अस्याः प्रसिद्धिर्मुद्रापिता।
जयतु संस्कृतम्, जयतु भारतम्, जयतु स्वामिनारायणः
कोङ्कण-रयिल् पथेषु  ७५०० कोटि रुप्यकाणां विकास-पद्धतिः।
       मुम्बै>सामान्य सौविध्य-विकासाय कोङ्गणरयिल् विभागेन पञ्च शताधिक -सप्तसहस्रं कोटि रूप्यकाणि व्ययीकुर्वन्ति।  अङ्गत्वरूपेण तथा ऋणरूपेण च लभ्यमानं धनम् उपयुज्य विविधानां  रयिल् निस्थानांनां प्रगत्यर्थं  रयिल् पथवर्धापनं निस्थानस्य सौविध्यकरणं च क्रियते इति रेल् पथ विभागस्य प्रवक्ता एल् के वर्म अवदत्।
       विविधेषु निस्थानेषु पट्टिका-शकटाय अतितारण-सौविध्यं करणीयम् । कोङ्गण रेल् विभागस्य अंशमूलधनम् ८०६.४७ कोटि संख्यातः ४००० कोटि पर्यन्तं उन्नेतुमपि अङ्गीकारः लब्धः अस्ति। रोह-वीर् विभागे रेल्पथस्य द्विगुणीकरणाय वैद्युतीकरणाय यानवर्धनाय च रेल्वे निगमाङ्गागानां समितेः अङ्गीकारः लब्धः लब्धः अस्ति।
भूमौ ११० कोटि अज्ञातमनुष्याः वसन्ति।
                वाषिड्डण्> सड्केतं विना भूमौ ११० कोटि मानवाः वसन्ति। तेषु अधिकाः आफ्रिक्कायां एषियायां च सन्ति इति विश्व आर्थिकालयस्य ऐटटण्ट्फ्क्केषन् फोर टेवलप्मेण्ट् संस्थया व्यक्तीक्रियते। 
 तेषु पादभागः राजनैतिक अस्थिरता यत्र वर्तते तत्रत्याः बालकाः सन्ति। तेषां जननस्य पञ्चीकरणमपि न भवति। तेन  शिक्षा आरोग्यसुरक्षा इत्यादीनां निषेधः भवति इति कार्यक्रमस्य निदेशकेन वैजयन्तीदेशायिना उक्तम्।

Monday, October 23, 2017

अप्रत्यक्षानां भारतीयानां विषये आशङ्क्यते। बन्धुजनानां DNA  सञ्चिन्वते।
               चिण्डिगढ् > इराखराष्ट्रस्थे मोसूल् नगरात् अप्रत्यक्षानां एकोन चत्वारिंशत्  भारतीयानां विषये इतःपर्यन्तम् किमपि अभिज्ञानं न लब्धम् ।  एतेषां बन्धुजनानां DNA प्रतिरूपग्रहणाय निश्चितः। एतदर्थं बान्धवाः आमन्त्रिताः च। किन्तु केन कारणेन प्रतिरुपग्रहणं क्रियते इति न प्रकाशितम्।

               २०१४ संवत्सरे मोसूल् नगरं IS भीकर दलानां अधीनतायाम् अभवत्। ततः आरभ्य एतेषां एकोनचत्वारिंशत् जनानां अप्रत्यक्षता अभवत्। यत्र कुत्रापि एते सजीवाः स्युः इति विश्वस्य बान्धवाः इतःपर्यन्तं कालयापनं कृतवतः | पञ्चाब् देशतः एव भूरिजनाः अप्रत्यक्षाः अभवन्। अमृतसर् जनपदस्थाः बान्धवाः सर्वकारस्य चिकित्साकलालयं प्राप्य DNA प्रतिरूपं दातुमेव निर्दिष्टाः। अद्य प्रतिरूप-सञ्चयनं भविष्यति।

               ऐ एस् भीकरदलात् जूलैमासे इराखस्य सेनया मोसूल् नगरं स्वाधीनतां कृतम् । तस्मिन् सन्दर्भे तेषां तिरोधानमधिकृत्य विशदांशाः लप्स्यते इति चिन्तितवन्तः आसन्। किन्तु ऐ एस् भीकराणां कारागृहात् रक्षां प्राप्य आगतः एकः अन्ये सर्वे मारिताः इति उक्तवान्। किन्तु वार्तामिमां स्थिरीकर्तुं प्रमाणानि न सन्ति इति विदेशकार्य-मन्त्रिणी सुषमास्वराज-महाभागा अवदत्।
एष्याचषकहोक्की - किरीटं भारताय। 
         धाक्का > एष्यन् मण्डल यष्टिकन्दुकस्पर्धायां भारतदलाय किरीटप्राप्तिः। दशसंवत्सराणां विरामवेलायाः अनन्तरमेव भारतस्य किरीटप्राप्तिः। रविवासरे प्रवृत्तायामन्तिमस्पर्धायां भारतम् एकं प्रति लक्ष्यकन्दुकद्वयेन मलेष्यां पराजितवत्। 
      रमण् दीप् सिंहः, ललित् उपाध्यायः इत्येतौ भारताय लक्ष्यकन्दुकमाप्तवन्तौ। २००३ तथा २००७ संवत्सरे च भारतेन इतः पूर्वम्  एष्याचषकं प्राप्तम्।

Sunday, October 22, 2017

भारतीयस्य तिरोधानान्वेषणप्रसङ्गे  अपहृता पाक्-माध्यमप्रवर्तका अधिगता। 
                    लाहोर् > पञ्चसंवत्सरेभ्यः पूर्वं पाकिस्थाने अप्रत्यक्षं भारतीयमधिकृत्य अन्वेषणप्रसङ्गे अज्ञातैरपहृता पाकिस्थानीया वार्तामाध्यमप्रवर्तका सीनत् षह्सादिया नामिका वर्षद्वयानन्तरम् अधिगता । 'डय्ली नयी खबर्', 'मेट्रो न्यूस् टि वि' इत्येतयोः वार्तामाध्यमयोः लेखिका भूयमाना सीनत् वर्या, पाकिस्थान् अफ्गानिस्थान् सीमायां बन्धनस्था आसीदिति Enforced Disappearance Commission संस्थायाः अध्यक्षः जावेद् इक्बाल् निगदितवान्। कयाचित् देशविरुद्धसंस्थया एव सा अपहृतेति तेनोक्तम्। 
     २०१५ ओगस्ट् मासे स्वगृहात् कार्यालयं प्रति गमनमार्गे लाहोरतः आसीत् सीनत् षह्सादिया अपहृता। पाकिस्थाने तिरोभूतस्य भारतीययन्त्रकलाभिज्ञस्य हमीद् अन्सारि नामकस्य तिरोधानमधिकृत्य अन्वेषणमध्ये आसीदियं घटना। तिरोधानमन्वेष्व्यम् इति पाक् सर्वोच्चनीतिपीठस्य मानवाधिकारविभागे अन्सारिणः मात्रे फौसियायै सीनत् वर्यया अभियाचिका समर्पिता आसीत्। तदनन्तरमेव सा अपहृता।

Saturday, October 21, 2017

धूमयानेषु ओषजनसंभरणी स्थापनीया। 
              नवदेहली > सर्वेषु पट्टिकायानेषु ओषजनसंभरणीः  स्थापयितुं सर्वोच्चन्यायालयनिर्देशः I मुख्यन्यायाधीशस्य दीपक्मिश्रमहोदयस्य अध्यक्षत्वेन निश्चितेन संघेनैव एषः निर्देश: प्रस्तुतः आसीत्|  धूमयानेषु यात्रिकाणामकस्माद्रोगे जाते सति सपदि दीयमानां वैद्यसेवाम् अधिकृत्‍य AlMS वैद्यैः सह चर्चित्वा यथोचितकरणाय रेलविभागं न्यायालयः आदिशत् ।
धूमयानेषु आपातकालीनचिकित्सासुविधामाविष्कर्तुम् यद्यपि अयतन्त तथापि पूर्णरूपेण विजयं नालभन्त इति रेलविभागः न्यायालयम् उदबोधयत् । यानस्य कम्पनं, वेगता, शब्दः च अत्र विघ्नकारकाः आसन् । सर्वेषु यानेषु वैद्यनियोगः असाध्यः इति च रेलविभाग: न्यायालयम् उदबोधयत् ।
अस्मिन्नेव सन्दर्भे श्वासोच्छ्वासविघ्न इव आपत्कालीनसन्दर्भेषु उपयोक्तुं सर्वेषु धूमयानेषु ओषजनसंभरणीः स्थापयितुं न्यायालयः निर्दिशति स्म। यात्रिकाणां रोगबाधायां रेलविभागकर्मकराः आकस्मिकरोगावस्थां समीपस्थनिस्थानकाधिकरिणः विज्ञापयेयुः। अविलम्बेन चिकित्सालाभः कर्तव्य: च इति न्यायालयः अवदत् ।
प्रोफ.तुरवूर् विश्वंभरः दिवंगतः। 
                कोच्ची > प्रशस्तः वाग्मी तथा च  संस्कृतपण्डितः प्रोफ. तुरवूर् विश्वंभरः (७४) दिवंगतः। अर्बुदरोगबाधया कोच्चीस्थे निजीयातुरालये चिकित्सार्थं प्रवेशितः आसीत्। 
              भारतीयतत्वशास्त्रेषु वेदेतिहासपुराणादिषु अगाधपाण्डित्यमार्जितः सः एतेषां ग्रन्थानां ललितैः व्याख्यानैः केरलीयानां मध्ये श्रद्धेयः अभवत्।  कला-साहित्य-संस्कृति-तत्त्वचिन्तादिषु अनेकानि लेखनानि अनेन प्रकाशितानि सन्ति। मलयालं, संस्कृतं, आङ्गलेयभाषासु पाण्डित्यमवाप्तवान् सः ग्रीक् लाटिन् भाषयोरपि विज्ञः आसीत्।

