OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 31, 2022

 केरले अतिवृष्टिदुष्प्रभावः - भूस्खलनेन पञ्च जनाः मृताः।

इटुक्की> केरलस्य पर्वतसमीपजनपदेषु अतिवृष्टिः अनुवर्तते। वयनाट्, पालक्काट्, कोष़िक्कोट्, पत्तनंतिट्टा, इटुक्की इत्यादिषु जनपदेषु वृष्टिदुष्प्रभावः तीव्रः जातः। 

  इटुक्किजनपदे तोटुपुष़ासमीपे कुटयत्तूरुग्रामे सोमवासरस्य प्रत्युषसि दुरापन्ने भूस्खलने एकस्मिन्नेव परिवारे पञ्च जनाः अपमृत्युमुपगताः। संगमं नामकचत्वरस्य समीपं पन्तप्पिलाव् चिट्टटिच्चालिल् भवने सोमः [५३] ,तस्य माता , पत्नी, पुत्री, पञ्चवयस्कः  पौत्रः इत्येते मृदन्तर्धानेन प्राणविनष्टाः जाताः। 

  बहुषु स्थानेषु शीघ्रवृष्टिरेव आकस्मिकजलोपप्लवस्य भूस्खलनस्य कारणमिति पर्यावरणविचक्षणैः कथितम्।

Monday, August 29, 2022

 २०-२० क्रिक्कट् क्रीडा - भारतं विजितम्।

दुबाय्> एष्या चषक २०-२० क्रिक्कट् स्पर्धायाः द्वितीये प्रतिद्वन्द्वे पाकिस्थानस्य उपरि भारतस्य विजयः। पञ्च द्वारकैः भारतं विजयं प्राप्तवत्। पाकिस्थानेन उन्नीतः १४८ धावनाङ्कानां विजयलक्ष्यं ५ द्वारकाणां विनष्टेन भारतेन प्राप्तम्।

  अन्तिमे क्षेपचक्रे विजयाय ७ धावनाङ्काः अपेक्षिताः। किन्तु मुहम्मद नवासेन क्षिप्ते क्षेपचक्रे प्रथमक्षेपणेन जडेजः बहिर्भूतः। द्वितीयेन एकः धावनाङ्कः। तृतीयक्षेपः धावनाङ्करहितः आसीत्। क्षेपणत्रये अवशिष्टे भारताय ६ धावनाङ्काः आवश्यकाः। अनन्तरक्षेपं ताडकः हार्दिक पाण्ड्यः षड्काय डायितवान्। भारतस्य उज्वलविजयः।

Sunday, August 28, 2022

वातावरणव्यत्ययेन महादुरन्तः भारतेन अभिमुखीक्रियते। 

उष्णमण्डले विद्यमानं भारतम् अन्ये राष्ट्राणि च प्रति संवत्सरं चत्वारिवासरं यावत् उष्णतरङ्गो मग्नं भविष्यति। वातावरणे क्लिष्टता स्यात् चेत् भूमेः भूरिप्रदेशेषु उष्ण तरङ्गः व्याप्स्यते इति कम्युनिक्केशन् आन्ट् एर्त् पत्रिकायां  प्रकाशितम्। आगामि शताब्दस्य मध्ये भूमेः मध्य-अक्षांशप्रदेशे उष्णः ३९.४° डिग्रि सेल्स्यस् अथवा इतोऽपि अधिकः भविष्यति। २० आरभ्य ५० वारम् एवम् उष्णसम्मर्दः भविष्यति। हार्वार्ड् विश्वविद्यालयस्य वातावरण विभागस्य वैज्ञानिकाः एव विषयेस्मिन् अनुसन्धानं कृतवन्तः।

 यू यू ललितः शपथवाचनमकरोत्। 

 


नवदिल्ली> भारतस्य ४९तमः मुख्यन्यायाधिपरूपेण न्याय. यू यू ललितः शपथवाचनमकरोत्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू शपथवाचनमकारयत्। ईश्वरनाम्नि एव ललितः सत्यशपथं कृतवान्। प्रधानमन्त्री नरेन्द्रमोदी, उपराष्ट्रपतिः जगदीपधन्करः, निवृत्तः मुख्यन्यायाधिपः एन् वि रमणः, भूतपूर्वः राष्ट्रपतिः रामनाथकोविन्दः, भूतपूर्वः उपराष्ट्रपतिः वेङ्कय्या नायिडुः इत्यादयः सन्निहिताः आसन्। 

  न्याय. ललितः केवलं ७४ दिनान्येव मुख्यन्यायाधिपपदे अनुवर्तिष्यते। नवम्बर् अष्टमदिनाङ्के सः निवर्तिष्यते।

 'एष्या चषक' २०- २० क्रिकेट स्पर्धाः आरब्धाः - अद्य भारत पाकिस्थानप्रतिद्वन्द्वः।

दुबाय्> एष्याकप् नामक २०-२० क्रिक्कट्क्रीडास्पर्धापरम्परा ह्यः दुबायनगरे समारब्धा। अफ्गानिस्थान-श्रीलङ्कयोः  प्रथमे प्रतिद्वन्द्वे अफ्गानिस्थानं विजयं प्राप्तवत्। श्रीलङ्का अष्ट द्वारकैः पराजिता। लब्धसंख्या - श्रीलङ्का १९. ४क्षेपणचक्रैः १०५ धावनाङ्कैः सह बहिर्नीता। अफ्गानिस्थानं तु १०. १ क्षेपणचक्रैः द्वारकद्वयेन १०६ धावनाङ्कान् प्राप्तवत्। 

  परम्परायाः द्वितीये प्रतिद्वन्द्वे अद्य भारत-पाकिस्थानयोः प्रतिद्वन्द्वः सम्पत्स्यति। गतवर्षे २०-२० विश्वचषकस्पर्धायां भारतं पाकिस्थानेन पराजितमासीत्। ततःपरं प्रथमतया एव अनयोः दलयोः अभिमुखस्पर्धा सम्पद्यते। भारतस्य नायकः रोहितशर्मा तथा पाकिस्थानस्य नायकः बाबर् असमः च भवतः।

Saturday, August 27, 2022

 नासया अन्यग्रहेषु अङ्गाराम्लवायोः सान्निध्यम् संदृष्टम्।

सौरयूथात् बहिः ग्रहस्य अन्तरिक्षे अङ्गाराम्लवायोः (carbon dioxide) सानिध्यमस्ति इति प्रथमं प्रमाणं जेयिम्स् वेब् दूरदर्शिना दत्तम्। डब्लियू ए एस् पि-३९ बि इति बृहत् वातकग्रहमधिकृत्य कृते निरीक्षणे एव नूतनज्ञानलब्धिः। ग्रहस्य जननं तथा तस्य घटनानुबन्ध ज्ञानमपि लब्धमिति नासया निगदितम् ।

 नियन्त्रणरेखायां संगृहीताय आतङ्कवादिने रक्तदानं कृत्वा भारतीयसैनिकाः अरक्षत्।

श्रीनगर्> कश्मीरे रजौर्यतः संगृहीते पाकिस्थानस्य आतङ्कवादिने चिकित्सामध्ये रक्तं दानं कृत्वा भारतीयसैनिकैः जीवसंरक्षणं कृतम्।

