OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 30, 2016

काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम् -सप्तसैनिकानां वीरमृत्युः।
 श्रीनगरम् > जम्मुकाश्मीरस्य नग्रोड प्रविश्यायां भारतसैन्यस्य षोडशतमं मुख्यास्थानं प्रति मङ्गलवासरे प्रत्युषसि संवृत्ते भीकराक्रमणे सप्त भारतीयसैनिकाः वीरमृत्युम् उपगताः। आरक्षकवेषं धृत्वा आगताः भीकराः सैनिकालयस्य महानससमीपं भवनं प्रविश्य भुषुण्डिप्रयोगं कृतवन्तः। सैन्यस्य प्रत्याक्रमणे त्रयः भीकराः यमपुरीं प्राप्ताः। समीपकाले प्रवृत्तयोः उरि, पठान्कोट्ट् आक्रमणयोः अनन्तरं संपन्नेन अनेन आक्रमणेन जनाः सम्भीताः आशङ्काकुलाश्च संवृत्ताः।

वाहनचालकस्य धनजनयोजना लेखायां ९८०६ कोटिरूप्यकाणि।
चण्डीघर् > स: एक: वाहनचालक:। तस्य नाम बलवीर् सिंह:। पञ्जाब् प्रान्ते निवसति। एस्.बी.ऐ. धन जन योजनायां तस्य एका लेखा अस्ति। अस्मिन् मासे चतुर्थदिनाङ्के तस्य  लेखायां ९८०६ कोटि रूप्यकाणि नेक्षिप्त: अभवत्। एतद्धनं दृष्ट्वा स: आश्चर्यचकित: अभवत् । चलवाणी संदेशं दृष्ट्वा आनन्दितवान् । परन्तु दिनद्वयानन्तरं तद्धनं सर्वं तस्य लेखाया: बहिर्गतम्। स: तु तस्य लेखायां ३,००० रूप्यकाणि एव सन्ति। ९८०६ कोटि रूप्यकाणि कुत: आगतानि स: न जानाति इति अवदत् । स: वित्तकोशं गत्वा वित्तकोशस्य अधिकारीं पृष्टवान् कोsपि उत्तरं न दत्तवन्त: इति स: अवदत्। स: एतत् सर्वं आयकर शाखाधिकारीं प्रति अवदत्। वित्तकोश प्रबन्धक: सन्दीप: तस्य विवरणं दत्तवान्। तस्य लेखायां २००रूप्यकाणि निक्षेपणसमये वित्तकोश धनाधिकारी सङ्ख्या दोषेण कृतवान् अत: तस्य लेखायां ९८०६ कोटिरूप्यकणि आगतानीति वित्तकोश प्रबन्धक: अवदत् । अनन्तर दिवसे तच्छुद्धं च कृतमिति अवदत्।

विपक्षिदलानां सहायनिराकरणोद्यमस्य समाप्ति:
जनानां धनपत्राणां कष्टान् केन्द्रं प्रति नीत्वा समस्याया: परिहाराय विपक्षिदल-नेतार: तेलंगाना, आन्ध्र प्रान्तयो: पिधानाय वै.एस्.आर्.सीपी प्रयत्न: कृत:। परन्तु कुत्रापि तस्य प्रभाव: न अभवत् । बस् यानानि पिधानार्थं विपक्षिदल-नेतार: आन्दोलनं कृतवन्त: । आन्दोलनकारान् रक्षकभटा: कारागृहं नीतवन्त:। भारतकान्ग्रेस् तु  भारतपिधानं नास्ति केवलं आक्रोशदिवस: एव इति प्रकटित:। हैदराबाद् नगरे पिधानस्य प्रभाव: कुत्रापि न दृष्ट:। एम्.जी.बी.एस् बस् यान स्थानत: बस् यानानि यदेच्छेन चलितानि।

 उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकम्
प्रपञ्चे अन्तर्जाल शोधनं उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकमस्तीति एका सर्वेक्षण संस्था उद्घोषिता। अभिज्ञचलवाणी (Smart Mobile) आगमनान्तरं चलवाण्यामेव अन्तर्जालान्वेषणम् कर्तुं जना: रता: भवन्ति। अत: सर्वे वाणिज्य संस्था: अन्येतर संस्था: च जालदेशापेक्षया चलवाणी जालदेशस्य अधिकं प्राधान्यं यच्छेदिति निपुणा: वदन्ति। भारते ७०% जना: चलवाण्यामेव अन्तर्जालमेव उपयोगं कुर्वन्तीति निपुणा: वदन्ति।
सोपानम्-22 Taara G. Bhavan's Munshi Vidyashram, Thiruvankulam,Trippunithura.


Tuesday, November 29, 2016

 व्याजधनं प्रकाशयितुम् एकोsपि सन्दर्भः।
नवदिल्ली> येषां सकाशे असाधुपत्ररूप्यकसहितानि व्याजधनानि सन्ति तादृशधनानि प्रकाशयितुम् एकवारमपि समयः केन्द्रसर्वकारेण लभ्यते। याथातथ्यप्रमाणं विना सम्भृतानि ५००, १००० रूप्यकाणां धनपत्राणि डिसम्बर् ३०तम दिनाङ्कात् पूर्वं स्वमेधया प्रकाश्य वित्तकोशेषु निक्षिप्यन्ते तर्हि केवलं ५० शतमानपरिमितं शुल्कं देयम्। अथवा ५० शतमानपरिमितं शुल्कं दत्वा प्रधानमन्त्रिणःगरीब् कल्याण् योजनानुसारं प्रतिज्ञापत्रेषु निक्षेप्तुम् अर्हन्ति। किन्तु निक्षेपाणां स्रोतः यदि न प्रकाश्यते , अधिकृतैः अवगम्यते तर्हि शुल्क-दण्डन रूपेण ९० शतमानपरिमितं दातव्यम्।

अवैधधनप्रकरणे केंन्द्रप्रशासनस्य महत्त्वपूर्णनिर्णयः
नवदिल्ली>अवैधधनप्रकरणमालक्ष्य केन्द्रप्रशासनेन महत्त्वपूर्णपदक्षेपं विधाय आयकरविधौ  संशोधनार्थं लोकसभायां  विधेयकमेकमुपस्थापितम्। नवंबरमासस्य अष्टमदिनानन्तरं सञ्चितावैधधनस्योपरि प्रतिशतं पञ्चाशतमित: करदण्डः भविष्यति, यस्य प्रतिशतं पञ्चविंशतिमितं धनं निर्धन-कल्याण-योजनायै प्रयोक्ष्यते। शेष-धनस्य प्रत्यावर्तनं वर्षचतुष्ट्यानन्तरं भविष्यति , अघोषित-आयस्य स्वत: प्रकटनाभावे प्रतिशतं 85 करः प्रदेयो भविष्यति|

 वैद्युतिकादानप्रदान-सौध्यविषयिणी कार्यशाला
नवदिल्ली>प्रधानमंत्रिणः नरेंद्र मोदिनः cashless transaction इति  हस्तधनविनिमयाभावसमाह्वाने प्रधानमंत्री कार्यालयस्य वरिष्ठाधिकारिभिः विशेषोद् बोधनं प्रारब्धम् ।अधिकारिभिः दैनिकोपयोगाय वैद्युतिकादानप्रदान-सौविध्यविषयिणी एका कार्यशाला समायोजिता। अपि च  वित्तमंत्रालयेन वैद्युतिकादानप्रदानसौविध्यविषये जनानां परिचयः कारितः।

 वेंकैया नायडू  वामदलेषु वाक्शूलान् आरोपितवान्।
केंद्रीय सूचनाप्रसारण मंत्री वेंकैया नायडू कांग्रेसदलीयानां वामदलीयैः मिलित्वा विमुद्रीकरणं विरुद्य कृतभारतपिधानप्रत्यूहम् अधिकृत्य वाक्शरैः तान् विरुद्ध्य ताडितवान् । प्रोक्तं च यत् एतानि दलानि जनतावञ्चकदलानि। अतः पृथक्तिरस्करणीयानि । संसदि कार्यान्वयनाय च दलानां समाह्वानं कृतम् ।

Monday, November 28, 2016

कारागाराक्रमणेन खालिस्थान् नेतृसहिताः षट्जनाः मोचिताः। 
पटियाला > पञ्चाबराज्ये नाभा सेन्ट्रल् कारागारम् आक्रम्य सायुधसङ्घः निरोधितसंस्थायाः खालिस्थान् लिबरेषन् इत्यस्याः नेता हर्मिन्दर् सिंह मिन्टु नामकसहितान् षट् कारागारस्थान् अमोचयत्। आरक्षकवेषेण कारागृहं प्राप्तैः कैश्चित् युवकैः आक्रमणं कृतमिति अधिकृतैः उक्तम्। तेष्वेकः आरक्षकैः गृहीतः।
     ह्यः प्रभाते उपनववादने कार् यानद्वयेन आगतः अक्रमिसङ्घः कारागारस्य द्वारपालकं छुरिकामुपयुज्य आक्रम्य आरक्षकान् विरुध्य शतचक्रपरिमाणं यावत् भुषुण्डिप्रयोगः कृतः।द्वौ आरक्षकौ व्रणितौ। कुप्रसिद्धाः अधोलोकनेतारः एव खालिस्थान् नायकेन सह रक्षां प्रप्ताः।

