OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 30, 2016

 पुनरपि अमेरिकायां मोदिः

वाषिङ्टण् > स्वीयजनप्रतिनिधिसभायाः संयुक्तसम्मेलनम्‌ अभिसम्बोध्य प्रभाषणाय भारतप्रधानमन्त्रिं नरेन्द्र मोदिम् आमन्त्र्य अमेरिका। जूणमासे ८ दिनाङ्‌के सम्भाव्यमाने योगे मोदिः सभाम् अभिसम्बोध्य प्रभाषणं करिष्यतीति विश्वासः। एतदर्थं यु एस् सभाया: वक्तुः आमन्त्रणं प्रधानमन्तिणः कार्यालयेन प्राप्तम्। एवञ्चेत् अमेरिकायाः जनप्रतिनिधिसभाम्‌ अभिसम्बोध्य प्रभाषणं क्रियमाणः पञ्चमः प्रधानमन्त्री भवेत् मोदिः।


आकाशयात्रायां सुखजननम्
कान्‌बरा > सिङ्गपूरतः म्यान्मारयात्रावेलायां विमाने युवत्याः सुखप्रसूतिः। सोलेर् हितु इति नामिका युवती सो जेट् स्टार् इति नामके विमाने यात्रावेलायां पुत्राय जन्म अदात्। पुत्राय विमानस्य नाम दत्वा नामकरणमपि कृतं वर्तते।
l
मल्ल्यां निष्कासयितुं
भारतस्य अभ्यर्थना
 नवदेहली - विवादमद्यव्यापारिं विजयमल्ल्यां ब्रिटण्देशात् निष्कासयितुं भारतेन अभ्यर्थितम्। भारतस्थं ब्रिटीषस्थानपतिं केन्द्रविदेशकार्य मन्त्रालयः अभ्यर्थनां न्यवेदयत्। ब्रिटण्देशस्थेन भारतस्थानपतिना अपि विषयममुं निवेदयति स्म।

वन्ध्यभूमौ विद्युत् आन्दोलनाय सर्वकारः

जयपुरः > राष्ट्रे आतपस्य काठिन्यं वर्धमानेऽस्मिन् समये तत् उपकारप्रदं कर्तुं केन्द्रसर्वकारेण पद्धतिः आविष्क्रिता। राजस्थाने गङ्गानगर् मण्डले ४०० हेक्टर परिमितौ वन्ध्यभूमौ केन्द्रकार्षिक मन्त्रालयस्य आभिमुख्ये सोलार् पानल् संस्थाप्य २०० मेगावाट् विधुत् उत्पादयितुं केन्द्रसर्वकारेण पद्धतिः आविष्कृता। पद्धत्यै केन्द्र बीजोत्पादकसङ्घेन प्रदेशानुमतिः दत्ता।


केरळे उष्णतरङ्गः; सूर्यातपेन  त्रयः मृताः। 

कोच्ची > केरळराज्ये इदंप्रथमतया उष्णतरङ्ग इति पर्यावरणविशेषः स्थिरीकृतः। पालक्काट् कोष़िक्कोट् आदिषु जनपदेषु कतिपयदिनैः अनुवर्तमानं महत्तापं परिगणयन् केन्द्र पर्यावरणविभागाधिकृतैः एवं प्रख्यापितम्।
  ह्यः त्रयः कर्मकराः सूर्याघातेन मृताः। कोल्लं जनपदे आयूर् प्रदेशनिवासी जि. गोपिः(65) केदारे कर्षणवेलायां सूर्यातपेन मृतः। कोट्टयं जनपदनिवासी धीवरश्च साबुः(43) , कण्णूर् जनपदीयः ६८वयस्कः केरवृक्षारोहणकर्मकरश्च जोसफः सूर्यातपेन मृतावन्यौ।

केरळविधानसभानिर्वाचनं - पत्रिकासमर्पणं समाप्तम्।

अनन्तपुरी> राज्ये विधानसभानिर्वाचनार्थं प्रत्याशिनां नामनिर्देशपत्रिकासमर्पणं सम्पूर्णम्। आहत्य १६४७ पत्रिकाः समर्पिताः। पत्रिकाणां सूक्ष्मशोधना अद्य भविष्यति।
  सोमवारपर्यन्तं पत्रिकाप्रत्यर्पणं साध्यते। मेय् १६ तमदिने निर्वाचनं भविष्यति।

गुजरातराज्ये मितव्ययसंवरणम्‌ 

गन्धिनगर् >धनसम्पादन -व्ययस्थितिमनुसृत्य समूहे पराङ्मुखानां जनानां कृते संवरणाय गुजरातसर्वकारस्य निश्चयः।तेषां कृते १०% संवरणाय नियमशासनम् आविष्कर्तुं निश्चयः स्वीकृतः इति मुख्यसचिवा आनन्दी बेन् पटेल् अवदत्। शासनं मेय् १ तः साधुतां प्राप्नोति।येषां वार्षिकधनादायः ६ लक्षात् न्यूनं भवति ते संवरणार्हाः भवन्ति इति अधिकृतैः सूचितम्।

समाश्वास वचनैः सह केन्द्र सर्वकारः

नवदेहली >राष्ट्रे वैद्यपठनविषये एकीकृतप्रवेशनपरीक्षा आवश्यकी इति उच्चतरन्यायालयस्य नियमशासनोपरि केन्द्रसर्वकारस्य श्रद्धादानं वैद्यछात्राणां कृते समाश्वासप्रदम्‌। नियमशासनम् अस्मात् वर्षात् परं भवतु इति केन्द्र सर्वकारपक्षतः ए जि मुकुल् रात्तगिना उच्चतरन्यायालयं प्रार्थितम्‌। विविधैः राज्यैः संघटितानां प्रवेशनपरीक्षाणाम् असाधुत्वकरणमपि प्रतिनिवर्तनीयम् इत्यपि सर्वकारेण अभ्यर्थितम्।

प्रथमं सल्मान्, इदानीं क्रीडकाश्च।

 नवदेहली >भारतीय ओलिम्पिक्समितेः सन्नद्धप्रतिनिधि रूपेण अभिनेतुःसलमानस्य चयनं विवादात्मकम् आसीत्। क्रीडामण्डलात् बहिः प्रवर्तमानस्य एकस्य चयनम् अनुचितमेव इति प्रमुखै: अभिप्रेतमासीत् ।इदानीन्तु समितिः क्रीडामण्डलादपि प्रमुखान् निर्णेतुं निश्चयमकरोत्। तदर्थं सचिन् तेण्डुल्करः, अभिनवबिन्द्रा इत्यादयः प्रमुखाः समितेः पट्टिकायां स्थानमारूढाः इति वार्ताः प्रसरन्ति । सङ्गीतप्रतिभायाः ए आर् रहमानस्य नाम अपि उन्नीतम् इति श्रूयते।

