OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 27, 2024

 चालकं विना रेल् यानं ८४ कि मी दूरम् अधावत्! 

प्रवेगः १०० कि मी प्रतिहोरम्। 

जम्मू> कृत्यपरिवर्तनाय चालके बहिर्गते अग्रे चलितं पण्ययानं ८४ कि मी दूरपर्यन्तं स्वयमधावत्। जम्मूमध्ये कठ्व रेल् निस्थानात् गतदिने  प्रभाते ७. २५ वादने स्वयं प्रस्थितं यानं ९ वादने पञ्चाबस्थे होषियारपुरं प्राप्तम्, कामपि दुर्घटनां विना!

  कठ्व रेल् निस्थाने अवरोहणस्थाने आसीत् पण्ययानस्य स्थितिः, तथा  विच्छेदव्यवस्थादोषश्च यानधावनस्य कारणमिति मन्यते। क्रमेण अतिवेगं प्राप्तं यानं १०० कि मी प्रवेगेण धावितम्। किन्तु मार्गे सर्वत्र सुरक्षाजागरितप्रवर्तनानि आयोजितानि इत्यतः यत्र कुत्रापि दुर्घटनाः न जाताः इति आश्वासप्रदं वर्तते। 

  यदा पञ्चाबस्य इन्चि बसि निस्थानस्य आरोहणस्थानं  प्राप्तं तदा यानवेगः न्यूनीभूतः।

Sunday, February 25, 2024

 राजधानीनगरी प्रार्थनामुखरिता। आट्टुकाल् देवीमन्दिरे 'पोङ्काला' समर्पणाय समवेताः सहस्रशः जनाः।

   अनन्तपुरी>अद्य आट्टुकाल् देवीमन्दिरे पोङ्काला (पायसान्नम्) समर्पणाय देशः सज्जः। प्रार्थनया सह लक्षशः भक्ताः आट्टुकाल् देव्याः प्रीत्यर्थम् अद्य पोङ्कालां समर्पयन्ति। नगरं नगरपरिसरं च पोङ्काला महोत्सवं स्वागतं कर्तुं सुसज्जम् अभवत्। अद्य प्रातःकाले दशवादने शुद्धपुण्याहानन्तरं पोङ्काला कार्यक्रमः समारप्स्यते।

Saturday, February 24, 2024

 नूतनाः दण्डनीतिनियमाः जूलै मासतः प्रबलाः भविष्यन्ति।

    नवदिली> इदानीन्तनान् दण्डनीतिनियमान् परिवर्त्य नूतननियमाः २०२४ जूलै मासस्य प्रथमदिनाङ्कात् प्रबलाः भविष्यन्ति। भारतीय-न्यायसंहिता (BNS) भारतीय-नागरिकसुरक्षा संहिता (BNSS) भारतीय-साक्ष्य (BS) इत्येते नियमाः एव प्रबलाः भविष्यन्ति। १८६० तमे वर्षे निर्मितस्य भारतदण्डनीति नियमः (ऐ पि सि) १८९८ तमस्य अपराधीप्रक्रमनियमः (सि आर् पि सि) २८७२ तमस्य भारतप्रमाणनियमः इत्येतेषु स्थानेषु एव नूतननियमाः प्रबलतया आगमिष्यन्ति।

Friday, February 23, 2024

 आयाति विश्वमहाप्रलयः। ३६ प्रमुखनगराणि नाशस्य सीमायां वर्तन्ते।

भूमिः नाशोन्मुखा याति इति वैज्ञानिकाः वर्षेभ्यः पूर्वं सप्रमाणां सूचनां दत्तवन्तः। किन्तु नाशवेगमानम् अधिकतया वर्धितम् इति वातावरणवैज्ञानिकाः तथा भौमवैज्ञानिकाः च वदन्ति। समुद्रस्य जलतलम् उन्नीयमानम् इति दृश्यन्ते। भूमौ तापमानं ५.४॰ इति वर्धते तर्हि अविश्वं विश्रुतानि ३६ प्रधाननगराणि  समुद्रजलेन निमज्जितानि भवन्ति। एवं जलोपप्लवभीषायां वर्तमानेषु नगरेषु टोकिओ नगरमेव प्रथमम् इति गण्यते। द्वितीयस्थाने मुम्बैनगरं तृतीय स्थाने न्युयोर्क् चतुर्थे स्थाने ओसाक्क नगरं च वर्तते।

