OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 14, 2016

म्यान्मर् देशे भूकम्पः, भारतस्य पूर्वोत्तरभागेषु च।

भूकम्पानन्तरं जनाः स्वस्य वासस्थानात् बहिरागताः (अगर्तला नगरम्)
नवदिल्ली > रिक्टर् मापिकायां ६.९ इति अङ्कितं भूचलनं म्यान्मर् देशे जातम्। दिल्ली गुहावति कोल्कत्ता पट्ना नगराणि च त्रस्तानि। उन्नत अट्टग्रहेभ्यः जनाः निष्कासिताः। दिल्ली कोल्कत्ता नागरिक रेल् यानानि अवसितानि । गुहावती कोल्कत्ता परिसराणां सौधानां लघुतराः दोषाः च अभवन्। म्यान्मरतः ७४ किलोमीट्टर् दूरे एव भूकम्पस्य प्रभवकेन्द्रम् ।



बालिकापीडनारोपः
काश्मीरे चत्वारि मरणानि।

श्रीनगरम् > काश्मीरे हन्द्वारानगरे सैनिकेन बालिका पीडिता इत्यारोपेण संजाते संघर्षे चत्वारः जनाः मृताः। सैन्येन कृते नालिकाशस्त्रप्रहारे त्रयः , आरक्षकैः सह प्रतिद्वन्द्वे एकश्च मरणं प्राप्ताः। किन्तु न सैनिकः , काश्मीरीययुवकाः एव आत्मानम् अपमानितवन्त इति बालिकया उक्तम्।

केरळानां अद्य विषुवत् पुण्यकालीनपर्वः।

कार्षिकसंस्कृतेः हृदयहारी महोत्सवः अयम्। धर्मभेदं विना महोत्सवेsस्मिन् जनाः स्वस्य भागं स्वीकुर्वन्ति। प्रभाते कर्णिकारसुमैः अलङ्कृते पात्रे कार्षिकफलानि निधाय , तद् प्रभाते उन्मीलितेन नेत्रण पश्यन्ति। कृषिसमृद्धिं वाञ्चन्ति।
प्रौढाःगृहस्थाः कनिष्ठेभ्यः धनं दानरूपेण वितरन्ति। शुभाशयाभिः मिथः तोषयन्ति च।









रात्रिकालस्फोटकोत्सवः निरुद्धः ।

कोच्ची >केरले महच्छब्दपूरितः स्फोटकोत्सवः उच्चन्यायालयेन निरुद्धः । भविष्यमाणाः स्फोटकोत्सवाः विधिविधेयकाः स्युः इत्यपि न्याय. तोट्टत्तिल् बि राधाकृष्णः न्याय. अनु शिवरामः इत्येतयोः न्यायासनेन निर्दिष्टम् ।
  पुट्टिङ्ङल् देवीमन्दिरे संजातं स्फोटकदुरन्तमाधारीकृत्य न्यायाधिपस्य वि चिदम्बरेशस्य प्रलेखं सार्वजनीनकयाचिकां परिगण्य एव नीतिपीठस्य आदेशः ।

विषुवत्काले  उग्रध्वनिस्फोटकानां सर्वकारस्य नियन्त्रणम् । 
अनन्तपुरी > दुरन्तापकाराय विषुवदिने ध्वनिस्फोटकानाम् उपयोगे केरलसर्वकारस्य मलिनीकरणनियन्त्रणसमित्या नियन्त्रणं निर्दिष्टम् । १२५ डसिबल् परिमिताधिकतया शब्दजनकानां स्फोटकानां विक्रयः विनियोगश्च निरुद्धः ।
  निश्शब्दमण्डलरूपेण संरक्षितव्याः चिकित्सालयाः विद्यालयाः आराधनालयाः इत्यादीनां १०० मीटर् परिमिते परिसरे पटहस्फोटकानां स्फोटनमपि निरुद्धम् ।