सीमायां नियन्त्रणरेखायाः समीपात् भारतीयसुरक्षाभटैः संगृहीतः तबराक् हुसैन् नाम आतङ्कवादी एव सेनायाः चिकित्साकेन्द्रे परिचर्यायां वर्तते। सेनायाः नेतृत्वे जाते प्रतिद्वन्दे हुसैनः व्रणितः आसीत्। पाकिस्थानसेनायाः सैन्यदलाध्यक्षेण यूनस् चौधरेः निर्देशेनैव अन्येभ्यः चत्वारि आतङ्कवादिभिः साकं नियन्त्रणरेखायां प्राप्तवान् इति सः अवदत्। भारतीयसैनिकानामुपरि आक्रमणं कर्तुं धनमपि तेन दत्तमिति हुसैनेन उक्तम्।

Thursday, August 25, 2022

 केरले +१ कक्ष्याः अद्य आरभन्त। 

कोच्ची> केरलराज्ये उच्चतरविद्यालयेषु एकादशीकक्ष्याः अद्य आरभन्त। एकजालकमिति 'ओण् लेन्' प्रवेशकप्रणाल्या प्रवेशनं सिद्धाः उपत्रिलक्षं छात्राः अद्यतनकक्ष्यासु उपस्थिताः भविष्यन्ति। 

   प्रतिविद्यालयं अधिकभूतानामासनानां वृत्तान्तान् श्वः उच्चतरशैक्षिकविभागस्य तन्त्रजाले प्रसिद्धीकरिष्यन्ति। तानवलोक्य इतःपर्यन्तं प्रवेशनमलब्धाः छात्राः परिशिष्टांशप्रवेशाय अभ्यर्थनापत्राणि परिष्कृत्य समर्पयितव्यानि इति अधिकारिभिः निगदितम्।

 प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य फरीदाबादे 'अमृत' नाम विशिष्टातुरालयस्य उद्घाटनं कृतम्।


फरीदाबाद्> हरियानायां फरीदाबादे 'अमृत' नम विशिष्टातुरालयस्य प्रवर्तनं समारब्धम्। आतुरालयस्यास्य उद्घाटनकर्म प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतम्। अमृतानन्दमयीमठस्य नेतृत्वे स्थापितोऽयम् आतुरालयः राष्ट्रे निजीयमण्डलेषु अतिबृहत्तमः भवति। १३० एक्कर् विस्तृते स्थले एव आतुरालयसमुच्चयः तिष्ठति। अत्याधुनिकचिकित्सासुविधया सह एव आतुरालयस्य प्रवर्तनं समारब्धम्। पञ्चशतं तल्पसहिते आतुरलये आगमिनि पञ्चसंवत्सराभ्यन्तरे २६०० तल्पानि इति क्रमेण वर्धयिष्यते। सप्ताट्टसहितं गवेषणकेन्द्रमपि प्रवर्तनं समारब्धम्। स्नेहः, त्यागः, करुणा इत्यादि मानविकमूल्यानां पर्यायः भवति माता अमृतानन्दमयी इति प्रधानमन्त्रिणा प्रोक्तम्।

Wednesday, August 24, 2022

 भारतस्य शुक्रयानयोजनायां भागं स्वीकर्तुं   फ्रान्स्-रष्या राष्ट्रे अभिलषितः।

नवदिल्ली> भारतस्य  शुक्रयानम् इत्यस्यां  नूतनायां योजनायां  भागं स्वीकर्तुं   फ्रान्स्-रष्याराष्ट्रे च आवेदनम्  प्रकाशितम्। शुक्रग्रहस्य  अन्तरिक्षसंबन्ध्यध्ययनाय भारतेन क्रियमाणा प्रथमा  योजना भवति इयम्॥

कोविड्,  विवाहं जननमानम् च आकुञ्चति इति चीनः।

कोविड्व्यापनहेतुना चीनेषु  जननमानं तथा विवाहानां संख्या च आकुञ्चति इति अध्ययनानि सूचयन्ति। चीनस्य राष्ट्रिय - स्वास्थ्य समित्या एव एतद्विषयसम्बन्धितं प्रतिवेदनं बहिः प्रकाशितम् । शिशुपरिपालनाय तेषां शिक्षायै च व्ययः अधिकः इत्यनेन कारणेनैव विवाहानां संख्या तथा जननमानं च आकुञ्चितमिति वदन्ति। युवकाः बहवः नगरेषु उषित्वा शिक्षायै कर्मसम्पादनाय च श्रद्धां केन्द्रीकरोति । चीनस्य अतिकठिनानि सीरो कोविड् नयानि च विवाह-जननमानं आकुञ्चयितुं कारणमभवत् इति जनसंख्यावैज्ञानिकाः सूचयन्ति।

Tuesday, August 23, 2022

 भारतीयछात्राणां कृते 'विसापत्रम्' अनुमोदितुं चीनः। 

बीजिङ्> चीनराष्ट्रस्य कठिनैः कोविड्नियन्त्रणैः अध्ययनं स्थगित्वा वर्षद्वयं यावत् भारते लग्नानां छात्राणां प्रतिनिवर्तनायः मार्गः प्रकाशितः। प्रत्यागत्य अध्यनमनुवर्तितुमिच्छद्भ्यः  भारतीयछात्रेभ्यः विसापत्रम् अनुमोदयिष्यते इति चीनेन गतदिने विज्ञापितम्। अपि च व्यापारविसापत्रमभिव्यप्य विविधानि यात्राविसापत्राणि च लप्स्यन्ते इति च निगदितम्। 

  २३,०००अधिकाः भारतीयछात्राः कोविड्व्यापनात् पूर्वं चीने अध्ययनं कृतवन्तः आसन्। तेषु ये  अध्यनमनुवर्तितुमिच्छन्तः तेषां नामादिकं भारतेन चीनाय समर्पितमासीत्। यद्यपि विसापत्रे अनुमोदिते भारतचीनयोर्मध्ये साक्षात् विमानयात्रासुविधा इदानीमपि नास्तीति आशङ्कास्पदं वर्तते।

 संगणकलिपिः पराजयिष्यते। विश्वहस्तलेखनस्पर्धायाम् आन्मरिया प्रथमस्थानं प्राप्तवती।

कण्णूर्> दर्शकान् विस्मापयन् मनोहरेण लिखिताक्षरेण हठात् आकर्षती आन्मरिया विश्वप्रसिद्धा अभवत्। कण्णूरेषु कुटियान् मल नाम प्रदेशे बिजो-स्वप्ना दम्पत्योः पुत्री भवति आन्मरिया। न्यूयोर्के हान्ट् रैट्टिङ् ओफ् ह्युमनिट्टि इति संस्थया कौमारवयस्कानां कृते आयोजिता भवति एषा स्पर्धा। विविधराष्टेभ्यःआगतेभ्यः विजिगीषु साकं स्पर्धयित्वा एव प्रथमस्थानं प्राप्ता।


