OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 29, 2016

सर्वशिक्षा अभियानस्य २०१५ श्रेष्ठोत्सवस्य शुभारम्भः
अनन्तपुरी >सर्वशिक्षा अभियानस्य केरळराज्यस्तरीय श्रोष्ठोत्सवस्य अद्य  शुभारम्भः। अनन्तपुर्याम्  एस्.एम्.वि उच्चतर-विद्यालये केरळराज्यस्य शिक्षामन्त्रिणा अब्दुरब् महोदयेन उत्सवोfयम् उद्‌घाटितः। उत्सवेfस्मिन् डा.ए सम्पत्त् (MP)वर्यः मुख्यभाषणं कृतवान्। आरोग्य-देवस्वं विभागयोः मन्त्रिणा शिवकुमारेण अध्यक्षभाषणं कृतम्। केरळस्य सार्वजनिक विद्यालयानां श्रेष्ठतायाः प्रदर्शनमेव दिनद्वय कार्यक्रमेषु मुख्यतमम्। एतदर्थं सज्जीकृते वेदिकाचतुष्टये छात्राणां वैशिष्ट्यप्रदर्शनानि प्रचलन्ति। इतर विद्यालयापेक्षया सार्वजनिक-विद्यालयेषु औत्कृष्ट्यम् अधिकमस्ति इति उत्सवोfयं प्रमाणम्।
 मुसिरिस् पैतृकपद्धत्याः शुभारम्भः।
भारतचरित्रं परस्परादरस्य - राष्ट्रपतिः। 

कोटुङ्ङल्लूर्> भारतचरितं विभिन्नमतधर्मयुक्तानां परस्परादरस्य स्वांशीकरणस्य च योगदानमिति राष्ट्रपतिना  प्रणाबमुखर्जी महाभागेन उक्तम्। मुसिरिस् पैतृकपद्धत्याः प्रथमसोपानस्य उद्घाटनवेलायां भाषमाणः आसीत् राष्ट्रपतिः၊ विभिन्न धर्म समुदाय भाषागताः जनाः परस्परमैत्र्या  सह अनुवर्तन्त इति भारतस्य पारम्पर्यम् । एतादृशपारम्पर्ये केरलम् आदर्शभूतमिति सः अवोचत्। मुसिरिस् नामकेन पुरातनकवाटेन देशान्तरेभ्यः विविधाः संस्कृतयः वंशाः नानाविधानि मतानि च भारतं प्राप्तानि । भारतं तानि सर्वाणि स्वीकृत्य तेषां संरक्षणाय अभिवृद्धये च व्यवस्थाम् अकरोत्।

ममापि श्वः परीक्षा - मोडी
नवदिल्ली > 'श्वः लोकसभायां आयोज्यमाना केन्द्रधनविनिमयपद्धतिः १२५ कोटि जनानां पुरतः लेख्यमाना मदीया परीक्षा' इति प्रधानमन्त्रिणा मोदिवर्येण उक्तम्। शान्ततया आत्मविश्वासेन सह परीक्षाम् अभिमुखीकृत्य विजयं प्राप्नोमि इति आकाशवाण्याः 'मन की बात' इति प्रतिमासकार्यक्रमे भाषमाणः आसीत् सः।
परीक्षायाः कृते प्रयत्नं कुर्वाभ्यः छात्रेभ्यः उपदेशं च दत्तवान्। स्पर्धा अन्यैःसह मास्तु , आत्मानं प्रति भवतु । अन्येषां सम्मर्दे पतित्वा जीवनं व्यर्थं मा कुरुत। सर्वे विजयिनः भूयासुः इति आशंसा च उक्तम्। सि.एन्. आर्.रावु, सच्चिन् तेण्डुल्कर् विश्वनाथ आनन्दः प्रभृतीनां उपदेशाः च स्मारिताः ।
प्रथमतया लक्ष्य निर्णयः करणीयः। तदनन्तरं सम्मर्दान् विस्मृत्य मनसः मुक्तिः प्राप्तव्या। परीक्षा लब्धाङ्केनैव जीवनं मीयमानं न भवेत्। किमपि वा भवतु, लक्ष्यात्‌ न प्रमदितव्यम्। श्वः अनुवर्तिष्यमाणायां  धनविनिमय पद्धत्यां अहमपि विजयी भवेयम् इति च उक्तम्  अनेन महात्मना।