Friday, April 29, 2016

वैद्य-दन्तवैद्यप्रवेशाय एकीकृत प्रवेशनपरीक्षा।

नवदिल्ली > भारते एम् बी बी एस् , बि डि एस् इति वैद्य,दन्तवैद्य पठनपद्धत्योः प्रवेशाय राष्ट्रव्यापिकाम् एकां योग्यतानिर्णयप्रवेशकपरीक्षां (NEET) चालयितुं सर्वोच्चन्यायालयेन आदेशः कृतः। मेय्मासस्य प्रथमे दिने प्रचाल्यमाना अखिलभारत पूर्ववैद्यपरीक्षा नीट् परीक्षायाः प्रथमसोपानमिति परिगणिष्यते।
   जूलाय् २४ तमे दिने द्वितीयसोपानपरीक्षा भविष्यति। परीक्षाद्वयस्यापि फलं आगस्ट् १७ तमे प्रसिद्धीकृत्य प्रवेशनकार्यक्रमाः सेप्तम्बर् ३०तमदिनाभ्यन्तरे पूर्णताम् एष्यन्ति।
  सर्वेभ्यो सर्वकार-वैयक्तिक कलालयेभ्यः कल्पितविश्वविद्यालयेभ्यश्च सर्वोच्चनीतिपीठस्य अयमादेशः अनुसरणीयो भवति।
गतिः भारतेन निर्णीयते
       श्रीहरिक्कोट्टा> सप्तमम्  उपग्रहमपि भ्रमणपथं नीत्वा गतिनिर्णयसंविधाने भारतस्य सोपानारोहणम् । अमेरिका, चीना, जपान्, रष्या इत्यादिभिः विकसितराष्ट्रैः सह उपग्रहगतिनिर्णयकार्ये भारतस्यापि स्थानं लब्धम् । भारतस्य सप्तमं गतिनिर्णयोपग्रहम्  ऐ आर् एन् एस् एस् १ जि  श्रीहरिक्कोट्टायाः सतीष्धवान् विक्षेपणकेन्द्रात् अद्य १२.५५ वादने पि एस् एल् वि सि ३३ आकाशबाणः विक्षेपणमकरोत्। एवं च भारतस्य सर्वे गतिनिर्णयोपग्रहाः भ्रमणपथं संप्राप्ताः। एतेषां उपग्रहाणां युगपत्प्रवर्तनेन भूतल -जल - वायु मार्गेण सञ्चाराय अन्येषां राष्ट्राणाम् आश्रयणं न आवश्यकम्।

भारतं विरुद्ध्य एफ्-१६ युद्धविमानानि उपयोक्तुं पाकिस्थानः।

वाषिङ्टण्‌ > पाकिस्थानेन एफ् १६ युद्ध विमानानि भारतं विरुद्ध्य उपयोक्तुं साध्यता अस्ति इति यू एस् नियम विदग्धाः। अमेरिकया विमानानि पाकिस्थानय दातुं निश्चितः इति ज्ञात्वा ओबामायाः पुरतः राष्ट्रकार्य-विदग्धाः तेषां शङ्का न्यवेदयन्। पाकिस्थानाय एतादृशानां विमानानां प्रदानं नोचितमिति भारतेन  पूर्वं निवेदितमासीत् ।
   

 चरित्रम् चरित्रकारसृष्टम् किम्?.

   नवदेल्ली> स्वस्वभावनानुसारं  चरित्रयाथातथ्यानां विपरीतं  कृत्वा प्रकाशनम् इतः पूर्वमेव बहुधा दृष्टं वर्तते। एतस्य नूतनम् उदाहरणं भवति 'इन्द्यास् स्ट्रगल् फोर् इन्डिपेन्डन्स्' इति नामकं पुस्तकम्। पुस्तकमेतत् देल्ली विश्ववविद्यालयस्य छात्रैः उपयुज्यमानम् अनुबन्धपुस्तकं भवति। पुस्तकमेतत् चरित-प्रसिद्धाय भगत् सिंहाय आतङ्गवादिनः मुखं ददाति। भारतस्य 'यथार्थ: विप्लवनायकः' इति आङ्गलकारै: अपि प्रकीर्तितं भगत्सिंहम् आतङ्गवादिनम् इव चित्रीकुरुतः चरित्रकारौ मृदुला मुखर्जी, बिपिन्चन्द्रः च। न केवलं भगत्सिंहः अपि च चन्द्रशेखर् आसाद:, सूर्यासेन्  इत्यादयः स्वातन्त्र्यसमरनायकाः च पुस्तकेऽस्मिन् आतङ्गवादिरूपेण परामृष्टाः सन्ति। विवादात्‍मकेऽस्मिन् विषये भगत् सिंहस्य बान्धवाः देल्ली विश्वविद्यालयस्य अधिकृतेभ्यः तथा मानव-विभवशेषि-मन्त्रालयाय च निवेदनं समर्पिताः आसन्। तेषाम् अभ्यर्थनां परिगण्य पुस्तकमेतत् पाठ्यपद्धतेः निष्कासयितुं मानवविभवशेषिमन्त्रालय: विश्वविद्यालयं न्यवेदयत्।

शोधविषयैः साकं गुर्जर सर्वकारः

 अहम्मदाबाद् >  राज्ये छात्रा: शोधकार्यं यथेच्छं कुर्वन्तु, विषयान् वयं दद्मः इति गुजरातसर्वकारः। सर्वकारस्य जनक्षेमपद्धतीनां विषये शोधकार्यं भवतु। तच्च पद्धतीनां पुरोगतये कार्यक्षमरीत्या निर्वहणाय च महान् उपकारः स्यादिति सर्वकारस्य अभिप्रायः। किन्तु विषयेऽस्मिन् काण्ग्रसदलेन आक्षेपः उन्नीतः वर्तते।

आतपाघातं प्रतिरोद्धुं पाकनिरोधः


पट्ना >अतितापेन कष्टमनुभूयमाने बीहारे प्रभाते ९ वादनतः सायं ६ वादनपर्यन्तं पाकनिरोधः प्रख्यापितः सर्वकारेण। गतदिने बीहारे बगुसरायां प्रभातकाले पाकसमये तापस्य वाय्वोः च काठिन्येन त्रिशतं भवनानि अग्निबाधया दग्धानि। पाकवेलासु अग्निबाधायाः साध्यता अधिका इति विचिन्त्य एव सर्वकारेण नूतनं परिष्करणं कृतम्। किन्तु निरोधममुं प्रायोगिकं कर्तुं क्लेशः अस्ति चेदपि नियमव्यवहारभीत्या जनाः अनुसरेयुः इत्येव सर्वकारस्य विश्वासः।

Thursday, April 28, 2016

दृश्यश्रव्यचलनक्रीडायां भारतीयछात्रयोः गिन्नस् रेकोर्ड
अबुदाबी> दृश्यश्रव्यचलनक्रीडा न केवलं समययापनाय आपि तु गिन्नस् सोपानमपि भवति इति स्वसामर्थ्येन स्थिरीकृतं छात्राभ्याम् । अबुदाब्यां भारतीयविद्यालये द्वादशकक्ष्यायां पठन्तौ छात्रौ सञ्जुः, वैशाखः च 'ग्रान्ट् टुरिस्मो' इति क्रीडायाः 'लुबुना सीक्का' इति पङ्क्तिं शीघ्रेण एव समापितवन्तौ। १.३६ मिनिट् इति समयं १.२८ मिनिट् इति परिवर्त्य एव तौ रेकोर्ड स्थापितवन्तौ।

