OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2023

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य ६-दिनाङ्के सम्पूर्णः भविष्यति।

   कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः द्वारेद्घाटन-महोत्सवः जनुवरिमासस्य षष्ठे दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारम् आलय- दर्शनद्वारम् उद्‌घाट्य अनन्तरं द्वादशदिनपर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता।

   कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। दर्शनेच्छुभ्यः  'वेर्च्वल् क्यू' सुविधा सज्जिताअस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/


 पाक्किस्थाने सामान्यनिर्वाचने इम्रान् खानस्य नामनिर्देशपत्रिका निरस्ता।

    लाहोर्> २०२४ संवत्सरीये सामान्य-निर्वाचनस्पर्धायां भागं स्वीकर्तुं समर्पिता नामनिर्देशपत्रिका निर्वाचनसमित्या निरस्ता। २०२४ तमे संवत्सरे फेब्रुवरिमासस्य अष्टमे दिने पाक्किस्थाने निर्वाचनं भविष्यति। भ्रष्टाचारप्रकरणे नियमप्रक्रमाः अभिमुखीकुर्वन् अस्ति अयमिति हेतुना एव अस्य निर्वाचननामनिर्देशपत्रिका निरस्ता इति पाक्किस्थानस्य निर्वाचनसमित्या आवेदिता।

Saturday, December 30, 2023

 'अयोध्याधाम' रयिल्वे निलयः ६ वन्देभारतं रेल्यानं २ अमृतभारतं रेल्यानं च प्रधानमन्त्रिणा राष्ट्राय समर्पितम्। 

 उत्तरप्रदेशस्थः नवीकृतः अयोध्याधामः रेल् निलयः प्रधानमन्त्रिणा नरेद्रमोदिना राष्ट्राय समर्पितः। ६ वन्देभारत -रेल्यानाय २ अमृतभारत- रेल्यानाय च प्रधानमन्त्रिणा ध्वजादेशः कृतः। राज्यपालः अनन्दी पट्टेलः, मुख्यमन्त्री योगी अदित्यनाथः च रेल्पथमन्त्री अश्विनी वैष्णवः च उद्घाटनकर्मस्य साक्षिणौ आस्ताम्।

 केरले द्वौ नूतनमन्त्रिणौ शपथवाचनं कृतवन्तौ।

गणेशकुमाराय गमनागमनं ; रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणं च।

रामचन्द्रन् कटन्नप्पल्ली [वामतः], के बि गणेशकुमारश्च राज्यपालस्य समक्षे शपथं कुर्वतः। 

 

अनन्तपुरी>  केरलस्य मन्त्रिसभां प्रति नूतनौ द्वौ मन्त्रिणौ शपथवाचनं कृत्वा प्रवेशमकुरुताम्। के बि गणेशकुमारः, रामचन्द्रन् कटन्नप्पल्लि इत्येतावेव नूतनमन्त्रिणौ। 

  मुख्यमन्त्रिणः पिणरायि विजयस्य अन्येषां मन्त्रिणां च सान्निध्ये राज्यपालः आरिफ् मुहम्मद खानः शपथवाचनं कारितवान्।  वर्तमानमन्त्रिणोः आन्टणि राजु, अहमद देवर्कोविल् इत्यनयोः पूर्वनिश्चितं स्थानत्यागमेव नूतनमन्त्रिणोः मन्त्रिसभाप्रवेशस्य हेतुः। 

 के बि गणेशकुमाराय गमनागमनविभागः रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणविभागश्च लभते।

 सूक्ष्मपलास्तिकं मृद्गुणान् कथं परिवर्तयति इत्यवबोधाय निर्मितबुद्धिः सक्षमः भवति इति वैज्ञानिकाः।

     सूक्ष्मपलास्तिकं मृदः गुणान् कथं परिवर्तयति इति ज्ञातुं निर्मितबुद्धिः सक्षमः भवति इति कोरिया विश्वविद्यालयस्थाः वैज्ञानिकाः अभिप्रयन्ति। यन्त्रबोधनवृत्तयः (Mechine learning Algorithms) विध्यादेशं कृत्वा, तदुपयुज्य सूक्ष्मपलास्तिकं कथं मृद् गुणेषु परिवर्तनं करोति इति अवगन्तुं शक्यते। मृदि अन्तर्लीनस्य सूक्ष्मपलास्तिकस्य परिमाणः , प्रकृतिः,आकारः इत्यादयः बहवः हेतवः एव मृद्परिवर्तनस्य कारणानि भवन्ति।