Friday, October 20, 2017

एष्याचषकहोक्की - भारतम् अतिश्रेष्ठचतुष्टयव्भागे प्राप्तम्। 
              धाक्का > बङ्गलादेशे प्रवृत्तमानायाम् एष्याचषकयष्टिकन्दुकक्रीडायां भारतेन अतिश्रेष्ठचतुष्टविभागं (Super-4 round) प्राप्तम्। गतदिने संवृत्ते मत्सरे मलेष्याराष्ट्रं द्वयं प्रति षट् लक्ष्यकन्दुकानां विजयेनैव एतच्छ्रेष्ठपदं प्राप्तम्। 
              आकाश् दीपसिंहः , हर्मनप्रीत् सिंहः, एस् के उत्तप्पा, गुर्जन्त् सिंहः, एस् वि सुनिल्, सर्दार् सिंहः इत्येते भारताय लक्ष्यकन्दुकान् समार्जितवन्तः।
सुप्रधानां साङ्केतिक-विद्यां भारत-नाविकसेनायै दातुं यु एस् सन्नद्धः।
              वाषिङ्टण् >  विमानवाहिनी नौकासु उपयुज्यमाना 'इमाल्स्' नाम विद्युत्कान्तिक विद्या भारतनाविकसेनायै दातुं निश्चितम् इति यू एस् शासनसभया उक्तम्। यु एस् स्टेट् सेक्रट्टरि टिलेर्सणस्य भारतसन्दर्शनात् पूर्वप्रकरणरूपेण भवति अयं निश्चयः।
             इमाल्स् विद्यायाः हस्तान्तरीकरणम् अभिलष्य भारतेन भूतपूर्वराष्ट्रपतये ओबामावर्याय पत्रं प्रेषितम्। 'जनरल् आटोमिक् संस्थ'या रचिता इमाल्स् विद्या अधुनापि अमेरिकायाः विमानवाहिनीषु उपयुज्यते। विद्युत्कान्तिक-शक्तिमुपयुज्य विमानवाहिन्याः लघुधावन-पथादपि बृहदाकारकं युद्ध -विमानान्यपि विनाक्लेशं उड्डाययितुं शक्यते।  प्रावर्तयितुं सौविध्यम् , अनुरक्षणाय न्यूनव्ययः च अस्याः विशेषतासु प्रधाने भवतः। विनाविलम्बं नवदिल्यां कार्यालयः उद्घाटयिष्यति तदर्थं योजना प्रचाल्यते इति जनरल् आटोमिक् संस्थ'या उक्तम्।

Thursday, October 19, 2017

कोच्चीमध्ये अन्ताराष्ट्रीया आयुर्वेदसङ्गोष्ठी प्रदर्शनं च सञ्चाल्यते। 
                कोच्ची > केरलस्य आयुर्वेदमण्डलं लोकराष्ट्राणां पुरतः अवतारयितुं २०१८ फेब्रुवरिमासे अन्ताराष्ट्रसङ्गोष्ठी आयुर्वेदप्रदर्शनं च आयोजयिष्यतीति केरलस्य स्वास्थ्यमन्त्रिणी के के शैलजा अब्रवीत्। कोच्चीनगरे राष्ट्रियायुर्वेददिनाचरणस्य राज्यस्तरीयोद्घाटनं कुर्वन् भाषमाणा आसीत् सा। चतुर्दिवसीयसङ्गोष्ठी भविष्यति। 
                आयुर्वेदगवेषणं, चिकित्सा, रोगप्रतिरोधः, औषधनिर्माणं, औषधसस्यकृषिः, आयुर्वेदाध्ययनम् इत्यादिषु आयुवेदमण्डलेषु विदग्धाः च सङ्गोष्ठ्यां भागभागित्वं करिष्यन्ति।
रक्षासमित्यां स्थिराङ्गत्वम्; निर्णायकौ चैना रष्या च - यू एस्।। 
    वाषिङ्टण्> ऐक्यराष्ट्रसभाया: रक्षासमित्यां भारतं स्थिराङ्गं भवति इत्येतत् वीटो अधिकारस्य नोपयोगीकरणेन सह सम्बद्ध्येति यू एन्नस्य अमेरिकाप्रतिनिधि: नीकि हालि। वीटो अङ्गीकारयुते चैनां रष्यां च परामृश्य एव भारतस्य चिरकालावश्यम् पुरस्कृत्य नीकि प्रतिकरणम् अदात्। वाषिङ्टणे यू एस् - भारतसौहृदसमित्या आयोजिते कार्यक्रमे भाषमाण: आसीत् नीकि। रक्षासमित्या: प्रस्तुतघटनाम् परिष्कर्तुं विभिन्नमनोभावम् प्रदर्शयत: एते राष्ट्रे। वीटो अधिकारमुल्लङ्घ्य एव तिष्ठति ऐक्यराष्ट्ररक्षासमिति:।यू एस् ,यू के , फ्रान्स्, रष्या,चैना एतेषां स्थिराङ्गानां राष्ट्राणमेव वीटो अधिकार:। किन्तु अधिकारमेतम् उपेक्षितुं अङ्गानि सम्मतिं न दत्तवन्त:। रक्षासमितिविपुलीकरणाय अमरीका अनुकूला। किन्तु यू एस् कोण्ग्रस् मध्ये अधिकतया वक्तुं किमपि नास्तीत्यपि हालि: उक्तवान्।

Wednesday, October 18, 2017

निर्दिष्टगुणाभावः छात्राभावः - ८०० यन्त्रवैज्ञानिक-कलालयाः पिधास्यते ।
              बंगळूरु> आगामि शैक्षिकसंवत्सरे राष्ट्रे आहत्य अष्टशतम् (८००) यन्त्रवैज्ञानिक-कलालयाः पिधातुं राष्ट्रिय वैज्ञानिक-शैक्षिकायोगेन (AICTE) निर्दिष्टः। छात्राभावः, शिक्षायै मूल्यराहित्यम् च कारणत्वेन वदति। आयोगस्य अङ्कुशादेशः नियमावली च पालयितुम् असमर्थाः कलालयाधिकारिणः स्वयमेव पिधानं कुर्वन्ति च । ईदृशकारणेन पञ्चाशदधिकशतम् कला शालाः प्रतिसंवत्सरं पिधानं कुर्वन्तीति  आयोगाध्यक्षः अनिल् दत्तात्रेयसहस्रबुद्धे महोदयेन उक्तम्।

   अवशयसुविधा नास्ति, पञ्च वर्षाणि यावत् प्रतिशतं ३० छात्रान् अलभमानाः कलाशालाः पिधानं करणीयम् इत्येव आदेशः। २०१५-२०१७ संवत्सरेषु ४१० कलाशालाः पिधातुम् अनुज्ञा दत्ता आसीत् । पानठ्यप्रणाल्याः नूतनत्वं नास्तीति छात्राभावस्य कारणंम् इति मन्यते। शिक्षकेभ्यः परिशीलनं दत्वा गुणवर्धनं कर्तुं क्रिया विधयः स्वीकर्तुं आयोगेन निश्चितम् च।
मलिनीकरणस्य  उत्तुङ्गश्रृङ्गे दिल्ली।
           नवदिल्ली > अन्तरीक्ष-मलिनीकरणेन अतिगुरुतरायां विषमयायाम् अवस्थायां पतित्‍वा दिल्लीदेशः। द्रुतपरिहाराय सर्वकारः कटीबद्धाः अभवत्। दिनाभ्यन्तरेण यानानां स्थगननिस्थान-शुल्कः चतुर्गुणितः वर्धापयिष्यते। हेमन्तकालस्य मलिनी करणानुसारं क्रियाविधयः स्वीकर्तुं 'ग्रेडड् आक्षन् प्लान् स्थिरीकृता अस्ति।  इदानीं डीसल् वैद्युतोत्पादन यन्त्रम् निरुद्धम्।  बदर् पुरस्थ ताप वैद्युतनिलयः पिधानं कृतम्।  वायुशुद्धतायाः मानं दृष्टवा एव मलिनीकरणनियन्त्रणाधिकार संस्थया (EPCA) निर्णयः स्वीकृतः।  इतः आपद्करावस्थायां वायुः भविष्यति चेत् कार् यानस्यापि गृहात् बहिरानेतुं नियन्त्रणं भविष्यति। अस्मिन्नभ्यन्तरे शब्द-मलिनीकरणमपि न्यूनीकर्तुं क्रियाविधयः आरब्धः।  राज्यान्तर बस् याननिस्थानेषु होण् शब्दमुद्पादकेभ्यः पुलुत कूकू    रवेन यात्रिकान् आहूतेभ्यः यानस्य प्रबन्धकानां च ५००, १०० च दण्डयितुं निश्चितम्। एतदर्थम् आदेशः दिल्ली गतागतविभागेन (DTIDC) विज्ञापितः।
केरले राज्यतलविद्यालयीयकायिकमेला शुक्रवासरे आरभ्यते। 
           कोट्टयम् > केरलस्य एकषष्टितमा  राज्यतलविद्यालयीयकामेला शुक्रवासरे कोट्टयं जनपदे पालानगरे आरभ्यते। कायिकताराणां विभागनिर्णये समग्रं परिष्करणं अस्मात्संवत्सरादारभ्य प्रवृत्तम्। 
    पूर्वसंवत्सरेषु वयः अध्ययनस्तरश्च 'सीनियर्', 'जूनियर', 'सब्जूनियर्' विभागानां मानदण्डः आसीत्। परन्तु अस्मात्संवत्सरादारभ्य पूर्वोक्तविभागेषु केवलं वयः एव मानदण्डः कृतः। उपजिल्लातलादारभ्य परिष्कृतमानदण्डमनुसृत्य एवासीत् स्पर्धाः चालिताः। कायिकाध्यापकानां बहुकालं यावत् निवेदनमनुसृत्यैव इदं परिवर्तनम्।

Tuesday, October 17, 2017

मण्डलकालसिद्धताववोकनाय केरलमुख्यमन्त्री शबरिगिरिं प्राप्तवान्। 
शबरिगिरिः > मासैकानन्तरम् आरभ्यमाणस्य शबरिगिरितीर्थाटनस्य सिद्धताम् अवलोकयितुं केरलस्य मुख्यमन्त्री पिणरायी विजयः ह्यः रात्रौ सन्निधानं प्राप्तवान्। रात्रौ अष्टवादने पम्पां प्राप्तं मुख्यमन्त्रिणं देवस्वं मन्त्री कटकंपिल्ली सुरेन्द्रः, देवस्वं समित्यध्यक्षः प्रयार् गोपालकृष्णः इत्यादयः स्वीकृतवन्तः। अतिथिमन्दिरे किञ्चित्कालविश्रान्त्यनन्तरं 'स्वामि अय्यप्पन्' मार्गेण पद्भ्यामेव तस्य प्रथमं शबरिगिर्यारोहणं कृतवान्। एकादशवादने सन्निधानं प्राप्तः च।
     अद्य सम्पद्यमाने उपवेशने मन्त्रिणः उद्योगस्थाश्च मुख्यमन्त्रिणं प्रति तीर्थाटनकालसिद्धताः विशदीकरिष्यन्ति। तदनन्तरं सन्निधाने पम्पायां च आयोज्यमानानां विविधानां योजनानां आधारशिलास्थापनं निर्माणप्रवर्तनोद्घाटनं च मुख्यमन्त्री निर्वक्ष्यति।
बगलूरु नगरे मन्दिरं विच्छिन्नं भूत्वा षट् जनाः मृताः।