 शिशुमरणम् - आशङ्काजनकम् ।
नवदिल्ली> राष्ट्रे प्रतिवर्षं  द्वादशलक्षाधिकाः शिशवः मरणं प्राप्नुवान्ति इति केन्द्र आरोग्यमन्त्री जे .पी. नड्डा। एतत् आशङ्काजनकमेव। पोषकाभावः, अणुबाधा च शिशुमरणे मुख्ये कारणे भवतः इति पठनानि स्थिरीकुर्वन्ति इति राज्यसभायां प्रतिवचनरूपेण मन्त्रिणा उक्तम्।


 स्व छायाग्रहणभ्रमः आपदि पतने
 
  कोटैक्कनाल्> मधुरादेशीयः कार्तिक् नामक: युवकः कोटैक्कनाल् विनोदसञ्चारकेन्द्रस्य 'डोल्फिन् नोस्' नामकात् गिरेः सहस्रपादात्मकम् अगाधगर्तम् अपतत् । मित्रैः साकं मद्यम् पीत्वा एव युवक: आगतः इति आरक्षकैः सूचितम्। युवकानां मद्यपानासक्तिः तथा स्वछायाग्रहणभ्रम: च इदानीन्तनकाले आपदि पतने मुख्यम् कारणम् भवति इति अधिकृतैः उक्तम्।


विधानसभायां स्त्रीशाक्तीकरणम्
 वाषिङ्टण् > अमेरिकादेशस्य अध्यक्षस्थानम् प्राप्यते चेत् नियमनिर्माणसभायां महिला प्रातिनिध्यं निश्चयेन भविष्यति इति हिलरी क्लिन्टण् । अमेरिकायाम् अध्यक्षस्थाननिर्वाचने डेमोक्राटिक् संघस्य साध्यतापट्टिकायां अग्रे भवति इयं वनिता। देशस्य जनसंख्यायां  पञ्चाशत् प्रतिशतं महिला: एव । तं सामूहिकस्वभावमाधारीकृत्य नियमानिर्माणसभायामपि पञ्चाशत् प्रतिशतं वनिताप्रातिनिध्यं भविष्यति इति तया अभिप्रेतम्।

परिवर्तनम् आकाशेऽपि
          नवदिल्ली> प्रधानमन्त्रिणः कार्यालयः कर्मनिरत‌: भवति। तस्य विमानसैन्यम्-१ मध्ये कार्यालयस्य पूर्णसज्जीकरणं द्रष्टुं शक्यते। विमाने अन्ये विनोदमार्गाः न सन्त्येव। अतः सर्वे सहयात्रिकाः स्वकर्मसु निरता: भवेयुः अन्यथा निद्रां कुर्यु:। विमाने मद्यं सम्पूर्णतया वर्जितं भवति । सस्याहारस्य प्रामुख्यं  दीयते । तथा च अस्माकं प्रधानमन्त्री आकाशेऽपि  स्वकर्मसु निरतः एव।

 जलमेव परं धनम्

नवदिल्ली> महाराष्ट्रे अस्यां कालावस्थायां ऐ पि एल् क्रिकट् प्रदर्शनं मा भवतु इति उच्चतरन्यालयः। प्रथमं जल दौर्लभ्यं परिहर्तुम् आवश्यका: मार्गाः एव आविष्करणीयाः। जल दौर्लभ्यस्य काठिन्येन कष्टमनुभवतां जनानाम् अवस्थां परिगण्य एव उच्चतरन्यायालयेन एवं निरीक्षितम्। अस्याम् अवस्थायां l क्रिकट् क्रीडाणां वा जलस्य वा प्रामुख्यं कल्पनीयम् इति क्रीडाधिकृतैः चिन्तनीयम् इत्यपि सर्वोच्चन्यायालयेन अभिप्रेतम्। एवं च मेय् २९ दिनाङ्कस्य अन्तिम-क्रीडासहितानां त्रयोदशक्रीडाणाम् अपि प्रदर्शनस्थानानि आधिकृतैः परिवर्तनीयानि।
        हास्यरेखाचित्रकारः टोंस् दिवंगतः।
कोट्टयम्> " बोबनुं मोळियुम् " (बोबः मोळी च) इति
बालकथापात्राभ्यां ६० संवत्सराणि केरलान् हासयन् चिन्तां कारयन् टोम्स् इति विख्यातः हास्यरेखाचित्रकारः वि टि तोमसः दिवंगतः। कोट्टयस्थे वैयक्तिकातुरालये ह्यः रात्रौ अन्त्यमभवत्।
 रेखाभिः पदैश्च जनानां सङ्कुचितत्वम् अधमचिन्ताधारां च हास्यगर्भया रीत्या  तदीयरचनाः प्रकाशिताः  आसन् ।

Wednesday, April 27, 2016

  विकसनं ग्रामेभ्य: आरम्भणीयः
 
राष्ट्राभिवृद्धये विकसनप्रवर्तनानि ग्रामेभ्यः आरम्भणीयानि इति मन्त्री  किरण् रिज्जु:। तदर्थं राष्ट्रे पञ्चायत्तीराज् संविधानस्य विनियोगः शक्तः भवतु इति सः उक्तवान्। केन्द्रसर्वकारः ग्रामविकसनाय सर्वदा प्रतिज्ञाबद्ध: एव इति तेन अभिप्रेतम्। अतः केन्द्रपद्धतीनां फलप्रदरीत्या विनियोगाय सर्वेषां श्रद्धा आवश्यकी। गांन्धीमहोदय: ग्रामप्रदेशानां प्रतिनिधिः आसीत्। समूहे अध:कृतवर्गाणाम् उन्नमनाय अहोरात्रं  प्रयत्न: कृतवान् आसीत् अम्बेदकर: इत्यपि तेन उक्तम्।


 ऐ ऐ टि मध्ये संस्कृतं पाठ्यविषयः-मन्त्रिणी स्मृती इरानी।

 नव देहली > ऐ ऐ टि कलालयेषु संस्कृतपाठनाय निर्देशः दत्तः इति मानवविभवशेषी विभागाध्यक्षा स्मृती इरानी। साङ्‌केतिकविद्या तथा शास्त्रञ्च संस्कृतभाषायां सम्यगेव प्रतिफलितम् इति महोदयया अभिप्रेतम्।

शिरोवस्त्रधारिण्यः न प्रतिरुन्ध्यात्

 कोच्चि>अखिलभारतीय-वैद्यसम्बन्ध-प्रवेशनपरीक्षार्थं आगम्यमानानां इस्लां धर्मानुयायिनां बालिकानां प्रतिरोधः मा भवतु इति केरला उच्चन्यायालयेन निर्देशित:।

विजयमल्या निष्कास्यते 
 नव देहली> मधु व्यापारधनिकं राज्यसभाङ्गं विजयमल्यां सभायाः निष्कासितुं राज्यसभा सदाचारसमितेः निर्देशः। स्वपक्षं विशदीकर्तुं तस्मै सप्तदिनात्मकः कालसीमा दत्ता।
------


