OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 30, 2023

 हिमश्वेतपट्टाम्बरं धृत्वा परिलसन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि।

  श्रीनगरम्> नगरवासिनां सञ्चारिणां मनस्सु आह्लादं जनयन्ति जम्मूकाश्मीरस्थानि विनोदसञ्चारकेन्द्राणि हिमेषु निमग्नानि। सोनामार्ग्, कोक्कर्नाग्, पेहल्गाम्, गुल्मार्ग् इत्यादयः प्रदेशाः हिमावृत्ताः जाताः। बहवः सञ्चारिणः नयनमनोहरं दृश्यमिदं आस्वदयितुं प्रतिदिनम् आगच्छन्ति।

 राष्ट्रस्य प्रथमः केबिल्-स्टे रेल् सेतुः सज्जः; रेल् मन्त्री चलनचित्रं  प्रकाशितवान्।

-राणिमोल् एन् एस्

नवीदिल्ली> केन्द्रीयरेल् मन्त्री अश्विनीवैष्णवः अञ्जीखाड् सेतोः चलनचित्रखण्डं प्रकाशितवान्।  इयं भारतस्य प्रथमा केबिल्-स्टे रेल् सेतुर्भवति। जम्मू-काश्मीरस्य रियासिमण्डले स्थितस्य सेतो: निर्माणप्रगतेः  चलनचित्रमेव तेन प्रकाशितम्।

९६ केबिल् सहितस्य अस्य सेतो: दीर्घता ६५३ कि. मी. एव। "११ मासै: एव राष्ट्रस्य प्रथम सेतो: निर्मिति: पूर्तीकृता। 

९६ केबिल् द्वारा सज्जीकृता अस्य दैर्ध्यं ६५३ कि. मी. मिता" इति पादटिप्पण्या एव मन्त्रिवर्य: वीडियो ट्वीट् कृतवान्। अयं सेतु: जम्मुदेशात् ८० कि. मी . परिमिते दूरे वर्तते। उदम्पूर्-श्रीनगर्-बारामुल्ला रेल्परियोजनाया: भागोऽयं सेतु: जम्मुकाशमीरस्य कतरा-रियासी मण्डलयोः परस्परबंधनाय निर्मितोऽस्ति। आगामिमासेेषु  सेेतुनिर्माणं सम्पन्नं भविष्यति इति अधिकारिणः प्रतीक्षां कुर्वन्ति।

Saturday, April 29, 2023

उज्जयिन्यां  देवीपूजनपाठविधान प्रशिक्षणस्य समारोप:।

- डॉ.दिनेश चौबे 

   उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य  संस्कृतशिक्षणप्रशिक्षणज्ञान विज्ञानसंवर्धनकेंद्रस्य तत्त्वावधाने  आभाषीयपटलमाध्यमेन (आनलाईन्) आयोज्यमानस्यदेवीपूजनपाठविधानप्रशिक्षणस्य  समारोप: वैक्रमाब्द: २०८०वैशाखशुक्लनवम्यां शनिवासरे तदनु  २९/४/२०२३ तमेदिनाङ्के, शनिवासरे सञ्जात:। प्रशिक्षणमिदम् एकदिनाङ्कादारभ्य  ऊनत्रिंशत् दिनाङ्कपर्यन्तं 

प्राचलत्।  अत्रप्रशिक्षणे 

देवीपूजन-पाठविधान-मंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदत्तम्।

 केरलसंस्कृताध्यापक फेडरेषन् द्वारा नेतृत्वपरीशीलनशिबिरं समारब्धम्। 

उद्घाटनभाषणभाषणं करोति डो वि अच्युतन् कुट्टिवर्यः।

गुरुवायूर्> केरलसंस्कृताध्यापक फेडरेषन नाम संघटनस्य [के एस् टि एफ्] नेतृत्वे त्रिदिवसीयं राज्यस्तरीयं   नेतृत्वपरीशीलनशिबिरं समारब्धम्। गुरुवायूर् समीपस्थे शिक्षकसदने आयोज्यमानस्य शिबिरस्य उद्घाटनं गुरुवायूर् देवस्वसंस्थायाः कलानिलये संस्कृतविभागाध्यक्षः डो  वि अच्युतन् कुट्टिमहोदयः अकरोत्। 

  संस्कृताध्यापको भूत्वा केवलं छात्रशिक्षणमतिरिच्य संघटनाप्रवर्तनेन संस्कृतकार्यक्रमनिर्वहणेषु अभिरम्य संस्कृतप्रचारणं करोति इति लोकोपकारकाय भवतीति "हन्त! भाग्यं जनानाम्" इति नारायणीयश्कोकस्य व्याख्यारूपेण सः समर्थितवान्। उद्घाटनकार्यक्रमे के एस् टि एफ् राज्यस्तरीयाध्यक्षः नीलमन शङ्करः अध्यक्षपदमलङ्कृतवान्। राज्यस्तरीयकार्यदर्शिमुख्यः  सि पि सनलचन्द्रः संघटनस्य एतावत्पर्यन्तानां प्रवर्तनानामवलोकनं कृतवान्। पद्मनाभः, राजकृष्णः इत्यादयः भाषणमकुर्वन्। 

   आत्मा फौण्टेशन् संस्थायाः निदेशकः सि के सुरेशः नेतृत्वपरिशीलनवर्गं चालितवान्। विविधैः कार्यक्रमैः आयोजितं शिबिरं श्वः समाप्स्यते।

 आकाशं चित्रवर्णैः लेपयन् तृश्शूर्पूरमहोत्सवस्य समारम्भः।

ह्यः सम्पन्नायाः आदर्शरूपप्रस्फोटकाग्निक्रीडा।

तृश्शूर्> रविवासरे आरम्भमाणं पूरमहोत्सवमुद्घोषयन् त्रिश्शिवपुरे आकाशं चित्रवर्णैः लेपयन् आदर्शरूपेण प्रस्फोटकाग्निक्रीडा अद्य समारब्धा। प्रथमतया तिरुवम्पाडि अनन्तरं पारमेक्काव् इति क्रमेण प्रस्फोटकाग्निक्रीडा समारब्धा। पूरमहोत्सवं द्रष्टुं राज्यान्तरेभ्यः राष्ट्रान्तरेभ्यश्च सञ्चारिणः समागताः सन्ति।

 केरले ग्रीष्मकालवृष्टिः मङ्गलवासरपर्यन्तं भविष्यति। 

अनन्तपुरी> केरलराज्यमासकलं ग्रीष्मकालवृष्टिः मेय्मासस्य द्वितीयदिनाङकपर्यन्तं मेघगर्जनेन सह भविष्यतीति पर्यावरणविभागेन निगदितम्। तदंशतया विविधेषु जनपदेषु पीतजागर्तिः घोषिता। 

  मासैकं यावदनुवर्तमानाय ग्रीष्मातपकाठिन्याय समाश्वासं प्रददाति अयं ग्रीष्मकालवृष्टिः।

Friday, April 28, 2023

 सुडाने युद्धविराममुल्लङ्घ्य व्योमाक्रमणं - अद्यावधौ ५१२ मरणानि। 

खार्तूम्> अन्तःछिद्रेण कलुषिते सुडानदेशे घोषितं दिनत्रयात्मकं युद्धविरामसन्धिम्  उल्लङ्घ्य  सेना अर्धसेना च पुनश्च युद्धमारभेताम्। राजनगर्यां खार्तूमे शक्तं व्योमाक्रमणमापन्नम्। आर् एस् एफ् नामकार्धसेनाकेन्द्रे डार्फरस्थाने  सेनाद्वयस्य प्रतिद्वन्द्वः अभवत्। तीव्रसंघट्टनं कारणतः सन्नद्धसंघटनैः आरब्धानि रक्षाप्रवर्तनानि स्थगितानि। 

  एप्रिल् १५ तमे दिनाङ्के प्रतिद्वन्द्रे अद्यावधि ५१२ जनाः मृत्युमुपगताः। ४१९३ जनाः व्रणिताः जाताश्चेति सुडानस्य स्वास्थ्यमन्त्रालयेन निगदितम्। सहस्रशः नागरिकाः अधुनापि पलायनं कुर्वन्ति।

 वायुप्रदूषणेन शिशूनां वय:द्वयपर्यन्तं वैज्ञानिकविकासःविघ्न:भवति इति प्रतिवेदनम्।

            शोभा . के . पी.

वाषिङ्टण् - वायुप्रदूषणेन नवजातानां शिशूनां च वैज्ञानिक विकासस्य  विघ्नः भविष्यति इति अध्ययनप्रतिवेदनम्। वाषिङ्टणस्थानस्य पूर्वभारत विश्वविद्यालयस्य गवेषकाः एव अस्मिन् विषये अध्ययनं कृतवन्तः। आजीवनं यावत् शिशूनां मस्तिष्के समस्याः भविष्यन्ति इति गवेषकाः वदन्ति। अन्तरिक्षवायोः गुणवत्तायाः न्यूनता ,शिशुषु वैज्ञानिकसमस्याभिः सह वैकारिकसमस्या:अपि जायन्ते इति मुख्यगवेषकः जोण् स्पेन्सर् नामकः वदति।एषा समस्या कुटुम्बस्य स्वस्थताम् अपि विनाशयति। अन्तरिक्षे लघुतमा: कणिका: एव अत्यन्तं विनाशकारि भवन्ति। शिशवः तेषां मस्तिष्कस्य वृद्धिकाले सर्वविध टोक्सिनः प्रति संवेदनशीलाःभवन्ति ।

राष्ट्रे फ्लै ९१ नाम नूतनविमानसंस्थायै अनुज्ञा लब्धा। 

   नवदिल्ली> राष्ट्रे फ्लै९१ नाम नूतनविमानसंस्थायै केन्द्रव्योम-मन्त्रालयेन अनुमतिः प्रदत्ता। गोवायाम् एव संस्थायाः केन्द्रकार्यालयः। लघुनगरान् आकाशमार्गेण संयोज्य केन्द्रसर्वकारस्य 'उडान्' योजनायाः भागतया सेवानिर्वहणमेव फ्लै९१ इत्यस्य लक्ष्यम्। अस्मिन् संवत्सरे ओक्टोबर्- दिसंबर् मासाभ्यन्तरे सेवां समारब्धुमेव संस्थायाः लक्ष्यः इति संस्थायाः प्रशासकः मनोज् चाक्को अवदत्।