               बगलूरु>बगलूरु नगरे एल् पी जी ग्यास् स्फोटनेन द्वि स्तर मन्दिरं विच्छिन्नं जातम्। अद्य प्रातःसप्तवादने  दुर्घटना जाता।  मृतेषु द्वौ जनौ प्रत्यभिज्ञातौ। उपरि स्तरवासिनौ कलावतीं (६८) रविचन्द्रं(३०) च प्रत्यभिज्ञातौ। तेषां परिवारे द्वौ बालकौ क्षतैः सह रक्षां प्राप्तवन्तौ। अधस्तराः परिवाराः मन्दिरावशिष्टेषु भवन्तीति दुर्घटना क्षेत्रस्य सन्दर्शनं कृत्वा कर्णाटका गृहमन्त्रिणा रामलिंगरेट्टिना उक्तम्।

 मृतानां परिवाराय पञ्चलक्षं रूप्यकं आर्थिकसाहाय्यं दास्यतीति नगरविकासमन्त्रिणा के जे जोर्ज् म.होदयेन उक्तम्। क्षतबाधितानां कृते पञ्चाशत् सहस्ररूप्यकाणि च दास्यति। अन्येषां कृते अन्वेषणं प्रचलति। क्षतबाधिताः समीपस्थं आतुरालयं प्रविष्टाः।

Monday, October 16, 2017

सोमालियायां भीकराक्रमणं – मरणानि २३० जातानि।             
              मोगदिषु > सोमालियाराष्ट्रस्य राजधान्यां 'मोगदिषु' नामके नगरे दुरापादिते  विस्फोटने मृत्युमुपगतानां संख्या २३० जाता। ३०० तः अधिकाः जनाः व्रणिताः च। विस्फोटनाक्रमणस्य सूत्रधारित्वं अल् खायिदा संबन्धितायाः 'अल् षबाब्' नामिकायाः भीकरसंस्थायाः इति सोमालियन् सर्वकारेण आरोपितम्। किन्तु आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। नगरस्थं जनसम्मर्द्दभूतं आवाससमुच्चयं लक्ष्यीकृत्य आसीत् विस्फोटनम्। विस्फोटकवस्तुसम्पूर्णं ट्रक् यानं विस्फोटितमासीत्।
    सोमालियायां समीपकाले प्रवृत्तेषु स्फोटनेषु बृहत्तमं भवत्येतदिति अघिकृतैरुक्तम्। सर्वकारेण त्रिदिवसीयं औद्योगिकं दुःखाचरणं प्रख्यापितम्।
फिल्मनिर्माता लेखकटण्डन: पञ्चताङ्गत: 
             मुम्बै>फिल्मनिर्माता लेखकटण्डन: गतदिने मुम्बय्याम् अनारोग्यतावशात् पञ्चत्वे निलीन: । अष्टाशीतिवर्षीय: टण़्न: विगतपञ्चमासात् अस्वस्थ: आसीत् । तेन शारदा-प्रोफेसर-आम्रपाली-दुल्हन वही जो पिया मन भाये सदृशानां चलच्चित्राणां निर्देशनं कृतमासीत् । लेखकटण्डनेन " दिलदरिया अथ च फरमान" सन्निभा: प्रसारणधारावाहिका: अपि निर्मिता: आसन् । तस्यान्तिमसंस्कार: अद्य पवई क्षेत्रे सम्भविष्यति ।
स्वास्थ्यहानिकराणि ६००० औषधानि निरोधितानि।
         कोच्ची > कासः, ज्वरः मधुमेहः इत्यादीनां विविधानां रोगाणां चिकित्सार्थं सामान्यजनैः उपयुज्यमानानि षट्सहस्रं (६०००) औषधानि केन्द्र-स्वास्थ्य-मन्त्रालयेन निरुद्धानि। एतेषु चतु श्चत्वारिंशदधिक चतुस्सहस्रं (४४४) औषधसंयुक्तानि च अन्तर्भवन्ति। एतानि सम्युक्तानि उपयुज्य नूतनाया औषधनिर्माणं विक्रयणं च इतः परं न शक्यते। विगते वर्षे मार्च् मासस्य निरोधननान्तरं निरोधनं विरुध्य विविध उच्चन्यायालयेषु प्रचालिताः न्यायव्यवहाराः सर्वोच्च न्यायालयेन निवारिताः। अत एव पुनरपि औषध-नियन्त्रक-विभागस्य अन्तर्जाल पुटे विज्ञप्तिः प्रकाशिता अस्ति।

                 स्वास्थ्य-दोषकररीत्या एव निर्मातारः औषधनिर्माणं कुर्वन्ति इति एतदधिकृत्या अध्ययनं कृतवता समित्या  निरीक्षितम्। मधुमेहशान्तये उपयुज्यमानानि संयुक्तत्रयेण संकलितानि औषधानि स्वास्थ्यस्य दोषाय भवन्ति। उचन्यायालयस्य  'नियन्त्रण-निवारण'कालाभ्यन्तरेण  औषधानि सुलभाया विक्रीतानि इति अस्मिन् मण्डलस्थाः केचन प्रवर्तकाः वदन्ति।

Sunday, October 15, 2017

 छत्तीसगढराज्ये माओवादिभिरात्मसमर्पणं कृतम् 
छत्तीसगढ़े बस्तरसम्भागस्य नारायणपुरजनपदे नव माओवादिभि: आत्मसमर्पणं कृतम्। तैः निजायुधयानि  वरिष्ठाधिकारिभ्यः समर्पितानि ।एते माओवादिनः "प्रतिबन्धितस्य जनमिलिशियागुल्मस्य सदस्याः आसन्। सैन्याधिकारिभिः उक्तं यत् आत्मसमर्पणं कृतवद्भ्य: माओवादिभ्यः राज्यप्रशासनस्य पुनर्वासनीतेः अनुसारमावश्यकं सहाय्यं दीयते।
वेङ्ङरायां के एन् ए खादरः विजयीभूतः। 
वेङ्ङ्ररा > केरले वेङ्ङरा राज्यविधानसभायां प्रवृत्ते उपनिर्वाचने ऐक्यजनाधिपत्यदलस्य [यू डि एफ्] स्थानाशी के एन् ए खादरः विजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षदलस्य [एल् डि एफ्] स्थानाशिनः पि पि बषीरात् २३३१० मताधिक्येन एव खादरस्य विजयः। मुस्लिम्लीग् दलस्य स्थानाशिनि के एन् ए खादरे ६५,२२७ मतदानानि प्राप्ते सति सि पि एम् दलस्य पि पि बषीरः ४१,९१७ मतदानानि प्राप्तवान्।  
   भा ज पा दलस्य के जनचन्द्रः ५७२८ मतानि प्राप्य चतुर्थस्थानमवाप्तवान्। तृतीयस्थानं एस् डि पि ऐ दलस्य के सि नसीरेण प्राप्तम्।
 हिमाचलप्रदेशविधानसभानिर्वाचनानि 
हिमाचलप्रदेश-विधानसभानिर्वाचनेभ्य: प्रत्याशिनाम् निर्णयाय भारतीयजनतापार्टीति दलस्य केन्द्रीय-निर्वाचनसमितेरुपवेशनं नवदिल्‍ल्यां दलस्य मुख्‍यालये समनुष्ठितम् । प्रधानमन्त्री नरेन्द्रमोदी दलाध्‍यक्ष: अमितशाह: केन्द्रीयमन्त्रिद्वयं जगतप्रकाशनड्डा अनन्तकुमारश्च उपवेशने भगग्रहणं कृतवन्त:। अष्टषष्टि:  सदस्‍यान्वितायै हिमाचलप्रदेशविधानसभायै नवम्बरमासस्य नवमे दिनाङ्के एकस्मिन् चरणे मतदानं भविष्यति  ।
गौरी लङ्केशहत्या – अपराधिनां रेखाचित्राणि बहिर्नीतानि। 
                 बङ्गलुरू > पत्रिकाप्रवर्तकायाः गौरी लङ्केशवर्यायाः हननविषये अपराधिन इति मन्वमानानां त्रयाणां रेखाचित्राणि अन्वेषणसङ्घेन बहिर्नीतानि। हत्यायाः  चत्वारिशत् दिनानाम् अनन्तरमेव चित्राणि प्रसिद्धीकृतानि। 
                 एतैः सह अपराधिषु अन्यतमः केनचन रक्तवर्णाङ्कितबैक्यानेन राजराजेश्वरीनगरस्थं गौरीलङ्केशस्य गृहं प्रति आगमनस्य चलनदृश्यमपि वार्तामाध्यमेभ्यः दत्तम्। अपराधिनाम् अभिग्रहणविषये सामान्यजनानां सम्पूर्णसहयोगः आवश्यक इति अन्वेषणसङ्घनेत्रा बि के सिंहवर्येण उक्तम्। 
    अक्रमिणः गौरीलङ्केशस्य भवनसमीपम् उषित्वा हननासूत्रणं कृतमिति मन्यते। किन्तु अपराधिनः अभिग्रहीतुं पर्याप्ताः सूचनाः न लब्धाः।

Saturday, October 14, 2017

एष्यन् क्रीडाचषकाय भारतेन योग्यता अवाप्ता। 
बङ्गुलुरु > भारतस्य पादकन्दुकमण्डलस्य पुरोगतिं सूचयन् ए एफ् सि एष्यन् चषकस्पर्धायाम् अर्हतां प्राप्तवत्। कण्ठीरवक्रीडाङ्कणे संवृत्तायां प्रतियोगितायां मक्कावु दलं एकं प्रति चत्वारः लक्ष्यकन्दुकाः प्राप्य एव भारतस्य अर्हतां प्राप्तवत्। ।

Friday, October 13, 2017

अमेरिकाराष्ट्रं युनस्को (UNESCO) नाम संयुक्त राष्ट्रसंस्थातः बहिर्गच्छति।
                   युनस्को ( United Nations Educational scientific and cultural organisations) नाम संस्थातः प्रतिनिवर्तितुं निरचिनोत्‌। इस्रायेल् राष्ट्रं विरुद्ध्य युनस्को तिष्टति इति उक्त्वा एव संस्थातः निर्गमनम्। यु एस् विदेश कार्यमन्त्रालयः एव  वार्तामिमां प्राकाशयत्‌। युनस्को संस्थां प्रति दीयमानम् आर्थिकसाहाय्यम् एकादशाधिक द्विसहस्रतमात् (२०११) संवत्सरादारभ्य अमेरिकया निवारितम्। पालस्तीनस्य  अनुकूलतया सदस्यराजैः अभिमत प्रदर्शनानन्तरमेव आसीत् एवं निर्णयः स्वीकृतः । इस्रयेल् नेतारं विरुद्ध्य सम्युक्तेङ्गितपत्रसमर्पणानन्तरं युनस्को समितिभ्यः इस्रयेलः स्वयं परित्यज्य बहिर्गतः आसीत्। युनस्कोसमित्याम् पालस्तीनस्य अङ्गत्वलब्ध्यनन्तरं सञ्जातः अमेरिकायाः  रोषः एव संवत्सरानन्तरं समितेः परित्यागपर्यन्तं प्रापयत्। इस्रयेलस्य विप्रतिपत्तिं विगणय्य आसीत् पालस्तीनस्य युनस्को प्रवेशः।