Sunday, August 21, 2022

 उत्तरभारते अतिवृष्टिदुष्प्रभावः - ३० मरणानि, बहुत्र विविधानि नाशनष्टानि। 

नवदिल्ली> उत्तरभारतस्य ओडीशा,झार्खण्डः, उत्तरखण्डः,उत्तरप्रदेशः, हिमाचलप्रदेशः, इत्यादिषु राज्येषु अतिवृष्टिदुष्प्रभावेण त्रिंशदधिकाः जनाः मृत्युवशं गताः। उपदशजनाः अप्रत्यक्षाः अभवन्निति सूच्यते। हिमाचलप्रदेशे अतिवृष्ट्यनन्तरं सम्भूतेन भूस्खलनेन जलोपप्लवेन च २२ जनाः मृताः। तेषु अष्ट एकपरिवारीयाः भवन्ति। उत्तरखण्डे ओडीशायां च चतुश्शः झार्खण्डे  एकश्च मृत्युमुपगताः। 

  हिमाचले धर्मशालायां चक्कीनद्यां निर्मितः रेल्सेतुः विशीर्णः। जलोपप्लवे विविधाः प्रदेशाः निमग्ना अभवन्। माण्डि, कान्ग्रा, चम्पा जनपदेष्वेव अत्यधिकाः विनाशाः जाताः। विविधराज्येषु राजमार्गान् अभिव्याप्य ७४३ मार्गेषु गमनागमनानि स्थगितानि। 

  उत्तरखण्डे दह्राडूणस्थे रायपुरे मेघविस्फोटनेन सञ्जातया अतिवृष्ट्या नद्याः कूलङ्कषाः जाताः। सेतवः प्रवाहिताः। 

  वृष्टिदुष्प्रभावितस्थानेषु रक्षाप्रवर्तनानि समारब्धानि।

Saturday, August 20, 2022

 न्यूयोर्के गान्धिप्रतिमा भञ्जिता। 

न्यूयोर्क्> न्यूयोर्कनगरस्थे हैन्दवमन्दिरस्य पुरतः स्थापिता महात्मागान्धिनः पूर्णकायप्रतिमा कैश्चित् अज्ञातैः भञ्जिता। 'दक्षिण रिच् मण्ट् हिल्' इत्यस्य पुरतः वर्तमानस्य तुलसिमन्दिरस्य पुरतः आसीदियं प्रतिमा स्थापिता। 

  प्रादेशिकसमयमनुसृत्य मङ्गलवासरस्य  मध्याह्ने सार्धैकवादने आसीदियं घटना प्रवृत्ता। अक्रमिसंघे षट् जनाः आसन्निति स्पष्टीकृतम्। सप्ताहद्वयाभ्यन्तरे द्वितीयवारमेव गान्धिप्रतिमां प्रति आक्रमणं प्रवृत्तम्। 

   घटनामिमां न्यूयोर्कस्थः भारतीयस्थानपतिः अपालपत्। न्यूयोर्कस्थैः आरक्षकैः अन्वेषणमारब्धम्।

 आयुधैः सह नौका संदृष्टा। महाराष्ट्रेषु जाग्रतापालनाय निर्देशः।

मुम्बै> ए के ४७ भुशुण्डिभिः दूरवेधिनीगौलिकाभिः तादृशैः आयुधैः सह रायगड् तीरे नौका संदृष्टा। महाराष्ट्रेषु सर्वत्र रक्षिपुरुषैः जागरूकतानिर्देशः प्रदत्तः। रायगड् जिल्लायां हरिहरेश्वर् तीरे एव नौका संदृष्टा। ए के४७ भुशुण्डयः नौकायाम् आसीत् इति रक्षिपुरुषैः दृढीकृतम्। परन्तु नौकासंबन्धीनि अधिकविवरणानि रक्षिपुरुषैः बहिः न प्रकाशितानि। ओस्ट्रेलियायां निर्मिता नौका एव रक्षिपुरुषैः संगृहीता इति सूचना अस्ति।

Friday, August 19, 2022

 काबूलस्थे आराधनालये स्फोटनं - २१ मरणानि। 

काबूल्> अफ्गानिस्थाने काबूलस्थे कैर्खानप्रदेशे इस्लामाराधनालये संवृत्तेन बोम्बस्फोटनेन २१ जनाः हताः। बुधवासरे सायाह्ने आसीत् स्फोटकाक्रमणम्। किन्तु इतःपर्यन्तं तस्य उत्तरदायित्वं केनापि न स्वीकृतम्।

   प्रमुखः इस्लामिकपण्डितः अमीर् मुहम्मदः अपि हतेषु अन्तर्भवतीति दृढीकृतम्। चत्वारिंशदधिकाः व्रणिताः जाताः। दुर्घटनायामस्यां तालिबानसर्वकारः दुःखं प्राकाशयत्। ये स्फोटनस्य कारणभूताः भवन्ति ते शीघ्रमेव दण्डनीतिमनुसृत्य दण्डनार्हाः भविष्यन्तीति सर्वकारप्रवक्ता साबिहुल्ला मुजाहिद् इत्यनेन निगदितम्।

 भारतस्य विप्रतिपत्तिं विगणय्य चीनस्य गुप्तचरनौका श्रीलङ्कायाः तीरं प्राप्ता।


कोलम्बो> भारतस्य विप्रतिपत्तिं आशङ्कां च विगणय्य चीनस्य "युवान् वाङ् ५" इति गुप्तचरनौका श्रीलङ्कायाः नौकाश्रयं प्राप्ता। अस्य मासस्य २२ दिनाङ्कपर्यन्तं  नैकाश्रये भवितुमर्हति इत्यस्ति प्रतिवेदनम्। प्रथमवारे भारतस्य प्रतिषेधकारणेन लङ्कातीरं प्राप्तुम् श्री लङ्कया अनुज्ञा न दत्ता। किन्तु चीनस्य सम्मर्दतन्त्रेण श्रीलङ्कायाः मनोगतिः परिवर्तिता।  

७५० किलो मीट्टर् दूरपरिधौ जायमानानि तरङ्गानि गृहीतुं अनया नौकया शक्यते।

Thursday, August 18, 2022

 आङ् सान् स्यूची षड्संवत्सरीयकारागृहवासाय पुनरपि दण्डिता। 


बाङ्कोक्क्> म्यान्मारराष्ट्रस्य सार्वलौकिकनेत्री आङ् सान् स्यूची पुनरपि भ्रष्टाचारापराधिता सती कारागृहवासाय दण्डिता। प्रकरणचतुष्टयमारोप्य  षड्संवत्सरीयदण्डनमेव विहितम्। 

   गोप्यरूपेण आसीत् प्रकरणानाम् उपधा संवृत्ता। भ्रष्टाचारः, देशद्रोहमित्याद्यपराधान् प्रकल्प्य पूर्वमेव स्यूची ११ वर्षाणां कारागारदण्डनाय विहिता आसीत्। गतवर्षस्य फेब्रुवरिमासे म्यान्मरे प्रजातन्त्रीयसर्वकारं प्रतिलोमरूपेण तिरस्कृत्य सैनिकशासनं प्रतिष्ठितम्। ततः परं स्यूची बाह्यलोकात् अदृष्टा वर्तमाना भवति।

Wednesday, August 17, 2022

 काश्मीरे बस्यानं नदीं पतित्वा ७ सैनिकाः वीरमृत्युं प्राप्ताः। 

श्रीनगरं> अमरनाथतीर्थाटनस्य सुरक्षाकार्यं समाप्य प्रतिनिवृत्तेषु  सैनिकेषु सप्त भटाः बस् यानदुर्घटनया वीरमृत्युं प्राप्ताः। जम्मुकाश्मीरस्य पहल्गाम प्रदेशे बस् यानं नदीं पतित्वा एव अपमृत्यवः जाताः।