 युद्धविरुद्धकवितापारायणं - रूसीयकवेः सप्तवर्षाणां कारागारदण्डः। 

मोस्को> युक्रैने रष्याया‌ः अधिनिवेशं विमर्श्य कवितां विरच्य पारायणं कृतवान् आर्ट्यों कमर्दीन् नामकः रूसीयकविः सप्तवर्षाणां कारागारदण्डाय विहितः। विमर्शकान् निश्शब्दीकर्तुं पुतिनप्रशासनेन विधायमानेषु कठिनप्रक्रमेषु अन्तिमं भवत्येतत्। 

  गतगुरुवासरे मोस्कोस्थ 'ट्वर्स्कोयि' जनपदनीतिपीठेन आसीदयं दण्डनीतिः। २०२२ फेब्रुवरिमासतः गतमासपर्यन्तं युक्रैनयुद्धविमर्शप्रकरणेषु १९,८४७ जनाः निगृहीताः। ७९४ जनानामुपरि दण्डनीयापराधाः विहिताश्च।

 दिनेनैकेन केरलराज्यं संद्रष्टुं शक्यते। हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः।

    केरलस्य पर्यटनक्षेत्रे नूतनम् अनुभवं दातुं हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः सज्जते। केरलराज्यसन्दर्शनाय आगतेभ्यः सन्दर्शकेभ्यः अतिद्रुतं राज्यस्य विविधभागान् संप्राप्य मनोहराणि आकाशदृश्यानि आस्वादयितुम् एव हेलि टूरिसं (heli tourism) परियोजना समायोजिता इति पर्यटनविभागमन्त्रिणा पि ए मुहम्मद् रियासेन निवेदितम्। परियोजनायाः समारम्भः दिसंबर् मासस्य त्रिंशत्तमे दिनाङ्के नेटुम्बाश्शेरिदेशे भविष्यति। दिनेनैकेन जलाशय - समुद्रतट-गिरिप्रदेशयुक्तस्य केरलस्य मनोहरभूप्रकृतेः आस्वादनाय परियोजनेयं प्रयोजकीभविष्यति।

Friday, December 29, 2023

 खत्तरे  अष्टानां भूतपूर्वनाविकानां मृत्युदण्डः   निरस्तः। 

भारतस्य नयतन्त्रविजयः इत्युद्घोषः। 

नवदिल्ली> खत्तरराष्ट्रे तद्देशीयसर्वकारेण मृत्युदण्डाय विहितानाम् अष्टानां भूतपूर्वनाविकानां भारतीयानां समाश्वासः। तेषां मृत्युदण्डः निरस्त इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्। 

   भारतीयनौसेनायाः सेवानिवृत्तेषु  अष्टभारतीयेषु खत्तरस्य कस्यांश्चित् निजीयसंस्थायां कर्म कुर्वत्सु देशविरोधप्रवर्तनकारणेन   २०२२ ओगस्टमासे निगृहीताः कारागारे बद्धाश्चासन्। ओक्टोबरमासे उपधानन्तरं मृत्युदण्डाय विहिताश्च। एनं विरुध्य समर्पितायाम् अभियाचिकायामेव अधुना आश्वासविधिः अजायत। विधेः पूर्णरूपं न बहिरागतम्। 

  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दुबाय् देशे सम्पन्ने 'कोप् - २८' उच्चशिखरसम्मेलने खत्तरस्य  अधिकारिणा शैख् शमीम् बिन् हमद् महाशयेन सह विधत्ते अभिमुखे भारतीयनाविकानां प्रकरणमुन्नीतवान् इति श्रूयते स्म। अतः भारतस्य नयतन्त्रविजयः भवत्येतदिति अभिज्ञाः वदन्ति।

Thursday, December 28, 2023

 ओस्ट्रेलियायाम् झंझावातेन सह अतिवृष्टिः। नवजनाः मृताः।

रक्षाप्रवर्तने निरताः रक्षिपुरुषाः।

      क्विन्स्लाण्ड्> क्रिस्तुमस् दिने ओस्ट्रेलियायां दुरापन्नेन झंझावातेन अतिवृष्टिहेतुना च मृतानां संख्या नव अभवत्। त्रिदिनानि यावत् अनुवर्तितायाः वृष्टेः इदानीं शमनमभवत् तथापि सङ्कटानां पूर्णपरिहारः न अभवत्। अपघातस्थितिः  इदानीमपि अनुवर्तते इति गोल्ट् कोस्ट् नगराधिपेन आवेदितम्। गतदिनत्रयं यावत् झंझावातहेतुना वैद्युतिविच्छेदः अभवत् इति कारणेन लक्षाधिकानि गृहाणि अन्धकारे पतितानि आसन्।

Tuesday, December 26, 2023

 मुख्यवक्तारूपेण डॉ. वीरेंद्रवर्य: कर्मयोगे एवं सन्यासविषये गीताज्ञानयज्ञसमारोहं सम्बोधितवान्

संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं गीताज्ञानयज्ञसमारोह: सञ्जायते

