OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 15, 2023

बालभारती पब्लिक् विद्यालये  अन्ताराष्ट्रियशैक्षिकमेलनं समायोजितम्।

- युवराजभट्टराई नवदिल्ली

    नव दिल्ली, सर गंगाराम चिकित्सालय-मार्गस्थिते बालभारती पब्लिक् स्कूल् इत्याख्ये प्रशासनेतर-विद्यालये अन्ताराष्ट्रिय शैक्षिकमेलनं समायोजितम्। ऐषमः अप्रैल् पञ्चदश्यां शनिवासरे आसीत् मेलनम्।  बहुदेशीयेषु अन्ताराष्ट्रियेषु विश्वविद्यालयीयेषु शिक्षाक्षेत्रे छात्राणां जीवन-निर्माणार्थं 'मल्टी कंट्री यूनिवर्सिटी एजुकेशन् फेयर' इति आसीत् काार्यक्रमस्य नाम। एष: कार्यक्रम: प्रधानाचार्यस्य श्री एल.वी. सहगलस्य मार्गदर्शने नेतृत्वे च विशेषरूपेण उच्च-माध्यमिक-विद्यालयस्य छात्रेभ्य: समनुष्ठित: आसीत्, येन इमे छात्रा: विविधै: अन्ताराष्ट्रिय- विश्वविद्यालयीयै: प्रतिनिधिभि: साकं परिचर्चापूर्वकं निज-शैक्षिकजीवनोन्नयनाय के के शैक्षिकविकल्पा: विदेशेषु उपलब्धा: वर्त्तन्ते इति विषये अपि ज्ञातुम् प्राप्नुयु:।

अस्य अन्ताराष्ट्रिय-शैक्षिकमेलन-कार्यक्रमस्य प्रथमं सत्रं प्रात: 10:00 वादनत: 11:00 वादनपर्यन्तं टोरंटो विश्वविद्यालयस्य प्रतिनिधिभि: सह परिसंवाद-सत्रत्वेन समायोजितम्। यस्मिन् वैदेशिक-विश्वविद्यालयेषु प्रवेशप्रक्रियाविशेषज्ञ: तत् तत् परामर्शदाता च "अप्रतिम: मुखोपाध्याय:" छात्रान् सम्बोधितवान् वैदेशिकेषु विश्वविद्यालयेषु भारतीयछात्रेभ्य: जीवनोन्नयनप्रसङ्गे उपलब्ध-शैक्षिकावसराणां सन्दर्भे प्रवेश प्रक्रियाविषये च छात्रान् अवगतीकारितवान्। चर्चासत्रस्य अवसरे छात्रजनैः निज-जिज्ञासा: प्रश्नाश्चापि तस्य पुरत: उपस्थाप्य तेषां समाधानम् अधिगतम्। अपरत्र च अस्य एजुकेशन् फेयर् मेलकस्य द्वितीयसत्रं IELTS (आई.ई.एल.टी.एस.) इत्येतस्मिन् आधारिता आसीत्। यद्धि पूर्वाह्णे 11:00 वादनत: मध्याह्ने 12:00 वादनपर्यन्तम् आयोजितम् अभूत्। एतदन्तर्गतं IELTS इत्याख्या परीक्षा अर्थात् अन्ताराष्ट्रियाङ्गलभाषा-परीक्षण-व्यवस्था-विषये विस्तारेण छात्रा: प्रबोधिताः। धेयमस्ति यत् विदेशेषु, यत्र आङ्गलभाषा एव सम्प्रेषणस्य मुख्या भाषा वर्तते यदि छात्रा: तत्र गत्वा पठितुं कार्यं कर्तुं च वाञ्छति चेत्तस्य कृते एषा परीक्षा अनिवार्य-रूपेण देया भवति। येषां देशानां विश्वविद्यालयेषु प्रवेशार्थं आई.ई.एल.टी.एस. इति परीक्षा स्वीकृता भवति, तेषु ब्रिटेन-ऑस्ट्रेलिया-न्यूजीलैंड- अमेरिका-कनाडा-प्रभृतयः सन्ति प्रमुखा:। एतस्मिन् सत्रे छात्रा: सम्बोधिता: यत् अस्या: परीक्षाया: अवसरे अभ्यर्थिन: आङ्गलभाषाध्ययनस्य, भाषणस्य, लेखनस्य च कुशलता परीक्ष्यते। एषा परीक्षा कथं सरलतया पारयितुं शक्या इति विषये अपि छात्रा: विस्तारपूर्वकं संसूचिता:। साकमेव वैदेशिक-शिक्षाया: कृते शिक्षा ऋणम् कथं कुत: च प्राप्तुं शक्यते इत्येतद्विषयेऽपि छात्राणां मार्गदर्शनं विहितम्। अस्या: एजुकेशन् फेयर् चर्चाया: अन्तर्गतं पञ्च चत्वारिंशदधिकानां विश्वविद्यालयानां प्रवेश-प्रतिनिधिभि: सह युगपदेव एकत्र सम्मुखीभवनम् अपि छात्राणां कृते महान् अवसर: सिद्ध: छात्रैः निजप्रश्नानां समाधानमपि प्राप्तम्। कार्यक्रमे छात्राणाम् उत्साह: दर्शनीय: आसीत्।