Sunday, November 27, 2016

फिदल् कास्त्रो दिवंगतः। 
क्यूबाराष्ट्रं पञ्चदशाब्दं यावत् ऐतिहासिकरीत्या शासनं कृतवान् फिदल् कास्त्रो इति नाम्ना प्रख्यातः फिदल् अलहान्द्रो कास्त्रो रूस् यशःशरीरः सञ्जातः। अमेरिक्कादीनि साम्राज्यत्व राष्ट्राणि जनकीयसेनान्दोलनेन प्रतिरुध्य राष्ट्रपति- प्रधानमन्त्रिरूपेण क्यूबाराष्ट्रं नीतवान् विप्लवनायकः आसीत् फिदल् कास्त्रो वर्यः। क्यूबाराजधान्यां हवानायां शुक्रवासरे रात्रौ आसीत् अन्त्यमिति तस्य सोदरेण तथा च क्यूबाराष्ट्रपतिना रौल् कास्ट्रोवर्येण विज्ञापितम्। फिदलस्य अन्त्याभिलाषमनुसृत्य मृतदेहः शनिवासरे एव दग्धः। क्यूबायां नवदिवसीयं दुःखाचरणम् प्रख्यापितम्।

जनरलबाजवा पाकिस्तानस्य  नूतनसैन्यप्रमुख:
 पाकिस्ताने भाविसैन्यप्रमुखः कः भविष्यति इति विषयात्मकोहापोहः समाप्तिंगतः,पाकिस्तानस्य सैन्यप्रमुखस्य राहिलशरीफ़स्य सेवानिवृत्तेरनन्तरं लेफ्टिनेंट-जनरल-क़मर-जावेद-बाजवा भाविसैन्यप्रमुखत्वेन प्रचितः। बलूचरेजीमेंट इति सैन्यदलात् सम्पृक्तः जनरल-बाजवा पाकिस्तानस्य षोडशः सेनाप्रमुखः भविष्यति। असौ सोमवासरे सैन्यप्रमुखपदभारं स्वीकरिष्यति।

प्राचीनशिलाचित्राणि मध्यप्रदेशतः लब्धानि।
भोपाल्> विश्वस्य प्राचीनतमानि  शिलाचित्राणि मध्यप्रदेशराज्यतः लब्धानि। चित्राणां पञ्चलक्षं संवत्सराणां प्राचीनत्वम् अस्ति। माण्डस्वर् जनपदस्य भान् पुरे एव शिलासु लिखितानि चित्राणि दृश्यन्ते । दराकी चट्टन् गुहायाः त्रिंशदधिकपञ्चाशत्-संख्यामितानि चित्राणि संवीक्ष्य एव पुरातन-शिला-चित्राणि अभिज्ञातानि इति रोक् आर्ट् सोसईटी इति सुज्ञातायाः संस्थायाः कुलसचिवः गिरिराज-कुमारः अवदत्। द्वयाधिक द्विसहस्रतमात् संवत्सरात् आरभ्य अम्मिन् मण्डले अनुसन्धानः प्रचलन्नस्ति। ओस्त्रेलियायाः अनुसन्धान वैज्ञानिकेन रोबर्ट् जी बेड्नारिकेन एव एतानि चित्राणि प्राचीनात् प्राचीनतराणि इति प्रमाणीकृतानि।

Saturday, November 26, 2016

आन् फ्राङ्कस्य कवितायाः कोटि रुप्यकाणां मूल्यम्

आम्सटर् डाँ > आन्फ्राङ्क् नाम बालिकायाः हस्तलिखिता कविता अस्ति, तस्याः कृते कोटि रुप्यकाणि लब्धानि। द्विचत्वारिंशत् अधिक नव-शतोत्तर एक-सहस्रतमे (१९४२)मार्च् मासे अष्टाविंशति दिनांगे लिखिता कविता इयम्। अस्मिन् द्वादश पङ्क्तयः सन्ति। गतदिने हार् लीमा नगरे आयोजिते आहूतविपणनेन  विक्रीता इयम्। काकदे श्याम-वर्णेन डच्च् भाषायां लिखिता कवितेयम् ।
आन् लीस् मेरी फ्राङ्क् नामिका जूत-गोत्रीय-बालिकया लिखिता दैनिकी विश्वे प्रसिद्धा भवति । आन् फ्राङ्कस्य दैनिकीलेखम् इति एव अस्य लेखस्य नाम। अस्मिन् नासीनायकस्य हिट्लरस्य  पीडनानि विस्तरेण लिखितानि सन्ति।

Friday, November 25, 2016

 भारते प्रप्रथमतया प्रदानवित्तकोश: प्रारब्धः।
नवदेहली >प्रमुख प्रमुख-दूरवार्ता-प्रसारक-संस्था (एयर् टेल्) भारते प्रप्रथमतया प्रदानवित्तकोशस्य (payment bank) स्थापना राजस्थान् प्रान्ते अद्य प्रारब्धा। प्रयोगात्मकरूपेण वित्तकोशस्य सेवा: आरब्धा । एयर्टेल् प्रदर्शनापणेषु वित्तकोशलेखां उद्घाटयितुं शक्यते । एतेषु वित्तकोशेषु धनविनिमय,उपसंहारणादि सौकर्याणि लभ्यन्ते । धनपत्र निरसन कारणत: जनानां कृते संख्यातरङ्गरीत्या धनदानादानं (Digital payment) आनीतम् । अधुना राजस्थान् प्रान्ते १०,००० एयर्टेल् प्रदर्शनापणेषु वित्तकोश शाखा: उद्घाटिता: । आगामि दिवसेषु   । सर्वेष्वपि देशान्तरप्रान्तेषु विस्तृतरूपेण अस्या: संस्थाया: शाखा: उद्घाटयिष्याम इति एयर्टेल् वित्तकोशस्य सी.ई.ओ शशिअरोरा अवदत्।

 धनपत्रस्य परिवर्तनं समापितम्।
नवदिल्ली> निरोधितानां पञ्चशत - सहस्र रूप्यकाणां धनपत्राणि वित्तकोशद्वारा पत्रालयद्वारा च नूतनधनपत्र रूपेण परिवर्तनसुविधा समापिता। किंतु इतःपरमपि एतादृशानि असाधुरूप्यकाणि स्वस्य वित्तकोशस्थपञ्चितदलेषु (bank account) निक्षेप्तुमेव अर्हति। तथापि येन केनापि अवश्यसेवनद्वारा प्राचीनपञ्चशतरूप्यकाणां उपयोगः डिसंबर् मासस्य पञ्चदश दिनाङ्गपर्यन्तं कर्तुं शक्यते। विनिमयमण्डलेभ्यः सहस्रस्य (१०००) धनपत्राणि सम्पूर्णतया निरुद्धानि।

Thursday, November 24, 2016



व्याजधनानि बहिरागतानि।
कोच्ची >राष्ट्रस्य विभिन्न -भागेषु परित्यक्ताः व्याजधन-गोण्यः उपलब्धाः । वार्तामाध्यमेषु गुप्त रीत्या एव इमाः वार्ता: प्रचलन्ति। वक्तव्यं यत्  अलीकधनस्योपरि भारत-सर्वकारेण कृता सधैर्यप्रक्रिया आसीत् इयम् । अतः एव इदानीमपि व्याजधनगोण्यः वीथी पार्श्वतः लभ्यन्ते। गतदिने भारतस्य दक्षिणकोणतः पीरुमेट् नाम प्रदेशतः अपि सहस्र-रुप्यकाणां २५८ संख्यामितानि व्याजमुद्रितानां काकदानां गोणी उपलब्धा। लब्धानां सर्वेषामपि रुप्यकाणां क्रमसंख्या समाना आसीत् । रुप्यकाणि पीरुमेट् न्यायालये समर्पितम् अस्ति। केरळराज्यस्य इटुक्कि जनपदस्य सुखावासकेन्द्रः भवति पीरुमेट् नाम गिरिप्रदेशः।

सर्वपक्षसङ्घेघेन दिल्लीदौत्यम् उपेक्षितम्। 
  अनन्तपुरी> केरळात् शासन-विपक्षदलयोः सर्वपक्षसङ्घस्य दिल्लीयात्रा उपेक्षिता। विमुद्रीकरणद्वारा केरले सहकारिवित्तकोशेषु सञ्जातं प्रतिसन्धिमधिकृत्य प्रधानमन्त्रिणम् विशदीकर्तुमेव यात्रा उद्दिष्टा। किन्तु प्रधानमन्त्रिणं द्रष्टुम् अनुमतिः न लब्धा। केरलविधानसभायाः सविशेषसम्मेलनस्य निर्णयानुसारमासीत् सर्वपक्षसङ्घस्य दौत्यम् निश्चितम्। केन्द्रसर्वकारं विरुध्य एल् डि एफ्-यु डि एफ् दलैः वादविषयं [प्रमेयं] अङ्गीकृतमासीत्। एतदेव अनुमतिनिषेधस्य कारणमिति राजनैतिकनिरीक्षकाः अभिप्रयन्ति।

