OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 3, 2023

 उज्जयिनीस्थपाणिनिसंस्कृत- विश्वविद्यालये 

   देवीपूजनपाठविधान-प्रशिक्षणम् इत्यस्य शुभारम्भ:

(वार्ताहर:- डॉ.दिनेश: चौबे ) 

   उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृत-वैदिक-विश्वविद्यालयस्य संस्कृतशिक्षण-प्रशिक्षणज्ञान

विज्ञानसंवर्धन-केन्द्रस्य तत्त्वावधाने वैक्रमाब्द: २०८० चैत्रशुक्लएकादश्यां तदनु एकतमे दिनाङ्के "देवीपूजनपाठविधान प्रशिक्षणम्" इत्यस्य शुभारंभ: आभासीयपटलमाध्यमेन सञ्जात: प्रशिक्षणमिदं एकदिनाङ्कदारभ्य नवविंशतिदिनाङ्कपर्यन्तं भवेदिति। अस्मिन् प्रशिक्षणे देवीपूजनस्यविधानमंत्रस्त्रोत्रादि -विषये सरलतया प्रशिक्षणं प्रदास्यते। विश्वविद्यालयस्य मान्य: कुलपति: आचार्यविजयकुमारसीजीवर्यस्य निर्देशने विश्वविद्यालयस्य केन्द्रेण अस्य प्रशिक्षणस्यामायोजनं क्रियते। उद्घाटनकार्यक्रमे मुख्यवक्तृरुपेण वेदव्याकरणविभागाध्यक्ष: प्रभारिनिदेशकः संस्कृतप्रशिक्षणकेन्द्रम् 

   डॉ. अखिलेशकुमारद्विवेदिमहोदय: उपस्थितः आसीत् । महोदयः स्ववक्तव्ये देवीपूजनस्य नैकान् वेदोक्तप्रमुखान् पक्षान् तेषां प्रभाव: पद्धतयादि विषये स्वविचारान् उपस्थापितवान्, अस्माकं जीवने तेषां महत्त्वम् उपयोगिता वैशिष्ट्यञ्च प्रतिपादितम्।

           कार्यक्रमस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन वैदिकमङ्गलाचरणेन च जातः। तदनु वाचिकं स्वागतं प्रास्ताविकं च प्रस्तुतम्। अस्मिन् प्रशिक्षणे देशस्य विदेशस्य जिज्ञासव: सामाजिका: छात्रा: अन्यजनाश्च भागं वहन्तः सन्ति । प्रशिक्षकरूपेण वेदविभागस्य आचार्याः डॉ. अङ्कितशाण्डिल्य:, श्रीप्रणवकश्यप: अन्ये विद्वांसः च सन्ति ।सञ्चालनम् आरभारप्रदर्शनञ्च कार्यक्रम समन्वयकेन डॉ. दिनेश चौबेमहोदयेन कृतम्। कल्याणमन्त्रेण सह कार्यक्रमस्य समापनं जातम्।