यु.एस् राष्ट्रेण द्वयोः बोम्बर् विमानयोः निरीक्षणकरोत्। 
                  वाषिङ्टण्> यु एस् व्योमसेनायाः बि १ बि बोम्बर विमानानि कोरिय सीमाप्रान्ते दृष्टानि। पश्चात् ते जप्पान् दक्षिण कोरिय व्योमसैनिकैः सह परिशीलनमपि अकुर्वन् ।
                  एतदभ्यन्तरे डोणाल्ड् ड्रम्पः उन्नत-सैनिकोपदेशकैः सह चर्चाम् अकरोत्।  वैटट्हौस् कार्यालये प्रवृत्तायाम्  चर्चायां  प्रतिरोध-कार्यदर्शी जयिंस् माट्टीसः, संयुक्त सैनिकाध्यक्षः डण्फास्ट च आसन् । फब्रुवरी अनन्तरं २२ मिसैल्स उत्तर कोरियदेशेन परीक्षितम्। दौ ज़प्पानस्य परिधाै आसीत् । अत्र हैट्रजन् विस्फोटकम् अपि अन्तर्भवति । ६ वारम् परीक्षणमासीत् । एते सर्वे विषया: ट्रम्पमहाशयस्य सान्निध्ये चर्चामकुर्वन् ।

Thursday, October 12, 2017

विदेशेषु भारतीयानां विजस्य कारणम् 
लघुतरा शिखावृद्धिः - वि के सिंहः।
               मुम्बै> विदेशराष्ट्रेषु कर्मकुर्वन्तं भारतीयानां विजयः तत्र ऋणधनस्य न्यूनतरा शिखावृद्धिः भवति इत्यनेनैव इति भारतविदेशकार्यसहमन्त्री वि के सिंहः अवदत्। मुद्रा ( Micro Units Development and Refinance Agency )  नाम योजनायाः अनुबन्धेन आयोजितायां आर्थिक संरम्भकानां मेलने भाषमाणः आसीत् सः। विदेशस्थाः भारतीयाः उत्तमरीत्या प्रयत्नं कुर्वन्तः सन्ति। एतस्य कारणं ललितमेव। तेषां आशयान् अवकाशान् च फलवद्रूपेण चालयितुं पर्याप्तं आर्थिक साहाय्यं ततः लभते। शिखावृद्धिरपि न्यूना भवति इत्यपि सिंहेन प्रोक्तम्।

दुबाय् 'समर्थः' भविष्यति असमर्थाः बहिर्गन्तव्यम्।

             दुबाय् > दुबयदेशस्य सर्वकारसेवनानि सर्वाणि अत्याधुनिके संविधाने परिवर्तते इत्यस्मात् संगणकापणनि सर्वाणि कीलितानि भविष्यन्ति इत्याशाङ्का I नवम्बरमासादारभ्य गृह - कौटम्बिक विसा आपि ऑणलैन मार्गेण भविष्यति ।
            विश्वस्य 'स्मार्ट्' नगररूपेण दुबाय् नगरस्य परिवर्तनाय तीव्रयत्नः प्रचलति। अतः एषा आशङका अस्थाने न स्यात्। किन्तु बहूनां सामान्य कर्मकराणां तु  उद्योगनष्ट-विषये महती आशङ्का।
पूर्वं एमिरेट्स् अभिज्ञानपत्राणां स्वास्थ्यक्षमतापत्राणां च आवेदनपत्रग्रहणम् बृहत् सङ्गणकापणं प्रति परिवर्तितमासीत्I बृहदापणाय १५०० पादपरिमिता विस्तृता भूमिः आवश्यकी इत्यस्ति मानदण्डः। एषः नियमः अपि उद्योगनष्टाय भविष्यति। भारतीयाः बहवः तत्र कर्मकराः भवन्ति च।
आर्थिकमान्द्यम् अङ्गीकृत्य उपदेशकसमितिश्च। 
               नवदिल्ली > भारतम् आर्थिकमान्द्यग्रहणे इत्यङ्गीकृत्य प्रधानमन्त्रिणः आर्थिकोपदेशकार्यसमितिः। बुधवासरे सम्पन्ने उपदेशकसमित्याः प्रथमे उपवेशने एवायं निर्णयः जातः। आर्थिकमण्डलमभिवर्धयितुं दश मण्डलानि निर्णीतानीति उपदेशकसमित्यध्यक्षः बिबेक् देब्रोयी वर्यः वार्ताहरसम्मेलने अब्रवीत्।
भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयः।
               नवदेहली> भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयनाय गह्वराणि निर्मीयन्ते इति संस्तुतिः। दिल्लीतः ७५० कि.मी दूरे मियान्वाली मध्ये पाक्किस्थानेन गह्वराणि निर्मीयन्ते। अमृतसरतः मियान्वाली पर्यन्तं केवलं ३५० कि. मी दूरमेव वर्तते। 
 मियान्वाली मध्ये १४० अणुशस्त्राणि सञ्चयितुमस्ति पाक्किस्थानस्य पद्धतिः। तदर्थं दशमीट्टर उन्नतानि तथा दशमीट्टर विस्तृतानि च गह्वराणि पाक्किस्थानेन निर्मीयन्ते । एतानि बृहद्भिः वीथीभिः सुघटितानि सन्ति। 
                 प्रति गह्वरस्स विशेषतया द्वाराणि सन्ति। प्रतिगह्वरे द्वादशतः चतुर्विंशतिपर्यन्तं शस्त्राणि सञ्चयितुं शक्यते इति अस्ति रहस्या वार्ता।

Wednesday, October 11, 2017

उत्तरकोरियराष्ट्रस्य अन्तर्जालचोरेण दक्षिणकोरियस्य युद्धतन्त्राणि चोरितानि।
           सोल्> दक्षिण कोरिय राष्ट्रस्य तन्त्रप्रधान - युद्धतन्त्राणि उत्तरकोरिय राष्ट्रेण चोरितानि । तेषां प्रतिरोध श्रृङ्खलां प्रविश्य एवम् अकरोत्। सेप्तमबर् मासे दक्षिण-कोरिय-देशस्य जालपुटं प्रविश्य एवं चोरणम् अकरोत् इति। तस्य राष्ट्रस्य डमोक्राट्टिक् संस्थायाः नेता री चोल् हि अकथयत्। 235 जिगाबैट् परिमिताः सञ्चिकाः तैः  अपहृता। ताः सञ्चिकाः ओपरेषन् प्लान्  5015 इति नाम्ना सूचिताः भवन्ति।  कोरियराष्ट्रयोः मध्ये युद्धं भविष्यति तर्हि कथं कार्याणि अग्रे नेतव्यम् उत्तरकोरियस्य अध्यक्षं केन प्रकारेण मारणीयमिति पद्धत्यां विशदयति।
गुर्जरे महाराष्ट्रे हिमाचले च इन्धनकरः न्यूनीकृतः।
                      अहम्मदाबादः>  शिलातैलानां करः न्यूनीकरणीयम् इति केन्द्र सर्वकास्य निर्देशानुसारं गुर्जरः महाराष्ट्रं हिमाचलप्रदेशः च करः न्यूनीकृतः। करस्य न्यूनीकरणे गुर्जरः प्रथमतया निश्चितवान् I  महाराष्ट्रराज्येन सह हिमाचलप्रदेशः च करन्यूनीकरणे केन्द्रसर्वकारस्य निर्देशां पालितवान्। करन्यूनीकरणेन राज्यसर्वकारस्य 2,316 कोटि रुप्यकाणां अयनष्टः भविष्यति इति मुख्यमन्त्रिणा विजयरूपाण्या उक्तम्। महाराष्ट्र राज्यस्य आये तु 2,600 कोटि रुप्यकाणां नष्टः भविष्यति इति मुख्यमन्त्रिणा देवेन्द्रफट्नाविसा उक्तम्।
शिलातैल मूल्यम् - गुर्जरे
 पेट्रोल् लिट्टर्-  2.93 , डीसल् 2.72
द्वितीय ट्वण्टी २० आस्ट्रेलिया राष्ट्रस्य अष्ट विक्कट् विजयम्। हेण्टिक्वसाय अर्धशतम्।
             गुहावत्ती>भारत आस्ट्रेलिया द्वितीय ट्वण्टी २० स्पर्धायां भारतं प्रति आस्ट्रेलिया राष्ट्रस्य अष्ट विक्कट् विजयम्। विजयप्रतीक्षायां क्रीडितस्य आस्ट्रेलियायाः केवलं आरोण् फिञ्जस्य तथा डेविड् वार्णस्य च विक्कट् नष्टौ जातौ। ६२ धावनेन सह मोयिसस् हेण्डिक्वस् तथा ४८ धावनेन सह ड्राविस् हेड् च आस्ट्रेलियां विजयं नीतवन्तौ। द्वौ मिलित्वा १५.३ ओवर मध्ये विजयं प्राप्तवन्तौ।
  पूर्वं भारतस्य क्रीडा ११८ धावने समापितमासीत्। भारत बाट्टिड् श्रेण्यां केदार जादव्, एम् एस् धोणी, हार्दिक् पाण्ड्या, कुल्दीप् यादव् इत्येते अड्कद्वयं प्राप्तवन्तः।
वेङ्ङरायाम् अद्य उपनिर्वाचनम्। 
मलप्पुरम् > केरले वेङ्ङरा विधानसभामण्डले अद्य उपनिर्वाचनं भविष्यति। त्रयः मुख्यधारादलस्थानाशिनः अभिव्याप्य षट् स्थानाशिनः प्रतियोगितामण्डले जनमतं अभिवाञ्छन्तः सन्ति। 
     के एन् ए खादरः [यूडिएफ्], पि पि बषीरः [एल् डि एफ्], के जनचन्द्रः [भाजपा] इत्येते प्रमुखदलस्थानाशिनः। वामदलसर्वकारस्य अधिकारप्राप्त्यनन्तरं प्रवृत्तमानं प्रथमम् उपनिर्वाचनं भवत्येतत्। तत्रत्यः सामाजिकः पि के कुञ्ञालिक्कुट्टिः लोकसभासामाजिकरूपेण चितः इत्यतः उपनिर्वाचनं सञ्जातम्।
गोध्रा गणहत्या - मृत्युदण्डं जीवपर्यन्तं कृतम्। 
अहम्मदाबाद् > गुजरातराज्ये गोध्रा गणहत्याप्रकरणे एकादशानाम् अपराधिनां मृत्युदण्डनविधिः उच्चन्यायालयेन जीवपर्यन्तरूपेण परिवर्तितः। २००२तमे संवत्सरे अयोध्यातः रेल् यानेन प्रतिनिवर्तितवन्तः कर्सेवकाः आक्रमणविधेयाः भूत्वा अग्निना दग्धाः इत्यस्मिन् प्रकरणे एवायं परिष्कृतविधिः। 
    २०१५ मेय्मासे एव वादप्रकरणः पूर्तीकृतः तथापि सार्धद्विसंवत्सरात्परमेव विधिः समागतः।

