मोदिने सौद्यां महत्स्वीकरणम् ।
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEgCbrVFT7w0kAbKCjcbPuu8xlF7dYeRh_c9qQBICAcfNKxeNrrm-_WZ8_cpiWQdF_SJcUF6oXIxnIjYhRT0ZcfYZpBtssw6Odt4JX-o7H0ba9SzaZP-IhJTi0mHDZZplkdf3yjK0WactuXx/s320/thumb.php.jpeg)
रियादे किङ् खालिद् अन्ताराष्ट्रविमाननिलयं सम्प्राप्तं मोदिनं रियादराज्यपालः फैसल् बिन् वन्दर् अब्दुल् असीस् राजकुमारः , आसूत्रणमन्त्री आदिल् फखीह् , भारतस्थानपतिः अहम्मद् जावेद् इत्यादयः मिलित्वा मोदिवर्यं स्वीकृतवन्तः। ततः तत्रस्थे इन्टर् कोन्टिनन्टल् आवाससमुच्चये सविशेषक्षणितृृृन् २५० अधिकान् भारतीयान् नरेन्द्रमोदी अभिसंबोधनां कृतवान् । ऊर्ज- निक्षेप - सुरक्षाविषयेषु उभयराष्ट्रयोः मध्ये चर्चा भविष्यति ।
शतकोटिजनैः आधार-पत्रिका स्वीकृता
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEg8JxyO0GmRiMwpCX4hAUIgVmfXmbZF9hjWcVRVd-gYJKnD1Mbm5V5YFH7wGlTHcmDGqq9teFBOlnBrbD36n1pPL8mapjl2oGtj0NhS_x5BQfo9vbCszv_cdOnCaX2f9O2L2tsL9w0GMVOS/s200/aadhar.jpg)
नव दिल्ली> कतिपय दिनाभ्यन्तरेण शतकोटि जनाः आधार पत्रिकायुक्ताः भवेयुः। एतदधिकृत्य प्रख्यापनम् अद्य दूरभाषा विभाग मन्त्रिणा रविशङ्कर प्रसादेन अद्य क्रियते। योजनेयं जेवन पूर्ती करणीया। पचनवातक समाश्वासः, छात्रवृत्तिः विरमितानां वेतनम् आदयः वित्तकोशद्वारा दातव्यम् । आधार योजना राज्यसभया अङ्गीकृता आसीत्। अनया पद्धत्या अर्हाणां कृते-समाश्वासः रुप्यकाणां लब्धि : च वित्तकोशद्वारा शक्यते।