-वार्ताहर:-कुलदीपमैन्दोला। पंजाब्।

    संस्कृतप्रचाराय प्रसाराय च अहर्निशं संस्कृतसम्भाषणेन जनजागरणं कारयन्ती संस्कृतभारती अधुना स्थाने स्थाने सम्भाषणाय शिबिरं सञ्चालनं च विभिन्नशास्त्राध्ययनं व्याख्यानं च समायोजयति । क्रमेस्मिन् संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं आयोज्यमाने गीताज्ञानयज्ञसमारोहस्य तृतीये दिवसे डॉ.ओमानमहोदयेन (जिल्लासम्पर्कप्रमुखपटियालात:)

 आदित्य एल् आँण्  गम्भीरपदं प्रविश्यति। प्रभामण्डलप्रवेशस्य निम्नगणना समारब्धा।

   भारतस्य प्रथमसौरयोजना इति प्रसिद्धा आदित्य एल् आँण् इत्यख्यायाः सूर्यप्रभामण्डलप्रवेशस्य अनुकूलसमयः समागतः। तदर्थं निम्नगणना समारब्धा इति इसरो द्वारा न्यवेदिता। भूतलात् १५ लक्षं किलोमीट्टर् दूरं प्राप्य लग्राञ्च् इति बिन्दौ भ्रमणपथस्य समीपं वर्तते आदित्य एल् आँण् । सूर्यस्य समीपवर्ती इति निर्णीतः बिन्दुः भवति लग्राञ्च्। विना विलम्बं लग्राञ्च् इति प्रभामण्डलं प्रवेष्टुं शक्यते इति ऐ एस् आर् ओ अधिकारिणा प्रबुध्यते। २०२४ तमे जनुवरि ६ दिनाङ्के श्रमः सफलं भविष्यति इति ऐ एस् आर् ओ  अधिकारिणः अवदन्।

Monday, December 25, 2023

 मलिनीकरणम् अतिरूक्षमभवत्। नवदिल्ल्यां सर्वकारेण याननियन्त्रणम् आनीतम्।

    वायुप्रदूषणेन सह शिशिरकालमपि आगते अवसरेऽस्मिन् श्वासोच्छ्वासाय महान् सम्मर्दमनुभवति भारतस्य राजधानी नवदिल्ली। वायुगुणसूचकाङ्कः (एयर् क्वालिट्टि इन्टेक्स् ) ४०० बिन्दुः यावत् वर्धिते सन्दर्भेऽस्मिन् यानानाम् उपरि नियन्त्रणं दापयित्वा मलिनीकरणमानं लघूकर्तुं परिश्रमं करोति सर्वकारः। तदर्थं दिल्ली एन् सि आर् मण्डलेषु बि एस्३ पेट्रोल्तैल यानानां बि एस् ४ डीसल्तैलयानानां च नियन्त्रणम् आनीतम्।

Sunday, December 24, 2023

 भारतमहासमुद्रे पण्यमहानौका आक्रमिता।

दुबाय्> भारतमहासमुद्रे पण्यमहानौका ड्रोण् द्वारा आक्रमिता। जीवापायः न अभवत्। शनिवासरे आसीत् आक्रमणम्। नौकायै क्षतिः अभवत्। नौका इस्रायेलेन सम्बद्धः भवति इति आवेदनम् अस्ति। भारतस्य वारावल् तीरतः २०० नोट्टिक् मैल् दूरे दक्षिणपश्चिम भागे आसीत् आक्रमणम्॥

Saturday, December 23, 2023

 भारतस्य गणतन्त्रदिनोत्सवे फ्रञ्च्देशस्य राष्ट्रपतिः विशिष्टातिथिः भविष्यति।

 

 नवदिल्ली> भारतस्य २०२४ तमसंवत्सरीये गणतन्त्रदिनोत्सवे फ्रञ्च्देशस्य राष्ट्रपतिः इम्मानुवल् मक्रोण् विशिष्टातिथिः भविष्यति। भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः आमन्त्रणं फ्रञ्च्देशस्य राष्ट्रपातिना स्वीकृतमिति विदेशकार्यमन्त्रालयेन आवेदितम्। 

 दिल्ल्यां बालभारती पब्लिक् स्कूल् मध्ये अन्ताराष्ट्रियायाः गीताजयन्त्यः अवसरे गीताश्लोकपाठस्पर्धा समनुष्ठिता