   ३२ सैनिकाः आहताः वर्तन्ते। तेषु अष्टानामवस्था कठिनतरा भवति। 'इन्डो-टिबटन् सीमा आरक्षकाः' [ऐ टि बी पि] एव दुर्घटनाविधेयाः अभवन्। चन्दनवाटीस्थात् आरक्षककेन्द्रात् कार्यनिर्वहणं समाप्य श्रीनगरं प्रति निवर्तमानाः  आसन्।  

   दुर्घटनायां राष्ट्रपतिः द्रौपदी मुर्मू उपराष्ट्रपतिः जगदीपधन्करः इत्यादयः अनुशोचितवन्तः।

भारतीय-प्रौद्योगिकी-संस्थानम्-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्।

संस्कृतसप्ताहमालक्ष्य भारतीय-प्रौद्योगिकी-संस्थान-रुड़की मध्ये संस्कृतसंभाषणशिबिरस्य शुभारम्भः अभवत्। शिबरेऽस्मिन् केन्द्रीयसंस्कृतविश्वविद्यालयेन नियुक्ता संस्कृतशिक्षिका आचार्या शालिनीदीक्षिता शिविरपाठनस्य आरम्भं कृतवती।
शिबिरस्य उद्घाटनं डाॅ सोहम चक्रवर्ती वर्याणाम् उपस्थितौ सरस्वतीपूजनपुरस्सरम् अभवत्, श्री नवल किशोर पन्तः, श्री विष्णुदत्तगौड़ महोदयाः अपि सरस्वती पूजने समुपस्थिताः आसन्। रामजी दीक्षितः सरस्वती वन्दनां कृतवान्। आचार्या शालिनीदीक्षित द्वारा तत्र उपस्थितान् छात्रान् अत्यंत रुचिपूर्णविधिना संस्कृतभाषायां परिचयः पाठितः। अयं पाठनक्रमः प्रतिदिनं प्रचलिष्यति इति संस्थायाः अध्यक्षेण निगदितम् ।

 नवदिल्ल्यां कोविड् प्रकरणानि वर्धन्ते। प्रतिदिनं ८-१० मरणानि प्रतिवेदयन्ति। जाग्रतापालनाय निर्देशः दत्तः।


 नवदिल्ली> नवदिल्ल्यां कोविड्रोगबाधितानां तथा रोगबाधया आतुरालये नीतानां च संख्या वर्धिते सन्दर्भेऽस्मिन् मुखनासिकावरणघारणं, कोविडं विरुध्य पूर्वोपायाः च अनवधानतया पालयितुं अधिकारिणः सामान्यजनान् प्रति दृढनिर्देशो दत्तवन्तः। राष्ट्रे कोविड् प्रकरणानि वर्धन्ते, कोविड् भावात्मकतामानस्य आधिक्यःअनुवर्तते इति दिल्ली उप-राज्यपलेन lieutenant Governor) विनय् कुमार् सक्सेनावर्येण ट्वीट् कृतम् ।

Tuesday, August 16, 2022

 भारतस्य विदेशनयं प्रकीर्त्य इम्रान् खानः। 

इस्लामबादः> भारतस्य स्वतन्त्ररूपः विदेशनयः पाकिस्थानस्य भूतपूर्वप्रधानमन्त्रिणा इम्रानखानेन पुनरपि प्रकीर्तितः। लाहोरे सम्पन्ने सामान्यसम्मेलने आसीत्  'ब्राट्टिस् लावा उच्चशिखरमेलने' भागं स्वीक्रियमाणं भारतविदेशकार्यमन्त्रिणं एस् जयशङ्करं प्रकीर्त्य इम्रानखानस्य प्रभाषणम्। 

  रूस् राष्ट्रात् भारतस्य  तैलेन्धनक्रयमुद्दिश्य  अमेरिक्कायाः विरुद्धोक्तिविषये जयशङ्करेण कृतं प्रतिवचनं इम्रानखानः प्रशशंस।

 भारतस्य अभिमानः अकाशपर्यन्तम्; लक्षपादाधिके ऊर्ध्वतायां राष्ट्रध्वजःपरिलसितः।


  स्वतन्त्रतायाः ७५ तमवर्षस्य भागतया अमृतमहोत्सवानुबन्धतया भारतस्य राष्ट्रध्वजम् भूतलात् लक्षपादाधिके ऊर्ध्वतायां उड्डयितम्। वायुफेनकस्य साहाय्येन ध्वजः १०६००० पादोन्नत्याम् उड्डयितः। बाह्याकाशे उड्डयितस्य राष्ट्रध्वजस्य चलनचित्रखण्डः सामाजिकमाध्यमेषु त्वरितप्रसारणमभवत्। 'स्पेस् किड्स् इन्ट्या' इति सङ्घटनेन छात्रान् बाह्याकाशवैज्ञानिके विषये प्रभावयितुम् उद्दिश्य आसीत् अयं विशेषोड्डयनम्।

Monday, August 15, 2022

 स्तन्त्रतायाः अमृत महोत्सवः

ऐतिहासिकं दिनमिति प्रधानमन्त्री नरेन्द्रमोदी ।

 नवदिल्ली> पञ्चसप्ततितम स्वतन्त्रतादिनसंवत्सरोत्सवः भारतस्य ऐतिहासिकदिनमिति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रोक्तम्। रक्तदुर्गे राष्ट्रध्वजमुत्तोलयित्वा भारतराष्ट्रं अभिसंबुद्ध्य भाषमाणः आसीत्सः। अवसरेऽस्मिन् सर्वेभ्यः नागरिकेभ्यः स्वतन्त्रतादिनाशंसाः अपि तेन अर्पिताः। राष्ट्रस्य पञ्चसप्ततितमसंवत्सरेषु प्रयाणं सुखकरं न आसीत्, कालेऽस्मिन् पुरोगतिरधोगतयः मध्ये मध्ये राष्ट्रेण अभिमुखीकृताः इति तेन निगदितम्। अद्य राष्ट्रस्य एकैकेषु कोणेषु अपि राष्ट्रध्वजः परिलसति इति प्रधानमन्त्रिणा प्रोक्तम्।

Friday, August 12, 2022

 अद्य विश्वसंस्कृतदिनम् ॥


 विश्वस्मिन् विद्यमानासु भाषासु अतिप्राचीना भाषा भवति संस्कृम्। एषा सुरभारती, अमृतभारती, देववाणी, अमरवाणी, इत्यादिभिः नामभिः प्रकीर्तिता। वैदिकं लौकिकम् इति अस्याः भेदद्वयं वर्तते। वेदाः वैदिके रामायणादि पुराणानि लौकिके च अन्तर्भवन्ति ॥ सर्वासां भारतीयाभाषाणां जननी संस्कृतभाषा इति मन्यते। 

  भारतस्य २२ राजभाषासु संस्कृतभाषा अन्यतमा भवति। १९६९ तमे भारतसर्वकारेण श्रावणपूर्णिमादिनं संस्कृतदिनत्वेन परिगण्यते।

