OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 5, 2016

अनुस्यूतं षड्कचतुष्टयम्; वेस्ट् इन्डीसाय  किरीटद्वयं लब्धम्।

कोल्कोत्ता > अन्तिमचक्रस्य  प्रथमकन्दुकचतुष्टयं तावत् एकैकस्यापि  षट् अङ्कावधिं प्राप्य सीमायाः बहिः मिसैलस्त्रवत् उड्डयित्वा प्रेषितवन्तः वेस्टिन्डीसीयाः २०-२० वनिताचषकेन सह पुरुषाणां  २० - २० लोकचषकं च प्राप्तवन्तः।तथा विन्डीसीयानां क्रिकट्क्रीडायां मधुरयुगलम्।  इंग्लण्टस्य क्रीडकेण बन् स्टोक्स् नामकेन विक्षिप्ते अन्तिमचक्रे विन्डीसाय   विजेतुं १९ धावनान्कानि आवश्यकानि आसन् ।
 किन्तु चतुर्षु कन्दुकेषु क्रीडा समाप्ता । चतुरः कन्दुकान् सीमोपरि षड्काणि प्रेषयित्वा कार्लोस् ब्रात् वेय्ट् नामकः कन्दुकताडकः विन्डीसानां नायकः अभवत् ।
  इंग्लण्ट् २० क्रीडाचक्रेषु ९ क्रीडकानां नष्टे १५५ धावनाङ्कानि प्राप्तानि । विन्डीसः १९.४ क्रीडाचक्रेषु ६ क्रीडकानां नष्टे १६१ ।