Tuesday, October 10, 2017

गोश्रीपुरे स्पानिष् 'गोल्' 
प्रथमपादे कन्दुकत्रयात् पुरतः।

कोच्ची> बार्सलोण आक्कादमीतः चत्वार: रयल् मड्रिड्तः पञ्च क्रीडकाः आसन् चेदपि प्रथमक्रीडायां विवर्णाः अभवन् स्पेयिन् देशस्थाः। मङ्गलवारस्य स्पर्धा तेषां भाविनिर्णयाय भविष्यति। अतः प़राजयः इति चिन्तयतुम् अशक्ताः ते। प्रथम क्रीडायाम् उत्तरकोरियां पराजित्य तिष्ठति नैजीरिय । तेषां कृते अपि भाविनिर्णयात्मकं भवति अनन्तरक्रीडा । स्पर्धा ब्रसीलेन सह इत्यनेन मङ्गलवासरस्य स्पर्धायां विजित्य पूर्वपादक्रीडायां स्थानप्राप्तिः एव तेषां लक्ष्यम्।
कोङ्गोदेशे भारतस्य शान्तिसेनायाः सैनिकस्थानं प्रति आक्रमणम्।
नवदेहली> ऐक्यराष्ट्र सभायाः शान्ति दौत्यस्य भागतया कोंको देशे सेवनं कुर्वाणः भारतीयानां प्रति गोलिका प्रहारः उत्तर किवु प्रविश्यायाः लुबोरोय् प्रदेशतः एव आक्रमणम्। विगते शुक्रवासरे एव घटना जाता। वार्ताविनिमय संस्थया ए एफ् पि एव वार्ता आवेदिता। द्वाै सैनिकाै व्रणितौI भारतसैन्यस्य प्रत्याक्रमणेन द्वौ आक्रमकारिणौ हतौ। ऐक्यराष्ट्रसंस्थायाः शान्तिदौत्यस्य अनुबन्धतया २६६४ भारतसैनिकाः कोङ्गोयां सन्ति। तद्देशीयसासुध-संघस्य मायिमायि नामकस्य उपत्रिंशत् अङ्गाः शान्तिसेनां विरुद्ध्य प्रक्रमे भागभाजः अभवन्।
अशान्तिबाधितमण्डलेषु सामान्यजनानां सुरक्षाकार्येषु, विरुद्ध दलानाम् उपरि प्रतिक्रियायै च साहाय्यः भारत सैनिकैः कोंगोदेशो क्रियते। कोंगोदेशास्य पूर्वदेशप्रविश्यायां सङ्घर्षः वर्धितः अस्ति।
 सुरक्षाबलेन जैश-ए-मोहम्‍मद इत्यातंकिगुल्मस्य प्रमुखः उमरखालिदः मारितः 
              बारमूला>जम्‍मूकश्‍मीरस्य बारामूला जनपदस्य लडूरा क्षेत्रे गतदिने सुरक्षाबलानां संयुक्तदलेन जैश-ए-मोहम्‍मद इत्यातंकिगुल्मस्य प्रमुखः उमरखालिदः मारितः । जम्‍मूकश्‍मीरस्य आरक्षिमहानिदेशकेन एस्.पी.वैद्येन आतंकवादिनः मृत्युः सुरक्षाबलानां साफल्यत्वेन वर्णितः। तेनोदीरितं यत् असौ कश्‍मीरस्य उत्तरक्षेत्रे सुुरक्षाबलानां स्थात्रेषु आक्रमणे अथ च आरक्षकेषु आक्रमणविधाने सम्मिलितः आसीत् ।
            अवधैयमस्ति यत् आतंकवादी उमरखालिदः पाकिस्तानीयः नागरिकः आसीत् विगत वर्षत्रयेभ्यः च तस्मिन् क्षेत्रे सक्रियः आसीत् ।

Monday, October 9, 2017

नमस्ते शब्दं पाठयित्वा चीनदेशस्य सैनिकानां सौहृदं सम्पादितवती निर्मला सीताराम महाभगा।
          डाङटोक्>चीनदेशास्य सैनिकानाम् पुरतः 'नमस्ते' उक्त्वा, तस्य शब्दस्य अर्थं  च पाठयित्वा प्रतिरोधमन्त्री निर्मला सीताराम: श्रद्धापात्रमभवत् । सिक्किम देशे भारत चैनयोः सीमा प्रदेशसन्दर्शनवेलायां चीनस्य सैनिकै: सह सम्भाषमाणा आसीत् सा।
          चीनस्य सैनिकानां समीपममागत्य यदा सम्भाषणम् अकरोत् तदा सा नमस्ते शब्दस्य व्युत्पत्तिमपि बोधितवती  (पाठितवती ) I  ते सैनिकाः निर्मलामहोदयया सह सौह्वद सम्भाषणमपि अकुर्वन् ।   नमस्ते शब्दस्य अर्थम् ज्ञापायित्वा समानः चीनभाषाशब्द: क: इत्यापि पृष्टवती महाभागा ।
        प्रतिरोधमन्त्रालयकार्यालयस्य ट्विट्टर द्वारा अस्य आशयसंवादस्य वार्ता प्रकाशिता ၊
अधीतविद्यालयाङ्कणात् मृत् स्वीकृत्य तिलकं धृत्वा मोदिन: गुजरात्तयात्रा।।
    वटनगरम्( गुजरात्)>जन्मदेशे गुजराते वटनगरे प्रधानमन्त्री भूत्वा प्रथमयात्रावेलायां नरेन्द्रमोदिन: उज्ज्वलस्वीकरणम्। अधीतविद्यालयाङ्कणं नत्वा तत: किञ्चित् मृत् स्वीकृत्य ललाटे तिलकं यदा धृतं तदा ग्रामीणा: आवेशभरिता: अभवन्। अहमदाबादत: शतम् कि मी दूरे, मोहसानामण्डले प्राचीन-बौद्धधर्मकेन्द्रत्वेन विराजिते वटनगरे विभिन्नविकसनायोजनानाम् उद्घाटनाय एव रविवासरे प्रात: प्रधानमन्त्री आगतवान्। गुञ्जा हेलिमैदानात् नगरम् प्रति षट् कि मी यात्रा एकघण्टादैर्घ्ययुता मार्गप्रदर्शनमेव अभवत्। गतनिर्वाचने नव आसन्देषु भा ज पाम् संग्राह्य त्रयस्त्रिंशत् आसन्दै: मण्डलग्रामसभाया: शासनम् कोण्ग्रसेन गृहीता मेहसाना पटेलसंवरणसमरस्य प्रधानकेन्द्रेषु एका। मोदिन: सन्दर्शनम् आगामि नियमसभानिर्वाचनं लक्ष्यीकृत्य प्रचारणत्वेन पर्यवर्तयत् भा ज पा नेतृभि:। मार्गपार्श्वेषु प्रधानमन्त्रिण: बाल्यकालं चित्रयन्ति बृहत् फलकानि, शतानां  जनानाम् पुष्पवृष्टि: 
बहुत्र वाहनं स्थगयित्वा प्रधानमन्त्री जनान् अभिवादयन्नासीत्। बाल्यकाले चायाविक्रीतम् रेल्स्थानकं तत्रत्यम् आपणञ्च कमनीयरीत्या अलङ्कृतवन्त:। पूर्वविद्यालयस्य बी एन् विद्यालयस्य पुरत: वाहनं स्थगयित्वा अटन् अङ्कणमेत्य स: आदरमर्पयत्। तत: नगरस्य पुरातनमन्दिरे हटकेश्वरमहादेवमन्दिरे च आरतिमर्पयत्। वयोवृद्धान् कुशलमपृच्छत्। "" अहम् किमपि अभवम् चेत् तत् एतस्मात् मृत: पठितपाठेभ्य: एव......"" समाजसम्मेलने स: अवदत्। जी एम् ई आर् एस् वैद्यकीयकलालयस्य पञ्चशतं कोटि रूप्यकव्ययेन निर्मितं नूतनभवनम् स: उद्घाटितवान्। केरलं तथा सप्तदशराज्येषु सम्पूर्णशिशुरोगप्रतिरोधकार्यक्रमस्य इन्द्रधनुष: राष्ट्रत लोद्था स: निरवहत्।।
धर्मपरे सौहार्दे केरलस्य पारम्पर्यः उज्वलः - राष्ट्रपतिः। 
कोल्लम् > धार्मिकं सौहार्दं केरलजनतायाः मध्ये दृढमिति राष्ट्रपतिः रामनाथकोविन्दः। केरलस्य तादृशः पारम्पर्यः उज्वल इति मातुः अमृतानन्दमयीदेव्याः ६४- तम जन्मदिनाघोषमनुबन्ध्य प्रारभ्यमाणानां त्रयाणां सेवायोजनानाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।
     भारतं प्रति आगतवन्तः क्रैस्तवाः प्रथमं केरले एव प्राप्ताः। प्रथमः इस्लामदेवालयः अपि केरले एव वर्तते। जूताः रोमन् देशीयाश्च केरलं प्राप्ताः। ते सर्वे अपि परस्परविश्वासेन सहवर्तित्वेन च अन्येषां धार्मिकव्यवस्थाम् आदृत्य उषितवन्तः च। राष्ट्रपतिः केरलस्य धार्मिकपारम्पर्यं प्रशंस्य उक्तवान्। 
     केरलस्य आध्यात्मिकपारम्पर्यमपि राष्ट्रपतेः प्रशंसायै पात्रीभूतमभवत्। श्रीशङ्करः, श्रीनारायणगुरुः, अय्यन्कालिः इत्यादयः आध्यात्मिकतया सह सामाजिकपरिष्करणाय अपि प्रयत्नं कृतवन्तः आसन्निति राष्ट्रपतिना उक्तम्।
१००कोटि रुप्यकाणां जीवामृतं योजना।
         करुनागप्पल्ली> जीवामृतम् योजना भारतस्य राष्ट्रपतिना रामनाथ कोविन्देन भारतग्रामेभ्यः स्मर्पिता। आराष्ट्रं पञ्चसहस्रं ग्रामेषु शुद्धजलदानाय नूतना पद्धतिः इयम्। अमृतानन्दमयी मठस्य योजनेयम्। शतकोटि रुप्यकाणि एव अस्याः व्ययः। पेयजलं शुद्धीकृत्य वितरणमेव अनया योजनया उद्दिश्यते । बाह्यस्थलेषु मल-मूत्र-विसर्जनं विना स्वच्छग्रामस्य पट्टिकायाम् अन्तर्गतेषु द्वादश ग्रामेभ्यः राष्ट्रपतिना प्रमाणपत्रं वितीरितम्। मठस्य स्वाश्रयग्राम-विकसनपद्धतेः 'अमृतसेर्व्'स्य भागतया भवति इयं योजना। अमृता इन्स्टिट्यूट् द्वारा कृते द्विसहस्रं निशुल्कशल्यचिकित्सायाः प्रमाणपत्राणि च राष्ट्रपतिना वितीरितानि। त्रिपञ्चाशत् रुप्यकाणां व्ययेन द्विशतं हृदयशास्त्रक्रियाः सप्ततिः मस्तिष्कशास्त्रक्रिया: विंशतिः वृक्कपरिमार्जन शस्त्रक्रिया च अस्मिन् अन्तर्भवन्ति। गोश्रीपुरस्थ अमृता आतुरालयेन त्रिचत्वारिंशत् जनानां कृते निशुल्केन श्ल्यचिकित्सा दत्ता इति।  उत्तमम् अनुकरणीयं कार्यमिति राष्ट्रपतिना प्रोक्तम्। फरीदाबाद् नगरे अमृतानन्दमयीमठेन निर्मीयमाणः नूतनः आतुरालयः सेवनस्य सान्त्वनस्य च मण्डलेषु अग्रिमस्थानार्हाः भविष्यति इति च राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तम्॥
आणवविरुद्धसंघाय शान्तिनोबेल् पुरस्कारः ।
स्टोक्होम् > शान्त्यै नोबेल् पुरस्कारः आणवविरुद्धसमवायाय इन्टर्नाषणल् काम्पैन् टु अबोलिष् न्यूक्लियर् वेपण् (I C A N) इत्यस्य कृते I
आणवायुधनिरोधनसन्धेः कृते वादिनां संघटनानां समवायोयम् । 468 [अष्टषष्ट्यधिकचतुश्शतम्] संघटनाः अस्मिन् समवाये अङ्गानि भवन्ति । जनीवा एव केन्द्रस्थानम् । एकोत्तरशतं राष्ट्रेषु संघटना प्रवर्तते ।
कान्सर् रोगस्य कृते उपयुज्यमानाः औषधानि निष्फलानि इति अनुसन्धानफलम्।