Wednesday, November 23, 2016

संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च दीर्घ-धावनम्।
नवदेहली>संस्कृतस्य प्रसारार्थं संवर्धनार्थञ्च गतदिने (२०-नवम्बर’२०१६, रविवासरे) नवदिल्ल्यां जवाहरलाल-नेहरु-क्रीडाङ्गणतः दीर्घ-धावनम् आयोजितम्। अस्मिन् अनन्यतमायाः   "नेक्टरलेण्ड्"( NectarLand) इति संस्कृतस्य स्वयं-सेविसंस्थायाः अनेकैः सदस्यैः सोत्साहं सहभागित्वं निर्व्यूढम् नवम्बर-मासे प्रतिवर्षम् आयोज्यमाने अस्मिन् दीर्घधावने "नेक्टरलेण्ड्" इत्यस्याः इदं तृतीयं सहभागित्वं वर्तते 
एषा संस्था अभिकल्पनाभिः विविध-वर्णैः चित्रैश्च प्रकाशितैः हिन्दी-आङ्ग्ल-अनुवाद-लिप्यन्तरणयुतैः लघु-लघु-पुस्तकैः जनेषु, विशेषेण च युवजनेषु संस्कृतानुरागिषु च संस्कृत-भाषां संस्कृत-साहित्यञ्च प्रति पठन-संभाषण-रुचिं समुत्पाद्य “भाषैषा कठिना” इति भ्रान्तिम् अपनोदयति   
अनया संस्थया विगते वर्षे भारतीय-संस्कृत-पत्रकार-संघेन आयोजितायां पञ्चम्यां संस्कृत-पत्रकार-संगोष्ठ्यां सहभागित्वम् आदाय संस्कृत-शिक्षणस्य कृते समाजे विहितानि संस्कृत-विषयकाणि विविध-कार्याणि प्रदर्शितानि आसन् अस्याः संस्थायाः वैशिष्ट्यमस्ति यत् प्रायेण युवानः वैज्ञानिकाः, अभिकल्पकाः( designers), प्रविधिज्ञाः(technicians), अभियन्तारः, चित्रमुद्रण-विशेषज्ञाः(graphic-experts) च सदस्यत्वेन संस्कृत-कार्याणि परिनिष्ठित-भावेन समाचरन्ति

श्री श्री रविशंकरवर्येण "डॉ नागेंद्र सिंह अन्ताराष्ट्रिय शान्तिपुरस्कार:" लब्ध:।
नवदेहली>आध्यात्मिक गुरु: श्री श्री रविशंकर वर्येण "डॉ नागेंद्र सिंह पुरस्कार:" लब्ध:। गृह मंत्री राजनाथसिंहेन विश्वे शान्ति सुनिश्चित करणार्थं तेषां प्रयासार्थं तेषां कृते पुरस्कार: दत्त:। हेग स्थित अन्ताराष्ट्रिय न्यायालयस्य प्रथम भारतीय न्यायाधीशस्य डॉ नागेन्द्र सिंहस्य स्मरणार्थम् अयं पुरस्कार: आयोजित:।




प्रसिद्धसंगीतकार: डॉ. एम् बालामुरली-कृष्णः पञ्चत्वे निलीनः

चेन्नै> कर्नाटकस्य प्रसिद्ध-संगीतकार: मंगलमपल्ली-बालामुरली-कृष्णः पञ्चत्वे निलीनः। आंध्रप्रदेशस्य संकरागुप्तमस्थले लब्धजन्मः  षडाशीतिवर्षीयः एम. बालामुरलीकृष्ण: विगतकतिपयदिवसेषु अस्वस्थः अवर्तत ।
तेलुगू-कन्नड़-संस्कृत-तमिल-मलयालम-हिन्दी-बंग्ला-पंजाबीं समेत्य विभिन्नभाषासु संगीतक्षेत्रे बहुमूल्य-योगदानाय असौ पद्मश्री पद्मभूषणम् पद्मविभूषणञ्च समेत्य बहुविध राष्ट्रियान्ताराष्ट्रियपुरस्कारैः बहुमानितः। न केवलं वाग्गेयकारः किन्तु  वयलिन् , अवोला, गञ्चिरा मृदङ्गः इत्यादिषु संगीतवाद्योपकरणेषु च सः निष्णातः आसीत्। अपि च चलनचित्रमण्डले सङ्गीतनिदेशकः अभिनेता गायकः एवंरीत्या च सः कीर्तिमुद्राम् अवाप। तेन आविष्कृताः लावङ्गी, महती, मनोरमा, मुरली, ओंकारी, सर्वश्री, सुमुखं , गणपतिः इत्यादयः नूतनरागविशेषाः आस्वादकहृदयेषु निर्वृतिम् आपूरितवन्तः। तस्मै संगीतकाराय भावपूर्णश्रद्धाञ्जलयः।
सोपानम्-21 Meenakshi N V, Brahmanandodayam H S, Kalady.

Tuesday, November 22, 2016

ऋणप्रतिदानाय मासद्वयस्य विलम्बालुकूल्यम्।
 मुम्बई >मुद्रानिरासेन सञ्जातानि धनदौर्लभ्यं नियन्त्रणानि च परिगण्य ऋणानां प्रतिदानाय षष्टिदिनात्मकम् अधिकसमयं विधातुं रिसर्वबाङ्केन निर्णीतम्। एककोटि रूप्यकाणाम् अधः येषां भवन-कार्षिक-वाहन ऋणानि सन्ति तेषांकृते एव इदम् आनुकूल्यम्। वाणिज्यवित्तकोशाः, जिल्ला-राज्यस्तरीय सहकारवित्तकोशाः इतरधनकार्यसंस्थाः च इदमानुकूल्यम् अर्हन्ति।

 विश्वसंस्कृतसम्मानसमारोहः।
नवदेहली>नवदिल्ल्यां २१/११/२०१६ तमे दिनांके भारतीय-सांस्कृतिक-सम्बन्ध-परिषदा विश्व-संस्कृत-सम्मान- समारोह: समायोजित:। अवसरेsस्मिन् थाईलैंड-देशीया राजकुमारी महाचक्री सिरिन्धोर्नवर्या २०१५ तमाब्दार्थं सम्मानेनानेन सभाजिता। ऐषमः सम्मानेन जॉर्ज-कार्डोना-वर्य: बहुमानित:। ध्यातव्यमिदं यत् सम्मानोsयं उभाभ्यामपि भारतस्य उपराष्ट्रपतिना हामिद-अन्सारिणा  संस्कृतक्षेत्रे तयो: अप्रतिम-योगदानार्थं  उपायनीकृत:।
केरळमन्त्रिसभा पुनर्घटिता।
अनन्तपुरी> षण्मासातीता  केरळराज्यमन्त्रिसभा पुनःसंघटिता। सि पि एम् दलस्य वरिष्ठनेता उटुम्पन्चोला मण्डलस्य सामाजिकः एम् एम् मणिः नूतनः विद्युन्मन्त्री भविष्यति। इदानींतन विद्युन्मन्त्री कटकम्पल्लि सुरेन्द्रः सहकारविभागस्य विनोदसञ्चारविभागस्य च उत्तरदायित्वं वक्ष्यति।
    सहकारिविभागस्य मन्त्री ए सि मोय्तीनः उद्यमविभागस्य मन्त्री भविष्यति।
अष्ट राज्येषु ₹6,068 कोटी धनस्य मार्ग परियोजनानां स्वीकृतिः।

नवदेहली>केन्द्र सर्वकारेण 8 राज्येषु ₹ 6067.90कोटी मूल्येन प्राय: 476 km मार्गनिर्माण परियोजनानां कृते स्वीकृति दत्तमस्ति। मणिपुर-नागालैण्ड-अरुणाचल प्रदेश-महाराष्ट्र-गोवा-पश्चिम बंगाल-उत्तराखंड-उत्तरप्रदेश राज्येषु अस्यां परियोजनायां कार्यं भवति। अधिकाधिक परियोजनानां विकास: ईपीसी (इंजीनियरिंग्,प्रोक्योरमेंट्,कंस्ट्रक्शन्) माध्यमेन भविता।

Monday, November 21, 2016

BBC माध्यमेन चतुर्णां भारतीय-भाषायामपि प्रक्षेपणं
लन्टन् >  बीबीसी वेल्ट् सर्वीसस् द्वारा भारतस्य चतसृषु भाषासु एव नूतनप्रक्षेपणं आरप्स्यते। गुजराती, मराठी, पञ्चाबी, तेलुङ्ग् भाषायामेव नूतन प्रक्षेपणम्। इदानीं तु हिन्दी, उरुदु' तमिळ् , बंगाली भाषासु प्रक्षेपणं प्रचलति। नूतन -संयोजनेन चत्वारिंशत् भाषासु बीबीसी सेवा भविष्यति। ब्रिट्टीष् सर्वकारेण अधिकं धनम् एतदर्थं दास्यति इत्यतः एतादृशं विकासं दातुं शक्नोति  इति बीबीसी कुलनिर्देशकेन डोणीहालेन उक्तम्। उप-पञ्च-विंशति कोटि जनानाम् उपकारकं भवति बीबीसी माध्यमस्य प्रक्षेपणम्।

इजरायल देशे अध्यनरत् वैदेशिक छात्रेषु 10% भारतीया:
गुरुवासरे इजरायल देशस्य राष्ट्रपति रुवेन रिवलिन महोदयेनोक्तं इजरायल देशे अध्ययनरत वैदेशिक छात्रेषु 10% छात्रा: भारतीया: सन्ति। तै: उक्तं "भारत-इजरायल सर्वकारस्य 40 त: अधिक संयुक्त अनुसंधान परियोजनामाध्यमेन विगत वर्षेषु इजरायल-भारतस्य शैक्षिक-सहयोगे वृद्धि जातमस्ति।

उत्तरप्रदेश निर्वाचने प्रियंका मुख्य भूमिकायां - कांग्रेस्
शुक्रवासरे कांग्रेस जना: उक्तवन्त: आगामी वर्षे उत्तरप्रदेश विधानसभा निर्वाचने प्रियंका मुख्यभूमिकां वहति। प्रदेश कांग्रेस अध्यक्षेण राजबब्बरेणोक्तं निर्वाचनस्य तिथि निर्णयानन्तरं प्रचार कार्यक्कमाणां योजना स्पष्टा भविता।