Thursday, April 27, 2023

 छत्तीसगढे मावोवादिनाम् आक्रमणं - ११ मरणानि। 

दन्तेवाडा> छत्तीसगढे दन्तेवाडाजनपदे दुरापन्ने अतितीव्रे मावोवादिआक्रमणे १० आरक्षकाः यानचालकश्च हताः। 

  आरक्षकवाहनं 'ऐ इ डि' नामकस्फोटकवस्तुमुपयुज्यपूर्णतया भञ्जितम्। मार्गे महान् गर्तः जातश्च।

वैज्ञनिकः डा. एन् गोपालकृष्णः दिवंगतः।

    गोश्रीपुरम्> वैज्ञानिकः सुज्ञातः वाग्मी  डा. एन् गोपालकृष्णः अद्य रात्रौ नववादने दिवंगतः। ६८ वयस्कस्य महोदयस्य निधनं हृदयस्तम्भेन आसीत्। अधुनिक-वैज्ञानिकशाखासु तथा प्राचीन-विज्ञानेषु च युगपद् निष्णातः आसीत् महोदयः। भारतीयचिन्ताधारया यूनां मनस्सु महोदयः चिरप्रतिष्ठां प्राप्तवान्। वैदेशिक विश्वविद्यालयेषु अपि तेन बहूनि प्रभाषणानि कृतानि। ६००० संख्याधिकानि प्रभाषणानि तेन कृतानि सन्ति। तेन रचिताः ५० अधिकाः शोधप्रबन्धाः अन्ताराष्ट्रिय-राष्ट्रिय-शोधपत्रिकासु प्रकाशिताः। अनुसंधानविषये सप्त स्वामित्वाधिकारान् (patent) प्राप्तवानासीत् ६० अधिकानां ग्रन्थानां कर्ता च इति विराजमानाः आसीत् अयं महोदयः।

 सुडानतः ३६७ भारतीयाः प्रत्यानीताः। 

नवदिल्ली> तीव्रेण आभ्यन्तरयुद्धेन कलुषितात् सुडानदेशात् ३६७ भारतीयाः केन्द्रसर्वकारेण दिल्लीं प्रत्यानीताः। सुडानतः भारतीयानपनेतुं भारतीयसर्वकारेण पर्यायोजितस्य 'ओपरेषन् कावेरी' नामकस्य अंशतया एव ह्यः रात्रौ सुडानतः जिद्दाद्वारा प्रथमसंघः दिल्लीं प्राप्तः। 

  नौसेनायाः 'ऐ एन् एस् सुमेधा' युद्धमहानौकां,  वायुसेनायाः द्वे 'सि १३०' विमाने च उपयुज्य अपनीतप्रवर्तनानि प्रचलन्ति।  जिद्दायां भारतस्य विदेशकार्यसहमन्त्री वि मुरलीधरः रक्षाप्रवर्तनानां नेतृत्वं वहति।

Wednesday, April 26, 2023

 २०२४- यु. एस् राष्ट्रपति-निर्वाचनम्-: जो बैडनः कमला हारिसः च पुनरपि निर्वाचनक्षेत्रे भविष्यतः।

-रेष्मा एस् राज्

    आगमिनि संवत्सरस्य निर्वाचने स्पर्धिष्यतीति यु.एस् राष्ट्रपतिः जोबैडनः अवदत्। उपराष्ट्रपतिपदाय कमला हारिसः अपि निर्वाचनक्षेत्रे भविष्यतीति सूचना च प्राप्ता।रिप्पब्लिक् राजनैतिकदलस्य स्थानाशित्वपदे निर्वाचनक्षेत्रे भविष्यतीति पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि प्रख्यापितवान्। विगते दिने  चलनचित्रखण्डद्वारा आसीत् जोबैटनस्य स्थानाशीत्वे  प्रख्यापनम्।  गर्भच्छिद्राधिकारः, जनतन्त्रसंरक्षणम्, समाजसुक्षादयः भवन्ति समागम्यमानस्य संवत्सरस्य  प्रमुखाः विषयाः इति बैटनः अवोचत्। १९६९ वर्षात् परम् अमेरिक्कायां विद्यमान अतिन्यून अनुद्योगितामानः बैटनस्य विशेषार्जनं चेदपि अपमूल्यनं समस्यारूपेण अनुवर्तते। अपि च बैडनस्य वयाधिक्यमपि अमेरिक्कीयानां जनानां मनस्सु समस्यां सृजति।

Tuesday, April 25, 2023

 पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः।

   चण्डीगढः> पञ्चाबस्य भूतपूर्वमुख्यमन्त्री प्रकाश सिंह बादलः दिवङ्गतः। १५ वयस्कः सः श्वासस्थगन-वैक्लब्येन शुक्रवासरे आनुरालयं प्रविष्टः आसीत्।
    महोदयः पञ्चवारं पञ्चाबस्य मुख्यमन्त्रीपदं प्राप्तवान्। भारतस्य कृषिमन्त्रिपदे च कर्म कृतवान् आसीत्। 

चतुर्धाम-तीर्थाटनम् समारब्धम्। १७ लक्षं भक्ताः भागं स्वीकरिष्यन्ति। 

   चतुर्धाम-तीर्थाटनं समारब्धम्। उत्तराखण्डे उत्तरकाशी जनपदे गङ्गोत्री, यमुनोत्री मन्दिरे देवदर्शनार्थम् उद्घाटिते। मुख्यमन्त्री पुष्करसिंहधामी गङ्गोत्रीमन्दिरमागत्य विशेषपूजाम् अर्पितवान्। तीर्थाटकानां कृते सर्वसौविध्यानि समायोजितानि इति मुख्यमन्त्रिणा पुष्करसिंहधामिना उक्तम्।

 नवभारतनिर्माणं युवतायाः वीक्षणानुसारं - प्रधानमन्त्री। 

युवजनसंगमे प्रधानमन्त्री नरेन्द्रमोदी युवकान् अभिवादनं करोति।

कोच्चि> नवभारतस्य निर्माणं राष्ट्रे विद्यमानानां युवजनानाम् अभिरुच्यनुसारमेव भवितव्यमिति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। कोच्चिनगरे आयोजिते युवं २३ नामके युवजनसम्मेलने भाषमाणः आसीत् प्रधानमन्त्री।

  नवराष्ट्रनिर्माणे  युवकानां नेतृत्वमभिलषति सर्वकारः। भारतं विश्वोत्तरशक्तिं कारयितुं युवतायाः वीक्षणानि निर्देशाः, तात्पर्यश्च अपेक्षितानीति सः उक्तवान्। 

  ह्यः सायं नौसेनाविमाननिलयं प्राप्तवान् नरेन्द्रमोदी तेवरा प्रान्ते पथसञ्चलनं कृत्वा वीथीपार्श्वयोः प्रपूरितान् सहस्रशः जनसञ्चयान् अभिवादनं कुर्वन् युवसंगमवेदिकायां प्राप्तवान्। केरलीयवेषविधानेन समागतं प्रधानमन्त्रिणं कलालय-विद्यालयछात्राः विभिन्नकर्ममण्डलेषु अभिरमन्तः युवतीयुवकाः, युवसन्यासिनः च सहर्षं स्वागतं कृतवन्तः। कला-सांस्कृतिक-परिस्थितिक्षेत्रेषु व्यक्तिमुद्रां समर्पितवन्तः युवजनाः प्रधानमन्त्रिणा सह वेदिकामपि अलंकृतवन्तः।

 श्रीशङ्करस्मरणायां कालटिप्रदेशः। 


कालटी> भारतस्य दार्शनिकमण्डले अद्वितीयस्थानमलङ्कुर्वतः अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्वामिनः जयन्तिदिनं भवत्यद्य।    जन्मग्रामे कालट्यां बहुदिवसैः आयोजिताय जन्मदिनोत्सवाय अद्य परिसमाप्तिः। प्रदेशस्य विविधस्थानेषु विविधाः कार्यक्रमाः आयोजिताः सन्ति। 

 श्रृङ्गेरीजन्मभूमिमन्दिरे मन्दिरकार्यक्रमान् अतिरिच्य शास्त्रार्थविद्वत्सभा, शङ्करजयन्तिसम्मेलनं, रथोत्सवमित्यादिकं सम्पद्यते। कुलदेवतामन्दिरे श्रीकृष्णमन्दिरे कनकधारायज्ञस्य परिसमाप्तिः, मातृवन्दनं च भविष्यति। 

  आदिशङ्कर कीर्तिस्तम्भे ऋग्वेदसंहिताहोमः, जयन्तिसम्मेलनं, सन्यासिमहापरिक्रमः इत्यादिकम् आयोजितमस्ति।  महापरिक्रममेलने मैसुरु एडत्तोरास्थस्य योगानन्देश्वरमठस्य अधिपतिः शङ्करभारति स्वामिनः अनुग्रहभाषणं करिष्यन्ति।  उच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः पि एन् रवीन्द्रः अध्यक्षः भविष्यति।

 कुनो राष्ट्रियोद्याने अन्यः चित्रकः अपि मृतः।

       -राणिमोल् एन् एस्

भोपालः> मध्यप्रदेशस्य कुनो राष्ट्रियोद्याने पालितः अन्यः चित्रकः अपि मृतः। मासद्वयात्पूर्वं दक्षिणाफ्रिकादेशात् आनीतः उदयः नामकः षड्वर्षीयः चित्रकः एव मृतः। मध्यप्रदेशस्य वनविभागेन उक्तं यत् मृत्यो: कारणम् अन्विष्यते। उदयः रोगकारणेन चिकित्सायाम् आसीत् इति अधिकारिणः अवदन्। नमीबियाराष्ट्रात् आनीतेषु अष्ट चित्रकेषु एका चित्राका विगते मासे मृता आसीत्। अनया सह दक्षिणाफ्रिका-नमीबिया- देशाभ्यां भारते आनीतेषु २० चित्रकेषु १८ चित्रका: एव अधुना अवशिष्यन्ते।

