OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 31, 2021

 वाहननियमलङ्घनं - फेब्रुवरि १ आरभ्य कर्कशपरिशोधना भविष्यति।      

   अनन्तपुरी>राष्ट्रियवीथीसुरक्षामासाचरणस्य अंशतया केरले यन्त्रवाहनविभागेन आरक्षकसेनया च वाहनपरिशोधना कर्कशा विधत्ता।  फेब्रुवरि प्रथमदिनादारभ्य ६ दिनाङ्कपर्यन्तं शिरस्त्राण-आसनपरिवेष्ट्रस्य च परिशोधनायाः प्राधान्यं भविष्यति। १० - १३ दिनाङ्कपर्यन्तम् अतिशीघ्रगतियुक्तानां वाहनानि विरुध्य पदक्षेपाः करिष्यन्ते। ७- १७ दिनाङ्केषु मदिरां पीत्वा वाहनचालनं, चालनसमये दूरवाणीविनियोगः, सूचनालङ्घनम्, अनधिकृतस्थगनम् इत्यादिषु प्रकरणेषु पदक्षेपाः स्वीकरिष्यन्ते।

 दिल्लीस्फोटनं - उत्तरदायित्वं 'जय्षे उल् हिन्द्'ना स्वीकृतम्। 


   नवदिल्ली> इस्रायेल् एम्बसीकार्यालयस्य समीपे शुक्रवासरे सायं सञ्जातस्य स्फोटनस्य उत्तरदायित्वं स्वीकृत्य 'जय्षे उल् हिन्द्' नामकस्य आतङ्कवादसंघटनस्य टेलिग्रामसन्देशः प्रचरन्नस्ति। किन्तु अन्वीक्षणसंस्थायाः एतदास्पदं सुव्यक्तं किमपि प्रमाणं नालभत। 

  स्फोटनस्य नातिचिरात्प्राक् एम्बसीकार्यालयस्य समीपेन किमपि यानं सन्देहास्पदे साहचर्ये प्राचलदिति समीपस्थेषु सि सि टि वि दृश्येषु वर्तते। प्रकरणमिदं एन् ऐ ए संस्थया स्वीक्रियते इति श्रूयते।

 अतितापः ध्रुवप्रवेशे हिमाद्रता वर्धते। भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति। 

 आगोलपर्यावरणावस्थाम् अधिकृत्य विचिन्तनं कर्तुं नेत र्लन्ट् देशे आयोजिते विश्व नेतृ.णाम् उपवेशने भूमेः पर्यावरणस्य तापवर्धनं अतिचर्चितम्। एवं तपमानं नियन्त्रणं विना वर्धते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशने सर्वे अभिप्रेन्ति। २०३०तः पूर्वं इमाम् अवस्थां परिहर्तुं न शक्यते चेत् भूप्रदेशाः अधिकतया निमज्जिताः भविष्यन्ति इति उपवेशनेन पूर्व सूचना प्रदत्ता अस्ति। ध्रुवप्रवेशे हिमाद्रतायाः वेगः ५७% अधिकम् अभवत् इत्यस्ति अध्ययन फलम् ।

Saturday, January 30, 2021

 पारिस् पर्यावरणसन्धिः; पञ्चवर्षाणि अतीतानि।

 आगोलतापवर्धनं, वातावरण-व्यत्ययः इत्यादि विविध-विषयानधिकृत्य सुप्रधानं निर्ण्यं स्वीकृतम् आसीत् २०१५ तमस्य शिखरसम्मेलने। किन्तु भौमवातावरणम् अत्यधिकं शेच्यावस्थां प्रति गच्छन् अस्ति। २०१५ तमस्य भीकराक्रमणस्य पृष्टभूमौ स्वीकृते निर्णये आगोलतापवर्धनं २° सेन्टी ग्रेड् परिधिम् लङ्घयितुम् अवसरः कदापि न दद्यात् इत्यासीत्। १९६ राष्ट्रैः निर्णयः अङ्गीकृतः। किन्तु अमेरिका आदीनि राष्ट्रैः निर्णयः न पालितः। इदानीं तापमानम् अनियन्त्रितं वर्तते।

Friday, January 29, 2021

 सामाजिक-माध्यमानि कौमारजनानां मनस्वास्थ्यं नाशयन्ति; सर्वेक्षणफलम्।

   कुमारी-कुमाराणां मनस्वास्थ्यनाशाय  सामाजिक-माध्यमानाम् अमितोपयोगः कारणमित्युच्यते। 'एज्यूकेषन् पोलिसि इन्स्टिट्यूट्' 'दि प्रिन्स् ट्रस्ट्' च मिलित्वा कृत-सर्वेक्षणे भवति इदं प्रत्यभिज्ञानम्। इंग्लन्टस्थे ५००० कुमारि-कुमारेभ्यः सर्वेक्षणेन  निर्धारितम् इदं विवरणम्। व्यायामस्य अभावः कोविड् काले अधिकतया मानसिकास्वास्थ्यस्य कारणम्।।

 विचारसभासम्मेलनाय अद्य शुभारम्भः - आयव्ययपत्रकं सोमवासरे। 

  नवदिल्ली> भारते जनप्रतिनिधिसभायाः आयव्ययपत्रकमेलनं अद्य प्रारभते। कोविड्व्यापनस्य कृषकान्दोनस्य च भूमिकायां समायोज्यमानमिदं सम्मेलनं तीक्ष्णराजनैतिकयुद्धस्य वेदिका भवेदिति मन्यते। सम्मेलनं सोपानद्वयेन आयोज्यमानमस्ति। 

  अद्य सभायुगलस्य संयुक्तसम्मेलनं राष्ट्रपतिः रामनाथकोविन्दः अभिसंबुद्धिष्यति। ततः पृथक् पृथक् राज्यसभा-लोकसभसम्मेलनद्वयमपि प्रचलिष्यति। राष्ट्रस्य आर्थिकसमीक्षणस्य आवेदनं वित्तमन्त्री निर्मलासीतारामः सभायां समर्पयिष्यति। 

  सोमवासरे आयव्ययपत्रकावतरणं भविष्यति। फेब्रुवरि १५ तमपर्यन्तं सम्मेलनस्य प्रथमसोपानं प्रचलिष्यति। अनन्तरसोपानं मार्च् ८दिनाङ्के आरभ्य एप्रिल् ८ दिनाङ्कपर्यन्तं भविष्यति।