प्रधानमंत्री नरेन्द्र मोदिना कृतस्य मुद्रापत्राणां प्रतिबन्धस्य पक्षे अन्ना हजारे
नवदेहली> सामाजिक कार्यकर्ता अन्ना हजारे महोदय: प्रधानमंत्री नरेन्द्र मोदे: मुद्रापत्राणां प्रतिबन्धस्य निर्णयेन सन्तुष्टास्ति। स: उक्तवान किमपि प्राप्तुं काठिन्यस्य साक्षात्कारं तु करणीयं भवत्येव। एतद् सर्वकारस्य ऐतिहासिक निर्णय: अस्ति। अग्रे उक्तवान् अस्मिन् विषये ते एव विरोधं कुर्वन्ति येषां पार्श्वे कृष्णधनमस्ति।





  चैना-ओपण-सुपर्-सीरीस्-प्रीमियर-बैडमिंटन-स्पर्धायां पि.वि. सिंधुः विजयं प्राप्तवती 
रियो ओलिंपिकस्पर्धायां कास्य पदकविजेत्री पि.वि.सिंधु  चैना ओपण् सुपर् सीरीज् प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य   सुन यू इत्येषा क्रीडिका   21-11, 17-21, 21-11 अंकान्तरालेन पराजिता ।

Sunday, November 20, 2016

उत्तरप्रदेशे रेल्यानदुर्घटना - उपशतं मरणानि। 
कान्पुरम् >उत्तरप्रदेशे काण्पुर् समीपे पाट्ना-इन्डोर् एक्स्प्रेस् रेल् यानस्य चतुर्दश पेटिकानां पट्टिकास्खलनेन सप्ताधिकशतं यात्रिकाः मृत्युमुपगताः। रविवासरे उषःकाले त्रिवादने आसीदियं दुर्घटना। ७६ यात्रिकाः क्षताः जाताः।
    दुर्घटनाहेतुः न प्रत्यभिज्ञातः। रक्षाप्रवर्तनानि आरब्धानि। रेल् विभागमन्त्री दुर्घटनास्थानं प्राप्य रक्षाप्रवर्तनानां नेतृत्वं वहति।

 चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती।
 चाइन-ओपन-सुपर-सीरीज-प्रीमियर-बैडमिंटन-स्पर्धायां पीवी सिंधोः विजयमधिगतवती। रियो ओलिंपिकस्पर्धायां कास्य पदकविदेत्रृ पीवी सिंधु चाइन ओपन सुपर सीरीज प्रीमियर बैडमिंटन स्पर्धां विजितवती । एकहोरापर्यन्तप्रचलिते निर्णायकद्वन्द्वे तया चीनस्य सुन यू इत्येषा क्रीडिका 21-11, 17-21, 21-11 अंकान्तरालेन पराजिता।

Saturday, November 19, 2016

हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः -शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिः

कोच्ची >केरळ-सर्वकारेण विद्यालय-शिक्षायां हिन्दी भाषायै दीयमानस्य प्राधान्यस्य अर्धांशः अपि संस्कृतभाषायै दातव्यः इति कालटी शङ्कराचार्य विश्व विद्यालयस्य उपकुलपतिना डॉ. एम् सी दिलीप कुमारमहोदयेन उक्तम्। केरळे एरणाकुळं जनपदे वेदपूर्णपुर्याम् आयोजिते सांस्कृतिक मेलने भाषमाणः आसीत् सः। संस्कृतभाषां पुरस्कृत्य कैरळ्यां निर्मिते स्वप्नत्तिलेक्कोरु यात्रा (സ്വപ്നത്തിലേക്കൊരു യാത്രാ ) नाम ह्रस्वचलन चित्रस्य प्रदर्शनोद्घाटनमपि तेन महोदयेन सम्पन्नम्। चलन चित्र स्य निर्माता तथा संविधायिका श्रीमती श्रुति इम्मानुवेल् महाभागया कृत योगदानस्य प्रतिक्रिया-रूपेण सानितरां सम्मानिता च। एषा आलप्पुष़ जनपदे विद्यमान तृक्कुन्नप्पुष़ एम् टी प्राथमिक विद्यालये संस्कृताध्यापिका भवति । स्वस्य उद्योगाल्लब्धं वेतनम् उपयुज्य एव चलन-चित्रस्य निर्माणम् अकरोत् इति विशेषः अपि अस्ति।

गते वित्तवर्षे स्वच्छ-भारत उपकर-माध्यमत:  नव शतोत्तर त्रिसहस्रं कोटी धनलाभ:।
राज्यसभायां गुरुवासरे सर्वकार पक्षत: सूचनादानवेलायां ज्ञातं यत् गाते वित्तवर्षे स्वच्छ भारत योजनायाः उपकरत: नव शतोत्तर त्रिसहस्रं कोटी धनं प्राप्तं, धनराशे: प्रतिशतम् अशीति मितं (80%) पेयजलं एवञ्च स्वच्छता मंत्रालयाय दीयते, 20% प्रतिशतं विंशति नगर - विकास मंत्रालयाय दीयते च। ज्ञातव्यमस्ति यत् विगतवर्षे सर्वकारेण सर्वेषु अपि करयोग्य सेवायै 0.5% प्रतिशतं अर्ध रुप्यकं स्वच्छ भारत उपकरः स्थापितः आसीत्।

Friday, November 18, 2016

पर्यावरणमलिनीकरणस्य बृहद्दण्डनशुल्कंविधास्यति।
नवदिल्ली>पर्यावरणमलिनीकरणं निरोद्धुं तीव्रानुशासनं विधीयते। पृथिव्यप्वायून् मलिनीकुर्वतां व्यक्तीनां संस्थानां व्यवसायशालानां च लक्षैकरूप्यकाभ्यः आरभ्य द्विकोटिरूप्यकाणि यावत् दण्डनशुल्कं संवत्सरत्रयस्य कारागारवासं च विधातुं निर्देशः कृतः।
    १९८६ तमवर्षस्य पर्यावरणसंरक्षणनियमं २०१०तमवर्षस्य हरित ट्रैब्यूणल् नियमं च व्यत्ययं कृत्वा नवीनं पर्यावरणनियमविधेयकं संसदः अस्मिन् सम्मेलने अवतारयिष्यति। परिस्थितिसंरक्षणमण्डले बृहत्परिवर्तनाय निर्दिष्टव्यवस्थया शक्यते।
      पर्यावरणमलिनीकरणस्य परिमाणगणनाय केन्द्र-राज्यतलेषु विदग्धसमितिं रूपवत्करिष्यति। समित्याः निर्देशानुसारं दण्डनव्यवस्था भविष्यति। मलिनीकरणस्य परिधिः, तद्वारा जायमानानि नाशनष्टानि, नाशस्य परिमाणः इत्यादीनां निर्वचनेषु समग्रं परिवर्तनं भविष्यतीति नवीननियमस्य सविशेषता।

Thursday, November 17, 2016

संस्कृतभाषायाः महत्वम् उक्त्वा कैरल्यां ह्रस्वचलन-चित्रम् ।
कोच्ची >चित्र लेखकः तथा डोक्कुमेन्टरि चलनचित्रस्य संविधायकः इति सुज्ञातः इम्मानुवेल् नामकस्य पत्नी 'श्रुति' इदानीं संस्कृतभाषायां नूतनं दृश्यकाव्यं व्यरचयत् । एषा संस्कृताध्यापिका भवति आलप्पुष़ा जनपथे एम् टि यू पि विद्यालये कर्म करोति। अतः संस्कृतानुकूलं चलनचित्र निर्माणाय स्वस्य वेतनम् उपयुक्तवती । सप्तमकक्ष्यायाः आदर्शभूतः संस्कृतग्रामः इति पाठभागस्य पृष्ठभूमौ एव कथायाः यात्रा। अस्मिन् मासस्य १८ दिने वेदपूर्णपुर्याम् चलन-मुद्रिकायाः प्रकाशनं भविष्यति। षट्वादने लायं 'कूत्तम्बले' चलनचित्रकारेण विनोद् मङ्करा महाभागेन श्री शङ्कराचार्य संस्कृत विश्वविद्यालयस्य उप-कुलपतये डॉ. एम्. सि. दिलीपकुमार -महोदाय दत्वा चलनमुद्रिका मोच्यते ।

Wednesday, November 16, 2016

निरस्तानां मुद्रापत्रकाणाम् अवश्यसेवाभ्यः २४पर्यन्तं साधुता।
नवदिल्ली>  मुद्रापत्रनिरसनेन संजातं विषमस्थितिं  परिहर्तुं केन्द्रसर्वकारेण ऊर्जिताः क्रियाविधयः स्वीकृताः। ग्रामीणमण्डलेषु धनवितरणाय क्रियाविधयः स्वीकृताः।
      निरस्तानि मुद्रापत्राणि अवश्यसेवाभ्यः नवम्बर् मासस्य २४तम दिनाङ्कं यावत् उपयोक्तुं शक्यन्ते। ए टि एम् यन्त्रद्वारा धनाहरणस्य परिधिः २०००रूप्यकेभ्यः सार्धद्विसहस्रं रूप्यकाणि यावत् परिवर्तितः। ग्रामीणप्रविश्यासु १.३लक्षं पत्रालयान् प्रति धनानयनं त्वरितं करिष्यति। देशीयवीथिषु शुल्कसमाहरणनिरोधनं नवं- १८ पर्यन्तं भविष्यति।