वायुमलिनीकरणम्; मरणसड़्ख्या अतीता।

वाषिङ्टण् >वायुमलिनीकरणेन प्रतिवर्षम् आगोलतले 5.5 दशलक्षाधिकाः जनाः मृताः। तेषु 55%जनाःभारतीयाः भवन्ति इति  गवेषकैः सूचितः। 

आगामि दशकद्वयानां वर्षाणां मध्ये वायुमलिनीकरणं नियन्त्रणविधेयः भवितव्यम् । नोचेत् मलिनीकरणेन मरणसंख्या इतोप्यधिकं भविष्यति इति गवेषकैः सूच्यन्ते। भारतं, चैना, यु एस्, कानडा आदीनां राष्ट्राणां  गवेषकाः अनुसन्धाने भागभाजः अभवन्।
वाषिड़्टण् नगरे अमेरिकन् असोसियेषन् फोर् अट्वान्स्-मेन्ट् ओफ् सयन्स्स्य वार्षिकमेलनवेलायां गवेषकैः सूचनानि प्रकाशितानि। आगोलतले परिस्थिति-मलिनीकरणे  चतुर्थस्थानं भवति भारतस्य वायुमलिनीकरणाय। 

व्यवसायशालाभ्यः, यानेभ्यः जायमानया वातकप्रसारणेन परिस्थितिः मलिनं भविष्यति । किन्तु भारते पचनार्थम् इन्धनोपयोगेन मलिनीकरणं भविष्यति। चैनाराष्ट्रे तु शिला- इन्धनानां(Charcoal) उपयोगेन वायुः प्रदूष्यते। 
मालिन्यानि नियन्त्रणविधेयानि भवेयुः I नो चेत्‌ इतोप्यधिकं  दुष्फलानि भविष्यन्ति इति गवेषकाः।

मासत्रयाभ्यन्तरेण शतं किलोमितं रक्तफलम्।

एरणाकुलम् > रक्तफलमेव  षैलजायाः वटिकायाः तारम् । गृहवाटिकायां मासत्रयेण शतंकिलोमितं रक्तफलं  अनया गृहण्या उत्पाद्यते । चेरायी माडत्तिड़्कल् षैलजा राजेशस्य शाकोद्यानं मुनंबं ग्रामस्य मातृकाशाकोद्यनमेव। जैवोर्वरकमुपयुज्य गृहस्योपरि, शकोद्यानं निर्मितम्।  न केवलं रक्तफलं किन्तु कारवेलम्, भेण्डः, गृजानकं,  कोलीफ्लवर्, आद्रकम्, सूरणः आदीनां अपि च विविधानां मरिचानां शेखरः चअत्र दृष्टुं शक्यते। जैवोर्वरकेन निर्मितानां शाकानाम् उपयोगेन मनसि सन्तोषः जायते इति षैलजा वदन्ति । 2014 तमे, 15 तमे च वर्षे उत्तमकृषकपुरस्कारदानेन आद्रिता भवति षैलजा।

इतिवर्ताः

नवदिल्ली -  राष्ट्रे गतैकवर्षाभ्यन्तरे २००० कोटिरूप्यकाणां व्याजमुद्रितरुप्यकाणि प्राप्ता इति भारतीय रिसर्व् बान्क्।१००० रूप्यकाणां चीका एव प्राप्ताः। अतः 2AQ,  8AC धारावाहिकसंख्यानां चीकाः न विनिमययोग्याः इति आरक्षकवित्तकोषाधिकृतैः आदिष्टम्।


अनन्तपुरं - भारतराज्यसभायां केरलात् जायमानेषु त्रिषु रिक्तस्थानेषु एकैके स्थाने कोण्ग्रस् दलं जनतादलं(यू) सिपिएम् दलं च स्पर्धिष्यते।

कोच्ची - ट्राफिक् इति एकेनैव चलच्चित्रेण मलयालचलच्चित्रमण्डलस्य दिशानिर्णयं कृतवान् प्रसिद्धः निदेशकः राजेष् पिल्लै दिवंगतः। यकृत्संबन्धरोगेण कोच्ची आतुरालये आसीत्तस्यान्त्यः।