Thursday, January 28, 2021

 राजनैतिक प्रसारणाय रोधनमुद्दिश्यते मुखपुस्तिकया।

 वाषिङ्टण्> कापिट्टोल् आन्दोलनस्य पृष्टभूमौ राजनैतिक-वैषयिकचर्चा-नियन्त्रणाय मुखपुस्तिकया निश्चितः। राजनैतिक-गणानाम् आमन्त्रणानि ग्राहकेभ्यः न प्रदास्यते इति मार्क् सक्कर् बर्गेण उक्तम्। ग्राहकेभ्यः लभ्यमानेषु वार्तांशेषु राजनैतिकांशः न्यूनं करिष्यति इति तेन उक्तम्। 

Wednesday, January 27, 2021

 मोडेण कोविड् वाक्सिन् भारतम् आनेतुं टाट्टा ग्रूप् प्रयतते। 

   नवदेहली> मोडेण कोविड् वाक्सिन् भारतम् आनेतुम् अमेरिक्कस्य औषधनिर्माण संस्थया मोडेण इत्याख्यया सह टाट्टा ग्रूप् चर्चा आरब्धा। टाट्टा मेडिक्कल्स् आन्ट् डयग्नोस्टिक्स् सि एस् आर् इत्यस्य सहकारेण भवति भारते औषधस्य परीक्षणम्। गतसंवत्सरे डिसंबर् मासे अमेरिक्कराष्ट्रे अस्मिन् मासे प्रथम सप्ताहे यूरोप्मध्ये च वाक्सिनस्य अङ्गीकारं सिध्यति स्म। -७० डिग्रि ऊष्णात् न्यूनं संरक्षणीयः फैसर्  वाक्सिनापेक्षया समान्य-शीतीकरणी उपयुज्य  मोडोण वाक्सिनं  संरक्षितुं शक्यते इति अस्य औषधस्य औत्कृष्ट्यम्। 

 संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहेन संस्कृत स्तोत्रप्रतियोगिताया: आयोजनं कृतम्।

वार्ताहर: - दीपकः शास्त्री

    जयपुरम्> संस्कृतस्य संरक्षणाय, वर्धनाय, प्रचाराय च आमुखपटले "संस्कृतं जनभाषा भवेत्" इति नाम्ना संस्कृतस्य बृहद् समूह: वर्तते। समूहे प्रतिदिनं संस्कृतस्य लेखा:, हास्यकणिका:, चलचित्राणि च संस्कृतज्ञा: प्रेष्यन्ति। बाला: अपि संस्कृतं प्रति आगच्छेयु: इति विचिन्त्य बालानां कृते संस्कृतस्य प्रतियोगिताया: आयोजनं करोति। अस्मिन् वर्षे समूहेन "संस्कृत स्तोत्रप्रतियोगितायाः" आयोजनं कृतम्। अस्यां प्रतियोगितायां सम्पूर्ण भारतदेशात् ३० बालका: बालिकाश्च भागं गृहीतवन्त:। प्रतियोगितायां बालका: बालिकाश्च संस्कृतस्तोत्रं गीत्वा चलचित्रं निर्मित्वा प्रेषितवन्त:। प्रतियोगितायां द्वयो: वर्गयो: निर्माणं अभवत्। अस्या: परिणाम: जनवरीमासस्य षड्विंशति: दिनाङ्के घोषित:। अस्यां प्रतियोगितायां प्रथमवर्गे (३-१० वर्षम्)  प्रथमस्थानं गुजरातत: बालिका जैनी प्रतीक, द्वितीयस्थानं गुजरातत: बालक: व्यासदेवर्षि:, तृतीयस्थानं च गुजरातत: बालिका व्यास प्रियांशी च प्राप्तवन्त:।

 एवं च द्वितीयवर्गे (११-१८ वर्षम्) प्रथमस्थानं गुजरातत: बालिका व्यास रुद्राक्षी, द्वितीयस्थानं मध्यप्रदेशत: बालक: आशीष: शुक्ला, तृतीयस्थानं च मध्यप्रदेशत: बालक: चंचल: मिश्रा च प्राप्तवन्त:। एते सर्वे प्रतियोगितायां अधिका: अंका: प्राप्तवन्त:। प्रतियोगितायां ये भागं गृहीतवन्त: तेषां कृते समूहपक्षत: प्रमाणपत्राणि लब्स्यन्ति। अस्या: प्रतियोगितायाः पुरस्कारप्रायोजकरूपेण रा. ई. का. कोटद्वारे सहायक-संस्कृतशिक्षकरूपेण कार्यं करोति श्री कुलदीपकुमार: मैन्दोला अस्ति। महोदयपक्षत: प्रथमद्वितीयतृतीयविजेतृभ्य:(द्वयो: वर्गयो:) क्रमश: ३००, २५०, १५० इति पुरस्कारराशिं प्रदास्यति। प्रतियोगितायां मीडियापार्टनर इति रूपेण सूरततः दैनिकप्रकाशितं संस्कृतसमाचारपत्रं "विश्वस्य वृत्तान्त:" अस्ति। प्रतियोगिताया: आयोजक: समूहस्य सञ्चालक: दीपकः शास्त्री अस्ति।

Tuesday, January 26, 2021

 देहल्ली सङ्घर्षः - गृहमन्त्रिणा त्वरितमेलनाय  आमन्त्रितम्।  

   नवदेहली> नवदिल्यां संघर्षं प्रतिरोद्घुं केन्द्रसर्वकारः कठिन-प्रक्रमाय  पर्यालोच्यते। दिल्लीस्थां परिवर्तितशन्त्यवस्थाम् अधिकृत्य प्रौढोद्योगस्थाभ्यां सह गृहमन्त्री अमितशाहः चर्चां कृतवान्।  सङ्घर्षः मर्यादायाः सीमाम् उल्लङ्घितः इत्यनेन अन्तर्जालसेवा निराकृता इति गृह-मन्त्रालयेनोक्तम्। टिक्रि, सिंगु, गासिपुरम्, मुकर्बचौक्, नन्ग्लोय् प्रदेशेषु आसीत् अन्तर्जालस्य निरासनम्। प्रदेशे अर्धसैनिक-विभागान् विन्यस्तुं निश्चितः अस्ति।

 भारत-गणतन्त्रदिवसः!