तदनन्तरं प्रतिसंवत्सरं श्रावणपूर्णिमादिनेन सह सप्तदिनानि संस्कृतसप्ताहत्वेन आचरामः।

   जगति विद्यमानासु भाषासु अत्याधुनिकता सम्पूर्णता च संवत्सरात् पूर्वं संस्कृतभाषया समार्जितम्। वैयाकरणदृष्ट्या वैज्ञानिकी भाषा च भवति संस्कृतम्। अत एव सङ्गणकयन्त्रे उपयोक्तुम् अत्यनुयोज्या इति सङ्गणकविद्वांसः अभिप्रयन्ति।

   आधुनिके अन्तर्जालयुगे  अपि संस्कृतभाषायाः स्वकीयं विपुलप्रयोगसाधकं स्थानम् अस्ति। तादृशेषु स्थानेषु यू-नालिकावाहिन्यः संस्कृत-अन्तर्जालपत्रिकाः च संस्कृतस्य आधुनिकत्वम् उद्घोषयन्ति। सम्प्रतिवार्ता-पत्रिकायाः अन्तर्जालवार्ताप्रसारणपुटद्वारा यू-नालिका द्वारापि लघुवयस्काः  बालिकाबालकाः अपि संस्कृतवार्ताप्रवाचकत्वेन सुप्रसिद्धाः इति संस्कृतस्य गरिमा तथा लखिमा च युगपदेव प्रमाणीक्रियते।

   संस्कृतस्य पोषणेन अस्माकं संस्कृतीनां पोषणं भविष्यति। अस्माकं मनोबलस्य पोषणं भविष्यति। विश्वमानवत्वस्य पोषणं च भविष्यति। अतः अस्माकं सुरक्षित-शान्तिमय-जीवनाय संस्कृतम् अध्येमः। संस्कृतेन चिन्तयामः। संस्कृतेन वदामः। संस्कृतं प्रसारयामः॥

Thursday, August 11, 2022

भूमेः भ्रमणवेगः अवर्धत। कारणम् अज्ञातम् ।

नवदिल्ली> भूमेः भ्रमणवेगः अवर्धत इति वैज्ञानिकाः वदन्ति। जूलाई २९ दिनाङ्के एव भूमेः भ्रमणवेगः उत्थितः। एकवारं भ्रमणपूर्तीकरणाय भूमेः २४ होराः एव सामान्यतया आवश्यकम् । किन्तु जूलै२९ दिनाङ्के १.५९ मिल्ली न्यूनक्षणेन भूमेः भ्रमणपूर्तीकरणं समभवत्। २०२० जूलै१९ तमे दिनाङ्के एव इतः पूर्वं न्यूनक्षणेन भूमेः भ्रमणं पूर्तीकृतम् । आगमि संवत्सरे अपि एवं न्यूनक्षणेन भूमिः भ्रमणं पूर्तीकरिष्यति इति प्रतिवेदनमस्ति। भूमेः भ्रमणवेग-परिवर्तनस्य कारणं किमिति अज्ञातम् अस्ति इति वैज्ञानिकाः वदन्ति। ध्रुवप्रदेशेषु हिमद्रवणेन भूमेः ध्रुवभागस्य भारस्य न्यूनत्वमेव भ्रमणवेगपरिवर्तनस्य कारणमिति एकः वादः अस्ति। भूमेः मेरुदण्डे जातः परिवर्तनमेव भ्रमणवेगस्य कारणमिति अन्यः वादः अपि अस्ति।

Wednesday, August 10, 2022

 व्यायामः, सौहृदानि च स्मृतिभ्रंशप्रतिरोधाय सहायकः भवति।


लोके सर्वत्र सार्धपञ्चकोटि जनाः स्मृतिभ्रंशरोगेण दुरितमनुभवन्ति इति गणनाः सूचयन्ति। प्रतिसंवत्सरं स्मृतिभ्रंशरोगिणां संख्या वर्धमाना दृश्यते। मधुमेहः, विषादः, रक्तसम्मर्दः, सुरायाः अमितोपभोगः च स्मृतिभ्रंशस्य मुख्यकारणानि भवन्ति। शरीरमनांसि सदा सजीवं वर्तते चेत् स्मृतिभ्रंशं निवारयितुं सामान्येन शक्यते इति अध्ययनानि सूचयन्ति । प्रतिदिनं व्यायामं कुर्यात्। गृहकर्मसु सहभागित्वं तथा कुटुम्बाङ्गैः सुहृद्भिः च साकं मेलनं भाषणं च स्मृतिभ्रंशरोगासाध्यतां न्यूनीकरोति इति गवेषकैः सन्दृष्टम्।

Tuesday, August 9, 2022

 कोमण्वेल्त् - अन्तिमदिनमपि भारतस्य सुवर्णदिनम्। 

बर्मिङ्हामः> कोमण्वेल्त् राष्ट्राणां कायिकक्रीडास्पर्धायाः अन्तिमदिनेSपि भारतस्य सुवर्णवृष्टिः सम्पन्ना। चत्वारि सुवर्णानि समेत्य ६ पतकानि राष्ट्रेण समार्जितानि। पिच्छकन्दुकस्पर्धासु त्रीणि सुवर्णपतकानि 'टेबिल् टन्निस्' स्पर्धायामेकं सुवर्णं च अन्तिमदिने भारताय लब्धानि। २२ सुवर्णानि अभिव्याप्य ६१ पतकैः भारतं चतुर्थस्थाने विराजते।

   ह्यः सम्पन्ने पिच्छकन्दुकक्रीडायाः महिलानाम् एकैकविभागस्य अन्तिमे प्रतिद्वन्द्वे पि वि सिन्धू सुवर्णं प्राप्तवती। एतस्यापि पुरुषविभागे लक्ष्यसेन् नामकः अपि सुवर्णं प्राप्तवान्। पुरुषाणां द्वितयविभागे रङ्किरड्डि - चिरागषेट्टी सख्याय सुवर्णपतकं लब्धम्। 

    पुरुषाणां   टेबिल् टन्निस्' क्रीडायाः अन्तिमचक्रे अचन्तशरत् कमलः सुवर्णं सम्प्राप्तवान्। होक्किक्रीडायां भारताय रजतपतकं सम्प्राप्तम्।

 कोमण् वेल्त् कायिकक्रीडायाः परिसमाप्तिः - भारताय चतुर्थस्थानम्। 

बर्मिङ्हामः> दिनदशकं दीर्घितायाः कोमण् वेल्त् राष्ट्राणां  कायिकक्रीडायाः यू के राष्ट्रे ह्यः परिसमाप्तिरभवत्। ६७ सुवर्णानि, ५७ रजतानि, ५४ कांस्यानि इति क्रमेण आहत्य १७८ पतकानि सम्पाद्य आस्ट्रेलिया  प्रथमस्थानमावहत्। ५७, ६६, ५३ इति क्रमेण आहत्य १७६ पतकैः आतिथेयराष्ट्रम् इङ्लान्ट् द्वितीयस्थानं प्राप। २६ सुवर्णैः सह ९२ पतकानि सम्प्राप्य कानडा तृतीयं स्थानं प्राप्तवत्। 