वार्ताहरः - पुरुषोत्तमशर्मा

     नवदिल्ली>अन्ताराष्ट्रियायाः गीताजयन्त्यवसरे नवदिल्ल्या:  सर गङ्गाराम चिकित्सालय-मार्गस्थेन बालभारती पब्लिक स्कूल इत्याख्येन प्रशासनेतरेण विद्यालयेन छात्राणां कृते श्रीमद् भगवद्गीताया: केषाञ्चन प्रचितानां श्लोकानां पाठस्य स्पर्धा  समायोजिता। अस्यां श्लोक-पाठ-स्पर्धायां सर्वेषां कक्षाणां सर्वे  रुचिमन्त: छात्रा: प्रतिभागिनश्च भागं  भजितुं  स्वतन्त्रा: अवर्तन्त। एतस्यां श्लोकपाठस्पर्धायां दिल्लीशिक्षानिदेशालयद्वारा निर्दिष्टानां भगवद्गीताया: कतिपय-प्रचितानामेव श्लोकानां पाठ: विधेय: आसीत्। अथ चास्यां श्लोक-पाठ-स्पर्धायां  षष्ठीकक्षा-त: दशमी कक्षा-पर्यन्तं  सार्ध-शता-धिकै: छात्रै: सक्रिया प्रतिभागिता विहिता।   एतस्मिन् कार्यक्रमे एकत: यत्र छात्रै: न  केवलं गीताया:  श्लोका:   कण्ठस्थीकृता:   तत्रैव विद्यालय-परिसरे सर्वै:  शिक्षकै: छात्रै: कर्मकरैश्चापि आध्यात्मिक-वातावरणस्य अनुभव:  कारितः।गीताजयन्त्युत्सव-श्लोक-पाठ-स्पर्धा कार्यक्रमस्य  सञ्चालनमपि  छात्रा: एव निरवहन्।

Thursday, December 21, 2023

 राष्ट्रिय कायिकपुरस्काराः प्रख्यापिताः।

सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां 'खेल् रत्न' पुरस्कारः, इ भास्कराय 'द्रोणाचार्य', मुहम्मद षमी, एम् अर्जुनः इत्यादिभ्यो अर्जुनपुरस्कारश्च। 

नवदिल्ली> भारतस्य देशीय कायिकपुरस्काराः उद्घोषिताः। राष्ट्रस्य परमोन्नतपुरस्कारः मेजर् ध्यान्चन्द्  'खेल् रत्न' नामकः पुरुषविभागस्य बाड्मिन्टण् युगलक्रीडकाभ्यां सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां लभते। 

  श्रेष्ठपरिशीलकाय दीयमानः द्रोणाचार्यपुरस्कारः 'कबडि' क्रीडापरिशीलकाय इ भास्कराय दीयते। उत्तमक्रीडकेभ्यः दीयमानाय  अर्जुनपुरस्काराय अस्मिन् वर्षे २६ क्रीडकाः अर्हा‌ः भवन्ति। तेषु भारतस्य  क्रिकट् क्रीडकः मुहम्मद षमी, दीर्घप्लुतकः केरलीयः एम् श्रीशङ्करः च अन्तर्भवतः। 

  जनवरी ९ दिनाङ्के राष्ट्रपतिभवने आयोज्यमाने समारोहे पुरस्काराः सम्मानिष्यन्ते।

 दण्डनीतिनियमाः परिष्कृताः।

    नवदिल्ली> नूतनाः दण्डनीतिनियमाः प्रबलाः जाताः। नूतन नियमानुसारं जनसञ्चयेन कृतायां हत्यायां मृत्युदण्डः विहितः। तथा एव देश-द्रोहनियमः अपि पिधानीकृतः इति विधानसभायां विधेयकस्य  अवतारणं कुर्वन् अमितशाहः अवदत्। अयं नियमः पूर्वं ब्रिट्टीष् प्रशासकैः प्रस्तुतः आसीत्। नियमोऽयं महात्मागान्धी बालगंगाधरतिलकः सरदार वल्लभाई पट्टेलादीन् देशद्रोहापराधम् आरेप्य कारागृहे पिधातुं बिट्टीश्  अधिकारिणा  निर्मितः आसीत् इत्यपि अमित शाहः उक्तवान्।

Wednesday, December 20, 2023

 चीने भूकम्पः - १२६ मरणानि। 

बीजिङ्> चीनराष्ट्रस्य उत्तरपश्चिमीयपर्वतसानुषु सोमवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १२६ जनाः मृत्युमुपगताः। ५३० जनाः आहताः। १. ५५लक्षं भवनानि विशीर्णानि। अतिशैत्ये विनष्टवासाः जनाः अतिकठिनं क्लेशमनुभवन्ति। 

 भूकम्पमापिन्यां ६. २ तीव्रतामङ्कितः भूकम्पः गान्सु , चिङ् हायि इत्येतयोः क्षेत्रयोरेव सञ्जातः।

मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य  हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा  द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्

उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


     विश्वविद्यालयानुदानायोगस्य अन्तर्गतं  मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य  हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा  द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्। कार्यक्रमेस्मिन्  दक्षिणत: एवं पूर्वोत्तरराज्यस्य  शिक्षका:  प्रशिक्षणं प्राप्स्यन्ति।