अस्माकं भारतदेशे प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्के गणतन्त्रदिवसः समायोज्यते। दिवसोऽयं राष्ट्रियपर्वत्वेनापि परिपाल्यते। प्रतिवर्षं जनवरीमासस्य षड्विंशतिदिनाङ्कः एवं किञ्चन दिनं वर्तते यस्मिन् दिने प्रत्येकं भारतीयानां मनसि देशभक्तिः जागर्ति मातृभूमिं च प्रति अपारस्नेहः उत्पद्यते। एवमेव अनेकाः महत्त्वपूर्णाः स्मृतयः सन्ति याः तेन पर्वणा सह योजिताः भवन्ति। १९५० तमे वर्षे जनवरीमासस्य षड्विंशतिदिनाङ्के भारतदेशस्य


 संविधानं प्रवर्तते स्म। तदनन्तरं भारतदेशः पूर्णरूपेण गणतन्त्रदेशः अभवत्। तदारभ्य जनवरीमासस्य षड्विंशतिदिनाङ्कः स्वतन्त्रदिवसत्वेन समग्रे देशे अत्यन्तम् उत्साहेन आमान्यते, अपिच तद्दिने राष्ट्रियावकाशः घोषितो भवति।आयोजनमिदं देशस्य कृते निःस्वार्थभावेन आत्मानं समर्पितवतां हुतात्मनां स्मरणं कारयति। जय हिन्द् वन्दे मातरम्। 

रचयिता-

प्रदीपकुमारनाथः असमप्रदेशः।

Monday, January 25, 2021

 उल्लङ्ख्य निवेशनाय चीनेन कृतः श्रमः भारतेन पराजितः। २० चीनस्य सैनिकाः क्षताः।

  नवदिल्ली> भारत-चीनयोः सैनिकाः सिक्किमस्य नकुलप्रदेशे युद्धम् अभवत्। दिनत्रयात् पूर्वम् आसीत् घटना। २० चीनसैनिकाः ४ भारतसैनिकाः च घटनायां क्षताः। चीनस्य निरीक्षक-संघाः नियन्त्रण-रेखाम् उल्लङ्ख्य आगताःइति भवति संघट्टनस्य कारणम् भारतसैनिकैः चीनसैनिकाः परं चूर्णायिताः। प्रदेशे भारतेन सुरक्षा शक्तीकृता। समुद्रतलात् १९००० पादोन्नत्यां भवति 'नकुल'प्रदेशः।

 सम्यक् सङ्घटनस्य संस्कृतमेधा पुरस्कारेण पुरस्कृतः बलदेवानन्दसागरः।

   बेंगळूरु> अस्ति कर्णाटके बेंगळूरु-नगरे 'सम्यक्'-नाम्नी संस्कृत-शिक्षकाणां संस्था। एषा प्रतिवर्षं संस्कृतस्य मेधाविच्छात्रान् पुरस्करोति, संस्कृतोत्सवम् आयोजयति, अन्यतमं कञ्चन संस्कृत-सेवाव्रतिनञ्च कर्णाटकशैल्या हूवीन्हार-पगडीति पुष्पमाला-शिरोष्णाभ्यां सह एकादशसहस्ररूप्यकाणां प्रदानपुरस्सरं सम्मानयति। अनेके प्रतिभाशालिन्यः बालिकाः बालाश्चात्र प्रोत्साहिताः, संस्कृतसेवकः बलदेवानन्दसागरश्च सम्मानितः। 

वर्धतां समेधताञ्च शिक्षकाणां समुत्साहः।

Sunday, January 24, 2021

 संस्कृतशिक्षकाणाम् अन्तर्जालीयमुपवेशनम्

    उत्तराखण्डस्य शासकीयेषु शासनेतरेषु च विद्यालयेषु कार्यरतानां संस्कृतविषयाध्यापकाणाम् अन्तरजालीयम् उपवेशने रविवासरे आयोजितम्। अस्मिन् उपवेशने प्रदेशस्य द्वितीयराजभाषात्वेन घोषिते सत्यपि विद्यालयेषु शिक्षकाणां नैयून्यं सविशेषं परिचर्चितम्। विषयेस्मिन् शासकीयौदार्यम् अपाकर्तुं सम्मर्षाः समागताः।

राज्ये संस्कृतविषयस्य प्रवक्तृणां सहायकशिक्षकाणां चोपवेशने माध्यमिक-विद्यालयेषु उच्चतरमाध्यमिक-विद्यालयेषु च संस्कृतशिक्षकाणां सृजितपदेषु अधिकांशपदेषु रिक्तता कारणेन छात्रेभ्यः गुणवत्तापूर्ण-शिक्षा नैव प्रदीयते। अत्रावसरे शिक्षकैः प्रोक्तं यत् विद्यालयेषु अन्यविषयाणां शिक्षकाः वैकल्पिक-व्यवस्थाम् अनुसरन् संस्कृतं पाठयितुं बाध्याः सन्ति। निगदितं च यत् प्रशासनेन उत्तराखण्डस्य द्वितीया राज्यभाषा तु प्रतिपादिता परं धरातले तदैव मूर्तत्वं गच्छति यदा अस्याः संवर्धनाय समुन्नयनाय परिवर्धनाय छात्रहिताय गुणवत्तापूर्णशिक्षायै च नीतिपूर्णा कार्ययोजना निर्मास्यते ।

उपवेशने द्वितीयराजभाषां समुन्नेतुं नैके सम्मर्दाः समुपस्थापिताः। माध्यमिक-स्तरे अनिवार्यविषयत्वेन संस्कृतशिक्षणम् उच्चतरमाध्यमिक-स्तरे च द्वितीयभाषात्वेन संस्कृतशिक्षणम् संस्कृतविषयस्य सहायकशिक्षकाणां प्रवक्तृणां च रिक्तपदेषु नियुक्तिः शासकीय-साहाय्य-प्राप्त-विद्यालयेषु शासनेतर-विद्यालयेषु च संस्कृत-शिक्षकाणां पदसृजनम् अथ च स्थायि-नियुक्तिं यावत् अतिथि-शिक्षकाणां नियुक्तिः इत्येतादृशाः विषयाः प्रमुखाः अवर्तन्त।

 कोविड् वाक्सिनवितरणं - भारताय कृतज्ञताम् समर्प्य विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> विश्वस्मै कोविड्प्रतिरोधप्रवर्तनेषु भारतस्य योगदानं पुरस्कृत्य राष्ट्राय प्रधानमन्त्रिणे च विश्वस्वास्थ्यसंघटनस्य अध्यक्षः ट्रेट्रोस् अथनों गब्रियेसुसः कृतज्ञतां व्याहरत्। भारते वाक्सिनवितरणानन्तरं 'प्रातिवेशिकाः प्रथमम्' इति राष्ट्रस्य नीतिक्रममनुसृत्य भारते निर्मितं कोविड्वाक्सिनं श्रीलङ्का  ,भूट्टानं, बङ्गलादेशः, नेप्पालं, म्यान्मरं, सीषेल्स्, अफ्गानिस्थानं , मौरीष्यस् इत्येतेभ्यः राष्ट्रेभ्यः निश्शुल्केन वितीरतुं निश्चयः कृतः आसीत्। 