Thursday, February 22, 2024

 अमसोण् वनप्रदेशे भीमसर्पवंशीयः नूतनः सर्पविभेदः।

 अमसोण् वनप्रदेशात् अनाकोण्डा नामकः भीमसर्पवंशीयः नूतन सर्पविभेदः प्रत्यभिज्ञातः। प्रोफ. डाँ. फ्रीक् वोङ्क् इत्याख्येन  हरितवर्णयुक्तः अयं सर्पविशेषः प्रत्यभिज्ञातः। अस्य भीमसर्पस्य २६ पादमिता दीर्घता २०० किलो मितं भारः च अस्ति। उत्तरदेशस्य हरितभीमसर्पः इति अर्थद्योतकं 'युनेक्कस् अक्कयिम' इति अस्य नामकरणमपि कृतम्। 'डैवेर्सिट्टि' इति शोधपत्रिकायां नूतनमिदं प्रत्यभिज्ञानमधिकृत्य प्रकाशितमस्ति।

Wednesday, February 21, 2024

 उत्तराखण्डे ६ नवीनाः संस्कृतविद्यालयाः उद्घाटिताः

उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा  मान्यता प्रदत्ता।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डः।

        देवभूमौ उत्तराखण्डे पुनः संस्कृतगङ्गा प्रवाहमाना अभवत्, यत्र उत्तरप्रदेशराज्यस्य अन्तर्गतं उत्तराखण्डे बहवः संस्कृतविद्यालयाः उद्घाटिताः आसन्, ये वर्तमानकाले आगताः तावत् स्वयमेव जर्जरावस्थायाम् समाप्तिप्राया: आसन् । उत्तराखण्डस्य द्वितीयराजभाषायाः विकासाय प्रवर्धनाय च सर्वकारेण प्रशंसनीयानि पदानि कृतानि, येषां कृते उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा पुरातननवविद्यालयेभ्यः च नवविद्यालयेभ्य:  मान्यता प्रदत्ता। ज्ञातव्यं यत् उत्तराखण्डस्य विभिन्नजनपदेषु बहवः संस्कृतविद्यालयाः महाविद्यालयाः च छात्रसङ्ख्यायाः कारणात् संसाधनानाम् अभावात् समाप्तिमार्गे आसन्। तेषाम् उन्नयनार्थं संस्कृतशिक्षापरिषदा नूतनजीवनं प्रदत्तं।  अनेन सहैव नूतनरूपस्य सर्वा: संस्कृतविद्यालया:  आधुनिकसंस्कृतनियमाधारितानि भविष्यन्ति।  एतावता संस्कृतविद्यालयाः महाविद्यालयाः च मानकानुसारं विधानं प्रतीक्षन्ते स्म, ये इदानीं विधानानाम् अन्तर्गतम् आगताः। 

     उत्तराखण्डसंस्कृतशिक्षापरिषदः सचिवः डॉ. वाजश्रवा आर्यः अवदत् यत् राज्ये ६ कक्षात: १२ कक्षापर्यन्तं ६ नूतनानां संस्कृतविद्यालयानाम् मान्यता प्राप्ता अस्ति, येन कारणेन नूतनाः संस्कृतविद्यालयाः पूर्णतया उद्घाटिताः भविष्यन्ति।  उद्घाटिताः मुख्याः विद्यालयाः सन्ति  अमलानन्दजुयाल- संस्कृतविद्यालय:, किष्किन्धा बलोडी,पौडी। द्रोणस्थली आर्षकन्या गुरुकुलविद्यालय:, देहरादूनं। श्री कृष्णदेशिक- संस्कृतविद्यालय:, ऋषिकेश: । आदर्शसंस्कृतविद्यापीठ:, सल्डमहादेव:, पौड़ी । श्री परशुरामसंस्कृतविद्यालय:, देहरादूनम्। श्रीमद्दयानंद: आर्षज्योतिर्ममठगुरुकुलं, पौंधा, देहरादूनं ।

Monday, February 19, 2024

 अर्बुदरोगप्रतिरोधाय उपकारकस्य वाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति रष्यस्य राष्ट्रपतिः पुतिनः।

 मोस्को> स्वास्थ्यमण्डले रष्यस्य राष्ट्रपतिना पुतिनेन सुप्रधानख्यापनं कृतम्। रष्यस्य वैज्ञानिकाः अर्बुदप्रतिरोधकवाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति तेन ख्यापितः। अर्बुदवाक्सिनः अथवा रोगप्रतिरोधाय सक्षमं आधुनिकभेषजम् इति वक्तुं योग्यस्य आविष्कारसमीपं वयं प्राप्तवन्तः इति पुतिनेन उक्तम्। विलम्बं विना एतस्य व्यक्तिगतोपयोगाय सज्जो भविष्यति इति प्रत्याश्यासे इति पुतिनेन निगदितम्। नूतनप्रौद्योगिकविद्यासम्बन्धिगणानां मध्ये भाषमाणः आसीत् अयम्।