Monday, April 24, 2023

 सच्चिन् टेन्टुकरस्य अद्य ५० तमं जन्मदिनम्। 


मुम्बई> विश्वक्रिक्ट् क्रीडकेषु वरिष्ठः सच्चिन् टेन्टुकरः अद्य ५० वयस्कः भविष्यति। क्रिकट् क्रीडायां ताडनस्य [batting] समस्तमपि सौन्दर्यं दशाब्दद्वयं यावत्  प्रेक्षकाणां समक्षं प्रदर्श्य आराधकानां मनसि ईश्वररूपेण वर्तमानः सच्चिनः क्रिकटस्य अभिमानं पर्यायरूपं चाभवत्। राष्ट्रस्य विविधेभ्यः क्षेत्रेभ्यः जन्मदिनाशंसाः प्रवहन्ति।

 प्रधानमन्त्री अद्य केरले। 


'युवं - २३', 'वन्देभारत'स्य शुभारम्भः, जलमेट्रो उद्घाटनं च मुख्यकार्यक्रमाः। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयस्य सन्दर्शनार्थम् अद्य  केरलमागच्छति। सोमवासरे पञ्चवादने कोच्ची नौसेनाविमाननिलयम् अवतीर्यमाणः सः नगरोपान्ते आयोज्यमाने वीथिप्रदर्शने भागं कृत्वा तेवरा कलालयं प्राप्स्यति। तत्र युवं - २३' नामकस्य यवजनसंगमस्य उद्घाटनं करिष्यति। 

  रात्रौ ताज् मलबार् नामके कृतवासव्यवस्थः प्रधानमन्त्री क्रैस्तवधर्माध्यक्षैः सह सम्मिलिष्यति। 

  मङ्गलवासरे प्रातः मोदिवर्यः  अनन्तपुरीं गमिष्यति। तत्र १०. ३० वादने  सः वन्दे भारत रेल् यानस्य सेवारम्भाय शुभाशीः [Flag off] करिष्यति। ११ वादने 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे कोच्ची जलमेट्रो यात्रासुविधायाः समर्पणं कृत्वा ३२०० कोटि रूप्यकाणां विकसनपरियोजनानां समर्पण-शिलास्थापनादिकं निर्वक्ष्यति। १२ वादने दाद्रनगरहवेली नामकं केन्द्रशासनप्रदेशं गमिष्यति।

 व्याघ्राणां सान्निध्यं रेखाङ्कितव्यम्। पश्चिमवङ्गदेशे १५०० छायाचित्रग्राहिणः स्थापयिष्यति।

    कोल्कत्ता>> पश्चिमवङ्गदेशस्य उत्तरभागस्थेषु वनप्रदेशेषु वारं वारं आगतानां व्याघ्राणां निरीक्षणाय राज्यवनपालनमन्त्रालयेन छायाचित्रग्राहिणः स्थापयितुं निश्चिकाय।१५०० छायाचित्रग्राहिणः स्थापयितुं वनसंरक्षणमन्त्रालयेन निश्चिताः। डार्जिलिङ्क् जनपदे महानन्दा वन्यजीविसङ्केतः, कलिपोङ् जिल्लायां नियोरा वाली राज्यान्तरीयोद्यानम्, अलिप्पूर् जिल्लायां बुक्स व्याघ्रनिरीक्षणकेन्द्रम् इत्यादिषु स्थलेषु छात्रचित्रग्राहिणः स्थापयिष्यन्ति।

Sunday, April 23, 2023

 अर्जन्टीनायां डेङ्कूज्वरः  भीतिं जनयन् प्रसरति।

   ब्वोयेनोस् ऐरिस्> अर्जन्टीनायां डेङ्कूज्वरः प्रसरति। ६००० संख्यायाः अधिकजनाः ज्वरपीडिताः अभवन्। चत्वारिंशत् संख्याधिकजनाः मृताश्च। अर्जन्टीनायाः पश्चिमोत्तरप्रदेशेषु एव ज्वरः व्याप्यते। ईडिस् ईजिप्ति विभागान्तर्गत-मशकाः एव रोगवाहकाः। आविश्वं वर्धिततापहेतुना मशकानां संख्या पुनः वर्धितुं साध्यता अस्ति। मशकाः दक्षिणदेशेषु प्रसरन्तः सन्ति इति जीववैज्ञानिकया (Biologist) मरियानेला गार्सिया आल्बा इत्यनया ज्ञापिता इति रोयिट्टेस् इत्यस्य प्रतिवेदितमस्ति।

 लेख्यपत्राणि जीवकारुण्यभावेन  परिकल्पनीयानि- मुख्यमन्त्री पिणरायि विजयः।


       जगदीश्वरी एम् आर्


तिरुवनन्तपुरम् > केरलस्य मुख्यमन्त्री पिणरायि विजयः अवदत् यत् सर्वकारीयाधिकारिभिः  सर्वकारीयशासनसम्बन्धीनि पत्राणि  जीवकारुण्यभावेन परिकल्पनीयानि। यदि अधिकारिणः पूर्णहृदयेन व्यवहारं कुर्वन्ति तर्हि प्रशासनं पूर्णतया जनोन्मुखं भविष्यति इति सः अवदत्।  सचिवालये उपकार्यदर्शीतः विशिष्टकार्यदर्शिपर्यन्तं समासीनान् उद्दिश्य एकस्यां सभायां भाषमाण‌ः आसीत् केरलस्य मुख्यमन्त्री।


मुख्यमन्त्री उक्तवान् यत् प्रत्येकस्मिन् लेख्यपत्रे  स्पन्दमानं जीवनं भवति। एतादृशानि लेख्यपत्राणि म्रियमाणानि वा जीवनीयानि वा इति निर्णयं कर्तुं सर्वकारीयकर्मचारिणः एव  अधिकारिणः। अधःस्तरात् उपरिस्तरान् प्राप्यमाणानि  जीवनसम्बन्धीनि लेख्यपत्राणि कदाचित् प्रथमस्तरे एव म्रियेरन्। किन्तु   मृतप्रायानि एतानि  पुनः सजीवं कर्तुम् अधिकारिणः शक्ताः भवन्तु  इति मुख्यमन्त्री अवदत्।

 जम्मू मध्ये भीकराक्रमणं - पञ्च सैनिकाः वीरमृत्युं प्रापुः। 

पूञ्च् [जम्मु काश्मीरं]> जम्मु काश्मीरस्य पूञ्च् प्रदेशे सेनावाहनं प्रति कृते भीकराक्रमणे पञ्च सैनिकाः वीरमृत्युमुपगताः। एकः आहतश्च। गुरुवासरे आसीदियं घटना।

  भीकरविरुद्धयुद्धाय नियुक्ताः राष्ट्रिय रैफिल्स् एककस्य  सैनिकाः ये आसन् ते एव आक्रमणविधेयाः अभवन्। तेषां यानं रजौरिक्षेत्रस्थात् भीम्बर् गलि स्थानात् पूञ्चं प्रति गच्छदासीत्। त्रिभ्यः पार्श्वेभ्यः भीकराः भुषुण्डिप्रयोगमकुर्वन्। क्षेपणस्फोटकमपि  प्रक्षिप्तम्। अनेन यानम् अग्निदग्धमभवत्। संघे चत्वारः भीकराः आसन्निति मन्यते। 

  दुर्घटनायां केन्द्रसर्वकारः दुःखं प्राकाशयत्। प्रतिक्रिया प्रक्रमाः आरब्धाः। प्रदेशे निलीयमानेभ्यः भीकरेभ्यः सैन्येन अन्वीक्षणम् ऊर्जितत्वेन  कारितमस्ति।

 सिङ्गपुरस्य कृत्रिमोपग्रहद्वयस्य साहाय्येन पि एस् एल् वि सि ५५ भ्रमणपथमारूढम्। विक्षेपणम् विजयप्रदमभवत्।

  श्रीहरिक्कोट्टा> सिङ्गपुरस्य उपग्रहद्वयेन सह पि एस् एल् वि सि ५५ भ्रमणपथमारूढम्। विक्षेपणं विजयप्रदम् अभवत्। सतीष् धवान् धवान् बाह्याकाशकेन्द्रात् शनिवासरे १४.१९ समये एव विक्षेपणम् सम्पन्नम्। सिंङ्गपूरस्य-भौमनिरीक्षणोपग्रहाभ्यां  टेलियोस् -२ , लूमिलैट् -४ इत्येताभ्यां साहाय्येनैव ५८६ कि.मि . दूरस्थे भ्रमणपथे विक्षिप्तः।

Friday, April 21, 2023

 रष्य उक्रैन् युद्धसमापनाय निष्पक्षरष्ट्राणां संघः आवश्यकः इति ब्रसीलः।

                         जयराजः कोट्टारम्

ब्रसीलिया> रष्य युक्रेनयोः युद्धविरामाय निष्पक्षराष्ट्राणां संघरूपीकरणं अवश्यम् इति ब्रसील् राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवःअवदत्।युक्रैनाय शस्त्रसाहाय्यं कृत्वा पाश्चात्य राष्ट्राणि युद्धं दीर्घीकुर्वन्ति इति यदा रष्यायाः राष्ट्रपतेः व्लाडिमिर पुटिनस्य वादः अभवत्, तदा आसीत् सिलवस्य परामर्शः।२०२२ फेब्रुवारि मासे रष्य युक्रऐनस्य उपरि युद्धमाभत तदैव मध्यस्थाय श्रमः आवश्यकः इति अभिप्रायं डिसिल्वः  प्राकटयच्च। तन्मध्ये रष्यायाः विदेशकार्य सचिवः सर्जी लावरोव् सोमवासरे ब्रसीलियायां लुल ड सिलवम् अपश्यत्। तस्य अनुनयपरिश्रमेषु धन्यवादं उक्तवान् च। किन्तु लुलस्य निर्देशान् युक्रऐन् निराकरोत्। रष्यायाः आक्रमणेषु नाशितान् प्रदेशान् द्रष्टुं युक्रऐनं प्रति लुलं  आमन्त्रयत् च।

                      

 श्रीशङ्करजन्मदिनमहोत्सवः  - कालट्यां कार्यक्रमाः समारब्धाः।


कालटी> अद्वैतवेदान्तदर्शनस्य प्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जयन्तिमहोत्सवस्य अंशतया जन्मभूम्यां कालट्यां मन्दिरेषु विविधाः कार्यक्रमाः समारब्धाः। एप्रिल् २५ तमे दिनाङ्के अस्ति जन्मदिनम्। 