Tuesday, November 15, 2016

आगामिदिवसेषु SBI(ATM) त: ₹20अपि प्राप्यते।
नवदिल्ली > भारतदेशस्य सर्वाधिक दीर्घ SBI वित्तकोषस्य उच्चाधिकारिणी अरुंधति भट्टाचार्य महोदया: अवादीत् । आगामी दिवसेषु जनानां सम्मर्द: न्यूनं भविता। ATM यन्त्र त: ₹100-50 विहाय ₹20 धनमपि लभ्यते तदर्थमपिव्यवस्था क्रियते ! सा उक्तवति धनपत्रस्योपरि प्रतिबन्ध: बहु दीर्घ कार्यमस्ति 50 दिनात् पूर्वमेव सर्वं सामान्यं भविता !
 कार्षिकोद्यानानां साध्यता पठनाय नियुक्ति:।    

  तिरुवनन्तपुरम् > राज्यस्तरीयमण्डलेषु १४ कार्षिकोद्यानानां निर्माणं कर्तुं नाब्कोण्स् नामिका संस्था कण्सलट्टन्ट् रूपेण नियुक्ता। एतदधिकृत्य कृषिविभागसचिवेन श्री वी एस् सुनिल् कुमार् महोदयेन प्रख्यापित:। किफ्बी इति संस्थाया: ५०० कोटि रुप्यकैै: साह्येन आयोजिता योजना कार्षिकवाणिज्य कॉपरेशन् इति नाम्नि पृथक् केन्द्रस्य आरम्भं करिष्यति। कार्षिकोद्यानस्य पठनं नाब्कॉण्स् करिष्यति। प्रथमेसोपाने त्रीणि उद्यानानि स्थापयिष्यन्ते। तानि कोष़िक्कोट् जनपदे नारिकेळोद्यानं, तृशूर् जनपदे मधु-कदळी फलानि योजयित्वा उत्पन्ननिर्मितोद्यानं, आलप्पुष़ा-एर्णाकुळम् जनपदयो: केन्द्रीकृत्या तण्डुलोद्यानं च। एतस्मात् भिन्नं  सुगन्धव्यञ्जनानि,शाकानि,  फल-मूलवर्गाणि च आधारिकृत्य उद्यानानां निर्माणं क्रियते। मूल्यवर्धित उत्पन्नै: सह कृषकाणां नवीन-भागभाजिन: च अनेन सम्पत् वर्धनं भवतु इति लक्ष्यम्।

Monday, November 14, 2016

सोपानम्-20 शिशुदिन-वार्ताः 
अद्य शिशुदिनं। आभारतम् अद्य शिशुदिनम् आधुष्यन्ते।

कोच्ची >भारतस्य राष्ट्रपतिना प्रणब् मुखर्जिना तथा प्रधान मन्त्रिणा नरेन्द्रमोदिना च शिशूनां कृते आशंसाः अर्पिताः । राज्यस्थरीय मण्डेलेषु प्रधान सचिवैः अस्य आधोषस्य उद्धाटनं क्रियते।  क्रीडा विनोदैः पद सञ्चलन शोभायात्रा च  दिनमिदं शिशूनां चित्तेषु सामोदं वर्तते।  भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ महोदयस्य जन्मदिनमेव शिशुदिनत्वेन आचर्यते ।

सहपाठिने गृह-निर्माणाय पूर्वविद्यार्थिनः मेलनम् ।
 चेङ्ङन्नूर्> केरले चेड़नूर देशे एव एतादृश कारुण्य संगमः।  चेड़नूर क्रैस्तवीय कलालये दीपावली दिने एव  पूर्व विद्यार्थि सम्मेलनम् आयोजितम्।  तदा स्वस्य सहपाठी एकः गृहविहीनः इति ज्ञात्वा सर्वे धनसमाहरणं कृतवन्तः। एवं  सार्ध त्रिलक्षकानि रुप्यकानि समाहृतानि। गृहनिर्माणस्य उत्तरदायित्वं विद्यार्थि संघेन स्वीकृतम् च। 

वीथी शुनकेभ्यः शिशूनां भीतिः। प्रधानमन्त्रिणे लेखं लिखति।
कोच्ची>नगराणां संवर्धनेन मालिन्य सञ्जयः वर्धते। उच्चिष्ट वस्तूनि भक्षयित्व वीथी शुनकानां संख्या नगरप्रान्तेष्वपि वर्धते । एवं स्थितौ वर्धित संघाः शुनकाः अबलान् बालिका बालकान् आक्रमन्ति। केचन अपमृतिं प्राप्ताः इति च वार्ता माध्यमेषु बहुवारं स्पष्टीकृतम्। चेदपि शुनक-सेवकानां शुनक स्नेहितानां च अनिष्टेन इदानीं भारते बालिका बालकाः एवं विधं अपमृतिं यान्ति। केरलस्य बालिकाबालकाः अद्य प्रधानमन्त्रिणे नरेन्दरमोदिने लेखं लिखति।

अष्ट वयस्का व्याध्रेण हता।
गुजरात् राज्ये उमर्-पाड प्रदेशे निकिता वासवा नामिका बालिका व्याध्रस्य आक्रमेण मृता । गतदिने प्रभाते शौचादि कार्याय गृहात् बहिः प्राप्ता बालिका एव  दुरन्त विधेय जाता । दिनद्वयात् पूर्वं अन्या बालिका अपि व्याध्रस्य आक्रमेण मृता आसीत्। सामान्यतया बालकाः अपि एवं अपमृतिं यान्ति।

Sunday, November 13, 2016

डोणाल्ड् ट्रंपः अमेरिका राष्ट्रपतिः। एनं विरुद्ध्य जनाः I
कालिफोर्णिया >अमेरिकाराष्ट्रस्य राष्ट्रपति पदे रिपब्लिक् दलस्य स्थानाशी डोणाल्ड् ट्रंपः चितः। राज्यनैतिक निरीक्षकाणां  प्रवचनानि अस्तां कृत्वा डमोक्राटिक् दलस्य हिलरि क्लिन्टन् वर्यां पराजित्य एव ट्रंपः अमेरिकायाः राष्ट्रपति पदं प्राप्नोति। किन्तु इदानीं जनाः एनं विरुद्ध्य रथ्यायां आक्रोशं कृतवन्ताः।
 संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!- च मु कृष्णशास्त्री 
Krishna Shastry Chamu's photo.नवदेहल्ली>गतेषु द्विशताधिकवर्षेषु संस्कृतग्रन्थानाम् अन्यभाषाभिः अनुवादः जातः। इदानीम् अन्यभाषाग्रन्थानां संस्कृतानुवादः महता प्रमाणेन कर्तव्यः येन नवसाहित्यनिर्माणं भवेत्, बहूनां लेखनाभ्यासः भवेत्, वर्तमानकालविषयकं मनोरञ्जकं सरलभाषालिखितं वाचकं च नवसाहित्यं सृष्टं भवेत्।
संस्कृतग्रन्थानाम् इतरभाषाभिः अनुवादेन इतरभाषावाड़्मयं समृद्धं जातम्, न तु संस्कृतवाड़्मयम्। जनाः भगवद्गीतायाः अनुवादं पठन्ति, न तु भगवद्गीताम्। न तु संस्कृतम्। अतः संस्कृतेन अनुवादः, न तु संस्कृतस्य अनुवादः!

Saturday, November 12, 2016

मोदी जापानदेशे - आणवसन्धिः हस्ताक्षरीकृतः। 
टोकियो>त्रिदिवसीयसन्दर्शनार्थं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानदेशं प्राप्तवान्। जापानस्य प्रधानमन्त्रिणा षिन्सो अबे महोदयेन सह मेलनं कृत्वा शान्तिपूर्णं सहवर्तित्वं  लक्ष्यीकृत्य आणवसन्धिं यथातथं कृतवान्। उभयराष्ट्रयोः आर्थिक -सुरक्षामण्डलेषु परस्परबन्धं दृढीकर्तुं अयं सन्धिः सहायकं भविष्यति।

Friday, November 11, 2016

केन्द्रसर्वकारस्य सर्वदलीय गोष्ठी नवम्बर १५ दिने
नवदिल्ली>केन्द्रसर्वकारेण नवम्बरमासस्य 15 दिनांके शीतकालीनसत्र चालितुं सर्वदलीय गोष्ठी आयोजिता -
आगामीशीतकालीनसंसदसत्रस्य चर्चार्थं केन्द्रसर्वकारेण सर्वदलीय गोष्ठी आयोजितमस्ति। सूचनास्ति यत् गोष्ठ्यां प्रधान्मन्त्रि नरेन्द्र मोदि अपि आगच्छन्ति । सामान्यतः शीतकालीन सत्रस्य आरम्भ: नवम्बर मासस्य 3-4 सप्ताहे भवति परञ्च अस्मिनहायने G S T सम्बन्धित विधेयकानां कृते पूर्वमपि शक्यते।

भारतीयटेस्ट्ट् क्रिकेट् क्रिडायां प्रथमवारं महिला 
राजकोट्>  राज्यस्तरीय इतिहासेप्रमथवारं अन्तराष्ट्रिय टेस्ट्ट् क्रिडायां महिला संगणिका जातम्। बुधवासरात्रा जकोट् क्रिडास्थले भारत-इंग्लैण्ड देशयो: प्रथम टेस्ट्ट् मध्ये हेमाली देशाई -सेजल दवे आधिकारिक अंकगणिका सन्ति। उभाsपि एतावता 150 क्रीडाषु अंकगणनं कृतवत्य:।