   भारताय चतुर्थस्थानं लब्थम्।  २२ सुवर्णानि, १६ रजतानि, २३ कांस्यानि च भारतेन प्राप्तानि। आहत्य ६१ पतकानि। आगामिनी कायिकक्रीडा २०२६ तमे वर्षे आस्ट्रेलियायं मेल्बणनगरे सम्पत्स्यते।

Monday, August 8, 2022

 'कोमण् वेल्त्' स्पर्धाक्रीडायां नूतनचरितं विरचय्य भारतं - त्रिप्लुतप्रतियोगितायां सुवर्णरजतपतके भारताय। 

बर्मिङ्हामः > कोमण् वेल्त्' स्पर्धाक्रीडायाः कूर्दनक्षेत्रे भारतीयक्रीडकानाम् अत्युज्वलं क्रियानुष्ठानम्। पुरुषाणां त्रिप्लुतप्रतियोगितायां सुवर्णरजतपतके भारतक्रीडकाभ्यां सम्प्राप्ते। द्वावपि केरलीयाविति सविशेषताप्यस्ति।

   केरलस्य एरणाकुलं जनपदस्थे राममङ्गलं प्रदेशीयः एल्दोस् पोल् सुवर्णं सम्प्राप्तवान्। कोष़िक्कोट् जनपदस्थे वलयं प्रदेशीयः अब्दुल्ला अबूबक्करः रजतपतकं च सम्प्राप्तवान्। अन्यः भारतीयः प्रवीण् चित्रवेल् नामकः चतुर्थस्थानमेति स्म।

आकाशं संस्पृश्य आकाशः। प्रथमविमानम् उड्डीयोत्थितम्। 

  नवदिल्ली> विपण्यां प्रथमश्रेणीनिक्षेपकः इति सुज्ञातः राकेष् जुन्जुन्वाला, सहस्थापकत्वेन विराजमानः 'आकाश एयर्' नाम विमानसंस्थायाः प्रथमविमानं मुम्बैदेशात् उड्डयनं कृतम्। अहम्मदाबादे प्रथमयात्रा समभवत्। बङ्गलूरु - कोच्चि, बङ्गलूरु-मुम्बै, बङ्गलूरु- अहम्मदाबाद् इत्यादि मार्गेषु अस्मिन् मासस्य अन्तिमपादे सेवाम् आरब्धुमेव निश्चितः। मितव्ययेन विमानयात्रासज्जीकरणमेव संस्थायाः प्रख्यापितलक्ष्यः। अन्यसंस्थापेक्षया प्रतिशतं दश इति क्रमेण यात्राचीटिकाशुल्कं न्यूनं भविष्यति इति 'आकाशा एयर्' आवेदयति।

Sunday, August 7, 2022

 चरित्रम् विचय्य ऐ एस् आर् ओ संस्थया एस् एस् एल् वि विक्षिप्तः।


चेन्नै> लघूपग्रहान् भूसमीपभ्रमणपथेषु आनेतुम् ऐ एस् आर् ओ इत्यनेन रूपीकृतः स्मोल् साटलैट् लोञ्च् वेहिक्किल् (एस् एस् एल् वि ) विक्षिप्तः। अद्य प्रातःकाले ९.१८ वादने श्रीहरिक्कोट्ट- सतीष् धवान् बहिराकाशनिलयात् एव एस् एस् एल् वि विक्षिप्तः। इ ओ एस् ०२ नाम भौमनिरीक्षणोपग्रहेण तथा राष्ट्रे ७५ सर्वकारीयविद्यालयस्थैः ७५० बालिकाभिः च निर्मिताम् आसादि साट् नामिकां च वहन् एव एस् एस् एल् वि उपर्युत्थितः।

 जग्दीप् धनकरः भारतराष्ट्रस्य नूतनउपराष्ट्रपतिः।


नवदिल्ली> श्री जग्दीप् धनकरः भारतराष्ट्रस्य चतुर्दशतम-उपराष्ट्रपतित्वेन चितः। धनकरः ५२८ मतानि अलभत। विपक्षदलस्य स्थानाशिन्यः  मार्गरट् आल्वा १८२ मतानि अलभत। पञ्चदश मतानि असाधवः अभवन्। राजस्थाने जुन्जुनु जिल्लायां किताना नाम ग्रामः एव तस्य जन्मदेशः। पश्चिमवंगदेशस्य पूर्वतनराज्यपालः आसीत् एषः। राष्ट्रपतिः द्रौपदी मुर्मू, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयमन्त्रिणः, अन्ये नेतारः च जग्दीप् धनकराय शुभाशंसां प्रदत्तवन्तः।

एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजेन साकं अन्यपताकाः न उच्छ्रीयन्ताम्।

 तिरुवनन्तपुरम्> स्वतन्त्रतायाः७५ संवत्सरमहोत्सवानुबन्धितया आगस्त् मासे १३ आरभ्य१५ पर्यन्तं गृहेषु राष्ट्रध्वजारोहणसमये ध्वज-विधानादेशनिर्देशाः पालनीयाः इति मुख्यकार्यदर्शिना आदिष्टम्। रात्रौ गृहेषु राष्ट्रध्वजस्य अवरोहणं न आवश्यकम्। ध्वजसमारोहणम् आदरेण प्रत्यक्षेण अन्यजन सान्निध्ये च कर्तुमर्हति। मलीमसं विदीर्णं च ध्वजं न समारोहणीयम्। अन्यध्वजेभ्यः सार्धं एकस्मिन् ध्वजस्तम्भे राष्ट्रध्वजः न समारोहणीयः। राष्ट्रध्वजः तोरणरूपेण न उपयोक्तव्यः।

Saturday, August 6, 2022

 'कोमण् वेल्त् कायिकस्पर्धा' नवसुवर्णपतकैः भारतं पञ्चमस्थानं प्रति उद्गतिः। 

बर्मिङ्हामः> 'कोमण् वेल्त्' कायिकस्पर्धापरम्परायाः  सप्तदिनेषु अतीतेषु ९ सुवर्णपतकानि अभिव्याप्य २५ पतकैः सह भारतं षष्ठस्थानात् पञ्चमस्थानं प्राप। अष्ट रजतानि, अष्ट कांस्यानि च भारतस्य पतकभण्डागारे सन्ति। 

  कोमण् वेल्त् कायिकस्पर्धायां शुक्रवासरे भारतस्य मल्लयुद्धक्रीडकाः अभिमानार्हं विजयं सम्मानितवन्तः। त्रीणि सुवर्णानि एकं रजतं च ते भारताय सम्मानितवन्तः। पुरुषाणां ६५ किलो विभागे बजरंग पुनियः, ८६  किलो विभागे दीपक् पुनियः, महिलानां ६२ किलो विभागे साक्षी मालिकः च सुवर्णपतकानि प्राप्तवन्तः। महिलानां ५७ किलो विभागे अन्षू मालिकः रजतं लब्धवती। पुरुषाणां दीर्घप्लुतस्पर्धायां भारताय केरलीयः श्रीशङ्करः रजतपतकं सम्पाद्य अभिमानतारः अभवत्।

 डोलो ६५० गोलिकां निर्देष्टुं वैद्येभ्यः १००० कोटि रूप्यकाणि दत्तानि। प्रमाणानि लब्धानि।