  आदिशङ्करकुलदेवतामन्दिरे - श्रीकृष्णमन्दिरे- कनकधारायज्ञः समारब्धः। महालक्ष्मियन्त्रविधिमनुसृत्य सज्जीकृतानि महालक्ष्मियन्त्राणि महालक्ष्म्याः प्राणप्रतिष्ठां कृतानि सुवर्णरजतपञ्चलोहयुक्तानि आमलकानि च यज्ञवेदिकायां संस्थाप्य यज्ञक्रियाः समारब्धाः। १०००८ वारं कनकधारास्तोत्रजपं पूर्तीकृत्य आमलकानि प्रसादरूपेण वितरणं करिष्यति। श्रीशङ्करजयन्तिदिने २५ तमे दिनाङ्के ५० वयातीताः ३२ अम्बाः मातृवन्दनरूपेण समादरिष्यन्ते। 

   श्रृङ्गेरि जन्मभूमिमन्दिरे श्रीशङ्करजयन्तिमहोत्सवः २१ तमादारभ्य २५ दिनाङ्कपर्यन्तं सम्पत्स्यति। प्रतिदिनं श्रीशङ्करविजयं महाकाव्यपारायणं, शास्त्रार्थविद्वत्सभा इत्यादिकं मन्दिरकार्यक्रमान् विना भविष्यति। २५ तमेदिनाङ्के जयन्तिसम्मेलनं, सन्यासिसंगमः, रथोत्सवः इत्यादयः भविष्यन्ति। 

  आदिशङ्करकीर्तिस्तम्भमण्डपे अपि सविशेषपूजाहोमादयः २५ तमदिनाङ्कपर्यन्तं प्रतिदिनं भविष्यन्ति।

 विश्वस्मिन् जनसंख्यायां चीनम् अतिक्रम्य भारतं प्रथमस्थाने प्राप्तम् इति यु एन् इत्यस्य प्रतिवेदनम्।

  नवदिल्ली> विश्वस्मिन् जनसंख्यायां भारतं चीनम् अतिक्रम्य प्रथमस्थानं प्राप्तम्। ऐक्यराष्ट्रसभायाः गणनानुसारं भारते जनसंख्या १४२.८२ कोटिः भवति। चीनस्य१४२.५७ कोटिः च। विश्वस्मिन् राष्ट्रानां मध्ये अधिकजनपट्टिकासु इदंप्रथमतया एव भारतं प्रथमस्थानं प्राप्तम्। जनसंख्यागणनायां भारत - चीनयोः मध्ये अन्तरं २५ लक्षम् इत्यस्ति।

Thursday, April 20, 2023

 सुडाने देशान्तस्संघर्षः - जनाः संघैः पलायन्ते ; २७० जनाः हताः। 

खार्तूमः> सुडान् नामके आफ्रिक्कीयराष्ट्रे पञ्च दिनानि यावत् अनुवर्तंमाने राष्ट्रान्तर्युद्धे २७० नागरिकाः हताः। २६०० अधिकाः व्रणिताः। राष्ट्रशासनाधिकाराय सुडानस्य सेना आर् एस् एफ् नामकार्धसैनिकविभागश्च मिथः  शनिवासरादारभ्य साक्षात् युद्धम् आरभेताम्। 

  राजधानीनगरात् खार्तूमात् सहस्रशः जनाः गणपवायनं कुर्वन्ति। युद्धमारभ्य चतुर्दिनानन्तरं युद्धविरामः घोषित अपि प्रवृत्तिपथं नागतम्। नगरस्य विविधस्थानेषु सम्भूतेषु स्फोटनेषु नैकानि भवनानि विशीर्णानि। भोजनाय जलाय विद्युते च  दौर्भैक्ष्यमनुभूयते।

 वन्दे भारतं कासरगोड् पर्यन्तं दीर्घितम्। द्वितीयं परीक्षणधावनमपि सम्पन्नम्।


 

नवदिल्ली> केरलाय अनुमोदिता वन्दे भारतरेल् यानसेवा कासरगोड् पर्यन्तं भविष्यतीति केन्द्र रेल्यानमन्त्रिणा अश्विनि वैष्णववर्येण निगदितम्। वन्दे भारतरेल् यानसेवामधिकृत्य विशदीकर्तुं समाकारिते वार्ताहरसम्मेलने भाषमाणः आसीत् सः।

  गतदिने द्वितीयं परीक्षणधावनमपि सम्पन्नम्। अनन्तपुरीतः प्रातः ५. २० वादने धावनमारब्धं वन्देभारतयानं ७. ५०होराकालं स्वीकृत्य कासरगोड् प्राप्तम्। प्रतिनिवर्तनयात्रायै ८ होराः पञ्चनिमेषान् च स्वीकृत्य अनन्तपुरीं सम्प्राप।

२० संवत्सराणां न्यायालयप्रक्रमानन्तरं यानचालनस्य अनुज्ञापत्रं समर्थं भविष्यति। 

    केरलम्> केरलेषु अपि अद्य आरभ्य यानचालनस्य अनुज्ञापत्रं समर्थं (Smart) भविष्यति। इतः पर्यन्तं काकदपत्रे मुद्रणं कृत्वा पलास्तिक-पत्रयोर्मध्ये मर्दयित्वा दीयमानः आसीत्। अद्य नूतनसुविधायुक्तस्य अनुज्ञापत्रस्य वितरणोद्घाटनं केरलस्य मुख्यमन्त्रिणा पिणरायि विजयेन कृतम्।

      यानचालानस्य अनुज्ञापत्र-संबन्धतया २० संवत्सरेभ्यः पूर्वम् आरब्धायां न्यायालय -याचिकायां बद्धः आसीत् अनुज्ञापत्रस्य परिष्करणः। न्यायालयेन विषयेस्मिन् त्वरितप्रक्रमाः न स्वीकृताः इत्यनेन इतः पर्यन्तं कार्यान्वयने विलम्बः जातः। अतः सुविधा यथाकालं लब्धुं जनाः असमर्थाः अभवन्। २० संवत्सरानन्तरं इदं सुदिनं समर्थपत्रेण सह आयातम्।

Wednesday, April 19, 2023

उज्जयिनीस्थपाणिनिसंस्कृत विश्वविद्यालये प्रति-बुधवासरं हरितक्षेत्रमित्युद्घोषितम्।

 वार्ताहर:- डॉ. दिनेश: चौबे

  उज्जयिनीस्थे महर्षिपाणिनि-संस्कृत-वैदिक-विश्वविद्यालये पर्यावरणस्य संरक्षणाय प्रति-बुधवासरं हरितक्षेत्रम् (Green zone) इति घोषितोऽस्ति। अस्मिन् दिने परिसरे वाहनानां प्रवेशो वर्जित: वर्तते। गतवर्षादारभ्य अयं नियम: प्रवर्तते। विश्वविद्यालयस्य माननीयकुलपति: आचार्य-विजयकुमार-सी जी वर्य: उक्तवान् यत्- ‘अनेन पर्यावरणस्य संरक्षणं भविष्यति। वयं वायुजलमृद्भिरावृत्तेः वातावरणे निवसामः। एतदेव पर्यावरणं कथ्यते। पर्यावरणेनैव जीवनोपयोगिवस्तुनी प्राप्नुमः। जलं वायुश्च जीवने महत्त्वपूर्णो स्तः। साम्प्रतं प्रदूषणसमस्या वर्तते। अनेन विविधाः रोगाः जायन्ते। पर्यावरणस्य संरक्षणमत्यावश्यकम्। तदर्थं वृक्षाः रोपणीयाः। वयं नदीषु तडागेषु च दूषितं जलं न पतेम। तैलरहितवाहनानां प्रयोगः करणीयः। जनाः तरूणां रोपणमभिरक्षणञ्च कुर्युः’ इति संदेश: तेन समाजे जागृतिमानेतुम् दत्त:। एभिः कार्यैः अन्यजना: अपि प्रेरिताः भवन्तीति। सप्ताहे एकवारम् आवश्यकरूपेण वाहनाम् उपयोगं विनैव चलामः। द्विचक्रिकया आहोस्वित् पादाभ्याम् अवश्यं चलनीयम् अनेन तैलस्य रक्षणं स्वास्थ्यलाभो च जायते ।

 निष्कामभावनया परहितकर्माचरणं सार्वभौमिको धर्मोस्ति -प्रो. शैलेन्द्रकुमारशर्ममहोदयः

एकादशी- श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठ्याः अष्टमः पर्यायः सम्पन्नः।

 चातुर्वेद-संस्कृतप्रचार-संस्थानद्वारा प्रत्येकमेकादश्यां तिथौ देशस्य भिन्न-भिन्नविश्वविद्यालयैः महाविद्यालयैः सह सम्मिल्य पाक्षिकी श्रीमद्भगवद्गीता राष्ट्रियव्याख्यानगोष्ठी समायोज्यते। सम्प्रति वैशाखकृष्णैकादश्यां रविवासरे संस्कृतविभाग-कलासंकाय-काशीहिन्दूविश्वविद्यालयः वाराणसी, श्रीभरतसंस्कृतमहाविद्यालयः छपरा बिहारः इत्येतेषां संयुक्ततत्वावधाने गोष्ठ्या अष्टमः पर्यायः सुसम्पन्नोऽभूत्। अत्र विशिष्टवक्तारूपेण काशीहिन्दूविश्वविद्यालयतः प्रो.सदाशिवद्विवेदी वर्यः आसीत्। महोदयः 'वर्तमानपरिप्रेक्ष्ये गीतोपदिष्टयोगविद्याविमर्शः' इति विषयमादय प्रोवाच यत् गीता योगविद्यायाः सर्वजनग्राह्यः, सरलः, सर्वसमादृतश्च ग्रन्थो विद्यते। योगी कः ? इति जिज्ञासायाम् आहार-विहार-चेष्टा-दिनचर्यादिभिः समन्वितो व्यवस्थितो वा योगी भवति।   तस्य कृते च फलदायिनी भवति उक्तमपि भगवता श्रीकृष्णेन -

 राजमार्गाः समर्थाः भविष्यति।  अङ्कीयराजमार्गाः  एकसंवत्सराभ्यन्तरे सफलीभविष्यन्ति।