Thursday, November 10, 2016

शुक्रवारत: ATM यन्त्रे नूतन धनं लभ्येते
नवदेहल्ली > वित्तसचिव अशोकलवासा महोदयेन बुधवासरे निगदितं वित्तकोषानां(ATM) यन्त्रेषु उच्च सुरक्षया स: नूतनं र500-2000 धनं लभ्यते ! लवासा महोदयेन गदितं जनानां कृते किञ्चित् असुविधा भविता तदर्थमपि सर्वकारेण व्यवस्था कृतमस्ति यत् कस्यापि कृते असुविधा मा भवतु इति ! RBI नूतनधन निष्कासनेsपि दृष्टिं यच्छति !
देहल्यां हिमधूम पटलः अतीवगुरुतररीत्या
नवदेहली > देहल्यां हिमधूम पटलस्य आधिक्यः रूक्षः अभवत् इति वातावरण निरीक्षण केन्द्रेण उच्यते। दिवसत्रयानन्तरं स्थितिः अनुकूलं  स्यात् इति तेन उक्तम्।  तथापि इयं दुर्दशा  परिहाराय यावद्  शक्यं तावत् करिष्ये इति देहल्याः मुख्यमन्त्रिणा केजरिवाल् महोदयेन उक्तम्। इयं समस्या  परिहाराय आयोजिते विधानसभा मेलनानन्तरं भाषमाणः आसीत् सः। हिमधूमपटलानां परिहाराय  वृष्टिं वर्षयितुं श्रमः प्रचाल्यते ।  तदर्थं केन्द्र सर्वकार्यस्य साह्यं अभ्यर्धितम् इति तेन उक्तम्।

संस्कृतेः सुस्थितिः कुटुम्बाधिष्ठितम्- पि उण्णिकृष्णः। 
नेटुम्बाशेरी > सुस्थितिः कुटुम्बस्य संस्कृतिं च आश्रित्य भवति । कुटुम्बस्य सुस्थितिः तु तत्रत्यानां गृहिणीनां धर्मानुसृतं भवति इति तपस्या कला साहित्य वेदिः नाम दलस्य कार्यदर्शिना उण्णिकृष्ण-महोदयेन उक्तम्। दलस्य सारस्वत समर्पणं इति कार्यक्रमे भाषमाणः आसीत् सः। त्रिमूर्तेः तथा त्रिशक्तीनां समागमः  सर्वेष्वपि कुटुम्बेषु भवेयुः ।  ब्रह्मचर्यं पातिवृत्यं च अनुष्ठीयमानेषु समूहेषु धर्मच्युतिः न कदापि भविष्यति इति च तेन महोदयेन स्मारितः । एतस्य भाषणानन्तरं सारस्वत समर्पणं च अभवत्।  सांस्कृतिक नवोद्धानाय संघटितं कलासाहित्य-प्रवर्तकानां दलं भवति तपस्या कला साहित्य वेदिः।

शनि-रविवासरयोः वित्तकोशाः प्रवर्तिष्यन्ते। 
नवदिल्ली - राष्ट्रे सर्वे वित्तकोशाः [बेङ्काः] सामान्यजनानां कृते शनिवासरॆ रविवासरे च [नवं १२,१३ तमे दिनाङ्कयोः] साधारणरीत्या समुद्घाट्य प्रवर्तिष्यन्ते। एतदनुसृतः निर्देशः भारतीय रिसर्व् बाङ्केन कृतः।
     सामान्यमण्डलबेङ्काः स्वकीयबेङ्काः तथा ग्रामीण- सहकरण-विदेश-प्रादेशिक बाङ्कैरपि अयं निर्देशः अनुुसरणीय इति विज्ञापितमस्ति।

Wednesday, November 9, 2016

५००, १००० रुप्यकपत्राणां निरोधः - जनेभ्यः महोत्सवः।
500, 1000 रुप्यकाणां पत्राणि भारतसर्वकारेण प्रतिगृह्मते इति वार्ताः ज्ञात्वा सामूहिक माध्यमेषु मोदि महोदयाय अभिनन्दन प्रवाहः । माध्यमेषु सर्वत्र राजनैतिकभेदं विस्मृत्य जनैः अभिनन्दन-वचसा माध्यम -पुटानि प्रपूरितानि । राष्ट्रियोत्सवः इति सम्भाव्य आघुष्यन्ते च। सर्वकारस्य प्रवर्तनेषु *इतःपरम् एतादृशः जनाभिमतः न जातः इति श्रद्धेयः। (*अर्धविसर्गः लिप्यभाव एवं लेखनीयम्)
 ५००,१००० रूप्यकपत्राणि-प्रतिगृहीतानि 
नवदिल्ली >भारतराष्ट्रस्य प्रधान मन्त्री स्थानेषु विराज मान: नरेन्द्र मोदी. भारतस्य उन्नत धनागारेषु एवं धनपत्रेषु च कीलकं निर्णयं कृतवान् । ५००&१००० रूप्यकपत्राणि- ह्यः रात्रौ अारभ्य तानि पत्राणि प्रतिगृह्य प्रधानमन्त्रिणा उद्घोषणा प्रसारिता । जनेभ्यः रुप्यकाणि दिसम्बर् 30दिनपर्यन्तं बैङ्कतः परिवर्त्य नूतनानि स्वीकर्तुम् सन्दर्भः अस्ति इति च  तेन महोदयेन उक्तम् ।

सम्मिलितरक्षासेवापरीक्षापरिणामः
संघलोकसेवायोगेन सम्मिलितरक्षासेवापरीक्षापरिणामः समुद्घोषितः। यस्यान्तर्गतं 126 परिक्षार्थिनः अंतिमरूपेण प्रचिताः। ध्यातव्यमिदं यत् साक्षात्कारपरिणामाधारेण भारतीयसैन्य-अकादमी-देहरादून,भारतीय-नौसेना-अकादमीकेरल,  वायु-सेना-अकादमी-हैदराबाद इत्येषु प्रशिक्षणपाठयक्रमाय एतैः अर्हता सम्प्राप्ता।

सूरतनगरेराष्ट्रपितामहात्मा गाँधी वर्यस्य पौत्र: कनु गाँधी दिवंगत:
   महात्मागाँधी वर्यस्यपौत्र: कनुरामदासगाँधी वर्यस्य(87) वर्षे दीर्घ रोगानन्तरं निर्वाण: जातमस्ति! अमेरिकायां (MIT) त: अध्ययनं कृत्वा नासासंस्थायामपि एते कार्यं कृतवन्त:। दांडी यात्राया: प्रसिद्धचित्रे गाँधी वर्याणां यष्टि: स्वीकृत्य य: बाल: दृश्यते स: एव कनु गाँधी अस्ति।

सम्पूर्ण देशे 1.14.332ग्रामेषु शौचालयव्यवस्था
सोमवासरे केन्द्रीय पेयजल एवञ्च स्वच्छता मंत्री नरेन्द्र सिंह महोदयेन अवादीत् सम्पूर्ण देशे 1.14.332ग्रामा: शौचालययुक्ता: जाता:। तै: उक्तं एतावता 61जनपदेषु 637 खण्डस्तरेषु(ब्लाक) 50.492 ग्राम सभासु पूर्ण रुपेण शौचालय निर्माणं जातमस्ति। लक्ष्यमस्ति यत् आगामी वर्षस्य मार्चमासं यावत् 175 जनपदेषु एतादृशी व्यवस्था भविता इति।

छठपूजा त: गृहागमनवेलायां बिहार राज्ये 6 महिलानां लौहपथगामिन्या: कर्तनेन मृत्यु:
बिहारराज्यस्य दरभंगायां रामभद्रपुर रेलवे(लौहपथगामिनी) स्थानके सोमवासरे 6 महिलानां लौहपथगामिन्या: कर्तनेन मृत्यु: जातम्। सूचनानुसारेण धूमिकाकारणेन न दृष्टम्। अन्यत्र मुजफ्फरपुर नगरे छठपूजायामेव नद्यां निमज्जनेन 2 बालकानां मृत्यु जातम्।
सोपानम्-19 Ahalya M. Std.III, St. Mary's UP School Thevara, Kochi-13.

Tuesday, November 8, 2016

RN1-मार्गेषु सौरोर्जत्रिचक्रिका अपि।    
  तिरुवनन्तपुरम् (केरलम्)> केरलेषु मार्गान् अलङ्कर्तुं सौरेर्जेन चाल्यमाना त्रिचक्रिका अपि सज्जीकृता।'हंराही' इति नामकरणं कृतस्याः अस्याः त्रिचक्रिकायाः स्वरूपकर्ता जोर्जुकुट्टी करियानप्पल्ली इति नामकः भवति। यानमिदं नवम्बर् अष्टमदिनादारभ्य वाणिज्यकेन्द्रेषु उपलभ्यते। सर्वकारपक्षतः सर्वाः अनुमतयः लब्धाः इति जोर्जुकुट्टी अवदत्। २५० वाट्स् शेषियुक्तानि सौरोर्जफलकान्येव यानचालनाय उपयुज्यन्ते। सूर्यप्रकाशस्य अभावे विद्युदुपयुज्यापि अस्य बाटरी उपयोक्तुं शक्यते। एकस्मिन् समये पञ्चभिः जनैः अपि यात्रा सुकरा इति तेन उक्तम्। एकेन अभियोगेन ८० कि.मी दूरं यात्रा साध्या इत्यपि सः असूचयत्। 

868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्
नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