डोलो ६५० इति नामिकां  पारासेट्टमोल् गोलिकां रोगिभ्यः निर्देष्टुं वैद्येभ्यः १००० कोटि रूप्यकाणि दत्वा वैद्याः प्रेरिताः इति प्रत्यभिज्ञाताः। आयकरसम्बन्धतया मैक्रोलाब्स्' इति औषध निर्माणसंस्स्थायाः कार्यालये कृते त्वरितान्वेषणे एव अस्य दुष्कर्मणः प्रमाणपत्राणि गृहीतानि। ऐ टि स्क्वाड् विभागेन एव अन्वेषणं कृतम्। धनम् अतिरिच्य विदेशयात्रापि लब्ध्वा औषधसंस्थया वैद्याः प्रलोभिताः। एवं वैद्यधर्मात् पतितानां भिषजां नामानि राष्ट्रियचिकित्सायोगस्य पुरतः समर्पयिष्यते इति आयकरविभागेन आवेदितम्।

Friday, August 5, 2022

 विद्यालयेषु जङ्गमदूरवाणीनिरोधः।उच्च-उच्चतरविद्यालयानामेकीकरणं प्रवृत्तिपथमानेष्यति। 

अनन्तपुरी> केरलेषु विद्यालयेषु छात्राणां जङ्गमदूरवाणीनाम् उपयोगं कर्कशेन  निरुध्य राज्यसर्वकारस्य आदेशः। विद्यालयाङ्कणे कक्ष्यासु वा छात्रैः जङ्गमदूरवाणी न उपयोक्तव्या इति सर्वकारस्य निर्णय इति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।  अध्ययनवेलायां पाठ्यानुबन्धप्रवर्तनानि विना  इतरकार्यक्रमेषु छात्राणां भागभागित्वं न कारयेदिति च  मन्त्रिणा निर्दिष्टम्। 

   उच्च-उच्चतरविद्यालयानामेकीकरणार्थं 'खादर्समित्या'  निर्दिष्टानि निवेदनानि प्रवृत्तिपथमानेतुं अस्मिन् वर्षे एव यतिष्यते। तदर्थं विशिष्टावेदनानि कारयितुं उद्यमः आरब्धः इति च मन्त्री अवोचत्।

 भारते उपराष्ट्रपतिनिर्वाचनं श्वः। 

नवदिल्ली> भारतस्य नूतनस्य  उपराष्ट्रपतेः निर्वाचनार्थं मतदानं फलप्रख्यापनं च श्वः भविष्यति। उपराष्ट्रपतिस्थानाय शासनपक्षात् एन् डि ए सख्यात् जगदीप धनकरः विपक्षदलात् मार्गरट् आल्वा च स्पर्धिष्येते। संसद्सदस्यानामेव मतदाने अधिकारः। 

    वर्तमानस्य  उपराष्ट्रपतेः वेङ्कय्यनायिडोः कार्यकाल‌ः आगस्टमासस्य १० तमे दिनाङ्के समाप्यते। नूतनोपराष्ट्रपतेः स्थानारोहणं ११ तमे भविष्यति।

वानरज्वरव्यापनं निरोदधुं मार्गनिर्देशाः प्रकाशिताः। वाक्सिनं संस्फुटीकर्तुं सजीवचर्चा प्रचलति।

नवदिल्ली> वानरज्वरव्यापनं निरोद्धुं स्वास्थ्यमन्त्रालयेन मार्गनिदेशाः प्रकाशिताः। रोगिणा साकं प्रत्यक्षसम्पर्केण, रोगिणः शरीरस्रवाणां व्रणानां च सम्पर्केण, रोगिणा उपयुज्यमानानां वस्तूनां परोक्षसम्पर्केण च रोगस्य संक्रमणसाध्यता अस्ति इत्यतः ते त्यजनीयाः इति निर्देशे सूचयति। रोगसम्बन्धीनि व्याजप्रचारणानि न करणीयानि इति मन्त्रालयेन आवेदितम् अस्ति।

Thursday, August 4, 2022

 वङ्गसमुद्रे न्यूनमर्दसाध्यता। अतिवातेन सह प्रवर्षाः भविष्यन्ति। अतिजाग्रता पालनीया।


तिरुवनन्तपुरम्> मध्यपश्चिमवङ्गसमुद्रे आगस्त् मासस्य सप्तमदिनाङ्काभ्यन्तरे न्यूनमर्दरूपीकरणसाध्यता अस्ति इति वातावरणनिरीक्षणमन्त्रालयेन आवेदितम्। उत्तरकेरलतीरात् आरभ्य दक्षिणगुजरात् तीरपर्यन्तं संभूयमानस्य नूनमर्दद्रोण्याः (tough) तथा आरबसागरे रूढीभूतस्य पश्चिमवातस्य स्वाधीनेन च केरलेषु आगस्त्८ दिनाङ्कपर्यन्तं अतिवृष्टेः साध्यता आस्ति इति केन्द्रवातावरणमन्त्रालयेन आवेदितम् ।

 तय्वानं परितः समुद्रेषु चीनस्य आकाशबाणवर्षः।  युद्धविमानानि समुद्रसीमामुलङ्घितानि। 


बीजिङ्> तय्वानं परिवेष्ट्य चीनस्य सैनिकाभ्यासप्रदर्शनं आरब्धम्। अन्ताराष्ट्रियसमये मध्याह्ने द्वादशवादने चीनेन आकाशबाणस्य प्रथमं प्रयोगमारभत। आकाशबाणः प्रयुक्तः इति चीनस्य पीपिल्स् लिबरेषन् आर्मि तथा तय्वान् प्रतिरोधमन्त्रालयेन च दृढीकृतम्। तय्वानं परिवेष्ट्य बहवः आकाशबाणाः आकाशे समुद्रभागे च आरोपिताः इति चीनस्य ईस्टेण् तियेट्टर कमाण्ड् इत्यनेन आवेदितम्। प्रदेशस्य शान्तिं भञ्जयन्तः युक्तिरहितः प्रक्रमः भवति चीनस्य इति तय्वानस्य प्रतिरोधमन्त्रिणा प्रोक्तम् ।

Wednesday, August 3, 2022

 अतिवृष्टिदुष्प्रभावः अतितीव्रः - केरले ह्य‌ः ७ मरणानि, १३ भूविच्छेदाः, जलोपप्लवः। 

१२ जनपदेषु विद्यालयानां विराम‌ः, २३०० जनाः अभयस्थानं प्राप्तवन्तः, दिनत्रयमपि वृष्टिरनुवर्तिष्यते। 

कोच्ची> अतिवृष्टिः केरले तीव्रविनाशं वपन्ती  अनुवर्तते। गतदिने राज्ये १३ स्थानेषु भूविच्छेदाः अभवन्। कण्णूर् जनपदे ६ स्थानेषु वयनाट्, इटुक्की, अनन्तपुरी, कोट्टयं जनपदेषु च भूविच्छेदाः जाताः। सार्धद्विवयस्कां बालिकां समेत्य ७ जनाः ह्य एव मृत्युवशं प्राप्ताः। आहत्य १२ जनाः विनष्टप्राणाः अभवन्। 