 परन्तु ता: विद्यार्थिनःपरीक्षाया:अर्ध खण्डात् पूर्वमेव परीक्षकेन्द्रमागत्य नियमानुसृतपरिशोधनायै विधेया: भवेयु: इत्यपि न्यायाधिपेन महमद् मुष्ताखेन निर्देश: दत्तः ।



सि.वि. चन्द्रशेखराय  केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वम्
 नव देल्ही> प्रमुख: भरतनाट्यनर्तक: सि.वि. चन्द्रशेखर: केन्द्रसड्गीतनाटकअकादमी विशिष्टाङ्गत्वेन नियमितः। गतदिने   त्रिपुरायां सम्पन्न: योग: 'अकादमी रत्‍ना ' इति नाम्ना प्रशस्तं विशिष्टाङ्गत्वस्थानं चन्द्रशेखरं समर्पयितुं निश्चयः स्वीकृतः। स्थानप्राप्तिदानं राष्ट्रपतिना करिष्यति।



केरळस्थ पि एस् सि परीक्षायै कैरळी भाषा मुख्या
 अनन्तपुरी>केरळस्थ पि एस् सि परीक्षासु कैरलीभाषायाः प्रामुख्यं दातुं समितेः निश्चयः। सर्वासु परीक्षासु दशाङ्कानां प्रश्नावलीम् अन्तर्भावयितुं समित्या निश्चयः स्वीकृतः अस्ति।

पानम रेखा अमिताभ् बच्चं नूतन प्रश्नावल्या सह आयकारविभागः
 नव देहली> पानमरेखासु प्रतिपाद्यमानैः विदेशव्यापार सङ्‌घै: सह कोऽपि बान्धवः नास्तीति अभिप्रेतम् अमिताभ् बच्चं स्व आदायकार्याणि अधिकृत्य नूतना प्रश्नावली प्रेषिता आयकरविभागेन।


 
l
'आधार् ' - अटोर्णी जनरलस्य (ए जि) अभिप्रायाय उच्चतरन्यायालयः
 नव देल्ही > २०१६-१७ वर्षस्य बजट् सम्मेलने आधार् विक्रयपत्रम् धनविक्रयपत्रमिव. स्वीकर्तुम् दत्ताम् अनुमतिम् उपरि उन्नीतम् आक्षेपं परिहर्तुम् उच्चतरन्यायलयेन अटोर्णीजनरलस्य साहाय्यम् अन्विष्टम्।

विधानसभासोपानेषु नमस्कृत्य सुरेष् गोपि

नवदेहली> प्रधानमन्त्रिणं नरेन्द्र मोदिनं अनुस्मृत्य सुरेष् गोपि सभासोपानेषु नमस्कृत्य एव सभां प्रविष्ट:। ओ.राजगापाल: तथा के. करुणाकरः च स्व आदर्शपुरुषौ भवतः इति तेन उक्तम्।


पूट्टिङ्ङल् स्फोटकापघातः राज्यदुरन्तरूपेण प्रख्यापितः।

अनन्तपुरी> केरळे  गतसप्ताहे पूट्टिङ्ङल् देवीमन्दिरे  दुरापन्नः स्फोटकापघातः राज्यस्य दुरन्तनिवारणाधिकारिभिः राज्यदुरन्तमिति प्रख्यापितः। अपघातबलिभ्यः राज्यदुरन्तनिवारणनिधेः साहाय्यदानार्थमेवायं निश्चयः।
   सामान्यतया स्फोटकापघाताः प्रकृतिदुरन्तरूपेण न गण्यन्ते। किन्तु पूट्टिङ्ङल् दुरन्ते १०९ जनाः मृत्युमुपगताः। अनेके व्रणिताः। बहूनि गृहाणि भवनानि च भग्नानि। अस्मिन् सविशेषसन्धौ एव राज्यदुरन्तः इति प्रख्यापितः।

केन्द्रसर्वकारः बृहन्मानकनियुक्त्यर्थं सिद्धतामाप्नोति।

नवदिल्ली> सर्वकारवृत्तिं प्रतीक्षमाणेभ्यः काचन सन्तोषवार्ता। नियुक्तिनिरोधननियन्त्रणादीनि अपनीय विविधविभागेषु द्वीलक्षाधिकेषु पदेषु नियुक्त्यर्थं केन्द्रसर्वकारेण क्रियासोपानानि आरब्धानि।
  २०१६-१७ आयव्ययपत्रके २.१८ लक्षं वृत्तिस्थानानि सृष्यन्तीति सूचितमासीत्। गृहमन्त्रालयः रक्षामन्त्रालयः आरक्षकविभागः इत्यादीनां मन्त्रालयानाम् अधीने भविष्यमाणप्रवर्तनानि उद्दिश्य  बृहत् मानकयुक्तां नियुक्तिं कर्तुं सर्वकारेण लक्ष्यते।



Tuesday, April 26, 2016

 जलसंरक्षणाय प्रचारणं करिष्यति - प्रधानमन्त्री।
          
नवदिल्ली> राष्ट्रेण सम्मुखीक्रियमाणायाः अनावृष्ट्याः पश्चात्तले जलसंरक्षणाय विपुलं बोधवत्करणं शक्तिमन्तः प्रचारणकार्यक्रमाश्च आरप्स्यन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवदत्। मन् कि बात् प्रभाषणपरम्परायां भाषमाणः आसीत् सः। अनावृष्टिं जलदौर्लभ्यं च परिहर्तुं सर्वकारैः क्रियासोपानानि स्वीकरिष्यन्ते। किन्तु जनैरपि स्वकीयानि कर्तव्यानि अपि पालनीयानीति प्रधानमन्त्रिणा उक्तम्। वृष्टिजलं सञ्चितव्यम्। गंगा यमुना नद्योः शुचीकरणं प्राधान्येन करणीयम्। जनानां भागभागित्वं तदर्थमावश्यकमिति तेनोक्तम्।

अतितापेन ओडीषा ; ८८ मृतिः।

भुवनेश्वरम् > भारतेषु  अत्युष्णेन् ज्वलितः देशः तितिलागड्  ओड़ीषायामस्ति। ४८.५° सेल्स्यस् एव अत्रत्याः तपमानम् ह्यः चत्वारः मनुष्याः मृताः, आहत्य इदानीं मृतानां संख्या अष्टाशीतिः (88) अभवत्। तितिलागड् बोलांगीर्  जनपथे एव भवति। 2003 तमे वर्षे जूण् मासे 50.1° सेल्स्यस् आसीत् तापमानम् ।
 
विजयप्रभायां सौरोर्जविमानम्।

           न्युयोर्क> सम्पूर्णतया सौरोर्जेन चाल्यमानं विमानं 'सोलार् इम्पलस् २' पसाफिक् समुद्रस्य उपरिमार्गण यात्रामकरोत् । बेरट्रेन्ट् पिकाट् आसीत् विमानचालकः । चालकम् अभिवादनेन अभिवन्द्य ऐक्यराष्ट्रसभाध्यक्ष: बान् कि मुण् दाैत्यमेतत् प्रचोदनात्मकं तथा चरित्रपरं च इति अभिप्रेतम्।