   भूट्टानाय सार्धशतं मात्राः मालिद्वीपाय लक्षैकं मात्राः, बङ्गलादेशाय २० लक्षं, नेप्पालाय १० लक्षं , म्यान्मराय १ लक्षं, मौरीष्यसे १ लक्षं च मात्राः गतदिनेषु नीताः। अस्मिन्ननवसरे आसीत् अथनोंवर्यस्य कृतज्ञता अभिनन्दनं च ट्विटर्द्वारा प्रकाशितम्।

Saturday, January 23, 2021

 ९२ राष्ट्रान् प्रति भारतस्य कोविड् प्रतिरोधौषधः। 

 नव दिल्ली> भरतात् ९२ राष्ट्राणि कोविड् प्रतिरोधौषधं स्वीकुर्वन्ति। वाक्सिनस्य वितरणं समारभ्य कतिपय दिनाभ्यन्तरे भारतस्य वाक्सि नस्य निमाणक्षमतायाः ख्यातिः राष्ट्रान्तरं व्याप्यते इति वैदिशिक-वार्तामाध्यमैः आवेद्यते। स्वस्य आवश्यकताम् अतिरिच्य अधिकम् औषधं निर्मातुं सक्षमं सज्जं च भवति भारतम् इति आवेदने दृश्यते। बुधवासरादारभ्य बग्लादेश - नेपाल -भूट्टान्-मालद्वीप्राष्ट्रेभ्यः ३२ लक्षं मात्रात्मकं वाक्सिनः भारतेन प्रदत्तः अस्ति।

 अष्टानां विषयाणां टैटपरीक्षायाः परिणामविषये सूचना

वार्ताहरः श्रीवत्स देशराजशर्मा हिमाचलप्रदेशः।
   
हिमाचलप्रदेश-विद्यालयशिक्षाबोर्ड्, फरवरी मासस्य प्रथमसप्ताहे अध्यापकपा-त्रतापरिक्षायाः परिणामः शीघ्रमेव दातुं शक्यते।विद्यालय -शिक्षाबोर्डमाध्यमेन परीक्षापरिणाम-संबंधितानि कार्याणि सम्पूर्णानि जातानि।बोर्डमाध्यमेन निष्कासितोत्तराणां सूच्यां प्राप्तोत्तराणां सम्बन्धे, प्राप्तापत्तिसु विश्लेषणं सम्पूर्णं जातमेषा सूचना बोर्डाध्यक्षेन डॉ. सुरेशकुमारसोनी महोदयेन प्रदत्ता। तैः कथितः फरवरी मासस्य प्रथमसप्ताहे अध्यापकपात्रतापरिक्षायाःपरिणामो निष्कासयितुं विषये सबंधितशेषाणि कार्याणि सम्पूर्णानि जातानि। बोर्डेन उत्तरसूच्यां प्रदत्तोत्तराणां सम्बन्धे प्राप्तापत्तिस्वपि विश्लेषणं कार्यं जातम्। 

Friday, January 22, 2021

 पुणे 'सिरं' संस्थायाः अग्निबाधया पञ्चानां मृत्युः अभवत्। 

     मुम्बै> पुणे सिरं नाम संस्थायां जाताग्निबाधया पञ्चजनाः मारिताः। गुरुवासरे अपराह्ने २:४५ वादने आसीत् अपघातः। प्रथम 'टेर्मिनल्' इति भागे नवनिर्माणगृहे चत्वार-पञ्च अट्टे एव अग्निबाधा आसीत्। चत्वारः जनाः रक्षिताः। कोरोण-प्रतिरोधौषध-निर्माणगृहं दूरे आसीत् इति कारणेन औषधनिर्माणस्य स्थगनं न अभवत्। अन्वेषणाय आदेशः दत्तः इति महाराष्ट्रस्य उपमुख्य-मन्त्री अजित् पवारः अवदत्।

Thursday, January 21, 2021

 अमेरिक्कायां बैडन्युगः।

जो बैडनः राष्ट्रपतिरूपेण शपथग्रहणं कृतवान्। 

   वाषिङ्टण्> अमेरिक्कायाः ४६तमराष्ट्रपतिरूपेण ७८वयस्कः जोसफ् आर् बैडनः शपथग्रहणं कृतवान्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः जोण् रोबर्ट्सः शपथवाचनं कारितवान्। 

  उपराष्ट्रपतिरूपेण कमलाहारिसः शपथग्रहणं कृतवती। यू एस् राष्ट्रस्य चरित्रे प्रप्रथमः वनिताउपराष्ट्रपतिः भवति ५६वयस्का तथा च भारतीयवंशजा कमलाहारिसः।

Wednesday, January 20, 2021

 अमेरिक्कस्य ४६ तमः राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति।

     वाषिङ्टण्> निर्वाचनसमस्यां परिहृत्य अमेरिक्कस्य षट्चत्वारिंशतमः (४६) राष्ट्रपतिरूपेण जो बौडनः अद्य स्थानं स्वीकरिष्यति। शपथग्रहणाय जो बैडनः बाषिङ्टण् प्राप्तवान् अस्ति। कोविड् रोगेण हतानां यू एस् नागरिकाणां स्मृतौ एषः आदराञ्जलिं समर्पितवान्। शपथ-ग्रहणप्रक्रमाय अतीव-सुरक्षा वाषिङ्टण्  प्रदेशे सर्वत्र आयोजिता वर्तते। वाषिङ्टणे समागतः बैडणः लिङ्गण् स्मृतिमण्डपं प्रथमं सन्दर्शितवान्। जो बैडनस्य शपथग्रहण समारोहे पूर्वराष्ट्रपतिः डोणाल्ड् ट्रम्पः भागं न स्वीकुर्यात्॥