     भारतसर्वकारेण कार्यान्वितस्य दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः द्वितीयः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण २०२३ तमस्य वर्षस्य दिसम्बरमासस्य १८ दिनाङ्कात् आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति – उत्तराखण्डः, उत्तरप्रदेशः, उड़ीसा, महाराष्ट्रः, मध्यप्रदेशः, राजस्थानः, त्रिपुरा, कर्नाटकः, तमिलनाडुः, हरियाणा च ।

अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण आयोजिते अस्मिन् द्वितीये कार्यक्रमे दक्षिणपूर्वोत्तरराज्येभ्यः अपि बहुसंख्याकाः प्रतिभागिनः भागं गृह्णन्ति। तदर्थं सा केन्द्रस्य सम्पूर्णं आयोजनसमित्याः सर्वेभ्यः सहभागिभ्यः च शुभकामनाम् अयच्छत् ।

     सा पुनः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशन-शिक्षक-प्रशिक्षणकेन्द्रं अद्यैव स्वस्य द्वितीय: प्रशिक्षणकार्यक्रम: 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः इति अन्तर्जालमाध्यमेन  संचालयति। सर्वकारस्य अस्य महत्त्वाकांक्षिणः उपक्रमस्य लाभं प्रतिभागिनः अन्तर्जालमाध्यमेन प्राप्तुं शक्नुवन्ति।

    उल्लेखनीयं यत् उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं देशस्य १११ मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्राणां माध्यमेन यूजीसीद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं गढवालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण उच्चशिक्षायाः विभिन्नविषयेषु प्रशिक्षणकार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।

        अस्य केन्द्रस्य निदेशकः प्रो. इन्दुपाण्डेयखण्डूरी इत्यनया उक्तं यत् अस्माकं केन्द्रं नेप २०२० इत्यस्य विभिन्नपक्षेषु भाषणं दातुं देशस्य सर्वेभ्यः विद्वान् वक्तारः आमन्त्रयित्वा शिक्षकाणां कृते प्रशिक्षणस्य नूतनानि आयामानि स्थापयिष्यति। सा सूचितवती यत् वर्तमानकार्यक्रमस्य आयोजनं 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः' इति शीर्षकेण क्रियते। अस्य अन्तर्गतं भारतीयज्ञानव्यवस्था, शैक्षणिकनेतृत्वशासनं तथा प्रबन्धनम्, कौशलविकासः, छात्रविविधता तथा समावेशीशिक्षा, सूचना तथा प्रौद्योगिकीसञ्चारः, अनुसन्धानविकासः, उच्चशिक्षा तथा समाजः तथा समग्रं बहुविषयकशिक्षा इत्यादिषु विविधपक्षेषु शिक्षका: प्रशिक्षिताः भविष्यन्ति। प्रतिदिनं सायं ३ तः ६ वादनपर्यन्तं द्वौ ऑनलाइन-सत्रौ भविष्यतः। कार्यक्रमस्य अन्ते शिक्षकाणां बहुविकल्पप्रश्नाः उत्तराणि च दत्त्वा अपि मूल्याङ्कनं भविष्यति। एतेषां सर्वेषां प्रक्रियाणां फलस्वरूपम् अस्य प्रशिक्षणकार्यक्रमस्य प्रमाणपत्रं केन्द्रेण निरन्तरं उपस्थितानां शिक्षकाणां कृते दीयते । एतेन प्रकारेण शिक्षकाः अस्य केन्द्रस्य माध्यमेन नूतनशक्त्या नवीनक्रियाकलापैः च सम्बद्धाः भविष्यन्ति इति सा अवदत्।

Saturday, December 16, 2023

 केरलराज्ये पुनरपि कोविड् वैराणुः। 

    तिरुवनन्तपुरम्> कोष़िकोट् जनपदे ७७ वयस्कः कुमारन् नाम वृद्धः एव कोविड् वैराणुबाधया मृतः। कतिपयदिनात् पूर्वं कण्णूर् जनपदे ८० वयस्कः मृतः आसीत्। अणुबाधायाः अनन्तरं १८ मासपर्यन्तं सारस्कोव् नाम अयं वैराणुः मनुष्यस्य श्वासकोशे तिष्ठति इति नेच्चर् इम्यूणोलजि जेर्णल् मध्ये अनुसन्धानम् एकं प्रकाशितं वर्तते। वर्षद्वयम् अपि अस्य वैराणोः जीवप्रभावः मनुष्यस्य श्वासकोशेषु भविष्यति इति फ्ञ्च् देशीयाः वैज्ञानिकाः तेषाम् अनुसन्धान-प्रतिवेदने वदन्ति।