विद्युदुपभोगे सर्व कालिक रिकार्ट् 
  अनन्तपुरी> केरळे  अतितापः परिवर्तनं विना स्थितः भवति। अस्यामवस्थायां जनानां विद्युदुपभोगः सर्वकालाधिकोन्नतिं प्राप्य अग्रे गच्छन् वर्तते। गतशुक्रवारस्य विद्युदुपभोग: ७.८ कोटि यूणिट् आसीत् ।

मणिप्पूरे महती वृष्टिः ; जलोपप्लवः।
 इम्फाल्>भारते सर्वत्र अनावृष्टिदुरिते सञ्जाते  मणिप्पूर् राज्ये अतिवृष्ट्या  जनाः दुरितमनुभवन्ति। वृष्ट्यां जलोपप्लवे च बहूनि गृहाणि विशीर्णानि। देशीयवीथ्यां भूच्छेदकारणेन गतागतः स्थगितः। बिष्णापूर् जनपदे ३०० एकर् परिमितं व्रीहीक्षेत्रं जलोपप्लवे व्यनाशयत्।
l शुद्धजलस्य दुर्विनियोग: , धोणिः विवादे ...            
राञ्ची> झार्खण्डे जलदौर्लभ्यस्य रूक्षावस्थायामपि भारतीय क्रिकट् सङ्घनेतुः धोणेः गृहे तरणजलाशयाय प्रतिदिनं सहस्राधिकं लिटर् जलं दुर्विनियुज्यते इति आक्षेप:। तरणजलाशये जलपूरणेन समीपप्रदेशेषु जलदौर्लभ्यं रूक्षं जातमिति समीपवासिनः मन्त्रिवर्यम् अमर् बारिं साक्षादेव आक्षेपम् उन्नीतवन्तः।

स्वहस्तलिखितं पुस्तकम् : विश्व-रेकोर्ट लक्ष्यीकृत्य आरक्षकः

                कोचि> सप्तशतपुटात्मकं पुस्तकं स्वहस्तलिखितेन निर्माय लिंका बुक् ओफ् रेकोर्टस् मध्ये स्थानमावहतुं देल्ही आरक्षकवृन्दस्य उद्योगस्थ: जोर्ज नेटुम्पारा। तस्य "वेलिच्चमे नयिच्चालुम्" कैरळीभाषया विरचितं पुस्तकं प्रकाशनाय सज्जम्। एषः अक्षरप्रेमी स्वहस्तलिखितेन रचितेन त्र्यशीत्यधिक पञ्च शतपुटात्मकेन "जीवितवीक्षणम्" इति नामकेन पुस्तकेन २००४ तमे वर्षे एव लिंका बुक् ओफ्‌ रेकोर्टस् मध्ये स्थान मारूढः भवति।

Monday, April 25, 2016

विजयमल्यस्य पारपत्रं निरस्तम्।

नवदिल्ली> वित्तकोशानां कोटिशः रूप्यकाणां ऋणबाध्यतां कृत्वा स्वदेशात् पलायितस्य मद्यराजस्य विजयमल्यस्य राजदूतिकं पारपत्रं विदेशकार्यमन्त्रालयेन निरस्तम्। विशदीकरणम् अभियाच्य मल्याय दत्तस्य लेखस्य प्रतिलेखः न तृप्तिकरः इति लक्षीकृत्य एव रविवासरे पारपत्रस्य निरसनं कृतम्। राज्यसभासदस्य इति रूपेण लब्धं डिप्लोमाटिक् (राजदूतिकं) पारपत्रमेव निरस्तम्।
माच् द्वितीयदिनादारभ्य लण्टने वासं कुर्वन्तं विजयमल्यं प्रतिप्रापयितुं क्रियाविधयः विदेशकार्यमन्त्रालयेन स्वीकृताः।

अनावृष्टिः - मराठवाडातः सहस्रशः जनाःग्रामं त्यजन्ति।

लात्तूर्> नित्यजीवनाय जललेशे अलभ्यमाने महाराष्ट्रायां मराठवाडा प्रदेशात् सहस्रशः जनाः पलायनं कुर्वन्ति। मासत्रयेण अत्रत्याः जनाः रूक्षं जलदौर्लभ्यमनुभवन्ति। समीपप्रदेशेषु नालिकाकूपाः अपि प्रयोजनरहिताः अभवन्। टाङ्कर् लोरियानेभ्यः पानजलवितरणमपि स्थगितम्। अस्याम् अवस्थायां ग्रामत्यागं विना मार्गान्तरं नासीत्।

Sunday, April 24, 2016

अतितापने उत्तरभारतं, उत्तरप्रदेशे उष्णवातः।

लख्नौ - उत्तरभारतराज्येषु अतितापः दुरितं वितरति। उत्तरप्रदेशे गतेषु त्रिषु दिनेषु उष्णवातः घोरतरं वाति। अतः राज्यस्वास्थ्यविभागेन सुरक्षाजाग्रतानिर्देशः विज्ञापितः। मध्याह्ने बहिःसञ्चारः वर्जनीय इति प्रमुखनिर्देशः। राज्यस्य अनावृष्टिबाधितप्रदेशे बुन्देल्खण्डे पान जलदौर्लभ्यम् अपि अतिरूक्षः भवति। अलहबाद् काण्पूर् इत्यादिप्रदेशेषु अपि अत्युष्णः अनुभवति।

 यू.एस्. राष्ट्रपतिनिर्वाचनं- हिलरी क्लिन्टणस्य प्रत्याशित्वं दृढीकृतम्।

न्यूयोर्क् - अमेरिकाराष्ट्रस्य राष्ट्रपतिनिर्वाचने डमोक्राटिक् दलस्य हिलारि क्लिन्टन् वर्यायाः प्रत्याशित्वं दृढीकृतम्। न्यूयोर्क् प्रैमरी इति निर्णायके सोपाने ५८% अभिमतेन प्राप्तः विजयः तस्याः साहाय्यमभवत्। हिलारी वर्यायाः १९३० प्रतिनिधीनां सहयोगः अस्ति। तत्समीपस्थाय प्रतियोगिने ११८९प्रतिनिधीनां सहयोगः लब्धः।

रविवासरीय परिशीलनम् अध्यापकैः तिरस्कृतम्। 

अनन्तपुरी > केरलेषु अयोज्यमानं  अध्यापक-परिशीलनम् अनुवर्तते रविवासरे अपि। किन्तु निर्वाचन-कार्यक्रमस्य परिशीलने अपि अद्यापकेभ्यः भागं स्वीकरणीयम् इत्यनेन तेषां विरामः न लभते। अतः रवि वासरे स्वमेधया विरामं स्वीकर्तुं निर्बद्धाः अध्यापकाः। 