 अरुणाचलप्रदेशे चीनेन ग्रामः निर्मितः इति आवेदनम्; निरीक्ष्यते भारतेन।   

    नवदिल्ली> अरुणाचलप्रदेशे चीनेन निर्माण-प्रवर्तनानि कृतानि इत्यावेदने भारतस्य विदेश मन्त्रालयेन अभिमतं प्रकाशितम्। भारतस्य सुरक्षासंबन्धघटनया सर्वं निरीक्ष्यते अनुदिनम् इति। विषयेऽस्मिन् प्रक्रमाः स्वीकरिष्यन्ते इति च मन्त्रालयेन उक्तम्। अरुणाचलप्रदेशे भारतस्य भूप्रदेशान् संगृह्य चीनेन १०१ गृहाणि निर्मितानि इति आसीत् ए न् डि टि वि माध्यमस्य आवेदनम्।

 आस्ट्रेलियायां भारतस्य विजयकाहलं - भारताय निकषक्रिक्कट्स्पर्धापरम्परा।

  ब्रिस्बेन> भारतीयक्रिक्कट्क्रीडासंघस्य युद्धसमानप्रतियोगितावीर्याय समर्पणीया इयं विजयपरिसमाप्तिः। ह्यः समाप्ते भारतास्ट्रेलिययोः चतुर्थे निकषद्वन्द्वे भारतस्य ऐतिहासिकविजयः। 

   गाबा क्रीडाङ्कणे आस्ट्रेलियया उन्नीतः ३२८ धावननाङ्कानां विजयलक्ष्यः१८ कन्दुकेषु अवशिष्टेषु ७ क्रीडकानां विनष्टे भारतेन प्राप्तः। गाबायां ३२ संवत्सरात्परमेव आस्ट्रेलियायाः पराजयः। 

   अत्युज्वलेन अर्धशतकेन [८९*] धावनाङ्कानां विजयलक्ष्यं विजयतीरं आनीतवान्। विक्कट्सुरक्षकः ऋषभपन्तः एव श्रेष्ठक्रीडकः। ऋषभेन सह क्रीडाप्रारम्भकः शुभमनगिलः , चेतेश्वरपूजारश्च भारतस्य विजये निर्णायकं भागभागित्वं गृहीतवन्तौ।

Tuesday, January 19, 2021

 अकिञ्चनराष्ट्राणां कृते वाक्सिनं न लभते - विश्वस्वास्थ्यसंघटनम्।

  जनीवा> धनिकराष्ट्रेषु कोविड्वाक्सिनानि स्वायत्तीकृतेषु दरिद्रराष्ट्रैः बहुक्लेशः अनुभूयते इति विश्वस्वास्थ्यसंघटनेन [WHO] उक्तम्। 'प्रथमः अहं स्यामि'ति धनिकराष्ट्राणां मनोभावः तथा वाक्सिननिर्माणसंस्थानां विधेयत्वं च वाक्सिनवितरणे असमत्वाय कारणं भवतीति WHO निदेशकमुख्यः टेट्रोस् अथनों गब्रियेसूस् वर्यः अवदत्। 

  सश्रीकराष्ट्रेषु इतःपर्यन्तं ३.९कोटि मात्राः वितरीताः। किन्तु अकिञ्चनराष्ट्रेषु केवलं २५ मात्राः एव वितरीताः। "२.५ कोटि वा २५,०००वा मात्राः न, केवलं २५ मात्रा" - तेन स्पष्टीकृतम्। तुल्यवितरणाय कृतप्रतिज्ञानि बहूनि राष्ट्राणि प्रतिज्ञापालनात् व्यतिचलितानीति अथनोंवर्यः निराशां प्रकाशितः।

बैडनं प्रति आक्रमणमाशङ्कते।

      वाषिङ्टण्> नियुक्तं यू एस् राष्ट्रपतिं जो बैडनं विरुद्ध्य अङ्गरक्षकेभ्यः एव आक्रमणं भवेदिति आशङ्का वर्तत इति राष्ट्रपतेः सुरक्षाधिकारिणः। समीपकाले नगरसुरक्षायै नियुक्तेषु अधिकारिषु नियुक्तानां अधिकारिणां कतिपयेभ्यः सुरक्षाभीः अजायत इत्यभ्यूहः अस्ति।
  सुरक्षाभीषा वर्तमाना इति सैनिककार्यदर्शिना मक् कार्ति इत्यनेनापि दृढीकृतम्। ईदृशप्रवर्तनेषु भागभागं वहन्तं प्रत्यभिज्ञातुं  सर्वथा यतिष्यते इति तेनोक्तम्।

Monday, January 18, 2021

 इतःपर्यन्तं भारते २,२४,३०१ जनाः वाक्सिनीकरणं स्वीकृतवन्तः। 

  नवदिल्ली> आराष्ट्रं रविवासरं यावत् २,२४,३०१ जनाः कोविड्प्रतिरोधवाक्सिनं स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। एषु केवलं ४४७ जनेष्वेव लघुक्लेशाः जाताः। 

   शनिवासरे आसीत् भारते वाक्सिनीकरणमारब्धम्। प्रथमदिने उत्तरप्रदेशे अधिकतमः सूच्यौषधप्रयोगः विधत्तः - २१,२९१ जनेषु। आन्ध्रप्रदेशः, अरुणाचलप्रदेशः, कर्णाटकं, केरलं, मणिप्पुरं, तमिलनाडु  इत्येतेषु राज्येषु रविवासरे अपि वाक्सिनीकरणं विधत्तम्।

Sunday, January 17, 2021

 काबूले उच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते।

   काबूल्> अफ्गानिस्थानस्य सर्वोच्च न्यायालयस्य द्वे वनिता-न्यायाधिपे गोलिका-प्रहरेण मारिते। अद्य प्रातः (रविवासरे) आसीत् इयं घटना। आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्।  न्यायालयं प्रति न्यायाधिपयोः आगमनवेलायाम् आसीत् नालिकाशस्त्र धारिणाम् आक्रमणम्। समीपकाले राष्ट्रे ईदृशानि आक्रमणानि अनुवर्तन्ते। २०१७ संवत्सरे सर्वोच्च-न्यायालय-समीपे दुरापन्ने अत्मखादिनः आक्रमणेन २० (विंशति) जनाः मारिताः ४१ जनाः व्रणिताः च आसन्।

Saturday, January 16, 2021


 केरळाराज्यस्थेन संस्कृतप्रसारप्रचारक्षेत्रे अनवरतं कार्यं कुर्वता Livesanskrit संघेन राष्ट्रियपुरस्कारः अवाप्तः। 