Sunday, February 18, 2024

 अर्बुदजनकः मधुरकार्पासः रोधितः।


चेन्नै> अन्तर्लीनवर्णयुतं मधुरकार्पासः तमिल् नाट् सर्वकारेण निरुद्धः। अर्बुदस्य निदानं भवति अयं कार्पासः इति प्रत्यभिज्ञत्वा भवति रोधनम्। पुतुच्चेर्याम् अयं पूर्वं निरुद्धम् आसीत्। वसत्रस्यवर्णकरणाय उपयुज्यमानः रोडमिन् - बि इति रासवस्तुः मधुर कार्पासस्य पाकवेलायां उपयुज्यते। इयं रासवस्तुः अर्बुदजनकः भवति। खाद्यसुरक्षा नियमानुसारं रोडमिन् - बि इति रासवस्तुयुक्तानां खाद्यवस्तूनां निर्माणं सञ्चयनं विपणनं च दण्डार्हं भवतिl

Thursday, February 15, 2024

   केरलकलारूपाणां वैशिष्ट्यविषये पञ्चदिवसात्मिका राष्ट्रियकार्यशाला प्रचलन्ति ।

   केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रे पञ्चदिवसात्मिका केरलकलारूपाणां राष्ट्रियकार्यशाला 12-02-2024 दिनाङ्कतः 16-02-2024 दिनाङ्कपर्यन्तं प्रचालयिष्यते । 12-02-2024 दिनाङ्के प्रातः 10-00 वादने पावरट्टीकेन्द्रस्य सभागारे नवदेहलीस्थ World Sanskrit Media Council इत्यस्याः संस्थायाः राष्ट्रियनिदेशकः राष्ट्रपतिपुरस्कृतः च डा बलदेवानन्दसागरः केरलकलारूपाणां राष्ट्रियकार्यशालायाः उद्घाटनम् अकरोत् । उद्घाटनभाषणे तेन उक्तं यत् भारतीयकलाः विभिन्नप्रकारिकाः सन्ति तत्रापि विशिष्य केरलीयकलाः अत्यन्तं विशिष्टाः सन्ति तेषु प्रसिद्धाः कूटियाट्टम्, कथक्कलि, मोहिनीयाट्टम् इत्यादयः। एताभिः कलाभिः भारतीयसंस्कृतिः संस्कृतभाषायाः विकासः च भवेत् । 

      केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य वेदान्तविभागाध्यक्षा प्रभारी-निदेशिका च आचार्या आर्. प्रतिभामहोदया कार्यशालायाः उद्घाटनकार्यक्रमे आध्यक्ष्यं निरवहत् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य विशेषाधिकारी केन्द्राधीक्षकः च आचार्यः के. विश्वनाथन् स्वागतभाषणमकरोत्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य संयोजकः शिक्षाशास्त्रविद्याशाखायाः सहायकाचार्यः डा के. गिरिधररावः धन्यवादसमर्पणं कार्यक्रमसञ्चालनञ्च अकरोत्। अस्मिन् कार्यक्रमे 37 प्रतिभागिनः वर्तन्ते।


Wednesday, February 14, 2024

केरलकलारूपाणां पञ्चदिवसीया राष्ट्रियकार्यशाला समारब्धा

      केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला गतदिने (१२-०२-२४) आरब्धा। केन्द्रीय-संस्कृतविश्वविद्यालयस्य गुरुवायूरपरिसरेण आयोजितायाम् अस्यां कार्यशालायां केरल-कलानां  प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीक्रियन्ते। अस्याः कार्यशालायाः उद्घाटनं संस्कृत-वार्तप्रवाचकेन  डा. बलदेवानन्दसागरेण कृतम्।

Tuesday, February 13, 2024

 भारत- संयुक्त-अरबराष्ट्रयोः मिथ: व्यापारसन्धिः।

   अबुदाबि> भारत-यूएई राष्ट्रयोः मिथ: उभयसहमतिपत्राणि हस्ताक्षरीकृतानि। व्यापार-वैद्यु तार्थिक-स्तरसंबन् धानि भवन्ति सहमतिपत्राणि। भारतस्य प्रधानमन्त्री नरेद्रमोदी तथा यू ए ई प्रशासकः मुहम्मद् बिन् सायिद् अल् नह्यान् इत्येतयोः सन्निधौ आसीत् सहमतिपत्राणां परस्परपरिवर्तनम्। आर्थिकनिक्षेपसन्धिः, वैद्युतबन्धः, 'इन्त्या मिडिल् ईस्त्' आर्थिकपथः इत्येतेषु विषयेषु एव सहमतिपत्राणां  प्रदानं समभवत्।

दिनद्वयस्य सन्दर्शनाय अबुदाबीं समागताय नरेन्द्रमोदिने सर्वकारेण उज्वलं स्वीकरणं प्रदत्तम् ।

Sunday, February 11, 2024

केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला

    केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला श्वः (१२-०२-२४) आरप्स्यते। कार्यशालायां केरल-कलानां प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीकरिष्यन्ते।