Friday, December 15, 2023

 संसदि द्वयोर्युवकयोः अक्रमोद्यमः।

 सुरक्षाप्रकरणे जागरणव्यतियानमिति विमर्शः।

पञ्च जनाः निगृहीताः। 

नवदिल्ली>  २२ संवत्सरात् पूर्वं भारतीयसंसदि दुरापन्नं भीकराक्रमणमनुस्मृत्य गतदिने पुनरपि युवयोः अतिक्रमप्रवेशः। नूतनसंसद्मन्दिरस्य लोकसभायाः सन्दर्शकप्रकोष्ठात् द्वौ युवकौ सभागारं प्रति उत्क्रमप्रवेशमकुरुताम्। तयोरेकः सदस्यानामासन्दानाम् उपरिष्ठात् सभानाथस्य आसनं लक्ष्यीकृत्य उत्प्लावितवान्। अपरः वर्णोपेतवातकं प्रसार्य आशङ्काजनकमन्तरीक्षम् असृजत्। 

  अक्रमिणौ युवकौ सदस्यैः परिगृहीतौ। उत्तरप्रदेशीयः सागर शर्मा मैसुरु स्वदेशीयः मनोरञ्जन् गौडः च एताविति परं निर्णीतम्। ततः संसदः बहिश्च एतत्संघाङ्गाः त्रयोSपि आरक्षकैः निगृहीताः। 

  संसदः अन्तः सुरक्षायां महान् जागरणव्यतियानमभवदिति विपक्षदलीयैः नेतृभिः उक्तम्।

Wednesday, December 13, 2023

 गासीयाः जनाः दुर्भिक्षामनुभवन्ति। 


गासा> यत्र संयुक्तराष्ट्रसंघटनस्य साहाय्यानि प्राप्तानि तस्मिन् दक्षिणगासानगरे अपि इस्रयेलस्य आक्रमणे तीव्रे गासीयाः जनाः अतिकठिनं दौर्भिक्षामनुभवन्ति। गासाक्षेत्रे सर्वत्र भोज्यदारिद्र्यम् अतितीव्रमस्ति। 

  "इस्रयेलः प्रथमं बोम्बक्षेपणद्वारा गासाममारयत्। इदानीं दौर्भिक्षया मारयति। अस्माकमपत्यानि भोज्याय वीथिषु भिक्षाटनं कुर्वन्ति।" षडपत्यानां पितुः अबुखलीलः इत्यस्य परिदेवनान्येतानि। गासाप्रान्ते अवशिष्टेषु जनेषु अर्धांशः खाद्यदारिद्र्यमनुभवन्तः इति यू एन् संस्थायाः भोज्यपरियोजनाविभागेन निगदितम् च। 

  लोके सर्वत्र इस्रयेलेन कुर्वन्तं युद्धं समापयितुं प्रक्रमाः करणीयाः इत्यर्थयित्वा बहुजनप्रक्षोभाः प्रचलन्तः सन्ति।

 भजन् लाल शर्मा  राजस्थानस्य मुख्यमन्त्री।

नवदिल्ली> सप्ताहाधिकं यावत् दीर्घितानां चर्चानाम् उपवेशनानामनन्तरं राजस्थानराज्ये अपि मुख्यमन्त्री निर्णीतः। इदंप्रथमतया विधानसदस्यरूपेण चितः भजन् लाल शर्मा राजस्थास्य मुख्यमन्त्री भविष्यति। पूर्वं द्विवारं मुख्यमन्त्रिणी अभूतायाः वसुन्धरा राजसिन्ध्ये इत्यस्याः सान्निध्ये केन्द्रप्रशासनस्य निरीक्षकस्य रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे सम्पन्ने उपवेशने आसीदयं निर्णयः। दिल्यां भा ज पा कार्यालये आसीदुपवेशनम्। 

  राजस्थाने द्वौ उपमुख्यमन्त्रिणावपि निर्णीतौ। दियाकुमारी नामिका जयपुरं राजभवनस्य राजकुमारी , तथा प्रेम चन्द्र बट्वः च उपमुख्यमन्त्रिणौ।

Sunday, December 10, 2023

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतम्।

तृतीयदशकम् उत्तराखण्डस्य दशकम्- श्रीनरेन्द्रमोदी

सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्

दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

  प्रधानमंत्री श्री नरेन्द्रमोदी देहरादूने "उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतवान्। प्रधानमन्त्री तत्रैव प्रदर्शन्याम् आगतवान्, भूमिभङ्गप्राचीरस्य अपि अनावरणं कृतवान्। प्रधानमन्त्री देवभूमिः उत्तराखण्डे भवितुं प्रसन्नतां प्रकटयन् शताब्दे: तृतीयदशकं उत्तराखण्डस्य दशकम् इत्यस्मिन् विषये स्वस्य वचनं स्मरणं कृतवान्। सः अवदत् यत् एतत् वचनं स्थले एव सत्यं भवति इति सन्तोषस्य विषयः। सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्।