Saturday, April 23, 2016

सुरेष् गोपीसहिताः ६ प्रमुखाः राज्यविधानसभां निर्वाचितवन्तः। 


नवदिल्ली> कलासाहित्यशास्त्रादिमण्डलेभ्यः ६ प्रमुखान् राज्यसभां प्रति राष्ट्रपतिः नामनिर्देशं कृतवान्। मलयाळ-चलच्चित्रनटः भरत् सुरेष् गोपी तेषु अन्यतमः अस्ति।
अन्ये एते - भाजपा नेता सुब्रह्मण्यन् स्वामी, भूतपूर्वः क्रिक्कट् क्रीडकः नवज्योति सिंहसिद्दुः, समुन्नतः पत्रकारः स्वपन् दास् गुप्ता, आर्थिकविदग्धः नरेन्द्रजाटवः, मल्लयुद्धविशारदा मेरी कोम्।
केन्द्रसर्वकारेण गतदिने समर्पितां नामपट्टिकां ह्यः सायाह्ने राष्ट्रपतिः अंगीकृतवान्।

Friday, April 22, 2016



द्वि-दिवसीयसंस्कृतशिक्षणवर्गः सम्पन्नः-प्रतिभागिनः प्रौढाः 



प्रौढाःप्रतिभागिनः
हैदराबाद्> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीयसंस्कृतशिक्षणवर्गः (स्तरः – I इत्यस्य) प्रसिद्धेन भाषावैज्ञानिकेन डॉ. वाई.एन्. राव्-महोदयेन 2016 वर्षस्य एप्रिल्-मासस्य षोडश-सप्तदश-दिनाङ्कयोः ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः ‘श्री-अरविन्द-भवन’-परिसरे मुशीराबाद्-समीपे (तेलङ्गाणाराज्ये, भारते) सुसम्पन्नः।
शिक्षणवर्गे बेंगलूरु-चेन्नै-कर्नूल्-जगित्याल-नगरेभ्य हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् च पञ्चविंशतिःतिः प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः।
एतस्य शिक्षणवर्गस्य दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि
l
 वैज्ञानिकदृष्टिकोण-द्वारा अभवन्। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम् शिक्षणवर्गः एप्रिल्-मासस्य षोडश-दिनाङ्के प्रातःकाले दशवादने ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः सचिवेन श्रीमता श्रीनिवासेन उद्घाटितः। श्रीमान् श्रीनिवासः प्रतिभागिनां स्वागतं कृतवान् तत्परं ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः विविधानां क्रियाकलापानां विवरणमपि च दत्तवान्।
एतस्य शिक्षणवर्गस्य समारोप-समारोहः एप्रिल्-मासस्य सप्तदश-दिनाङ्के सायङ्काले सार्धचतुर्वादनतः सम्पन्नः। ‘श्री-अरविन्द-सोसाइटी’ इति संस्थायाः हैदराबाद्शाखायाः अध्यक्षः श्री ए. प्रेमचन्दर् समारोहस्य अध्यक्षासनं गृहीतवान्। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः आंग्ल-विदेशी-भाषा-विश्वविद्यालयस्य (हैदराबाद्-नगरस्थः) तुलनात्मक-एशियन्-अध्ययन- विभागस्य प्रोफेसर् च मुख्य-अतिथी आस्ताम्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः शिक्षणवर्गावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।
अयं संस्कृतशिक्षणवर्गः ‘ॐ’ इति मन्त्रोच्चारणेन समाप्तः अभवत्। अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।
उत्तराखण्डे राष्ट्रपतिशासनं उच्चन्यायालयेन निराकृतम्।

नैनिटाल्> उत्तराखण्डराज्ये राष्ट्रपतिशासनम् आदिष्टं केन्द्रसर्वकारस्य क्रियाविधिः उत्तराखण्डोच्चन्यायालयेन निराकृतम्। हरीष् रावत् वर्यस्य नेतृत्वे विद्यमानः सर्वकारः अधिकारपदप्राप्तिम् अर्हतीति न्यायालयेन आदिष्टम्।
  एप्रिल् २९ तमे दिनाङ्के विश्वासप्रमाणं प्राप्तव्यमिति मुख्यन्याया. के एम् जोसफः न्याया. वि के बिष्टः इत्येतयोः नीतिपीठः निरदिशत्।

Thursday, April 21, 2016

संस्कृतवार्तावतरणपरिशीलने शिल्पशाला आरब्धा। 


कोच्ची > छात्रेषु नूतनं दिशाबोधं जनयन् संस्कृतभाषायां वार्तावतरणे त्रिदिनात्मकशिल्पशाला चेङ्ङमनाट् सरस्वतीविद्यानिकेतन् विद्यालये समारब्धा। सम्प्रतिवार्तायाः सर्वशिक्षा अभियानस्य च संयुक्ताभिमुख्ये प्रचाल्यमानाम् इयं शिल्पशाला अाकाशवाण्याः कोच्ची निलयस्य निदेशकेन डो. बालकृष्णन् कोय्याल् वर्येण उद्घाटिता। संस्कृतभाषापठनद्वारा भारतसंस्कृतेः स्वांशीकरणं कार्यमिति बालकृष्णन् वर्येण उक्तम्।
सर्वशिक्षा अभियानस्य एरणाकुलं जिल्लाप्रकल्पाधिकारी डो.पि.ए.कुञ्ञ्मुहम्मद् वर्यः अध्यक्षपदम् अलङ्कृतवान्। सर्वशिक्षा अभियानस्य कृते  संस्कृतभाषायां सज्जीकृतं चिह्नम् (Logo) अपि अस्मिन् समारोहे एव प्रकाशितम्।
ssa logo sanskrit
  बालसाहित्यकारः षाजि मालिप्पारा , सरस्वती विद्यानिकेतन् प्रबन्धकः आर् वि जयकुमारः , कार्यदर्शी चन्द्रन् पिल्लै वर्यश्च आशंसां व्याहृतवन्तः।
  संप्रतिवार्तायाः मुख्यसंपादकः अय्यम्पुष़ा हरिकुमारः पत्रिकामधिकृत्य विशदीकृतवान्। एस् एस् ए जिल्ला कार्यक्रमाधिकारी एस् सन्तोष्कुमारः स्वागतं, पत्रिकायाः निदेशकसमित्यंगः एस् रविकुमारः कृतज्ञतां च व्याजहार।

 उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला आकाशवाण्याःप्रसारणम् अद्य।
नवदिल्ली >साम्प्रतं महाकाल-नगर्याम् उज्जयिन्यां सिहंस्थ-पूर्ण-कुम्भ-मेला प्रवर्तते। जगति भारतीय-धार्मिक-आध्यात्मिक-परम्परासु च ऐतिहासिक-पर्वेदं सर्वेषामपि कृते शुभदं सुखदं च स्यादिति भावनया प्रवर्तमानायाः अस्याः मेलायाः सुबहु महत्वं वर्तते इति जानन्ति विद्वान्सः वार्ताहराः साधकाः निष्ठावन्तोsत्रभवन्तो भवन्तश्च। परश्वः अर्थात् २०७३-विक्रम-संवत्सरस्य  चैत्र-वैशाख-मासयोः पूर्णिमायां [२२-०४-२०१६] प्रथमं शाहिस्नान-पर्व भविता
 एनमवसरम् अभिलक्ष्य आकाशवाण्याः विदेश-प्रसारण-विभागेन {Indian Overseas Services of All India Radio, New Delhi} विशिष्टं साक्षात्संभाषणम् अद्य सायं प्रसार्यतेभारतीय-संस्कृत-पत्रकार-सङ्घस्य महासचिवेन साक्षात्संभाषमाणः श्रीला.ब.शा.रा.सं.विद्यापीठस्य कुलपतिः भा.सं.प.संघस्य उपाध्यक्षः च प्रो.रमेशकुमार-पाण्डेयः सिंहस्थ-कुम्भस्य विस्तृतम् ऐतिहासिकं ज्यौतिषं सांस्कृतिकम् आध्यात्मिकञ्च महत्वं ख्यापितवान्। चित्रस्थः  प्रसारणाधिकारी श्री डी.थोमस् एतादृशान् अपरान् कार्यक्रमान् प्रसारयितुं समुत्सहते इत्यस्ति सुखकरी वार्ता।"

Wednesday, April 20, 2016

SSA Logo Sanskrit

Logo released by DR. PA Kunju Muhammad, DPO Ernakulam And Station Director Of Akashavani Kochi On 20/04/2016. Programme by Samprativarta, Logo Designed by Ayyampuzha Harikumar Chief Editor Samprativartah.














विजयमल्ल्यं प्रति प्रतिभूतिरहितम् अधिपत्रं विज्ञापितम्।

मुम्बई- विवादशौण्डिकं विजयमल्ल्यं बध्नातुं मुम्बय्यां सविशेषन्यायालयः प्रतिभूतिरहितम् अधिपत्रं विज्ञापितम्।
ऐ.डि.बि.ऐ वित्तकोशात् किङ्फिषर् इति विमानसंस्थायै स्वीकृतं ९०० कोटिरूप्यकाणाम् ऋणम् अनुचितरीत्या विदेशे धनं सम्पादयितुम् उपयुक्तवान् इति विषये एन्फोर्स्मेन्ट् डयरक्टरेट् संस्थायाः अपेक्षानुसारमेव न्यायालयस्य अधिपत्रम्।

अतितापे राष्ट्रं दहति।

कोच्ची - ग्रीष्मतापः भारते सर्वत्र जनजीवनं दुस्सहं कारयति। महाराष्ट्रं ओडीषा तेलुङ्काना केरलम् इत्यादीनि राज्यानि रूक्षम् अनावृष्टिनाशम् अनुभवन्ति।
ओडीषायां तापमानः ४६ डिग्री सेल्ष्यस् रेखितः। नवदिल्ल्यां ४४ डिग्री अतीतः। केरले उच्चतमः तापः मलम्पुष़ायाम् अङ्कितः -४१.१ डिग्री सेल्ष्यस्।
 केरले नद्यः सर्वाः शुष्यन्ति स्म। कृषेश्च व्यापकनाश अभवत्।

 

आदिवासिकुटुम्बैः वासः नद्यां  कृतः। 

कोट्टियूर्,केरलम् - रूक्षया अनावृष्ट्या आदिवासिनः स्वावासस्थानं विहाय नदी तीरमाश्रिताः। कण्णूर् जनपदे नेल्लियोट् कल्लंतोट् सहनिवासस्थाः वनवासिनः सकुटुम्बं बावलीनदीमाश्रित्य कुटीराणि कृत्वा वासमारब्धवन्तः।
  अष्ट परिवाराः अपत्यैः सह नद्यां पर्णकुटीराणि निर्मीय तेष्वेव वासः। जनुवरिमासादारभ्य जलदौर्लभ्यमनुभवन्तीति तैः उक्ततम्। इदानीं नद्यां लघुगर्तं कृत्वा जलं सम्पादयन्ति। पचनस्वापादिकं सर्वं कुटीरे एव कुर्वन्ति।

Tuesday, April 19, 2016

प्रतिभूतिव्यवस्थायै सार्वजनीनमानदण्डः। 

नवदिल्ली - अपराधविषयेषु प्रतिभूत्यनुमतिदानव्यवस्थेभ्यः सार्वजनीनमानदण्डं व्ववस्थापयितुं केन्द्रसर्वकारेण लक्ष्यते। न्यायाधिपानाम् इष्टानिष्टविधेयकं प्रतिभूतिदानं  निषेधं च अपाकर्तुमेवायं परिचिन्तनम्।
  एतदर्थं सर्वकारेण  नीतिसमित्याः मतम् अन्वेष्टुं निश्चितम्। नीतिन्यायमन्त्री सदानन्दगौडः नीतिसमित्याः अध्यक्षेण बि एस् चौहानेन सह चर्चा कृतवान्।

Monday, April 18, 2016

इक्वडोरे भूकम्पः- २३३ जनाः मृताः।

 क्विट्टो > इक्वडोर्देशे जाते भूकम्पे त्रयस्त्रिंशदधिक दिशत संख्यकाः जनाः मृताः। संख्या इतोप्यधिकं भवितुमर्हति। रिक्टर् मापिकायां ७.८ अङ्किते भूचलने बहूनिगृहाणि वाहनानि च भग्नानि। वाणिज्यनिलयानि वीथयः अपरिसेतवः च भगनानि। वैद्युत दूरवाणी सेवनानि स्थगितानि। राजधानी नगरे (क्विट्टो) चत्वारिंशत्‌ निमेषपर्यन्तं कम्पनम् अभवत्। इक्वडोर् कोलम्बिय तीरदेशेभ्यः सुनामीभीत्या जनाः अन्यत्र प्रापिताः।


वर्णविस्मयं कृत्वा तृश्शिवपेरूर् पूरं सम्पन्नम्। 

तृश्शिवपेरूर् - दृश्यस्य वर्णविस्मयं कृत्वा वटक्कुन्नाथमन्दिराङ्कणे छत्रपरिवर्तनं सम्पन्नम्। मन्दिरस्य दक्षिणप्राकारकवाटे अभिमुखं स्थित्वा पारमेक्काव् तिरुवम्पाटि संधौ वर्णछत्राणां स्थानान्तरशीध्रतया दृश्योत्सवविस्मयं कृतवन्तौ।