    नवदिल्ली> राष्ट्रे राजवीथयः अतिसमर्थाः (smart)  भविष्यति। २०२४ - २५ आर्थिकसंवत्सरे राष्ट्रे सर्वत्र १०००० कि .मि अङ्कीयराजमार्गनिर्माणानां पूर्तीकरणमेव राष्ट्रियराजमार्गप्राधिकरणस्य लक्ष्यम्। राजमार्गेषु मृणालमयूखतन्तुं (optical fibre) उपयुज्य अङ्कीयराजमार्गाः प्रवृत्तिपदमानेष्यन्ति।

 कोविड् इव नूतना महामारी? साध्यतां सूचयित्वा गवेषण फलानि। 

-रणिमोल् एन् एस् 

    लण्डन्>  सामान्यजीवनं परिवर्तयन्त्याः कोविड् महामार्याः आगमनानन्तरं वर्षत्रय: अतीत:। एयर्फिनिटी नामिका प्रवचनात्मक स्वास्थ्यविश्लेषणसंस्थया (Predictive Health Analytic Institution) इदानीं दशसंवत्सराभ्यन्तरे कोविड् सदृशायाः अन्यस्याः महामार्याः साध्यता अस्ति इति सूचिता अस्ति। संस्थया एवम् अनुमीयते यत् अस्य आगमनस्य साध्यता प्रायः प्रतिशतं २७.५ अस्ति इति। न केवलं वैराणुः अपि तु वातावरणस्य परिवर्तनं, पशुजन्यरोगाश्च एतादृशानां रोगाणां कारणभूता: भवेयु: इति संस्थया उल्लिखिता अस्ति। कठिनता अपि अतितीव्रतां गच्छेत् यदा एकस्मिन् दिने बहूनां जनानां मृत्युः भवितुम् अर्हति इत्यपि एयर्फिनिटी नामिका संस्थायाः विज्ञप्तौ उक्तम्।

 एतौ पक्षिविशेषौ स्पृशति चेत् मरणं भविष्यति। न्यूगिनियायां विषमयखगविशेषौ सन्दृष्टौ।

   गृहे वयं मनोहरवर्णयुक्तान् प्रियङ्करान् पक्षिविशेषान् पालयामः। किन्तु स्पृशति चेत् मरणकारणभूतं विषं दुर्वमन्तं पक्षिद्वयविभागमपि वैज्ञानिकलोकेन संदृष्टम्।  अध्ययनस्य अस्य पृष्ठतः डानिषस्य वैज्ञानिकाः एव। विषमयं भक्षणं भुङ्क्त्वा तत् ते स्वपक्षेषु विषरूपेण परिवर्तयितुं सक्षमौ भवतः  एतौ पक्षिविशेषौ। कुरियस्य विषमण्डूकस्य विषसमानं भवति एतैः पक्षिविभागैः दुर्वमन्तं विषमिति वदन्ति। एताभ्यां सह सम्पर्कः भविष्यति चेत् हृदयाघातःभवेत् इति पूर्वसूचना अस्ति। रीजन्ट् विस्लर् अथवा पाचिसेफालाष्लेगि (pachycephala schlegelii), रुफाय् नाप्पट् बेल्बेड् अथवा अलेन्द्रियास् रूफिनुका (Aleadryas refinucha) इत्यादिभ्यां विभागाभ्यां एव एतौ संदृष्टौ।

Tuesday, April 18, 2023

 आरक्षकदलं साक्षीकृत्य उत्तरप्रदेशे नरहत्या।

भूतपूर्वः लोकसभासदस्यः अनुजश्च भुषुण्डिप्रयोगेण हतौ।

     लख्नौ> उत्तरप्रदेशे राजनैतिकदलनेता तथा शताधिकेषु दण्ड्यपराधप्रकरणेषु अभिशंसकश्च अतीख अहम्मद‌ः [६०] तस्य सोदरः अषरफ् अहम्मदश्च शनिवासरनिशायां भुषुण्डिप्रयोगेण हतौ। एकस्मिन् हत्याप्रकरणे आरक्षकावेक्षणे वर्तमानावेतौ रात्रौ वैद्यपरिशोधनाय यदा प्रयागराजस्थे आतुरालयं नीतौ तदा एव अप्रतीक्षितमाक्रमणं दुरापन्नम्। वार्ताहरव्याजेन आगताः त्रयः युवकाः एव भुषुण्डिप्रयोगं कृतवन्तः। 

  हत्याघटनायमस्यां बन्दा प्रदेशीयः लवलेश तिवारी, हमीर्पुरनिवासी सण्णि सिंहः, कासगञ्चीयः अरुण मौर्यः इत्येते त्रयः आरक्षकदलेन निगृहीताः। 

  शताधिकेषु प्रकरणेषु अपराधी अतीख् अहम्मदः अप्ना दलं, एस् पि इत्येतयोः राजनैतिकदलयोः नाम्नि तथा  स्वतन्त्ररूपेण च षट्वारं जनप्रतिनिधिः आसीत्। तस्य पुत्रः आसादः सप्ताहात् पूर्वं आरक्षकदलेन सह प्रतिद्वन्द्वे हतः आसीत्।

 वन्देभारतरेल् यानेन परीक्षणधावनं कृतम्। 


अनन्तपुरी> केरलाय नूतनतया लब्धं वन्देभारतनामकम् अर्धातिशीघ्ररेल् यानं गतदिने अनन्तपुरीतः कण्णूरपर्यन्तं परीक्षणधावनं कृत्वा प्रत्यागच्छत्। होरासप्तकं मिनिट्दशकं च कालं स्वीकृत्य एव कोट्टयं मार्गेण कण्णूर् निस्थानं सम्प्राप्तम्। इदानीम् अनेन मार्गेण सञ्चरतः शीघ्रतमात् रेल् यानात् सार्धहोराद्वयं यावत् न्यूनवेगेन लक्ष्यं प्राप्नोतीदं  नूतनयानम्। 

  कण्णूरतः मध्याह्नानन्तरं प्रतिनिवर्तनमारब्धं यानं ७. २० होराकालमुपयुज्य अनन्तपुरीं प्राप। किन्तु अस्य यानस्य परीक्षणधावशात् अन्येषां रेल् यानानां समये अर्धहोरां यावत् विलम्बः अभवत्।

 विश्वधरोहरदिवसविशेषः

ग्राम्यनिक्षेपं (धरोहरं) रक्षितुं पाणिनिसंस्कृतविश्वविद्यालयस्य अभिनवप्रयास: "चलत मिलाम: ग्राम्य देहाल्याम्" 

     (वार्ताहरः डॉ.दिनेश: चौबे )

    ग्रामा: अस्माकं संस्कृत्या आत्मा वर्त्तते यतोहि अस्माकं सांस्कृतिकं मूलं ग्रामेषु एव विद्यते। इदानीं ग्राम्यगृहं तत्रत्यं वातावरणं, पर्वाणि अनेकविधानि ग्राम्य धरोहराणि ग्रामेषु सन्ति यानि अस्माभि:विस्मृतानि। विस्मृयते च । उज्जयिनीस्थमहर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य ज्योतिष - ज्योतिर्विज्ञानविभागेन ग्राम्यवास्तुप्रेक्षणपरियोजना आरभते अस्यां परियोजनायां छात्रा:शिक्षकाश्च यथासमये विभिन्नेषु ग्रामेषु गत्वा ग्राम्यजनैः सह चर्चां कृत्वा तत्रत्या वास्तुविद्याम्, संस्कृतिं च अवलोक्य रेखाङ्कनं करिष्यन्ति । ग्रामवास्तव्यवृद्धजनानां साक्षात्कार: लघुचलचित्रम् (वीडियो ) छायाचित्रम्,वृत्तचित्राणां निर्माणं पुस्तकसंकलनमित्यादि कार्याणि भविष्यन्ति। 

       "चल मिले गांव की चौखट पे इति" शीर्षकान्वितायां परियोजनायां विभागस्य पूर्व-वर्तमान छात्रा: भागं ग्रहीतुं शक्नुवन्ति। संप्रति पञ्जीयनम् , ग्रामचयनस्य कार्यं च प्रचलति। ग्रामेभ्य:प्राप्तविवरणानुसारं छात्रा: शिक्षकाणां मार्गदर्शने सामग्रीं सम्पादिष्ययन्तिति ।एवञ्च पुनः ग्रामं गत्वा संस्कृतशब्दावलीम्,  वास्तुशास्त्रस्य प्रामाणिकज्ञानेन सह ग्राम्यजनान् परिचितं कारयित्वा भारतीयज्ञानपरम्पराया: प्रचारः प्रसारश्च् करिष्यन्ति। विश्वकर्माज्यन्त्यावसरे प्रतिवर्षम् उत्कृष्टं छात्रदलं विभागपक्षतः पुरस्कार: अपि प्रदास्यते। 

Monday, April 17, 2023

 बृहस्पतेः शीतोपग्रहान् ज्ञातुं 'ज्यूस्' नियोगः।

    -शोभा के . पि.