प्रतिपट्टणम्  अनन्दकेन्द्रानाम् स्थापना- श्री श्री रविशङ्कर:
वरङ्गल् – ईनाडु > यथा प्रतिपट्टने चिकित्सालया: भवन्ति तथैव प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति ”आर्ट् आफ् लिविंग् व्यवस्थापक:” श्री श्री रविशङ्कर महोदयेन उक्तम् । हन्मकोन्डा प्रान्तस्य कला-वैज्ञानिक कलाशाला क्रीडाक्षेत्रे स्थापित “ध्यानम्-गानम्-ज्ञानम्” इत्यस्मिन् कार्यक्रमे मुख्यातिथि रूपेण उपस्थित: श्री श्री रविशङ्कर महोदय: शिष्यान् उद्दिश्य भाषणम् कृतम् । अस्मिन् भाषणे एतेन उक्तम् यत् – सर्वासां समस्यानां धनम् परिष्कारं न भवति ध्यानाभ्यासेन एव मनुष्य: सुखेन जीवति इति उक्तम् । आधुनिक समाजे मनुष्याणां समस्या: अधिका: भवन्ति । तासां समस्यानां निवारणार्थं प्रतिपट्टने आनन्दकेन्द्राणां स्थापना भवेदिति उक्तम् । यदा दु:खं भवति तदा आनन्दकेन्द्रं गत्वा ध्यानं कृत्वा सुखेन बहिरागन्तव्यमिति सूचितम्। 
868/- रूप्यकाणाम् एव वायुयान प्रयाणम् – इण्डिगो ऐर्लैन्स्

नवदेहल्ली>वायुयान यात्रिकानां इण्डिगो ऐर्लैन्स् एकं नूतनं पूर्वप्रापणं उद्घोषितम् । निर्देशित देशीय मार्गेषु यानचीटिकाया: मूल्यं 868/- इति उद्घोषितम् । दिनद्वयस्य कृते निर्देशितं एतत् पूर्वप्रापणं द्वारा 2017 जनवरी 11 त: एप्रियल् 11 पर्यन्तं कदापि वायुयाने यात्रां कर्तुं शक्यते । गतमासे 80 लक्षादिक जना: इण्डिगो वायुयाने यात्रां कृतवन्त: । आधुनिक काले जना: वायुयाने यात्रां कर्तुम् उत्सुका: भवन्ति तदनुसृत्य विमानयानसंस्था: अपि विविधानि पूर्वप्रापणानि आनयन्ति । गो एइर् संस्था अपि संस्थाया: एकादशीय वार्षिकोत्सवावसरे 611/- रूप्यकाणामेव यत्राचीटिकां यच्छन्ति ।

Monday, November 7, 2016

आसिया समुद्रतीर-क्रीडायां भारतम् आतिथेयः
 चेन्नै > केन्द्र, प्रन्तीय सर्वकारयो: अनुमति: लप्स्यते चेत् २०२० मध्ये आसिया समुद्रतीर क्रीडाभ्यः भारतम् आतिथ्यं यच्छतीति भारत ओलंपिक् क्रीडाध्यक्ष: रामचन्द्रन् महोदय: उक्तवान् । आगामि आसिया समुद्रतीर क्रीडा: महाराष्ट्रे भविष्यतीति उद्घोषितम् । एतस्या: क्रीडाया: कृते भारतसर्वकारस्य अनुज्ञा आवश्यकमिति उक्तम् । अस्मिन् वर्षे वियन्नायां समुद्रतीर क्रीडायां प्रत्येकस्य देशस्य २००० क्रीडाकारा: भागग्रहणं स्वीकृतवन्त:।

सी राधाकृष्णमहोदयाय एष़ुत्तच्चन् पुरस्कार: 
        कोच्चि > केरळसर्वकारस्य एष़ुत्तच्चन् पुरस्कार: श्री सि राधाकृष्णमहोदयाय। सार्धैकलक्षरुप्यकाणि फलकं च पुरस्कारे अन्तर्भवति। आगामि जनुवरीमासे केरळराज्यस्य मुख्यमन्त्रिणा पिणरायी महोदयेन सि राधाकृष्णवर्य: पुरस्कृत: भविष्यति । कैरळीभाषायै तथा साहित्यस्य च कृते अस्य योगदानं परिगणयन्नेव स: पुरस्काराय चित:। केरळसाहित्य अक्कादमी अध्यक्ष: श्री वैशाखन् महोदय:,चयर्मान् श्री सुगतकुमारी,डा.के एन् पणिक्कर्, प्रभावर्मा, सांस्कृतिकविभागमन्त्रि श्री राणिजॉर्ज् आदि विजेतु: नाम्न: चयनवेळायां समित्यां आसन्। महोदयास्यास्य कृतय: सर्वा: अत्युत्तमा: इति समित्यङ्गै: अवलोकिता:। एतत् २४तम एष़ुत्तच्चन् पुरस्कार: अस्ति।लेखक: ,चलचित्रकार: इत्यादि मण्डलेषु वय्यक्तिकमुद्रया सुप्रतिष्ठित: श्री सी राधाकृष्णमहोदय: १९३९ तमे फरवरी पञ्चादशदिने मलप्पुरं जनपदे  चम्रवट्टप्रदेशे अजायत। कथा:,कवितासमाहारा:, नाटकानि,वैज्ञानिकरचना:,     परिभाषा,प्रबन्धसमाहारा: च तस्य सर्गक्रियाया: उत्तमफलानि एव। मलयाळभाषापितु: नाम्नि अयं पुरस्कार: प्रतिवर्षं दीयते।


एष्यन् वनिता चाम्प्य्नस् होकिक्रीडायां च ड्रोफि  
                            एष्यन् वनिताचाम्प्यन्स् होकिक्रीडायां च ड्रोफी ।                         सिंगप्पूर् > एष्यन् चाम्प्यन्स् ड्रोफी होकीक्रीडायां भारतदेशाय युगळ्ड्रोफी। पाकिस्तानदेशं पराजित: मलयाळिक्रीडकस्य श्री पी आर श्रीजेषस्य नेतृत्वे भारतस्य पुरुषक्रीडकसंघ: विजयीघोषित:। तै: सह वनितासंघ: अपि विजयी अभवत्। शनिवासरे संपन्नायां क्रीडायां चतस्रवनिता चाम्प्यन्स् ड्रोफी अन्त्ये भारतीयवनिता: २- १ इति अङ्कै: चीनां जितवन्त:। एतत् भारतीयवनिता: प्रथमचाम्पन्स् ड्रोफी अस्ति। कठिनस्पर्धाया: अन्तिमसमये स्ड्रैकर् दीपिकाठाक्कूर् प्राप्य कन्दुक: एव भारतदेशं विजयपथे अनयत्। डोप्स्कोरर् दिपिकास्ति। होकीइन्ड्या भारतडीमङ्गानां द्विलक्षरुप्यकाणि पारितोषिकत्वेन अकीर्तयत्।

Sunday, November 6, 2016

एन् डि टि वी प्रणालिं विरुध्य सर्वकारप्रतिक्रियायां शक्तः प्रतिषेधः।
नवदिल्ली > एन् डि टि वि नामकस्य दृश्यमाध्यमस्य हिन्दीवार्ताप्रणालीं प्रति केन्द्रसर्वकारेण कृते एकदिनात्मके सम्प्रेषणनिरोधे विपक्षदलानां वार्तामाध्यमपरिषदां च प्रतिषेधः शक्तः। नवंबर् नवमदिनाङ्कस्य सम्प्रेषणमेव निवारितम्।
     पठान्कोट्ट् तीव्रवादि आक्रमणम् अधिकृत्य वार्तासम्प्रेषणमध्ये व्योमनिलयस्य रहस्यरेखाः अपि सम्प्रेषिताः इत्यारोप्य एव इयं प्रतिक्रिया।
    सर्वकारस्य अयं क्रियाविधिः मतस्वातन्त्यलङ्घनमिति मुख्यप्रकाशकानां समित्या एडिटेर्स् गिल्ड् इत्यनया उक्तम्।

Saturday, November 5, 2016

PS 2वस्तुसेवकरपरिषदोपवेशनं सम्पन्नम् 
नवदेहली> मंत्रिणा अरूण जेटलिना प्रतिपादितं यत् इदानीं यावत्  दशमहत्वपूर्णप्रकरणानि समासाधितानि | वस्तुसेवकरान्तर्गतं १.५ कोटिरुप्यकाणां  करमूल्यांकनं विधातुं राज्यप्रशासनाधिकारिणः केन्द्रप्रशासनाधिकारिणश्च उत्तरदायित्वं निभालयिष्यन्ति |
PS 3
राष्ट्रिय-हरित-प्राधिकरणेन दिल्लीप्रशासनं तर्जितम् 
 नवदेहली > दिल्ल्यां प्रदूषणदूरीकरणे  विफलतायै राष्ट्रियहरितप्राधिकरणेन दिल्लीप्रशासनं तर्जितम् |राष्ट्रियहरितप्राधिकरणेन राजधान्यां प्रदूषणनियंत्रणाय केंद्रीय-प्रदूषण- नियंत्रणाभिकरणं दिल्ली-प्रदूषण-नियंत्रण-समिति च समुचितपदक्षेपाय समादिष्टौ | अपि च  गभीरप्रदूषणस्थितिमालक्ष्य प्राथमिकविद्यालयाः शनिवासराय पिहिताः |
H3 वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, सम्पन्नम्- वी के सारस्वत्।
बहरिन् >भारत सेनायाः सुशक्त बाणेषु उग्रतमं पृथ्वी बाणस्य स्रष्टा डॉ. वी के सारस्वतः बहरिन् संदृष्टवान्। बहरिनस्य सयन्स् इन्द्या फोरम् नाम दलस्य वैज्ञानिक प्रतिभा पुरस्कारदानाय एव अस्य बहरीन् राष्ट्र सन्दर्शनम्। आसूत्रण कम्मीषनस्य नूतन स्वरूपस्प 'आयोग्' नाम संस्थायाः अङ्गत्वेन विराजमानः चअयं सारस्वत् । भारतीय प्रतिरोध-अनुसन्धान केन्द्रस्य DRDO अधिपः भवत्‍ययम्
 वैज्ञानिक प्रतिभापुरस्कारेण समादृतैः छात्रैःसह 'मिथ- भाषण मभवत् सायं पञ्च वादने भारत जषन् माल् वेदिकायाम् आसीत् कार्याक्रम: । भारत-संस्कृतिः सदा वैज्ञानिकाभिमुख मासीत् अनेनकारणेन वैदेशिकानाम् अधिवेशनात् पूर्वं भारतम् वैज्ञानिकचिन्तया, अनुसन्धानसरण्या च सम्पन्नम् आसीत् इति तेन उक्तम्।