Sunday, April 17, 2016

जापानस्य भूकम्पे ३५ जनाः मृताः

कुम मोट्टो > दक्षिण जापानं प्रकम्पितयोः भूकम्प्रयोः पञ्चत्रिशत् जनाः मृताः सहस्राधिकाः व्रणिताः। एतेषु चत्वारिंशदधिक अष्टादशशतानां जनानां अवस्था गुरुतरा अस्ति। प्रचण्डवातः मृत् पातः च भविष्यतः इति घोषणां श्रुत्वा जनाः भयचकिताः। कुमोट्टो मण्डलेषु एव नाशाधिक्यः। गृहाणि, पन्थानः, रेल् पन्थानः च निमिषार्धेन अप्रत्यक्षाः अभवन्। हर्म्यावशिष्टाणांमध्ये जनाः बहवः बन्धिताः। रक्षाप्रवर्तनानि अनुवर्तते च। गुरुवासरे जाते कम्पने नवजनाः मृताः आसन्। किन्तु शनिवासरस्य कम्पने १६ जनाः मृताः I रिक्टर् मापिकायं ७ अंकिताः द्वितीयः कम्पः। सेतोः नाशं विचिन्त्य ३००जनाः ततः निष्कासिताः। इदानीम् आहत्य ९०,००० जनाः सुरक्षितस्थानं प्रापिताः। चतुरधिकशतं वर्षान् भूकम्पान् अतिजीव्य तिष्टन् कुममोट्टो प्राकारः भागिकतया नाशिताः १६०७ तमे वर्षे राज्ञा कियो मासो काट्टो महात्मना मिर्मितोSयं प्राकारः।

प्रभावहानिं विना अद्य तृश्शिवपेरूर् पूरम् ।

तृश्शिवपेरूर् - (केरलम् ) - विश्वप्रसिद्धः तृशूर् पूरं महोत्सवः अद्य तृश्शिवपेरूर् वटक्कुन्नाथमन्दिराङ्कणे प्रचलति ।
पुट्टिङ्ङल् स्फोटकदुरन्तस्य पृष्ठभूमिकया स्फोटोत्सवः दिवां गजावलिप्रदर्शनं च उच्चन्यायालयेन निरुद्धौ इत्यतः पूरं नाममात्रं कर्तुं निश्चितमासीत् । परन्तु मुख्यमन्त्रिणः उम्मन् चाण्टि वर्यस्य नेतृत्वे त्रिभिः मन्त्रिभिः देवस्वम् अधिकारिभिश्च सह तृश्शिवपेरूरे सम्पन्नायां चर्चायां पूरं सर्वप्रभावेण प्रौढ्या च संचालयितुं निश्चयः कृतः । गजप्रदर्शनस्य नियन्त्रणं सर्वकारेण निराकृतम् । तथा स्फोटोत्सवाय उच्चन्यायालयस्य अनुमतिः लब्धा च ।

Saturday, April 16, 2016

केरळे संस्कृताधापकपरिशीलनम् आरब्धम्।

इटुक्की > केरळे चतुर्दिन संस्कृताध्यापक सहयोगकार्यक्रमः आरब्धः। विविधेभ्यः जनपथेभ्यः द्विचत्वारिंशत्‌ अध्यापकाः विशेषज्ञत्वेन परिशीलिताः भवेयुः। एते केरळस्य विविधेषु प्रदेशोषु अध्यापकेभ्यः अध्यापनाय सहाय्यं करिष्यन्ति।
सार्वजनीन-शिक्षामण्डले निजीय शैक्षिकमण्डलापेक्षया अधिकतया उत्कर्षः जातः इति अभिप्रयन्ति जनाः। संस्कृत -विभागे प्रथम कक्षादारभ्य द्वादाश कक्षापर्यन्तं चतुर्लक्षं छात्राः पठन्ति। १०१६ जूण्‌मासे  पञ्चाशत् सहस्रं छात्राः प्रथम कक्ष्यायां आगच्छेयुः इति प्रतीक्ष्यते इति राज्यस्तरीय शैक्षिक अनुसन्धानस्य संस्कृत विभागास्य प्रत्येक अधिकारी श्रीमति डा. सुनीतीदेवी वर्या अक्तवती। इदानीं प्रथमकक्षायां संस्कृतपठनाय सर्वेषां अवसरः नास्ति। यत्र प्रथम कक्षादारभ्य सप्तमकक्षा पर्यन्तं माध्यमिकविद्यालयः आयोजितः अस्ति केवलं तत्रैव संस्कृताध्ययनाय अवसरः इति न्यूनताअस्ति। किन्तु इदानीम् अधिकाः जनाः अपत्यान् संस्कृतं पाठयतुम् अभिलषन्ति इति च सा उक्तवती।

काश्मीरे सैन्यस्य नालिकाशस्त्रप्रहारेण चिकित्सितः छात्रः मृतः।

2 Killed In Police Firing After Clashes In Kashmir's Pulwamaश्रीनगरं >काशमीरे कुप्वारा प्रविश्यायां सैन्यस्य नालिकाप्रहारेण आतुरालयं प्रविष्टेषु चतुर्षु ११ तम कक्ष्याछात्रः मृतः । काचन बालिका सैनिकेन अपमानिता अभवत् इत्यारोप्य प्रदेशवासिनः प्रक्षोभमारब्धवन्तः। अद्यावधि पञ्च जनाः अस्मिन् विषये सैन्यैः मारिताः ।

 ऐ पि एल् अन्तिमचक्रं बंगलुरुं स्थानपरिवर्तनाय निर्देशः। 


Image result for IPLनवदिल्ली >ऐ पि एल् क्रिकट् स्पर्धानाम् अन्तिमचक्रस्पर्धां बंगलुरुं स्थानपरिवर्तनं कर्तुं ऐ पि एल् अध्यक्षः राजीव् शुक्ला शासनसमितिं प्रति निरदिशत् । तीव्रीनावृष्टेः कारणात् अस्य मासस्य ३० दिनाङ्काद्परं महाराष्ट्रायां ऐ पि एल् स्पर्धाः नानुवदनीयाः इति मुम्बई उच्चन्यायालयस्य आदेशानुसारमेवायं निश्चयः ।



भूमिं अन्धकारं कर्तुं सौर-प्रचण्डवातः
विज्ञानलोकाः भीत्याम्।

वाषिङ्टण् > सूर्यात्‌ सञ्जाता धनकणानां प्रवाहतः एव सौर प्रचण्डवातः सम्भवतिI
वैद्युत श्रृङ्खलां नाशयितुं सक्षमो भवति अयं सौरचण्डवातः। जि. पि. एस्. आदयः साङ्केतिक संविधानान् नाशयितुमपि अयं शक्तः। अतः वयं जाग्रताः भवेम ।

भारतेन सह चर्चा अनुवर्तिष्यते ।

कराच्ची > भारतेन सह विद्यमाना चर्चा विना भेदं अनुवर्तिष्यतेति पाकिस्थानः। राष्ट्रयोर्मध्ये . विद्यमान-समस्यापरिहाराय चर्चया विना ना न्य: मार्ग: इत्युक्तं पाक् विदेशकार्य वक्त्रा नफीस् स्करियया। चर्चायाः रूपरेखा सज्जीकरण समनन्तर मेव विदेशकार्य सजिव स्तरीय मेल नं भविष्यति। भारतेन सहचर्चा निलम्बिता इति गते सप्ताहे पाक् स्थानपतिना उक्तमासीत् । नयतन्त्रमित्यनेन राष्ट्राणां परस्पर सम्पर्कः एव उद्दिश्यते । सीजवस्तरीय चर्चायै उपाधि स्वीकरणं नोचितम्।

इन्धनतैल मूल्ये अपचितिः।
सप्तति 'पैसाद्मिका' अपचितिरभवत्।