   सौरयूथस्य अतिबृहत्तमग्रहस्य बृहस्पतेः शीतोपग्रहान् अधिकृत्य पठितुं सिद्धा यूरोप्पीय - बहिराकाशसंस्था। एप्रिल् चतुर्दश दिनाङ्के फ्रञ्च् गयाना नाम विक्षेपणकेन्द्रात् Jupiter lcy moons explorer अथवा juice स्वस्य नियोगयात्रा आरभ्यते। २०३२ तमे अस्य नियोगः बृहस्पतेःभ्रमणपथं प्रविश्य बृहस्पतिं, बृहस्पतेः शीतोपग्रहान् च अधिकृत्य अध्ययनाय भवति। फ्रञ्च् गयानात् juice ज्यूस् इत्यस्य नियोगयात्रायाः लक्ष्यम् उपग्रहे जीवस्य सानिध्यमधिकृत्य अध्येतुम् एव। उपग्रहानुसन्धानस्य भागतया 'ज्यूस्' २०३४ तमे गुरुग्रहस्य ब्रृहत्तमस्य उपग्रहस्य ग्यानिमीडेः भ्रमणपथं प्रविश्यति।


परमाणुविद्युन्निलयाः पिहिताः। जर्मनी परमाणुयुगात् विरमति।

                                  -रणिमोल् एन् एस्

जर्मनी> जर्मनीदेशः परमाणुयुगात् दूरं याति। जर्मनीदेशः स्वस्य अन्तिमेषु परिचालनात्मकेषु परमाणुविद्युन्निलयेषु त्रीणि एम्स्लैण्ड्, इसार २, नेकारवेस्तीम् च पिधानीकृत्व परमाणुयुगात् दूरं गतवान्। बहवः यूरोपीयदेशाः परमाणुसंबन्धगवेषणे निरताः सन्ति। अस्मिन् सन्दर्भे भवति जर्मनीदेशस्य ईदृशः प्रक्रमः। १९७० तमात् वर्षात् देशे आरब्धैः परमाणुविरुद्ध आन्दोलनैः एव परमाणुविद्युद्संस्थाः पिहिताः।

चीनस्य कृत्रिमसूर्यः सप्तनिमेषं यावत् प्रज्वलितः। यथार्थसूर्यापेक्षया अस्य दशगुणिततापः च।

- रमा टी के

      चीनस्य वैज्ञानिकाः अध्ययनार्थं कृत्रिमसूर्यमेकं असृजन्। यथार्थसूर्यापेक्षया दशगुणिततापयुक्तं  कृत्रिमसूर्यमुपयुज्य ते अध्ययनानि प्रचलन्तः सन्ति। एप्रिल् मासस्य द्वादशतमे दिने सप्तनिमेषाः यावत् अतितापयुक्तां प्लाविकां (plasma) सृष्ट्वा चीनस्य सूर्येण सर्वाभिलेखाः  भेदिताः इति प्रतिवेदनमस्ति। अणुसंयोजनमाधारीकृत्यैव (Nuclear fusion) कृत्रिमसूर्याभियोजना। मालिन्यानि तथा अपरिमेयम् ऊर्जं प्रदातुं सक्षमा भवति एषा परियोजना।

Sunday, April 16, 2023

 शबरिगिरि विमाननिलयाय केन्द्रानुज्ञा। 

कोट्टयम्> दक्षिणभारतस्य प्रमुखतीर्थाटनकेन्द्ररूपेण वर्तमानस्य शबरिगिरिदेवालयस्य समीपे उद्दिष्टाय  विमाननिलयाय केन्द्रव्योमयानमन्त्रालयस्य अनुज्ञा लब्धा। राज्यसर्वकारेण समर्पितानि आर्थिक-साङ्केतिक साध्यतावेदनपत्राणि अङ्गीकृत्य एव व्योमयानमन्त्रालयस्य प्रक्रमः। 

   कोट्टयं जनपदस्थे 'चेरुवल्ली एस्टेट्' नामके पर्वतपीठभूमौ  एव विमाननिलयस्य निर्माणं भविष्यति। तत्र २२२६ एकर् परिमितां भूमिम् एतदर्थं संग्रहीतुमुद्दिश्यते। परं परिस्थिति-वित्तमन्त्रालयानां तथा Airport Authority of India संस्थायाश्च अनुज्ञा आवश्यकी।

Saturday, April 15, 2023

बालभारती पब्लिक् विद्यालये  अन्ताराष्ट्रियशैक्षिकमेलनं समायोजितम्।

- युवराजभट्टराई नवदिल्ली

    नव दिल्ली, सर गंगाराम चिकित्सालय-मार्गस्थिते बालभारती पब्लिक् स्कूल् इत्याख्ये प्रशासनेतर-विद्यालये अन्ताराष्ट्रिय शैक्षिकमेलनं समायोजितम्। ऐषमः अप्रैल् पञ्चदश्यां शनिवासरे आसीत् मेलनम्।  बहुदेशीयेषु अन्ताराष्ट्रियेषु विश्वविद्यालयीयेषु शिक्षाक्षेत्रे छात्राणां जीवन-निर्माणार्थं 'मल्टी कंट्री यूनिवर्सिटी एजुकेशन् फेयर' इति आसीत् काार्यक्रमस्य नाम। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल.वी. सहगलस्य मार्गदर्शने नेतृत्वे च विशेषरूपेण उच्च-माध्यमिक-विद्यालयस्य छात्रेभ्य: समनुष्ठित: आसीत्, येन इमे छात्रा: विविधै: अन्ताराष्ट्रिय- विश्वविद्यालयीयै: प्रतिनिधिभि: साकं परिचर्चापूर्वकं निज-शैक्षिकजीवनोन्नयनाय के के शैक्षिकविकल्पा: विदेशेषु उपलब्धा: वर्त्तन्ते इति विषये अपि ज्ञातुम् प्राप्नुयु:।

Friday, April 14, 2023

 नद्याः अन्तर्मार्गेन मेट्रो रेल् सेवा। इयं भारते प्रथमथया। परीक्षणधावनं सफलम्।

 - जगदीश्वरी एम् आर्।

    कोल्कता> भारतस्य प्रथमं जलान्तर्गत-मेट्रोतुरङ्गपरीक्षणं सफलम् जातम्। परीक्षणधावनं कोल्कत्तायां एस्प्लानेड्-नगरात् हौरा-नगरं यावत्  आसीत्।  जलान्तर्गत-मेट्रोतुरङ्गस्य दीर्घता ४.८ कि.मी. इत्यस्ति। षट् पेटिकायुक्तं मेट्रोरेल् यानम् प्रयोगाय उपयुक्तम्। मेट्रोरेल् पथः हुग्ली-नद्याः जलान्तर्भागे ३० मीटर् अधः भवति इत्यस्ति विशेषता। १२० कोटिरूप्यकाणां व्ययेन एषा परियोजना कार्यान्विता अभवत्।

 अद्य अंबेद्कर् जयन्ती; भारतेन स्मरणाञ्जलीः अर्प्यन्ते।

- राणिमोल् एन् एस्

   नवदेहली> अद्य भारतीयसंविधानस्य शिल्पकारस्य डा. बी. आर्. अम्बेद्करस्य १३२ तमं जन्मवार्षिकदिनम्। एतस्य सम्बन्धितया विविधा: संस्थादय: शोभायात्रा, अनुस्मरणकार्यक्रमाश्च समायोजयिष्यन्ति। भारतस्य प्रथम नियममन्त्री, सामाजपरिष्ककर्ता  नियमविशारद:, शिक्षाविचक्षणः इत्यादि विविधक्षेत्रेषु स्वस्य प्रभावं प्रकाशितवते तस्मै अद्य देश: स्मरणाञ्जलीः अर्पयिष्यति। राष्ट्रपतिः माता द्रौपदी मूर्मू स्वसन्देशे जनान् आह्वानं कृतवती यत् अम्बेद्करस्य अदर्शानुसारं समत्वपूर्णं समृद्धं राष्ट्रं निर्मातुं प्रयतितव्यम् इति।तेलंगाना मुख्यमन्त्री श्री. के चन्द्रशेखररावु महाशयेन तेलांगाना नागरे १२५ पादोन्नताया: अम्बेद्कर् प्रतिमाया: अनाच्छादनं करिष्यते। 


Thursday, April 13, 2023

 कोविड् प्रकरणानि आगामिनि दशदिनं यावत् वर्धिष्यन्ते। तत्पश्चात् शाम्यति इति सर्वकारमण्डलम्।

   नवदिल्ली> राष्ट्रे कोविड् प्रकरणानि आगामिनि केषाञ्चन दिनेषु वर्धयित्वा तदनन्तरं शाम्यति इति केन्द्रस्वास्थ्याधिकारिभिः आवेदितम्।आ गामिनि दश - द्वादश दिनाभ्यन्तरे रोगमानं वर्धयित्वा पश्चात् शाम्यति। केषाञ्चन प्रदेशेषु एव कोविड् प्रकरणानि वर्धन्ते। गतचतुर्विंशतिहोराभ्यन्तरे नूतनतया ७,८३० कोविड् प्रकरणानि प्रतिवेदितानि सन्ति। फेब्रुवरिमासे रोगव्यापनमानं २१.६% आसीत्। मार्च् मासे तत् ३५.८% अभवत्।

भारतस्य दक्षिणान्तं यावत् वन्दे भारत रेल्; केरलाय द्वे  याने; घोषणा अस्मिन् मासे २४ दिनाङ्के।

- राणिमोल् एन् एस्

 तिरुवनन्तपुरम् > केरलाय वन्दे भारतश्रेण्यां रेल् यानद्वयम् अनुमतम्। अस्मिन् मासे २४ दिनाङ्के केरलासंदर्शनवेलायां नरेन्द्रमोदिना विषयेSमिन् घोषणा करिष्यति। 'युवम्' कार्यक्रमस्य उद्घाटनार्थमेव स: केरलम् आगमिष्यति। कार्यक्रमस्य सन्दर्भे प्रधानमंत्रिण: प्रथमं वीथीदर्शनं कोच्चीनगरे भविष्यति। कोच्ची नाैसेनास्थानत: तेवरा सेक्रेड् हार्ट् महाविद्यालयस्य क्रीडाङ्कणपर्यन्तमेव वीथीदर्शनं निश्चितम्। कोच्चुवेल्यां वन्देभारतस्य यातायातसुविधा: सज्जा: सन्ति। तिरुवनन्तपुरत: कण्णूर् पर्यन्तमेव वन्देभारतस्य सेवा। एरणाकुलत: तिरुवनन्तपुरपर्यन्तं होरायां ७५,९०,१०० कि. मी. इति अस्य वेग:। नगरेषु प्रमुखकेन्द्रेषु यानस्य स्थगनानि भविष्यन्ति।



 केशवमहीन्द्रः दिवंगतः। 


मुम्बई> प्रमुखः उद्योगी तथा च 'महीन्द्र आन्ड् महीन्द्र' इति संस्थायाः भूतपूर्वाध्यक्षः केशवमहीन्द्रः दिवंगतः। बुधवासरे मुम्बय्यां स्वभवने आसीत् ९९ वयस्कस्य तस्य अन्त्यम्। 

  १९२३ तमे वर्षस्य ओक्टोबर् २९ तमे दिनाङ्के षिंलायां महीन्द्र इति संस्थायाः स्थापकस्य जगदीशचन्द्र महेन्द्रस्य पुत्रत्वेन केशवमहीन्दः जनिमलभत। अमेरिक्कातः बिरुदप्राप्त्यनन्तरं १९४७ तमे 'महीन्द्रयां' उद्योगस्थः अभवत्। १९६३ तमे वर्षे संस्थायाः अध्यक्षपदं प्राप्य ४८ संवत्सराणि यावत् तस्याः नायकस्थानमलंकृतवान् च। यानानाम् उत्पादकाः इतिस्थानमतिरिच्य ऐ टि, आर्थिकसेवा, विनोदसञ्चारः, 'रियल् एस्टेट्' इत्यादिषु विविधेषु मण्डलेषु स्वसंस्थां प्रतिष्ठातुं सः प्रयतितवान्।

 दक्षिणचीना समुद्रे यु. एस्. सैनिकव्यायमप्रदर्शनम्। ताय्वान् तीरे चीनस्य युद्धनौका:।

    - शोभा . के . पि.