राजमार्गस्य समान्तरतया व्याजं शुल्कसमाहरणद्वारम्।

     गुजरात् राज्ये राजमार्गस्य समान्तरतया व्याजरूपेण यातायातशुल्कस्य समाहरणाय शुल्कसमाहरणद्वारं स्थापितम्। अस्य द्वारस्य साहाय्येन इतःपर्यन्तं ७५ कोटि रूप्यकाणि समाहृतानि। सर्धैकसंवत्सरं यावत् इदं शुल्कसमाहरणं द्वारेऽस्मिन् प्रचलितम् आसीत्। अहम्मदाबाद्- मण्डावि राजमार्गे एन् एच् ८ए इत्यत्र आसीत् इदं व्याजद्वारम्। विष्येऽस्मिन् आरक्षकैः अन्यायाचरणपत्रं पञ्चीकृतम् ॥

Friday, December 8, 2023

 भारतस्य तेजस् नाम युद्धविमानं वाञ्छन्ति विदेशराष्ट्राणि।

      भारतस्य स्वदेशीयं युद्धविमानं तेजस् इत्यस्य क्रयणाय कानिचन विदेशराष्ट्राणि वाञ्छन्ति। नैजीरिय, फीलिपिन्स्, अर्जन्टीन, ईजिप्त् इत्येते चत्वारि राष्ट्राणि विमानं क्रेतुं वाञ्छन्ति इति भारतं प्रति अवदन्। हिन्दूस्थान् एयरोनोट्टिक्स इत्यस्य अध्यक्षेण सि बि अनन्तकृष्णः इत्याख्येन इयं वार्ता प्रतिवेदिता॥

Thursday, December 7, 2023

 विद्यालयछात्रेभ्यः संस्कृतधिषणावृत्ति परीक्षा।

   अनन्तपुरी केरळम्> केरळेषु विद्यालयछात्रेभ्यः संस्कृत- धिषणावृत्तिपरीक्षा डिसंबर् मासस्य ११, १२ दिनाङ्कयोः प्रचालयिष्यते। प्रथमकक्ष्यातः दशमकक्ष्या पर्यन्तं छात्राः परीक्षायां भागं स्वीकरिष्यन्ति। प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं छात्राणां मूल्यनिर्णयानन्तरम् प्रति शैक्षिकोपजिल्लायाम् इति क्रमेण धिषणावृत्तिः दास्यति। अष्टमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्रेभ्यः प्रतिशैक्षिकजिल्लायां धिषणावृत्तिः दास्यति।

 लष्करभीकरः हन्स्ल अद्न नामकः निहतः। 

कराची> जम्मु काशमीरस्थे उधंपुरे २०१५ बि एस् एफ् वाहनव्यूहं प्रति  कृतस्य आक्रमणस्य सूत्रधारः हन्स्ल अद्न नामकः पाकिस्थाने अज्ञातस्य भुषुण्डिप्रहारेण निहतः इति सूच्यते। 

  मुम्बई भीकराक्रमणस्य आसूत्रकः लष्कर् नेता हाफिस् सयीद् इत्यस्य अनुयायी भवत्येषः। अस्मिन् वर्षे पाकिस्थाने दुरूहावस्थायां हतः १२तमः भीकरः भवति  हन्स्ल अद्नः। उधंपुरे आक्रमणेन द्वौ बि एस् एफ् भटौ मृत्युं प्राप्तवन्तौ आस्ताम्।

Tuesday, December 5, 2023

 मिग्जैं चक्रवातस्य दुष्प्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। 

नक्रेण मार्गायते मार्गः

   चेन्नै> मिग्जौं चक्रवातस्य दुष्प्रप्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। जलोपप्लवेन चत्वारः जनाः मृताः। मार्गाः जलपूरिताः। नक्रादयः जलजीविनः वीथिषु निमज्जितेषु मार्गेषु विचरन्तः सन्ति। सर्वकारेण जनेभ्यः घटनां सूचयित्वा जाग्रतानिर्देशः प्रख्यापितः।  रेल् वायुमार्गाः अपि पिधानी कृताः सन्ति।