   १० जनपदेषु बुधवासरे गुरुवासरे च रक्तजागरूकता विज्ञापिता। शिष्टेषु ४  जनपदेषु ओरन्ज् जागरूकता च विज्ञापिता। १२ जनपदेषु  समेषां विद्यालयानां शिक्षणविरामः विज्ञापितः। विश्वविद्यालयानां सर्वाः परीक्षाश्च व्याक्षिप्ताः। 

   विविधजनपदेषु जलोपप्लवेन वासस्थाननष्टेन च २३०० जनाः समाश्वासशिबिराणि प्राप्तवन्तः। सर्वकारेण समाश्वासप्रक्रियाः दुरन्तस्थानेषु रक्षाप्रवर्तनानि च समारब्धानि।

 सवाहिरिः यू एस् सैन्येन हतः।

  वाषिङ्टण्> अल्  खायिदा इति भीकरसंघटनस्य नेता अय्मान् अल् सवाहिरिः [७१] यू एस् सैन्येन हतः। अफ्गानिस्थानस्य राजधानीभूते  काबूलस्थे षेरपुरं नामके स्थाने सपरिवारं अज्ञातवासं कुर्वन्नासीत्  सवाहिरिः। तत्स्थानं प्रति रविवासरे कृतेन 'ड्रोण्' अग्निशस्त्राक्रमणेन सवाहिरिः हतः इति यू एस् राष्ट्रपतिः  जो बैडनः विश्वं न्यवेदयत्। 

   न्यूयोर्कस्थं वाणिज्यभवनसमुच्चयं लक्ष्यीकृत्य २००१ सेप्टंम्बर् ११ दिनाङ्के संवृत्तस्य भीकराक्रमणस्य मुख्यसूत्रधारः, तथा नेतुः  बिन् लादस्य दक्षिणहस्तीयश्च   आसीत् सवाहिरिः। २०११ तमे वर्षे बिन् लादनस्य हत्यानन्तरं  सवाहिरिः अल् खायिदाया‌ः प्रथमनेता भूत्वा अमेरिक्काम् इतरराष्ट्राणि च विरुध्य भीकरप्रवर्तनानां कपटनिगूढायोजनं  कुर्वन्नासीत्। यू एस् राष्ट्रेण अस्य २. ५ कोटि डोलर् परिमितं शिरोमूल्यं प्रख्यापितमासीत्।

चीनस्य अनियन्त्रितानि  आकाशबाणावशिष्टानि सिन्धुमहासमुद्रे पतितानि।

नियन्त्रणं विना भूमिं लक्ष्यीकृत्य आगतस्य चीनस्य लोङ् मार्च५ बि नाम आकाशबाणस्य अवशिष्टानि सिन्धुमहासागरे (Indian ocean) पतितानि। मलेष्यायाः सरावाक् नाम राज्यस्य समीपे एव  एतानि पतितानि। भारतीयकालगणनानुसारं रात्रौ१०.१५ वादने अग्निबाणावशिष्टानि सागरे पतितानि इति यु एस् बहिराकाशशासनेन दृढीकृतम्।

Tuesday, August 2, 2022

 भारते वाणिज्यपाकेन्धनमूल्यं न्यूनीकृतम्। 

कोच्ची> राष्ट्रे वाणिज्यापेक्षितानां एल् पि जि पाकेन्धनकोशस्य मूल्ये ३६ रूप्यकाणां न्यूनता कृता। अनेन कोच्चिनगरे १९ किलोपरिमितस्य पाकेन्धनगोलस्य मूल्यं १९९१ जातम्। पूर्वमेतत् २०२७ आसीत्। किन्तु गार्हिकावश्यकाणां कृते उपयुज्यमानानां गोलकानां मूल्ये व्यत्ययः नास्ति। १०६० रूप्यकमूल्यं वर्तते। गतमासे गार्हिक एल् पि जि पाकेन्धनकोशस्य मूल्ये ५० रूप्यकाणां वृद्धिः कारिता आसीत्।

 'कोमण् वेल्त्' कायिकस्पर्धा -  भारतेन ८ पतकानि प्राप्तानि। 

बर्मिङ्हामः> यू के राष्ट्रे समारब्धा कोमण् वेल्त्' कायिकस्पर्धा दिनचतुष्टये अतीते भारतं षष्ठस्थानं प्राप्य अभिमानार्हे मार्गे वर्तते। त्रीणि सुवर्णपतकानि, त्रीणि रजतानि, द्वे कांस्यपतके च भारताय लब्धानि। २३ सुवर्णानि समेत्य ५६ पतकैः आस्ट्रेलिया प्रथमस्थाने विद्यते। १५ सुवर्णैः सह ३६ पतकलाभेन इङ्लाण्ट् द्वितीयस्थानं वहति।

 केरले अतिवृृष्टिः - ४ मरणानि, सर्वत्र विनाशः। 

विद्यालयेषु अद्य विरामः।

अनन्तपुरी> केरलराज्ये दिनद्वयेन अनुवर्तमानया अतिवृष्ट्या दक्षिण-मध्यकेरलेषु सर्वत्र व्यापकतया नाशनष्टाः जाताः। अनन्तपुरी, कोट्टयं जनपदयोः एकैकः मृत्युं प्राप्तः। मत्स्यबन्धनाय समुद्रं गतवन्तौ द्वौ जलयानदुर्घनया अदृष्टौ अभवताम्। 

  वृष्टिप्रकोपेन राज्ये ९० जनाः वासगृहाणि त्यक्त्वा अभयकेन्द्राणि प्राप्तवन्तः। कोल्लं, पत्तनंतिट्टा, इटुक्की, तृश्शूर्, कोट्टयं, वयनाट् जनपदेषु सप्त पुनरधिवासशिबिराणि उद्घाट्तानि। 

   कोट्टयं जनपदे पञ्च स्थानेषु भूविच्छेदाः जाताः। ४८ वासस्थानानि भागिकतया विशीर्णानि।  इटुक्की, पत्तनंतिट्टा जनपदेष्वपि मृत्प्रपाताः जाताः। विद्यालयेषु मङ्गलवासरे विरामः प्रख्यापितः। आराज्यम् अतिवृष्टिः दिनद्वयमपि अनुवर्तिष्यते इति पर्यावरणविभागेन निगदितम्।

Monday, August 1, 2022

 गगने संदृष्टः उत्कावर्षो न। चीनीयाकाशबाणस्य अवशिष्टानि एव। 

नवदिल्ली> उत्कापतनमिव प्रसृताः बहवः चलनचित्रखण्डाः सामूहिकमाध्यमे त्वरितप्रसरमभवन्। आकाशे पीत - नील- रक्तवर्णरूपाणि चलनयुक्तानि प्रभासमानानि प्रकाशदृश्यानि एव गतदिनेषु सामाजिकमाध्यमेषु जनश्रद्धाम् आकर्षयन्ति प्रसृतानि। एष्यायाः दक्षिणपूर्वाकाशे रात्रौ दृश्यमेतत् प्रत्यक्षमभवत्। उत्कावर्षः इति नाम्ना एव चलनचित्रखण्डाः प्रसृताः। किन्तु भूपरिधौ प्रविष्टस्य चीनेन प्रेषितस्य आकाशबाणस्य अवशिष्टान्येतानि इति इदानीं दृढीकरणमस्ति।