 चौ.चरणसिंहविश्वविद्यालये महर्षिवेदव्याससमारोहः
लख्नौ >उत्तरप्रदेशस्य मेरठस्थितस्य चौधरी-चरणसिंहविश्वविद्यालस्य रजत-जयन्त्यवसरे तत्रत्येन संस्कृतविभागेन नवम्बर मासस्य प्रथमदिनांकात् सप्तदिनांकं यावत्  सप्तदिवसीयः राष्ट्रिय-वेदव्यास-समारोहः समायोज्यते। यस्यान्तर्गतं छात्राणां प्रतिभा-प्रदर्शनमुद्दिश्य विविध-संस्कृत-प्रतियोगिताः शोधसंगोष्ठयः, कविसम्मेलनञ्चायोज्यन्ते। यत्र हि नैकेषां महाविद्यालयीय छात्राः भागम् अभि-स्वीकुर्वन्ति।

Friday, November 4, 2016

आगामीसप्तवर्षेषुस्टेटबैंकेन(वित्तकोशः)7070 ATM संस्थाप्यते।

मुंबई>भारतीयस्टेटबैंकेन (वित्तकोष:)स्वस्य ATM क्षेत्रविस्तारार्थं आगामीसप्तवर्षेषु 7070 संख्याकानि एनसीआर सेल्फसर्व-22 ई ऑटोमेटेडटेलरयन्त्रंATM संस्थाप्ययत ।  बुधवासरे कश्चन अधिकारी इयं सूचना दत्तवान् ! एतादृश रुपेण ATM स्थापनं एनसीआर कार्पोरेशन नामकश्चनसंस्थया क्रियते । बहुराष्ट्रियसंस्था एनसीआर कार्पोरेशन मुख्यालय: अमेरिकाया: जार्जिया स्थित दुलुथेस्ति ! भारते अस्या: संस्थाया: एतावता सर्वाधिक दीर्घं कार्यं वर्तते ! कार्येस्मिनन् 334 कोटिधनव्ययं भवति।
राजस्थाने त्रिसहस्रं कोटि रूप्यकाणां उन्मादकवस्तूनि गृहीतानि। 
नवदिल्ली >अन्तःराष्ट्रविपण्यां त्रिसहस्रंकोटि रूप्यकाणां सार्धत्रयोविंशति टण् परिमितानि उन्मादकवस्तूनि राजस्थानस्य उदयपुरात् रहस्यान्वेषणसंस्थया [डि.आर्.ऐ] संगृहीतानि। अस्मिन् विषये बोलिवुड् चलनचित्रनिर्माता सुभाष् दुधानी बन्धितः।
      उदयपुरस्थे निर्माणशालातः द्विकोटिसंख्याकाः मान्ड्राक्स् नामकाः वटकाः [टाब्लट्] एव गृहीताः। विषादरोगाय उपयुज्यमानम् औषधमस्ति मान्ड्राक्स्। अस्य अमितोपयोगः मानवम् अबोधावस्थां नीयते। उन्मादाय एते फलकाः उपयुज्यन्ते इति प्रत्यभिज्ञानेन इदमौषधं निरोधितमासीत्। किन्तु उदयपुरस्थायां औषधनिर्माणशालायां महत्परिमितम् उन्मादवस्तुसंचयनं कृतमिति सूचनानुसारं बि एस् एफ् बलस्य साहाय्येन आसीदिदम् उन्मादकाखेटनं कृतम्।

Thursday, November 3, 2016

इस्लामिकभीकरैः उपयुक्तानि शस्त्राणि अमेरिकासहित चतुस्त्रिंशत् राष्ट्राणाम्। 
इराख् राष्ट्रे इस्लामिक स्टेट् भीकरैः आधुनिक-शस्त्राण्येव उपयुज्यन्ते। एतादृशानि स्वयं विकासयितुं ते अशक्ताः इति स्थितौ कुतः शत्राणि, यानानि, अभियान्त्रिकविद्या च लभन्तेति संशयः स्वाभाविकः।
    इस्लामिक स्टेट् भीकराणां कृते अमेरिकया गुप्तरूपेण शस्त्राणि विक्रीयन्तेतित विकिलिक्स् प्रस्तावः समीपकाले एव बहिरागतः। अमेरिकासहित चतुस्त्रिंशत् राष्ट्राणाम् आधुनिक-शस्त्राणि भीकरैः उपयुज्यन्ते। अमेरिकां विना रष्या, चैना, ब्रिट्टन्, फ्रान्स् इत्यादि चतुस्त्रिंशत् राष्ट्राणां शतशः शस्त्राणाम् उपयोगः भीकरैः कुर्वन्ति। 

Wednesday, November 2, 2016

सोपानम्-18 Niranjana J, Saraswati Vidyaniketan, Chengamanad.
 आकाशवाण्याः राजधानी-वाहिनी द्वारा ''संस्कृत-सौरभम्'' कार्यक्रमः

नवदेहली >आकाशवाण्याः राजधानीवाहिनी-द्वारा  ''संस्कृत-सौरभम्'' इति नाम कार्यक्रमस्य प्रक्षेपणं करिष्यते। नवम्बर-मासस्य पञ्चमदिने रात्रौ सार्धनववादने प्रक्षेपणं करिष्यते । कार्यक्रमः 666 आवृत्तौ श्रोतुं शक्यते। अस्मिन्  कार्यक्रमे काव्य-पाठ: संस्कृत-पत्रकारितायाः वर्तमानां अवस्थाञ्च अधिकृत्य श्रोतुं शक्यते। डॉ. ऋषिराजपाठक:, संस्कृत-वाणी इति पाक्षिक-पत्रस्य मुख्यसम्पादिका श्रीमती लक्ष्मी शर्मा चात्र सहभागिनौ स्त:। वरिष्ठः वार्तावतारकः संस्कृतपत्रकारसंघस्य वरिष्ठ-सचिवः तथा सम्प्रतिवार्ता- नामिकया अन्तर्जालपत्रिकया अारब्धस्य अॉन्लाईन्- पत्रकारिता-पठनवर्गस्य निदेशकः इत्यादि-स्थानेषु विराजमानः डॉ. बलदेवानन्दसागरः कार्यक्रमस्य मुख्य-नियन्ता भविष्यति।

भारतसीमायां पाकिस्थानस्य शुक्तिकास्त्राक्रमणम् - अष्ट मरणानि।
जम्मु> भारत-पाक् नियन्त्रणरेखायां द्वयोः राष्ट्रयोः सैनिकैः परस्परं महत् शुक्तिकास्त्राक्रमणं कृतम्। किमपि प्रकोपनं विना पाकिस्थानेनैव आक्रमणम् आरब्धम्। अष्ट भारतग्रामीणाः मारिताः। भारतेन कृते प्रत्याक्रमणे द्वौ पाक् सैनिकौ मृतौ। नौषेरा प्रविश्यायामेव भारतस्य प्रत्याक्रमणं संवृत्तम्। जम्मु-काश्मीरमण्डले अनुवर्तमाने पाकिस्थानस्य आक्रमणे प्रदेशवासिनां व्यापादने च मुख्यमन्त्रिणी मेहबूब् मुफ्ती आशङ्कां दुःखं च प्रकाशितवती।

Tuesday, November 1, 2016

तुलावर्षा समागता।
अनन्तपुरी> दक्षिणभारते तुलावर्षः इति कथ्यमानः उत्तरपूर्ववर्षाकालः समागत इति पर्यावरणनिरीक्षणकेन्द्रेण निगदितम्। गतदिने तमिल् नाट् आन्ध्राप्रदेशयोः तीरेषु वर्षामेघाः संप्राप्ता इति स्थिरीकृतम्।
     अयं वर्षः संतृप्तमानकेन लप्स्यते इति प्रतीक्षा वर्तते तथापि केरले सामान्येन न्यूनः स्यादिति पर्यावरणकेन्द्रस्य गणना। दक्षिण-पश्चिमकालवर्षः [मण्सूण्] राष्ट्रे साधारणमानकेन लब्धमासीत् तथापि केरले प्रतिशतं ३४ मानकस्य न्यूनता अभवत्। तुलावर्षस्य विषये अपि एषा स्थितिः अभविष्यत् तर्हि राज्यं रूक्षाम् अनावृष्टिं प्राप्स्यति।

केरळाय षष्ठिपूर्तिः।
कोच्ची > देवस्य स्वकीयं स्थानमिति प्रथामवाप्तं केरळराज्यम् अद्य षष्ठिपूर्तिः आघुष्यते। भारतस्य स्वतन्त्रता प्राप्त्यनन्तरं भाषाणाम् आधारेण राज्यपुनःसंघाटने प्रवृत्ते तिरुवितांकूर्-कोच्ची-मलबार् नामकाः तत्कालीनाः लघुदेशाः सम्भूय केरळम् इति नवीनं राज्यं प्रादुरभूत्। १९५६ नवम्बर् प्रथमे दिने आसीत् केरळस्य उदयः। मलयाळं मातृभाषया स्वीकृतम्।⁠⁠⁠⁠