Monday, December 4, 2023

 भूमेः अधः महासमुद्रम्। भूमेः अपेक्षया त्रिगुणितं जलम् इति वैज्ञानिकाः।

   भूमेः बाह्यकवचे समुद्रमेकमस्ति इति वैज्ञानिकैः संदृष्टम्। धरातलात् ४०० अर्धक्रोशात् अधः स्थितेषु रिङ्वुडैट् नाम शिलासमुच्चयेषु एव समुद्रः संदृष्टः। यथा स्प्रोञ्चः ( sponge) जलसंभरणं करोति तथैव जलसंभरणं कर्तुं रिङ्वुडैट् नाम शिलासमुच्चयः प्रभवति। एतस्मिन् शिलासमुच्चये प्रतिशतं १% जलम् अस्ति चेत् भूमौ विद्यमानेषु सर्वसमुद्रेषु संदृष्टस्य जलापेक्षया त्रिगुणितं परिमाणं जलं तत्र भविष्यति इति वैज्ञानिकाः प्रवदन्ति।

Sunday, December 3, 2023

 प्रलयदुरितं समाप्तम्। मणालिदेशे हिमपातः समारब्धः।

हिमस्नाने - मणाली

   हिमाचलप्रदेशे प्रसिद्धे विनोदपर्यटनकेन्द्रे मणालीदेशे पुनः हिमपातः समारब्धः। राज्ये विनोदपर्यटनक्षेत्रं सम्पन्नं भविष्यति इति प्रत्याशायां वर्तन्ते अधिकारिणः। अस्मिन् संवत्सरे दुरापन्ने प्रलयदुरिते षिंला, कुलू, मणाली इत्यादीनि हिमाचलप्रदेशस्थानि विनोदपर्यटनकेन्द्राणि भञ्जितानि आसन्। विनोदपर्यटनक्षेत्रमपि सङ्कटे पतितमासीत्। शैत्यकालपर्यटने समारब्धे अस्मिन् सन्दर्भे पूर्वावस्थायाः प्रगतिः भविष्यति इति अधिकारिभिः प्रतीक्ष्यते।

 जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये 

विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥ 

-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

     महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:। 

   विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्। 

   वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल्  तृतीयस्थानं च प्राप्तवन्त: । 


    कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

 संसदः शैत्यकालसम्मेलनं श्वः आरप्स्यते। 

नवदिल्ली> भारतीयसंसदः शैत्यकालसम्मेलनं श्वः आरभ्य डिसम्बरस्य २२ तम दिनाङ्के समाप्स्यति। १९ दिनेषु १५ उपवेशनानि स्युः। 

  इस्रयेल - पालस्तीनविषये भारतस्य यथातथमतमधिकृत्य संसदि चर्चा आवश्यकी इति ह्यः सम्पन्ने सर्वदलीयोपवेशने विपक्षीयनेतृभिः अर्थितम्। सर्वकारेण आयोज्यमानस्य नूतनदण्डनीति-प्रमाणनियमस्य हिन्दीनामकरणं कृतमिति दक्षिणराज्यानि विरुध्य विवेचनमिति च तैरुक्तम्। संसदीयनियमान्तर्गतेभ्यः चर्चेभ्यः  सन्नद्ध इति सर्वकारेण निगदितम्।

 सर्वदलीयोपवेशने रक्षामन्त्री राजनाथसिंहः आध्यक्ष्यमावहत्।

Friday, December 1, 2023

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति। कुलपतिः सी जी विजयकुमारः।

-डॉ.दिनेश चौबे, उज्जयिनी 

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति इति कुलपतिः सी जी विजयकुमारः। उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजितस्या: सप्तदिवसीया: योगचिकित्साकार्यशालायाम् अध्यक्षभाषणं कुर्वन्नासीत् अयं महोहदयः। महोदयेन अपि च उक्तं यत् योगाभ्यासेन सह नैतिकमूल्यानां समायोजनेन योगाभ्यासस्य प्रभाव:  तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते। 

  कार्यक्रमस्य मुख्यवक्ता वरिष्ठयोगविशेषज्ञ: श्रीरामशबीझा महोदयः आसीत्। योगचिकित्साया: प्रभावस्य विषये विस्तारेण सूचितं महोदयेन योगाभ्यासचिकित्सा-पद्धतया निरोगीजीवनस्य सूत्राणि उद्घाटितानि।  योगानुरूपम्आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। 

   कार्यक्रमस्य शुभारंभ: वाग्देव्य: सरस्वत्या: पूजनेन वैदिकमंगलाचरणेन च जात: तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। कार्यशाळाया: अनुभवस्य विषये योगविभागस्य छात्रा श्रीमत्या मेघाचंदेल, दर्शनापाटीदार च स्व अनुभवम् श्रावितवत्यौ।  कार्यक्रमस्य संयोजनं योगविभागाध्यक्षा डॉ. पूजा उपाध्यायमहोदया, संचालनं सुश्रीईशापाटीदारः,  प्रतिवेदनं, आभारप्रदर्शनं डॉ. वरुणआहूजा च कृतवन्तः। 

कार्यक्रमे वास्तुविभागाध्यक्ष: डॉ. शुभमशर्मा, 

व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन् ।