लन्टन् > यूरोप्यन् मेडिसिन् रिसर्च् एजन्सी द्वारा आयोजितस्य निरीक्षणस्य फलः कान्सर् रोगस्य औषधानां निष्फलता व्यक्ती क्रियते । २००९- २०१३ संवत्सराभ्यन्तरेषु अंगीकृतेषु औषधेषु ४७% शतांशः औषधानि निष्भलानि एव।

लन्टनस्य किङ्स् कलाशाला,  लन्टन्स्कूल्  आफ् इक्कणोमिक्स् च मिलित्वा प्रकाशिते  पठनफले एव एतत् वस्तुताः लिखिताः ।  विपण्यां लभ्यमानेषु औषधेषु २३/११  एव फलप्रदाः। 

Sunday, October 8, 2017

भीकरतां विरुद्ध्य प्रवर्तयतु। नोचेत् क्रियाविधयः भविष्यन्ति नूनम्।
          वाषिङ्टण् > भीकरतायै साह्यं क्रियमाणं पाकिस्थानमुद्दिश्य अमेरिकायाः पूर्वसूचना I
क्रियाविधीनां पूर्वकार्यरूपेण द्वौ नयतन्त्र अद्योगिनौ पाकिस्थानं प्रेषयिष्यतः। राष्ट्रपतेः नयतन्त्र उपदेशकौ सन्धिविग्रहकार्यस्थः रेक्स् टिलेर्सण्,  प्रतिरोध-कार्यस्थः जिम् माट्टिस् च अस्य मासस्य अन्तिमवारे पाकिस्थानं यास्यतः।
          पाकिस्थानः आतङ्कवादिभिः सुरक्षितवासाय स्थानं कल्पयति, रीतिषु व्यतिलोमः कर्तयः, नो चेत् क्रियाविधयः भविष्यन्ति इति पूर्व सूचना एव पाकिस्थानाय प्रदास्यते। उभौ पाकिस्थानस्य प्रधानमन्त्रिणा तथा सैनिकाधिकारिणा सह सम्भाषणं करिष्यतः।

Saturday, October 7, 2017

'फिफा अण्डर् - १७' पादकन्दुकस्पर्धा – भारतस्य निराशा। 
             नवदिल्ली > विश्वकौमारस्य कन्दुककेल्यां भारतस्य  पराभवेन प्रारम्भः। भारतस्य प्रथमस्पर्धायां वीर्ययुक्तं अमेरिक्का दलं प्रति प्रत्युत्तररहितानां त्रयाणां लक्ष्यकन्दुकानां पराजयः अभवत्। क्रीडायाः पूर्वार्धे दण्डार्हताडनेन (Penalty kick) अमेरिक्का तेषां प्र कमलक्ष्यकन्दुकं नायकेन जोष् सार्जन्टेन प्राप्तम्। ततः उत्तरार्धे लक्ष्यकन्दुकद्वयमपि प्राप्तम्।

Friday, October 6, 2017

कौमारपादकन्दुकमामाङ्कस्य अद्य प्रारम्भः। 
कोच्ची > सप्तदशवयसामधः वर्तितानां भुवनकौमारकाणां पादकन्दुकस्पर्धापरम्परायाः अद्य भारते प्रारम्भः क्रियते। प्रप्रथमतया एव भारतं कस्याश्चन विश्वचषकस्पर्धायाः आतिथ्यं वहति। सायं पञ्चवादने दिल्ल्यां जवाहरलाल नेहरू क्रीडाङ्कणे कोलम्बिया - घाना राष्ट्रयोः स्पर्धया 'अण्टर् - १७' विश्वचषक-पादकन्दुकस्पर्धानां समारम्भः भविष्यति।
     भारतस्य प्रथमप्रतियोगिता अमेरिक्कया सह रात्रौ अष्टवादने तत्रैव भविष्यति। भारतनायकस्य मणिप्पूर् स्वदेशीयस्य अमर्जित् सिह कियाम् नामकस्य नेतृत्वे भारतदलं पूर्णसज्जतामाप्तमस्ति। पोर्च्चुगल्  देशीयः मत्तरासी दलस्य परिशीलकः अस्ति।
गुजरात्ते इन्धनकर: न्यूनीकरिष्यतीति मुख्यमन्त्री विजय रुपानी।।
     नवदिल्ली>राज्ये पेट्रोल् डीसल् आदीनाम् इन्धनानां कृते स्वीक्रियमाण: कर: न्यूनीकरिष्यतीति गुजरात्तस्य मुख्यमन्त्री विजय रुपानी। इन्धनमूल्यन्यूनीकरणाय कृतं केन्द्रश्रमम् अतिरिच्य राज्यतलेपि मूल्यन्यूनीकरणं प्राबल्ये आनेतुं सर्वकारस्य श्रम: इत्यपि स: व्यक्तीकृतवान्। केन्द्रसर्वकारेण एक्सैस् मूल्यं न्यूनीकृतम्, तत: पेट्रोल् डीसल् इन्धननूल्ये रूप्यकद्वयस्य न्यूनता आगता। एतद्विहाय राज्यस्तरेपि करे न्यूनीकृते इन्धनमूल्यं न्यूनम् भवति। मूल्यनिर्णयाय राज्यै: आयोज्यमानमूल्यवर्धितकर: (वाट्) निर्णायक: चेदपि गुजरात्तसर्वकारस्य निर्णय: जनानां कृते महान् आश्वास: एव भवेत्। इन्धनमूल्ये आयोजितमूल्यवर्धितकरं न्यूनीकर्तुं केन्द्र पेट्रोलियम् मन्त्री धर्मेन्द्रप्रधान: राज्यानां कृते निर्देशं दत्तवानासीत्। एतदनुसृत्य करन्यूनीकरणाय यतमानम् प्रथमराज्यम् भवति गुजरात्त्।।
बलूचिस्थाने देवालये आत्मघातिनः आक्रमणेन १३ जनाः मारिताःI
बलूचिस्थानम् > पाकिस्थानस्य बलूचिस्थानमण्डण्डलस्थ माहम्मदीयानां देवालयेषु दुरापन्ने आत्मघातिनः आक्रमणेन त्रयोदशजनाः मारिताः बहवः क्षतजाः च अभवन्। जाल मागासि प्रदेशस्य देवालये एव आक्रमणं संवृत्तम्। उरुस्‌ नाम अचार-क्रियासन्दर्भे एव आक्रमणम् । विस्फोटकेन आगतं पुरुषं निवारयितुम् आरक्षकाः प्रयत्नं कृतवन्तः। किन्तु विस्फोटः अभवत्‌ । क्षतजान् आतुरालयं प्राविशत्। तेषां अवस्था गुरुतरा अस्ति।मृतानां संख्या वर्धिष्यते च इति आरक्षकाधिकारी असदुल्लाह् अवदत्। रक्षाप्रवर्तनाय सुरक्षायै च क्रियाविधयः स्वीकृताः सन्ति इति आभ्यन्तर मन्त्रिणा उक्तम्।
साहितीनोबेल् पुरस्कारः कसुवो इषिगुरो महाभागाय। 
                स्टोक् होम् > अस्य संवत्सरस्य साहितीनोबेल् पुरस्काराय जाप्पानवंशजः तथा आङ्गलेयसाहित्यकारः कसुवो इषिगुरो वर्यः अर्हति। १९८९ तमे संवत्सरे प्रकाशिताय 'दि रिमेन्स् आफ् दि डे' नामकाय आख्यायिकाग्रन्थाय एव पुरस्कारलब्धिः। पूर्वं अस्मै ग्रन्थाय मान् बुक्कर् पुरस्कारः अपि लब्धः आसीत्। सप्ताख्यायिकाः नैकेाः लघुकथाः अपि तस्य साहित्यसपर्यायाम् अन्तर्भवन्ति।