     बेय्जिङ्> दिनत्रयस्य सैनिकव्यायामप्रदर्शनं समापितमिति प्रख्यापनं कृत्वा अपि ताय्वान् समुद्रे सैनिकसन्नाहं चीनेन अनुवर्तते। शनिवासरे ताय्वानं मण्डलीकृत्वा चीनेन सैनिकव्यायमप्रदर्शनम् आरब्धम् आसीत्। मङ्गलवासरे अपि नव युद्धनौकाः २६ युद्धविमानानि च पूर्वाताय्वान् तीरे अनुवर्तन्ते इति ताय्वान् प्रतिरोधमन्त्रालयः स्थितीकरणमकरोत्।

  चीनस्य प्रकोपनं जप्पानमपि अस्वस्थम् अकरोत्। जप्पान् देशस्य दक्षिणद्वीपाः ताय्वानस्य समीपे एव वर्तते। जप्पानस्य ओकिनाव द्वीपे यु. एस्. व्योमस्थानमपि वर्तते। विगते ओगस्ट् मासे चीनेन परीक्षितः अग्निसायकः जप्पानस्य तीरे पतितः आसीत्। 

Wednesday, April 12, 2023

सा वरिष्ठा अम्बा, वयः तु ९६, परित्यक्तपलास्तिकानां विक्रयेण कालयापनम्।

तत्तु अम्मया साकं विनेद् कोवूरः

- राणिमोल् एन् एस्

  पालक्काड्> मार्गे अश्रद्धया परित्यक्तानि  पलास्तिककूप्यादि वस्तूनि सञ्चित्‍य, तेषां विक्रयेण उदरपूरणम् करोति ९६ वयस्का एका  वृद्धमाता, तस्याः नाम तत्तु अम्मा इति। तस्याः नव अपत्यानि सन्ति। किन्तु तस्या: संरक्षणाय कोऽपि नास्तीति सा उक्तवती। पालक्काड् जनपदस्य कोल्लङ्कोड् प्रदेशे एकस्मिन् चलचित्रस्य चित्रीकरणवेलायां तया साकं मिलितवानिति मलयाल-चलचित्र अभिनेता श्री विनोद् कोवूरः तस्य मुखपुस्तिकायां (FB) लिखितवान्। तेन इत्थमपि लिखितं यत् तस्यै दत्तानि भोज्यवस्तूनि स्वीकर्तुं सा विमुखा आसीत्। परन्तु विनोद् कोवूरस्य बहुप्रेरणया अन्नादीनि स्वीकृतानि च इति।

  वृद्धजनाः पुत्रपरम्परादिभिः पालनीयाः इति नियमः सन्त्यपि केन कारणेन एवं भविष्यति?। अधुनिकशिक्षायाः आधिक्येन मनुष्यत्वम् अथवा स्नेहकरुणादयः मनुष्यहृदयेषु उद्पादनीया खलु। किन्तु शिक्षायाः फलं विपरीतं चेत् अयं शिक्षासम्प्रदायः न रक्षायै। शिक्षायाः परमं लक्ष्यं मानवत्वरक्षायैः भवितव्यम् इत्यपि तेन उक्तम्॥ FB link 

आमसोण् वृष्टिवनानां नशीकरणे पुनरपि शीघ्रता।

-जयराजः कोट्टारम्

   आमसोण् वृष्टिवनेषु वननशीकरणं पूर्वतनसंवत्सरेभ्यः अपेक्षया मार्च् मासे प्रतिशतं १४ इति क्रमेण वर्धितम् इति नूतनानि अध्ययनफलानि। ब्रसीलस्य पूर्वभूतराष्ट्रपतेः नेतृत्वे विद्यमाने शासनकले अधिकतया वृष्ट्यटव्यः नाशिता‌ः। पश्चात् कालीने शासने समागतः नूतनः राष्ट्रपतिः लूयिस् इनासियो लुल ड सिलवः, 'अहं वननशीकरणप्रवर्तनानि सम्पूर्णतया रोधयिष्यामि' इति घोषितवान्।लुलमहोदयेन आविष्कृता योजना न विजयं प्राप्ता इत्यस्य सूचना भवति नूतनम् अध्ययनफल-प्रतिववेदनम् इति परिस्थितिवादिनः वदन्ति।

Monday, April 10, 2023

 राष्ट्रियव्याघ्रसंख्यागणनापत्रं प्रधानमन्त्रिणा प्रकाशितम्। 

आराष्ट्रं ३१६७ व्याघ्राः। 

मैसुरु> भारतस्य राष्ट्रियपशोः व्याघ्रस्य संरक्षणार्थं केन्द्रसर्वकारेण आयोजितस्य 'प्रोजक्ट् टैगर्' नामकस्य ५० तमे वार्षिके नूतनं राष्ट्रियव्याघ्रसंख्यागणनापत्रं प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रकाशितम्। २०२२ तमसंवत्सरस्य गणनानुसारं राष्ट्रे आहत्य ३१६७ व्याघ्राः सन्ति। गतसंख्यागणनामपेक्ष्य २०० व्याघ्राणां वर्धनमस्ति। 

   व्याघ्रसंरक्षणवनप्रदेशानां क्षेत्रीयगणना एव कृता। प्रतिराज्यं व्याघ्रसंख्या इतःपरं प्रकाशयिष्यते।

Sunday, April 9, 2023

 केरले कोविड्बाधिताः दशसहस्रम् अतीताः। 

अनन्तपुरी> केरलराज्ये किञ्चित्कालविरामानन्तरं कोविड्बाधा प्रवर्धते। राज्यस्वास्थ्यविभागस्य गणनामनुसृत्य अद्यावधौ १०,६०९ जनाः कोविड्बाधिताः वर्तन्ते। गतदिने १८०१ जनाः कोविड्बाधिताः अभवन्। पञ्चसु जनपदेषु  परिशोधने भावात्मकतामानं प्रतिशतं  पञ्चाधिकं जातम्। एतत्तु आशङ्काजनकमिति विश्वस्वास्थ्यसंघटनस्य मतम्। 

 सोमवासरे राज्यस्वास्थ्यमन्त्रिणः नेतृत्वे अवलोकनोपवेशनं सम्पत्स्यति।  मुखावरणं अवश्यं करणीयमिति आदेशः प्रतीक्षते।

 शान्त्यै आह्वानं कृतवान् पोपः।

-राणिमोल् एन् एस्

    वत्तिक्कान्> पोप् फ्रान्सिस् महाशयेन स्वस्य ईस्टर्-दिन संदेशे रूसीयजना:, इस्रायेल-पालस्तिनी-नेतारश्च आह्वानं कृताः यत् युक्रेनदेशे रूसस्य आक्रमणस्य विषये सत्यान्वेषणम् एवं शान्तिचर्चाश्च करणीयाः इति। ८६ वर्षीयः पोपः श्वासकोशे अणुसंक्रमणकारणेन चिकित्सायाम् आसीत्, स: 'गुड् फ्राइडे' (Good Friday) दिने सेन्ट् पीटेर्स् चत्वरे तीव्रशैत्यस्य कारणात् समारोह: त्यक्तवानासीत्।

            ईस्टर् दिने पोपस्य नेतृत्वे कृते आराधनाकार्यक्रमे भागं गृहीतुम् एकलक्षाधिका: विश्वासिन: चत्वरे आगतवन्त:। पोप: संवत्सरे वारद्वये सञ्चालिते 'उर्बी एट् ओर्बी' (To the City and the World) अभिसंबोधनायामपि युक्रैनस्य शान्त्यै  प्रार्थितवान्।

                                  

Saturday, April 8, 2023

लबनान-गाज़ादेशयोः इस्रायेलस्य व्योमाक्रमणम्।

-राणिमोल् एन् एस्

   जेरुसलेमः> अद्यतनदिनेषु अल-अख्सा मस्जिदे इस्रायेलस्य आरक्षकै: कृतस्य अतिक्रमणस्य अनन्तरम् इस्रायेल-पालस्तीनयोर्मध्ये  संघर्ष: तीव्र: जातः। रोकट् आक्रमणस्य प्रतिक्रियारूपेण लेबनान् देशस्य पालस्तीन-शरणार्थिशिबिरस्य समीपे, गासा देशे अपि इस्रायेल: व्योमाक्रमणानि अकरोत्। तथा च अधिनिवेश  पश्चिमतटे गोलीका प्ररहरेण कार् यानयात्रिके भागिन्यौ द्वे इस्रायेलीमहिले मृते। माता क्षतिग्रस्ता अभवत्। तदनन्तरम् अस्मिन् क्षेत्रे इस्रायेलदेशेन सैनिकसुरक्षा वर्धिता। गाज़ानगरे व्योमाक्रमणै: हमासस्य १० भूगर्भसुरंगा: शस्त्रनिर्माणसुविधाश्च नाशिता: इति इस्रायेलेन अभिमानितम्।

 अखिलभारतीयशास्त्रीयस्पर्धायां पाणिनिसंस्कृतविश्वविद्यालयस्य छात्रेण श्रीउद्धवपौराणिकेन रजतपदकं लब्धम् ।

उद्धवपौराणिकः


(वृत्तप्रेषक: डॉ.दिनेश: चौबे)  