संस्कृतचलच्चित्रनिर्माणगीतप्रकाशनादिकार्येषु सदा अग्रेसरः अयं livesanskrit संघः केरलाज्यस्थानां संस्कृताध्यापकानां एकः समवायः अस्ति। कविकुलगुरुकालिदासविश्वविद्यालयेन समायोजितायां ह्रस्वचलच्चित्रनिर्माण-प्रतियोगितायां केरलास्थेन livesanskrit संघेन प्रथमपुरस्कारः प्राप्तः। राष्ट्रिययुवजनदिनस्य परिप्रेक्ष्ये आसीदियं प्रतियोगिता समायोजिता। भारतीययुवकान् प्रति विवेकानन्दस्वामिनां सन्देशः इति विषये आसीत् प्रतियोगिता| भारतस्य विविधेभ्यः राज्येभ्यः अनेके प्रतिभागिनः अस्यां प्रतियोगितायां भागं स्वीकृतवन्तः।  वन्दे विवेकानन्दम् इति नाम्ना निर्मितमिदं ह्रस्वचलच्चित्रम् सामाजिकमाध्यमेषु अपि लोकावधानताम् आप्नोति। अस्य सम्पादनम् निदेशनम् च  विनायक् सि बि, रचना शब्दसंयोजनं च  नन्दकिशोर् आर्, पटकथा लिबि पुरनाट्टुकरा च द्वारा एव विहितानि। livesanskrit संघस्य सदस्याः एव एते सर्वे समीपकाले एव अनेन संघेन shibus Sanskrit इति युट्यूब् सरण्यां प्रकाशितं किम् किम् किम् इति मलयालगीतस्य संस्कृतीकृतं गीतं सामाजिक माध्यमेषु बहुधा प्रसिद्धम् अभवत्। इयं पुरस्कारप्राप्तिः livesanskrit संघस्य प्रवर्तनेभ्यः प्रेरणादायिका एवेति संघाध्यक्षः डो महेष् वाबु एस् एन् सम्प्रतिवार्तामाध्यमम् अवदत् ।

 भारते अद्य वाक्सिनीकरणसमारम्भं - प्रधानमन्त्री उद्घाटयिष्यति। 

  नवदिल्ली> विश्वस्मिन् बृहत्तमा कोविड्वाक्सिनीकरणकरणपरियोजना अद्य भारते प्रारभते। सर्वेषु राज्येषु प्रभाते १०.३० वादने प्रतिरोधसूचीप्रयोगः आरभ्यते। अस्याः परियोजनायाः समुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी वीडियो कोण्फ्रन्स् द्वारा करिष्यति।

 योगक्षेममालक्ष्य केरलस्य आयव्ययपत्रकम्। 

  अनन्तपुरी> वर्तमानभूतस्य केरलसर्वकारस्य अन्तिमे आयव्ययपत्रके सामान्यजनानां योगक्षेमकराः परियोजनाः प्रख्यापिताः। कोविड्काले आर्थिकप्रतिसन्धेः रूक्षतया राजस्वधनोदये १८.७७ प्रतिशतस्य न्यूनता जाता। राजस्वर्णः प्रतिशतं २.९४ , अधिक ऋणबाध्यतया धनर्णः प्रतिशतं ४.२५ इति च उच्चः जातः।

  आगाम्यार्थिकसंवत्सरे १,२८,३७५कोटिरूप्यकाण्येव प्रतीक्षितायः। व्ययस्तु १,४५,२८६ कोटि रूप्यकाणि च। ११६४कोटिरूप्यकाणां नूतनव्ययः प्रख्यापितः। १९१कोटेः कराश्वासः दत्तः। आगामिविधानसभानिर्वाचनमालक्ष्य निरर्थकानि वाग्दानानीति विपक्षेण उपहसितम्।

Friday, January 15, 2021

 ८३ तेजस् युद्धविमानानि क्रेतुम् अनुज्ञा दत्ता।

    नवदिल्ली> भारतेन तद्देशीयतया विकासितानि ७३ 'तेजस्'नामकयुद्धविमानानि १० परिशीलनविमानानि च क्रेतुं मन्त्रिसभायाः सुरक्षाकार्यसमित्या अनुज्ञा विधत्ता। ४५,६९६कोटिरूप्यकाणि व्ययः प्रतीक्ष्यते।। 

  भाविनि व्योमसेनायाः शक्तिस्रोतरूपेण वर्तमानानि भविष्यन्ति तेजस्युद्धविमानानीति रक्षामन्त्रिणा राजनाथसिंहेन प्रस्तुतम्।

Wednesday, January 13, 2021

 वाक्सिनप्रयोगाय भारतं सज्जं - प्रथमसोपानस्य व्ययः केन्द्रसर्वकारेण। 

   नवदिल्ली> कोविड् १९ रोगस्य प्रत्यौषधसूचीप्रयोगस्य प्रथमसोपानाय भारतं सर्वथा सज्जमस्तीति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रस्तुतम्। वाक्सिनीकरणस्य सिद्धतामवलोकयितुं समावेशिते मुख्यमन्त्रिणामुवेशने भाषमाणः आसीत् मोदिवर्यः।  शनिवासरे प्रक्रियेयमारभ्यते। 

   प्रथमसोपाने स्वास्थ्यप्रवर्तकाः कोविड्युद्धस्य सेनामुखे वर्तमानाः च अभिव्याप्य त्रिकोटिपरिमिताः भटाः वाक्सिनार्हाः भविष्यन्ति। अस्य व्ययः सर्वः केन्द्रसर्वकारेणैव वक्ष्यतीति प्रधानमन्त्रिणा उक्तम्। 

  कोवाक्सिन्, कोविषील्ड् नामकं वाक्सिनद्वयमेव वितरणाय सज्जमस्ति। कतिपयमासाभ्यन्तरे दशकोटिजनेभ्यः वाक्सिनदानं लक्ष्यीक्रियते। राजनैतिकप्रवर्तकेभ्यः यथाकालं वाक्सिनं लप्स्यते इति प्रधानमन्त्रिणा प्रस्तुतम्।

 विद्युद्याननिर्माणं नूतनसरण्याम्; बंगलूरु देशे निर्माणकेन्द्रम् उद्घाट्यते।

 बंगलूरु> भारते कारयान निर्माणं विक्रयणं च समारभ्यते। तदर्थं विद्युत्कारयान-निर्माण-संस्थया 'टेस्ल' इत्याख्यया  बंगलूरु मध्ये कार्यालयः समारब्धः।  २०२१ संवत्सरे विद्युत्कार्यान निर्माणं समारब्स्यते इति आवेदनं पूर्वमासीत्। अनेन विद्युत्कार्यानानां विक्रयणं  भरते बहुगुणितं भविष्यति इति यान प्रेमिणः चिन्तयन्ति।