Thursday, October 5, 2017

लास् वेगस् अभिभावी गोलिकास्त्रप्रयोगस्य पूर्वस्मिन् दिने फिलिप्पीन्स् प्रति पञ्चषष्टिलक्षं रूप्यकाणि निरगमयत्।। 
           लास् वेगस् > रविवासरे लास् वेगस: द्यूतक्रीडाकेन्द्रे क्षणेनैकेन बहूनां हन्ता स्टीफन् पाडक: गोलिकास्त्रप्रयोगात् पूर्वस्मिन् दिने द्यूतकेन्द्रात् सम्पादितं एकलक्षं डोलर् ( पञ्चषष्टिलक्षं रूप्यकाणि ) फिलिप्पीन्स् प्रति निर्गमयत्। अक्रमं केन्द्रीकृत्य आरक्षकै: कृते अन्वेषणे एव प्रणयिन्या: मार्लू डान्ल्वो: स्वदेशं प्रति पाडक: बहुमूल्ययुतं धनम् प्रैषयदिति लक्षितम्। अक्रमकारिणम् पाडकं आरक्षका: गोलिकास्त्रेण मारितवन्त: चेदपि अक्रममधिकृत्य वादकरणाय प्रणयिनीं मार्लू डान्लूम् आरक्षका: अमरीकाम् प्रापितवन्त:।
रष्य देशस्य व्योमाक्रमणेन सिरियादेशे अष्ट त्रिंशत् (३८)जनाः मृताः।
बेय् रूट्> सिरियायां रष्यया कृते व्योमाक्रमणे शिशुभ्यः सह अष्ट त्रिंशत् जनाः मृताः। मृतेषु नवः शिशवः सन्ति। पूर्व सिरियायाः डयर् एसोर् प्रविश्यातः रक्षां प्राप्तुं प्रयतितवन्तः एव मृतवन्तः । यु फ्रट्टीस् नद्मा पारङ्गमन समये एव आक्रमणम्।
रष्यराष्ट्रस्य साह्येन सैन्यः इस्लामिक स्टेट् दलेन युद्धं क्रियमाणे प्रदेशतः प्राणरक्षारथं पलायिताः एव मृताः॥
भूग्रहणं विरुद्ध्य भूसमाधिम् आचरन्ति कृषकाः।
जयपुरम्> भूगाहणं विरुद्ध्य कृषकाणां नूतन समरस्पर्या। खनित्रेण भूमौ गर्तं निर्मीय तस्मिन् गर्ते अवतार्य कण्ठ पर्यन्तं मृत्भिः गर्तं पूरयित्वा घण्टाः पर्यन्तं गर्ते स्थित्वा आसन् कृषकाणां प्रतिषेधः। राजस्थान-राज्ये गृहसमुच्छय-निर्माणाय अतिन्यून मूल्यं दत्वा बलादेव भूग्रहणं क्रियते सर्वकारेण इति आरोपणम् उन्नीत्य आसीत् कृषकाणं विशेष समरः I सर्वकारस्य क्रियाविधिं विरुद्‌य त्रयश्चत्वारिंशत् (४३) कृषकाः भूसमाधि-सत्यग्रहम् अनुवर्तन्ते। गान्धिजयन्ती दिने आरब्धः अस्ति सत्यग्रहः। जयपुरात् विंशति किलोमीट्टर् दूरस्थे नन्दार् ग्रामे एव सर्वकारस्य भूग्रहणप्रक्रिया  प्रचलति। बृहदाकारे राज्ये द्वितीयं गृहसमुच्ययं भवति अत्रत्याः योजना । योजनायाः कृते प्रक्रियायाः आरम्भः २०१० संवत्सरे आरब्धम्‌ आसीत्।

Wednesday, October 4, 2017

भीकराक्रमणस्य लक्ष्यः श्रीनगरविमाननिलयः।
श्रीनगरम्> गतदिने श्रीनगरे दुरापन्नेन भीकराक्रमणेन श्रीनगरस्थं विमान-निलयः लक्षीकृतः इति आवेदनम् आगतम्। मङ्गलवासरे अतिप्रातः श्रीनगरविमाननिलयसमीपे सीमासेनायाः स्थानेषु  दुरापन्ने आत्मघातिभीकरेण विमाननिलयः लक्षीकृतः इति प्रमाणं लब्धम्। आक्रमणे द्वौ सैनिकौ वीरमृत्युं प्राप्तौ। त्रयः भीकराः सेनया मारिताः च। CRPF, BSF सैनिकाः एव विमाननिलयस्य सुरक्षाकार्याणि कुर्वन्ति इत्यनेन विमाननिलयं प्रवेष्टुम् अशक्तैः भीकरैः बी एस् एफ् केन्द्रः आक्रमितः इति अनुमीयते। जय् षे इ मुहम्मदस्य अफ्सल् गुरु स्क्वाड् विभागः अस्याः घटनायाः पृष्टतः इति सूचना लब्धा।

रयिल्यानस्य पुरतः स्वच्छायाग्रहणम्। त्रयः छात्राः मृताः
बङ्गलूरु> धावन्तीं रेल्यनस्य पुरतः स्थित्वा स्वच्छायाग्रहणे निरताः छात्राः मृताः। प्रभाते सार्ध नववादने एव घाटना। जवेन आगतानां रयिल् यानस्य पुरतः स्थित्वा स्वच्छाया ग्रहणं कृतम् इति आरक्षकाः वदन्ति। एतदधिकृत्य अन्वेषणानि प्रचलन्ति।
वण्टर् ल नाम स्थलजल-क्रीडाक्षेत्रे क्रीडनानन्तरं समीपस्थं रेल् पथे स्वच्छायाग्रहणाय आगतवन्तः आसन्। मृतयोः द्वौ बाङ्गळूरु नेषणल् कलाशालायाः विद्यार्थिनौ स्तः।  बाङ्गलूरुनगरे स्वच्छायाग्रहणभ्रमेन आपन्ना द्वितीया घटना भवति इयम्। पूर्वं एन् सि सि विद्यार्थिनः नद्यां स्नानस्य स्वच्छाया ग्रहणसमये एकः निमज्जनेन मारितः। अनन्तरं ग्रहीतस्य चित्रस्य पुनरालोकनसमये एव सतीर्थ्यस्य मृतिः गृहीतचित्रेषु दृष्टवन्तः आसन्।

Tuesday, October 3, 2017

जैवघटिका रहस्यगवेषणाय संघत्रयान् वैद्यशास्त्र नोबेल् पुरस्कारः।
स्टोक्केम्> वैद्यशास्त्र नैपुण्याय २०१७ तमस्य नोबेल् पुरस्काराय अमेरिक्का शास्रकाराः जेफ्री सी होल्, मैक्केल् रोस् बाष्, मैक्केल् डब्ल्यू यड् इत्येते अर्हाः अभवन्। 
    मनुष्येषु जन्तुषु सस्येषु च वर्तमानस्य जैवघटिकारस्य (biological click/circadian  Rhythm) कार्यरहस्यान् विश्वे  ते आनीतवन्तः। अस्मै निपुणताय अयं पुरस्कारः इति नोबेल् पुरस्कारसमितिः अवदत्। एकादशलक्षं डोलर् अस्ति पुरस्कारधनम्। प्रतिवर्षं वैद्यशास्त्र नैपुण्याय प्रदत्तेन पुरस्कारेण सह नोबेल् पुरस्कारः प्रख्यापनं प्राभते।
  जैवघटिकारो नाम कः?
अहोरात्रं भूमौ सर्वजीवजालानां परिवर्तनं संभवति। तदनुसृत्य सर्वे तेषां शारीरिकक्रियाः क्रमीकुर्वन्ति। तत्सर्वं कोपि न जानाति।
   कथं जैवघटिकारः प्रत्येकजीविं क्रमीकरोति इति अन्वेषणं अष्टादशशतके आरब्धम्। किन्तु अन्वेषणस्य अस्य निर्णायकं निर्णयं विंशति शतके एव जातम्। नोबेल् पुरस्कारजेताः एते त्रयः अस्मिन् विषये बहु कार्याणि कृतवन्तः। परिस्थित्यनुसारं प्रति जीवी स्व जैवघटिकारस्य स्थिरीकरणाय तन्मात्राप्रवर्तनमधिकृत्य  आसीत् तेषाम् अनुसन्धानम्।विभिन्नैः  समयक्षेत्रैः  सञ्चारेण जातस्य जेट् लागस्यापि समाधानं दातुं तेषां अनुसन्धानं सुशकं अभवत्। एवं निरन्तरेण गमनेन यात्रिकानां बह्व्यः स्वास्थ्यसमस्याः जायन्ते। जैवघटिकारस्य तुलनराहित्यमस्ति तस्य हेतुः। किन्तु दैनन्दिन जैवघटिकारस्य प्रवर्तनानां हेतुरूपस्य जीनस्य पृथक्करणेन अस्य परिहारमपि सञ्जातम्।
फलमक्षिकाभ्यः पीरीयड् जीनिति निर्णायकस्य जीनस्य पृथक्करणं जातम्।

पुरस्कारजेतारः।

जेफ्री सी होल्।
१९४५ तमे वर्षे न्यूयोर्क् मध्ये जननम्। ब्राण्डयिस् विश्वविद्यालये गवेषणसमये एव रोस् बाषिना सह पीरीयड् जीन् गवेषणे सजीवः जातः। इदानीं विरमितः। कें ब्ट्रिट्ज् मध्ये विश्रमजीवनम्।

मैक्केल् रोस्बाष्।
१९४४ ओक्लहोम् मध्ये जननम्। ब्रान्डयिस् विश्वविद्यालये इदानमपि गवेषकः।  त्रि सप्ततिः आयुः।