 केरल-शास्त्रसाहित्यपरिषत् केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति।

    कोट्टयम्> केरल-शास्त्रसाहित्यपरिषदस्य केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति। फेब्रुवरिमासस्य २४,२५ दिनाङ्के सि एम् एस् कलाशालायां भविष्यति मेलनम्। वैज्ञानिकसाहित्य संवादाः मेलने आयोक्ष्यन्ते। मेलनात् पूर्वं राज्यस्य विविधभागेषु मण्डलस्तरीयमेलनानि प्रचलन्तः सन्ति। 

  पाला मण्डलस्य उपवेशनं मुत्तोलि कणियक्काड् अङ्गणवाटिमध्ये समभवत्। द्वितीयवार्ड् अङ्गः जिजि जेक्कबः मेलनस्य अध्यक्षा आसीत्। अङ्गणवाट्याः शिशुभ्यः पठनोपकरणानि वितीर्णानि। काञ्ञिरप्पल्ली M E S कलाशालायाः सहायाध्यापक: सुमेष् ए एस् "कुरुन्निल" इति पुस्तकानां समहारस्य वितरणम् अकरोत्।CPM प्रादेशिकसचिवः प्रदीप् कुमारः, मण्डलस्य सचिवः सतीष् कुमार् एन् एस्, जयकुमार् ए इत्यादयः विविधविषयेषु भाषणम् अकुर्वन्।




Tuesday, February 6, 2024

 निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः।  निवाचनायोगेन निर्देशः प्रकाशितः।

    नवदिल्ली> २०२४ तमस्य निर्वाचनसन्दर्भे निर्वाचनायोगेन पूर्वनिर्देशः प्रकाशितः। निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः इत्यस्ति आदेशः। स्थानाशिनः तेषां पर्यटनकाले शिशून् ग्रहीतुं उत्साहं प्रदर्शयन्ति। किन्तु इदानीं तस्मात् प्रवर्तनात् ते स्थानाशिनः दूरंपालनीयाः इति निर्वाचनायोगेन स्थानाशिनः आदिष्टाः। शिशवः प्रचारणवेलायां भागं न स्वीकुर्वन्ति इति राजनैतिकदलैः पालनीयाः ।

Monday, February 5, 2024

 उत्तराखण्डराज्यः समाननीतिन्यायनसंहितायै सज्जायते। 

डहराडूण्> उत्तराखण्डराज्ये समाननीतिन्यायनसंहितायाः प्राग्रूपाय अङ्गीकारः लब्धः। मुख्यमन्त्रिणः पुष्करसिंहधामिनः आध्यक्ष्ये आयोजिते उपवेशने आसीत् नूतननिर्णयः। फेब्रुवरी मासस्य षष्टेदिने विधेयकमिदं सभायाम् अवतार्यते। २३३००० जनाः अभिमतानि प्रकाशितानि आसन्।

Sunday, February 4, 2024

 भारताय ३१ 'ड्रोण्' यन्त्राणि दातुम् अमेरिका। 

वाषिङ्टणः> भारताय ३३९ कोटि डोलरमूल्ययुक्तानि ३१ 'प्रिडेटर् ड्रोण्' यन्त्राणि अनुबन्धोपकरणानि च विक्रेतुं यू एस् राष्ट्रं  अनुज्ञामदात्। भारतस्य  समुद्रसुरक्षां दृढीकर्तुं सायुधड्रोणयन्त्राणि उपकारकाणि भविष्यन्तीति यू एस् विदेशकार्यमन्त्रालयेन निगदितम्। 

  अत्युन्नतश्रेण्यां डयित्वा प्रहरं कर्तुं शक्तियुक्तानि ३१ 'एम् क्यू -९ बी' इति कृतनामधेयेषु ड्रोणेषु १५ संख्यकानि भारतीयनौसेनायै, स्थल - वायुसेनाभ्यां ८ संख्याकानि च लभन्ते। गतवर्षस्य जूण्मासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू एस् सन्दर्शनसमये उद्घोषितमयं सन्धिः।

Saturday, February 3, 2024

 दशरूप्यकाणां नाणकेन गजायै तुलाभारः। तदर्थम् ५५५५ किलो नाणकानि आवश्यकानि अभवन्।

    बङ्गलूरु> हुब्बल्लिमठः गजायै नाणकेन भारतोलनं कृतम्। षिरहट्टि पाकिरेश्वरमठस्थे चम्पिका नाम गजायै नाणकेन भारतोलनं कृतम्। मठाधिपतेः फक्किर् सिद्धरां महास्वामिनः पञ्चसप्ततितमजन्मदिनानुबन्धितया एव कार्यक्रमोयमायोजितः।