Monday, January 11, 2021

 स्पेयिन् देशे महान् हिमपातः। जनाः वाहनेन सह हिमस्य अधः बन्धितः। 

    माड्रिड्> कठिनहिमपातेन अतिशीतवातेन च स्पेयिन् प्रदेशस्थाः पीडिताः भवन्ति। चत्वारः जनाः मृताः इति आवेदनम् आगच्छति। सहस्राधिकाः रेल् निस्थानेषु विमान-निलयेषु च बन्धिताः। रेल्-विमान सेवा स्थगिता। फ्यूवेन्गिरोल प्रदेशे नद्यां जलोपप्लवः अभवत् इत्यनेन प्रवाहे कार् यानानि विनष्टानि। यानात् बहिरागन्तुम् अशक्तौ द्वौ मृतौ। अन्यः एकः हिम-घण्डस्य अधस्तात् मृतावस्थायां प्रत्यभिज्ञातः। भवनरहितः एक: अपि मृतानां गणेषु अन्तर्भवति। राज्येषु सर्वत्र पूर्वसूचना प्रदता अस्ति।

 सप्तराज्येषु पक्षिज्वरः स्थिरीकृतः। 

    नवदिल्ली> भारतस्य सप्तसु राज्येषु 'एवियन् इन्फ्लुवन्सा' नामकः पक्षिज्वरः दृढीकृतः। उत्तरप्रदेशः, केरलं, राजस्थानं, मध्यप्रदेशः, हिमाचलप्रदेशः, हरियानं, गुजरातः इत्येतेषु राज्येषु एव पक्षिज्वरः दृढीकृतः। दशसहस्रशः कुक्कुटाड्यादयः ग्राम्यपक्षिणः अन्ये पतगाश्च गतसाप्ताहिके मृत्युभूताः। शनिवासरे विविधराज्येषु उपपञ्चसहस्रं पक्षिणः मृताः। राष्ट्रस्थासु मृगशालासु परिसरेषु वा रोगः स्थिरीक्रियते चेत् प्रतिदिनावेदनं केन्द्रमृगशालासंस्थां प्रति समर्पणीयमिति निर्दिष्टमस्ति।

Sunday, January 10, 2021

 लडाक् सीमा उल्लङ्घितम्; चीनस्य सैनिकः ग्रहीतः।

  श्रीनगरम्> लडाक् सीमाप्रदेशे  भारतसीमा चीनस्य सैनिकेन उल्लङ्घितम्। सः भारतसेनया ग्रहीतः। लडाक्कस्य रेसङ्ग ला मण्डले दक्षिण पाङ्गोङ्  तटाक समीपे ह्यः प्रातः एव सीमानम्  उल्लङ्घयत्। विगते संवत्सरे मण्डले सङ्घर्षः सञ्जातः आसीत्। तदनन्तरम् उभयोः पक्षतः तस्मिन् प्रदेशे अहनिशं निरीक्षणं प्रचलितम् अस्ति।

Saturday, January 9, 2021

 लण्टन् नगरे प्रतित्रिंशत् जनेषु एकः इति क्रमेण कोविड् रोगः।

    लण्टण् ☰ ब्रिट्टणस्य राजधान्यां लण्टणे कोविड् रोगव्यापनं रूक्षतया वर्तते इति आवेद्यते। प्रतित्रिंशत् जनेषु एकः रोगबाधितः इति प्रकारेण रोगः व्याप्तः अस्ति इति नगरपालेन सादिख् खानेन उक्तम्। रोगिणाम् आधिक्येन चिकित्सालये स्थलपरिमितिः विना विलम्बं स्यात् इत्यपि तेन संसूचितम्। कोविड्रोग भीत्या नगरं विपदि पतितम् पतितम् । चिकित्साविधयः यथायोग्यं न प्रचलन्ति चेत् स्थितिः नियन्त्रणातीता भविष्यति। जनाः मृत्युवशं गच्छेयुः। गतसप्ताहापेक्षया २७% जनाः एव बाधिताः सन्ति।

Friday, January 8, 2021

 कोविड्-रोगोत्पत्तिः - विशेषज्ञानां सङ्घस्य प्रवेशं निषिध्य चीनः।

  जनीव> कोरोण वैराणोः उत्पत्तिमधिकृत्य अन्वेष्टुं चीनं प्रति विशेषज्ञाः गच्छन्तः सन्ति। किन्तु राष्टे प्रवेशनाय चीनस्य सर्वकारेण अनुज्ञा न प्रदत्ता इति विश्व-स्वास्थ्य-सङ्घटनस्य अध्यक्षः  टेड्रोस् अथानों गेब्रियेसूस् अवदत्। कतिपयमासपर्यन्तं दीर्घिताः चर्चायाः अन्ते दश विशेषज्ञाः वैज्ञानिकाः एवः अस्मिन् सप्ताहे अनुसन्धानाय चीनं गच्छन्ति। द्वौः चीनं प्रति प्रस्थानं कृतौ च। किन्तु विषयस्य प्राधान्यं ज्ञात्वा इतःपर्यन्तं चीनः कोऽपि प्रक्रमः न स्वीक्रियते इति च स अवदत्॥


Wednesday, January 6, 2021

 खत्तरं प्रति उपरोधः निवर्तितः। 

   रियाद्> खत्तर् राष्ट्रं प्रति सौदिम् अभिव्याप्य चतुर्भिः राष्ट्रैः विहितः उपरोधः निवर्तितः। ईजिप्ट्, यू ए ई इत्यादिभिः सख्यराष्ट्रैः सार्धत्रिसंवत्सरात्पूर्वमेव उपरोधः विहितः। 

  ४१ तम जि सि सि शिखरसम्मेलनं रियादे समाप्तम्। तत्र सौदिविदेशकार्यमन्त्रिणा एव खत्तरं विरुध्य उपरोध-निवर्तनमधिकृत्य विज्ञापितम्।

Tuesday, January 5, 2021

 देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य प्रशासनेन सप्तमस्तरीया चर्चा समनुष्ठिता