मैक्कल् डब्ल्यू यड्।
१९४९ मयामी मध्ये जननम्। रोक्के फेल्लर विश्वविद्यालये गवेषकः अध्यापकश्च। अष्टषष्टिः आयुः।
शिलातैलस्य करः न्यूनीकृतः 
नवदिल्ली> प्रेट्रोल् डीसल् तैलयोः करः केन्द्रसर्वकारेण न्यूनीकृतः। लिट्टर् मितस्य रुप्यकद्वयं न्यूनीकृतमस्ति। नूतनं मूल्यम् श्वः आरभ्य प्रबलं भविष्यति। 
कोच्ची मेट्रो - द्वितीयतलोद्ङाटनम् अद्य। 
कोच्ची > कोच्चीमेट्रोद्वारा नगरदृश्यानि अनुभवामः, अद्य आरभ्य। पालारिवट्टंतः महाराजास् चत्वरपर्यन्तं विद्यमानायाः रेल् यानयोजनायाः द्वितीयश्रेण्याः प्रथमं 'फ्लाग् ओफ्' कर्म अद्य प्रभाते १०.३० वादने जवर्लाल् नेहरु क्रीडाङ्कणे केन्द्रमन्त्रिणः हर्दीपसिंहपुरिवर्यस्य सान्निध्ये मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। अनन्तरं मुख्यमन्त्री संघश्च ततः महारास् चत्वरपर्यन्तं मेट्रोमार्गेण यात्रां कृत्वा ११ वादने एरणाकुलं 'टौण् हाल्' मध्ये आयोज्यमाने सम्मेलने यात्रासेवनस्य उद्घाटनप्रख्यापनं करिष्यति। ततः प्रभृति मेट्रोयात्रा   आरभ्यते। मध्याह्नेन सञ्चारव्यवस्था क्रमानुगतां प्राप्स्यतीति मेट्रो अधिकारिभिः उक्तम्। 
    मेट्रो सञ्चारपथस्य सर्वे नियमसभासामाजिकाः, विपक्षनेता रमेश् चेन्नित्तला , प्रोफ.के वि तोमस् एम् पि, मेट्रो योजनायाः मख्योपदेष्टा ई श्रीधरप्रभृतयः उद्घाटनसम्मेलने भागभागित्वं वक्ष्यन्ति।
अमेरिक्कायां लास् वेगस् मध्ये भुषुण्डिप्रयोगेण उपषष्टिजनाः मृताः। 
       लास् वेगस् > अमेरिक्कायां लास् वेगस् मध्ये कञ्चन संगीतकार्यक्रमं प्रति कृते भुषुण्डिप्रयोगे उपषष्टि जनाः मृत्युमुपगताः। पञ्चशताधिकजनाः व्रणिताः। 
    अमेरिक्कायाः प्रमुखं विनोदसञ्चारकेन्द्रं भवति लास् वेगास्। अत्रत्ये कस्मिंश्चन स्थाने प्रवृत्तमानस्य सङ्गीतोत्सवस्य समापनदिने कार्यक्रममास्वदितुं त्रिशत्सहस्राधिकं जनाः सन्निहिताः आसन्। तान् लक्ष्यीकृत्य समीपस्थस्य भवनसमुच्चयस्य द्वात्रिंशत्तमात् तलात् स्टीफन् पडोक्क् नामकः आधुनिकयन्त्रशतघ्निमुपयुज्य अनेकवारं शस्त्रप्रयोगमकरोत्। प्रकोपनस्य कारणं किमिति अज्ञातं वर्तते। अक्रमी पश्चात् आरक्षकैः निहतः। 
   लास् वेगास् नगरस्थाः भारतीयाः सुरक्षिताः वर्तन्ते इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्।
असमे पुनरपि जलोपप्लवः, ७८००० जनाः दुरितबाघिताः।
               गुवाहति > असमस्य पञ्चसु जनपदेषु पुनरपि जलोपप्लवः। अष्टाशीति सहस्रं (७८०००) जनाः प्रलयबाधिताः अभवन्I समीपस्थराज्येषु मेघालय अरुणाचलप्रदेशेषु सम्भूताः वर्षाः एव जलोपप्लवस्य कारणम्। लिखिंपुरः, दक्षिणसल्मारः, गोल्परः, होजायि, कर् बी आङ् लोङ् जनपदेषु एव जलोपप्लवे अधिक्यः।
               प्रलयबाधित जनपदेषु  अष्टादश (१८) दुरित निवारणशिबिराः उद्घाटिताः। नवसहस्रं जनाः शिबिराश्रिताः सन्ति इति PTI संस्थया विज्ञाप्यते । गोल्पारयां एकचत्वारिंशत् सहस्रं जनाः प्रलयेन बाधिताः सन्ति। संवत्सरेस्मिन् द्वितीयः जलोपप्लवः भवति एषः। पूर्वकालीन प्रलये षट्सप्तति जनाः (७६) मृताः आसन्।

Monday, October 2, 2017

उष़ुन्नालवैदिकाय जन्मग्रामस्य प्रेमनिर्भरं स्वीकरणम्। 
कोच्ची > भीकरेभ्यः मोचितः सन् केरलं सम्प्राप्ताय फादर् टोम् उष़ुन्नालिल् वैदिकाय जन्मग्रामः पाला रामपुरं ग्रामः प्रेमोष्मलं स्वीकरणम् आयोजयत्। 
     सायं सार्धपञ्चवादने जन्मग्रामसमीपस्थं पालानगरं सम्प्राप्तः उष़ुन्नालवैदिकः ततः वाहनव्यूहस्य अनुगमनेन रामपुरं ग्रामहृदयम् आनीतः। अनावरणेन जीप् यानेन रामपुरं देवालयं गच्छन्तं तं वीथीपार्शयोः प्रतीक्षमाणाः सहस्रशः जनाः हर्षारवेण अभिवाद्यं समर्पितवन्तः। कृतज्ञतापुरस्सरं प्रत्यभिवाद्यं कुर्वन् रामपुरं फरोना देवालयं प्राप्तः उष़ुन्नालः सहस्रशानां ग्रामीणानां बन्धुजनानां च सान्निध्ये कुर्बानाराधनां समर्पितवान्। तत्र कारागारदुरितेभ्यः मोचनं सम्प्राप्तमित्यस्मै जगदीश्वराय कृतज्ञतां प्रकाशितवान्। ततः प्रवृत्ते सम्मेलने सः आत्मनः मोचनाय इतःपर्यन्तम् अहोरात्रं प्रार्थनापूर्णचित्तानां तद्देशवासिनां बान्धवानां च कृते धन्यवादं समर्पितवान्। 
    सामाजिकाः के एम् माणी, रोषि अगस्टिन् , जोस् के माणी इत्यादयाः प्रमुखाः स्वीकरणसम्मेलने$स्मिन् भागं स्वीकृतवन्तः!
आतङ्कवादिनः प्रवेशयितुं पाकिस्तानदेशात् भारतं प्रति सुरङ्ग: ।
श्रीनगरम् > जम्मूकाश्मीरस्थे अर्णियाप्रदेशे सीम्नि चतुर्दशपाददीर्घमितं सुरुङ्गं सैन्यम् अपश्यत् । पाकिस्तानप्रदेशात् निर्मितस्य सुरङ्गस्यान्तः संशोध्य आयुधसञ्चयं गृहीतवन्तः I 
अन्ताराष्ट्रसीमाप्रदेशे दमानायां सैन्येन कृते शुचीकरणप्रवर्तनमध्ये एव सुरङ्गः दृष्टिगोचर : जातः। दशहर - दीपावली - आचरणवेलायाम् आतङ्कवादिन: भारतं प्रवेशयितुमेव सुरङ्गनिर्माणमिति सैनिकवृत्तान्तानि । 
एतदतिरिच्य सैन्याय जनेभ्यश्च जाग्रतानिर्देशः दत्त: ।
सीम्नि सुरङ्गान्तरम् अस्ति वेति सैन्यं शोधितवान् । सप्तमासाभ्यन्तरे दृष्टिगोचरतां गतः द्वितीयः सुरङ्गः एषः। आतङ्कवादिनः अनधिकृतप्रवेशं कृत्वा भारतम् आक्रान्तुम् परिश्रम्य एव एतन्निर्मितवन्तः ।
GST श्रेणिः न्यूनीकर्तुं शक्यते- अरुण् जैटिली।
           फरीदाबाद् >पण्यसेवनकरश्रेणिं न्यूनीकरिष्यति इति  केन्द्रधनमन्त्री अरुण् जैटिली।  आयनष्टं परिहृत्य एव न्यूनीकरणम् इति तेन व्यक्तीकृतम्। फरीदाबादे National Academy of customs in direct taxes and Nurcotics संस्थायाः स्थापकदिनपर्वणि भाषमाणः आसीत् सः। पण्यसेवनकरं सक्षमं कर्तुं प्रतिदिनं प्रयतते। अधिकतया  नूतनाः योजनाः समारभ्य प्रवर्तयितुं शाक्यते इदानीन्तन-व्यवस्थाम् परिष्कृत्य अधस्थितानां करदायिनां भारं लघूकर्तुं प्रयतते।

           करेण आयः  स्वाभाविकरीत्या भविष्यति। तदा नूतनपरिष्कारः भविष्यति इति च तेन उक्तम्। 
प्रगतिः वित्ताश्रिता भवति | नूतनानि सौविध्यानि जनानां कृते आयोजयितुं धनोपार्जनमार्गः  करः एव , लब्धं धनं एतदर्थं उपयोक्तव्यम् इति धनर्मन्त्रिणा उक्तम्।
सीम्नायां जनाः स्वदेशं त्यक्त्त्वा  चीनराष्ट्रं प्रति गन्तुम् सन्दर्भः मा भवतु - राजनाथसिंहः ।
               जोषिमठ् (उत्तराखण्ड्)>चीनदेशस्य सीमनि विद्यमानेषु ग्रामेषु वर्तमानाः भारतीयाः भरतस्य सम्पदः इति केन्द्र- आभ्यन्तरमन्त्री राजनाथ् सिंहः अवदत्। भारतस्य सीमासुरक्षायाम्  शङ्काकुलाः एते जनाः चीनं प्रति वासाय न गच्छन्ति इति तत्स्थैः आरक्षकैरेव निर्णीतं भवतु इति भारत-टिबट् आरक्षकाः राजनाथसिंहेन आदिष्टाः। जोषिमठस्य प्रथमे शिबिरे ITBP सेनाङ्गान् अभिसम्बोधनं कृत्वा भाषमाणः आसीत् सः। 
               सीमाप्रदेशवासिनां जनानाम् उपरि सर्वकारस्य सम्पूर्ण विश्वासः अस्ति इति राजनाथसिंह: अवदत् । अत एव सीमावासिनां जनानां प्राधान्यं दादव्यम् इति च तेन आदिष्टाः।  सीम्नां जनाः चीनं प्रति वासाय गच्छन्ति चेत् भारतस्य सुरक्षायाः भीषा एव भवति इति च तेनाेक्तम्। दिनचतुष्टयस्य सन्दर्शनाय उत्तराघण्डं प्राप्तवानासीत् सः।
               नरेन्द्रमोदिना नीयमानस्य सर्वकारस्य हृदयस्य केन्द्रस्थाने एव सीमाजनानां स्थानमिति सः अवदत् । अतःप्रदेशवासिभ्यः सह सौहृदम् स्थापनीयम् , तेषां समस्याः अवगन्तुं विशेषशिबिरादयः आयोजनीयाः इत्यपि तेन उक्तम्।