      नवदेहलीस्थ-केंद्रीयसंस्कृत-विश्वविद्यालयस्य तत्वावधाने काश्याम् आयोजितायाम् अखिलभारतस्तरीय शास्त्रीयप्रतियोगितायाम् उज्जयिनीस्थ-महर्षिपाणिनि संस्कृतवैदिक-विश्वविद्यालयस्य न्यायदर्शनविभागस्य छात्रेण श्री उद्धवपौराणिकेन न्यायभाषण-प्रतियोगितायां "गदाधरीयपञ्च-लक्षण्यां द्वितीयलक्षणेसाध्य भावादिकर्णत्वं केनसम्बन्धेन इति" विषये  द्वितीयस्थानं रजतपदकं  च् प्राप्तम्। अस्यां प्रतियोगितायाम् आभारतात् नाना संस्थाभ्य: समागता: छात्रा: भागं वहन्ति। प्रदेशस्तरे चित: छात्रा: एव अत्र भागं स्वीकुर्वन्ति। अस्मिन् अवसरे  विश्वविद्यालयस्य मान्य: कुलपति: आचार्य विजयकुमार सी जी वर्य: उपस्थित: आसीत्  तेनोक्तं  यत् विश्वविद्यालयस्य छात्राणां प्रदर्शनं उत्तमम् आसीत् अस्माकं छात्रा:सर्वत्र सर्वविधासु प्रतियोगितासु स्वप्रातिभं  प्रदर्शितवन्त: पदकानि च अर्जितानि।कुलपतिवर्येण छात्राणाम् आचार्याणाञ्च  अभिनंदनं  कृतम्।  एवञ्च  विश्वविद्यालयस्य  नीताशर्मा , शिवांशशुक्ल:, अवनीशशर्मा, वैदिकजोशीभि: छात्रै: विविधासु स्पर्धासु प्रतिभागं कृतवन्तः।  अवसरेsस्मिन् संस्कृतविश्वविद्यालयस्य कुलपतय:,विद्वांसः आचार्या:, छात्रा:, अन्यजनाश्च  उपस्थिता: आसन्।

Friday, April 7, 2023

 विश्वस्मिन् अतिसम्मर्दितं विमाननिलयम् अमेरिकायाम्। नवमस्थाने भारतम्। 

- शोभा . के . पि.

   विश्वस्मिन् अतिसम्मर्दितानां विमाननिलयानां नामानि बहिः आगतानि। एयरपोर्ट् कौन्सिल् इन्टर्नेषणल् डेट्टा इति संस्थया एव प्रतिवेदनं बहिः प्रकाशितम्। पट्टिकायां देहली विमाननिलयाय नवमस्थानं प्राप्तम्। भारतस्य एकस्मै विमाननिलयाय एतादृशः पुरस्कारप्राप्तिः इदं प्रथमतया एव भवति। २०२२ तम संवत्सरस्य अध्ययनफलविज्ञप्ततिम् अनुसृत्त्य देहली इन्दिरागान्धी इन्टर् नाषणल् विमाननिलये अभ्यन्तर -अन्ताराष्ट्र यात्रिकाः ५९ दशलक्षं आसन्। २०१९ तमे कोविड् तरंगात् पूर्वं १७ तमं स्थानमासीत्। भारतेषु अधिकसम्मर्दितेषु  विमाननिलयेषु द्वितीयंस्थानं मुम्बैनिलयाय प्राप्तम्।

 विश्वस्मिन् इदं प्रथमतया समुद्रस्य ८३३६ मीट्टर् अगाधात्  स्नेयिल् मत्स्यस्य चित्रम् गृहीतम् ।

  - शोभा के पि

   जाप्पान्> जाप्पान् राष्ट्रे इसु ओगास्वार गभीरे ८३३६ मीट्टर्  अगाधे एव स्नेयिल् मीनाः द्रष्टवन्तः। इतः पूर्वं ८१७८ मीटर् परिधये  मरियानायाः अगाधतायाम् अस्य सान्निध्यम् उल्लिखितम् आसीत्। अल्पोष्णजलस्य सान्निध्यमेव स्यात् इति स्नेयिल् मीनं द्रष्टुं कारणत्वेन गवेषकाः सूचयन्ति। ३० सेन्टीमीट्टर् एव स्नेयिल् नीनानाम् आयतिः। एतादृशाः त्रिदशाधिके वर्गाः सन्ति। आर्टिक्, अन्टार्टिक् इत्यादि शीतप्रदेशेषु अपि स्नेयिल् मीनानां सान्निध्यमस्ति। ८२०० मीटर् तः ८४०० मीटर् पर्यन्तम् अगाधतलेषु एतादृशाः मीनाः द्रष्टुं शक्यते इति गवेषकाः सूचयन्ति।

 सर्वविनाशम् अगच्छत्। कृत्रिमबुद्धिः परमाणुयुद्धापेक्षया अत्यधिकविनाशकारी इति गवेषकाः।

                           - रेवती के एम्

    प्रौद्योगिकविद्या नूतनयुगे कृत्रिमबुद्धियुगे प्रविशति। मनुष्यबुद्धिम् अतिक्रम्य कृत्रिमबुद्धेः उन्नतिम् इदानीं वयं पश्यामः। अद्यत्वे कृत्रिमबुद्ध्या दत्तांशानाम् कार्यनिर्वहणाय विद्यते। जीपीटी4 इति कृत्रिमबुद्धिः मनुष्यवत् भाषायाः प्रयोगाय शक्ता इति सर्वेषाम् आश्चर्यजनकमेव। एकतः कृत्रिमबुद्ध्या मानुषिककार्याणि सरलीकर्तुं शक्यते इति प्रतीक्षा वर्तते किन्तु विषयेऽस्मिन् आशङ्का वर्तते। अतः एतादृशीम् एकां पूर्वसूचनां ददाति कृत्रिमबुद्धेः गवेषकः एलिसर् युड्कोव्स्कि महोदयः। एतादृशानां तन्त्राणां निर्माणं न करणीयमिति, करोति चेत् पृथिव्यां सर्वे म्रियेरन् इत्यपि तेन महोदयेन टैं (time) पत्रिकायां लिखितम्। 

Thursday, April 6, 2023

 पृषती मुषली सन्दृष्टा

     भारते उत्तरकेरलात् कोङ्कणवन प्रदेशात् नूतना पृषती मुषली (home lizard) सन्दृष्टा। कोष़िक्कोट् जनपदस्य चेङ्ङोट्टुमला वनप्रदेशात् एव एषा गृहगोधिका सन्दृष्टा। सिर्टेडोक् टैयलन्स् चेङ्ङोट्टुमलन्सिस् (Cyrtodactylus chengodumalaensis) इत्यस्ति अस्याः वैज्ञानिकीय नाम। अमेरिक्कराष्ट्रे वर्तमानस्य जेर्णल् ओफ् हेर्पट्टोलजि इत्यस्मिन् नूतनगोधिकायाः विषये उल्लिखिता अस्ति।

 अरुणाचल्प्रदेशः भारतस्य अविभाज्यभागः। 

-रेवती के. एम्

   अरुणाचल्प्रदेशस्य विविधप्रदेशेभ्यः नूतननामानि दत्तस्य चीनस्य प्रवृत्तिः अनुचिता इति अरिन्दं बाग्चिरवदत्। अरुणाचल्प्रदेशराज्ये विद्यमानानाम् एकादशप्रदेशानां नामान्येव चीनेन परिवर्तितम्। एतादृशरीत्या नामकरणाय नाम परिवर्तनाय वा चीनाय अधिकारः नास्ति। अस्माभिः तत् अङ्गीकर्तुं न शक्यते। अरुणाचल्प्रदेशः भारतस्य अविभाज्यभागः भवति। पूर्वमपि चीनेन एवं कृतम् आसीत् इत्यपि भारतस्य विदेशकार्यवक्त्रा अरिन्दं बाग्चिना उक्तम्I

 मार्बर्ग् वैराणुः, गल्फ् देशाः अतीवजाग्रतायाम्। 

                     -राणिमोल् एन् एस्

    अबुदाबी> वैश्विकरूपेण मार्बर्ग् वैराणुव्यापनहेतुना गल्फ् देशे पूर्वसूचना प्रसारिता। यू.ए. ई., सउदी-अरब् देशयोः अनन्तरं बुधवासरे ख़त्तर् स्वास्थ्यमंत्रालयेन अपि स्पष्टीकृतं यत् परिस्थिती: निरीक्षन्ते इति। वैराणुविषये स्थानीय-अन्ताराष्ट्रिय- संस्थानां सहकारेण निरीक्षणं सुदृढं कृतमस्ति। खत्तर् मंत्रालय: तद्देशवासिनान् प्रवासिनाञ्च अत्यावश्यकस्थितौ विहाय तान्सानिया, इक्विटोरियल् तथा गिनी देशान् प्रति यात्रां मा कुरुत इति निर्देशः दत्तः। परित्यक्तुमशक्येन कारणेन एतेषु देशेषु जिगमिषवः उभयदेशस्थानीयाभिः स्वास्थ्यप्राधिकारिभि: प्रदात्ता: पूर्वसूचनानिर्देशा: पालनीयाः।

  स्निग्धसुवासकस्य उपयोगेन कान्सर्- रोगः।     ७२००० कोटिरूप्यकाणां क्षतिपूर्तिं दातुं सज्जः जोण्सन् आन्ट् जोण्सन् कम्पनी।

- रेवती 

  न्यूयोर्क्> जोण्सन् इत्यस्य  स्निग्धसुवासकस्य (baby talcum powder) उपयोगः कान्सर् रोगस्य कारणं भवतीति ज्ञात्वा कम्पनीजनाः प्रकरणस्य निराकरणाय ७२००० कोटिरूप्यकाणां क्षतिपूर्तिः प्रख्यापितवन्तः । जोण्सन् कम्पन्या निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति गवेषणफलं ज्ञात्वा कम्पनीजनाः स्निग्धसुवासकस्य उत्पादनं स्थगितवन्तः। यतः तस्मिन् स्निग्धसुवासके विद्यमानः एस्बेस्टोस् पदार्थः कान्सर् रोगस्य कारकः भवति । अनेन एस्बेस्टोस् पदार्थेन शिशुषु मेसोतेलियोमा इति रोगावस्थापि आगच्छति। 

    स्निग्धसुवासकस्य नाम श्रवणेन जोण्सन् आन्ट् जोण्सन् कम्पन्याः नाम एव प्रथमं सर्वेषां मनसि आगच्छति। किन्तु तेन निर्मितानि उत्पन्नानि कान्सर् रोगं जनयन्तीति ज्ञात्वा प्रायः ३८००० जनाः कम्पनीविरुद्धानि आरोपणानि उन्नीय न्यायालयं गतवन्तः।