    नवदिल्ली> केन्‍द्रप्रशासनेन देशस्य राजधान्यां नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य सप्तमस्तरीया समनुष्ठिता। अत्रावसरे केन्द्रीयः कृषिमन्त्री नरेन्द्रसिंहतोमरः रेलमन्त्री पीयूषगोयलः कृषकसङ्घटनानां नेतारश्चोपस्थिताः अवर्तन्त। उपवेशनात् प्राक् कृषिमन्त्रिणा निगदितं यत् प्रशासनं कृषकणां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। उपवेशनस्य पश्चात् वार्ताहरसम्मेलने कृषिमन्त्री अवोचत् यत् प्रशासने कृषकाणां विश्वासो वर्तते। कृषकैरपि प्रशासनमध्यर्थितं यत् शीघ्रं समाधानामादय आन्दोलनसमापनाय प्रयासं कुर्यात्। विषयेस्मिन् अष्टम चरणपरिचर्चायै शुक्रवासरे उपवेशनं भविष्यति।

<वार्तहरः -रुषोत्तमशर्मा नव-देहली>

Monday, January 4, 2021

 केन्‍द्रप्रशासनमद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति।

    नवदिल्ली> केन्‍द्रप्रशासनम् अद्य नवदिल्ल्यां कृषकसङ्घटनैः साकं कृषिविधिमालक्ष्य अग्रिमचरणवार्तां करिष्यति । इतः प्राक् गतमासस्य त्रिंशत् दिनाङ्के प्रशासनस्य कृषकसङ्घटनानां च मध्ये षट् स्तरीया परिचर्चाभवत्। तस्मिन् दिने चर्चावसरे कृषिमन्त्रिणा नरेन्‍द्रसिंहतोमरेण कृषकनेतारः आश्‍वासिताः यत् प्रशासनं तेषां समस्यानां समाधानाय प्रतिबद्धमस्ति। अथ च पक्षद्वयेन सद्भावपूर्ण-समाधानाय प्रयतितव्यमिति। अमुनोक्तं यदुपवेशने विषयचतुष्टये साहमत्यं सञ्जातम्।

श्रीतोमरेणोक्तं यत् प्रथमं प्रकरणं पर्यावरणसम्बद्धाध्‍यादेशस्य प्रवर्ततनं द्वितीयं च विद्युदधिनियेन सम्बद्धम् अवर्तत्॥

<वार्ताहरः - पुरुषोत्तमशर्मा नव दिल्ली>

Sunday, January 3, 2021

 कोविड् प्रतिरोधौषधविषयं राजनैतिकतया पश्यन्ति - स्वास्थ्यमन्त्री हर्षवर्धनः॥

   नवदिल्ली> कोविड् प्रतिरोधौषधविषयं विपक्षिणः राजनैतिकतया पश्यन्ति इति दुःखकरम् इति स्वास्थ्यमन्त्री हर्षवर्धनः अवदत्। भारत बयोटेक् इत्यस्य 'कोवाक्सिन्' भारते त्वरितोपयोगाय अनुज्ञा प्राप्ता। विषये अस्मिन् अन्ये विपक्षदलनेतारः विप्रतिपत्तिं प्रकाशयन्ति।

Saturday, January 2, 2021

 भारत-पाकिस्थानाभ्याम् आणवकेन्द्राणां पट्टिका परस्परं प्रतिगृह्णीता। 

      इस्लामबादः> भारते पाकिस्थाने च वर्तमानानाम् आणवकेन्द्राणां पट्टिका उभाभ्यां राष्ट्राभ्यां मिथः स्वीकृता। १९८८ डिसम्बरमासे हस्ताक्षरक्षरीकृतं सन्धिमनुसृत्य एव पट्टिकायाः परस्परग्रहणं सम्पन्नम्। १९९२ तमवर्षादारभ्य जनुवरिमासस्य प्रथमे दिने इयं प्रक्रिया अनुवर्तते।

 आणवसज्जीकरणेषु परस्पराक्रमणनिरोध एव पूर्वोक्तसन्धेः सारः। सन्धेः द्वितीये अनुच्छेदे परस्परपट्टिकाविनिमयः विहितः वर्तते।

 केरलेषु विद्यालयाः उद्घाटिताः। 

     कोच्ची> केरले १०, १२ कक्ष्यास्थानां कृते विद्यालयाः नववत्सरदिने उद्घाटिताः। सर्वकारस्य कोविड्सुरक्षामार्गनिर्देशान् अनुसृत्य एव  पाठ्यपाठनादीनि सञ्चालनीयानि। छात्राणां तथा शिक्षकानां च सुरक्षामालक्ष्य मार्गनिर्देशाः विज्ञापिताः।

   एकस्मिन् काले ५०% छात्राणां कृते भवेत् कक्ष्याचालनम्। तत्तु होरात्रयं भविष्यति। ततःपरं अणुनाशनं कृत्वा अवशिष्टेभ्यः ५०% छात्रेभ्यः कक्ष्या चालनीया। 

  जनवरी प्रथमदिनादारभ्य मार्च्मासस्य १६ दिनाङ्कपर्यन्तम् एवं विधं सन्देहनिवारणाय प्रायोगिक-परीक्षापरिशीलनाय च रक्षाकर्तृृृणामनुज्ञया विद्यालये अध्ययनं कर्तुमर्हन्ति छात्राः।

 

Friday, January 1, 2021

 वाहनानां फास्टाग् अनिवार्यं भविष्यति। फेडरल् बैंकस्य सुविधा सम्प्रतिवार्तया सज्जीकृता।

 कालटी> २०२१ वर्षस्य फेब्रुवरि मासस्य १५ दिनाङ्कतः फास्टाग् (Fastag) सुविधा नियमेन प्रबला भविष्यति। चतुश्चक्र-यानेषु इयं सुविधा अनिवार्या। काल-विलम्बं विना 'टोल् प्लासायाः' पारं गन्तुं सुविधेयं सुकरी एव। कार् यानानां कृते ५०० रूप्यकाणि न्यूनतमा सख्या भवति। अन्येषां वाहनानां ६०० रूप्यकाणि प्रथमं दातव्यानि। 

स्वगृहे सुविधायाः लब्ध्यर्थं इयं Link उपयोक्तुं शक्यते (http://wa.me/+919400417084 इति सङ्ख्या यां अधो निर्दिष्टानां प्रमाणानां चित्राणि प्रेषणीयानि। 1) Aadhar card 2) RC book 3) Photo of vehicle *front* and *side* view. And 4) Date of Birth 5) Mail Id. 6) Mobile no. *FasTag Delivery*👍*Free Home delivery* available.) +919400417084 इति वाट्साप् सङ्ख्यायां सम्प्रति वार्तया सेवा समारब्धा अस्ति।