कार् यानदुर्घटना - केरलमुख्यमन्त्री कटिपट्टया सुरक्षितः।
कोट्टयम् >गतदिने प्रभाते केरलमुख्यमन्त्रिणः उम्मन् चाण्टि महोदयस्य कार् यानं कोट्टयं नगरसमीपे काणक्कारि प्रदेशे विनष्टनियन्त्रणेन कुल्याम् अपतत्। मुख्यमन्त्री आसनकटिपट्टम् अधारयत् इत्यतः व्रणितो नाभवत्। किन्तु तस्य सुरक्षाभटस्य हस्तःभग्नः जातः । कार्  यानमपि  विशीर्णम् मुख्यमन्त्री यानान्तरं स्वीकृत्य कोट्टयम् अतिथिमन्दिरं गत्वा ततः पुतुप्पल्लीस्थं स्वगृगं गतवान्। आसनकटिपट्टधारणमेव आत्मानं आहतं विना सुरक्षितं कृतमिति उम्मन् चाण्टिवर्यः वार्ताहरान् अवदत्।

Sunday, February 28, 2016

संस्कृतस्य कृते नूतनं याचिका पत्रम् ।

संस्कृतस्य कृते नूतनं याचिकापत्रं प्रसिद्धीकृतम्। संस्कतानुरागिणः हस्ताक्षरं करणीयमिति वार्ता प्रवाचकः बलदेवानन्द सागरेण उक्तम्। याचिका दर्शनाय  Sanskrit Campaign नाम अत्र उपरि विद्यमाना MENU  दण्डे CLICK क्रियताम्।


संस्कृतस्य वेदाध्यनस्य च शक्तीकरणाय केन्द्रसर्वकारः।
नवदिल्ली > विद्यालय-कलालयतल  अनुसन्धानमण्डले च संस्कृतभाषायाः वेदानां च अध्यनं शक्तं कर्तुं केन्द्रसर्वकारस्य दशसंवत्सरात्मिका पद्धतिः। शास्त्र-साङ्केतिक-मानविकविषयेषु संस्कृतम् अध्ययनमाध्यमं कर्तुं निर्देशपूर्विकां मार्ग-रेखां मानवविभवशेषिमन्त्रालयाय समर्पयत्। राष्ट्रीय संस्कृत विद्यापीठस्य कुलपतेः एन् गोपालस्वामिवर्यस्य अध्यक्ष्यत्वे नियुक्ता समितिरेव मार्ग-रेखां सज्जीकृतवती। 
वेद-संस्कृताध्ययनाय सि.बि.एस्.सि वत् देशीयतले सविशेषां विद्याभ्याससमितिं रूपवत्कर्तुमेव प्रधानादेशः । सेन्ट्रल् बोर्ड आफ् वेद आन्ड् संस्कृत-सेक्कन्टरि एड्यूकेषन् इति स्यात् तस्याः नाम। 
२०१७ -१८ संवत्सरः संस्कृताध्ययनवर्षरूपेण आधोषयिष्यते। शास्त्रं गणितं सामाजिकशास्त्रं अर्थशास्त्रं एन्जिनीयरिंग् मानेज्मेन्ट् इत्येतान् विषयान् संस्कृतेन सह संयोज्य भारतीय वैज्ञानिकमण्डस्य शक्तीकरणमेव अस्याः मार्गरेखायाः आन्तरिकं लक्ष्यम्। 

कोच्ची मेट्रो पट्टिकायानस्य परीक्षणधावनम् विजयपथं प्राप्तम्।

कोच्ची > मुट्टंदेशो विद्यमानः चत्वरादारभ्य कलमशेरीपर्यन्तमासीत्‌ परीक्षणधावनम्। रेल्पन्थायाः उपरि कृतः प्रथमधावन मेवेदम् इति DMRC अवदत् । सायंकाले षट्वादने एव यात्रा आरब्धा मुट्टं यार्डतः अप्पोलोटयर्स् चतुष्पथपर्यन्तं दशकिलोमीट्टर् वेगमितः धावनमासीत्। मर्गस्य पार्श्वेषु जनाः तिष्ठन्तः आसन् । अस्मिन्वर्षों नवंबर् मासादारभ्य जनानां कृते धावनमारप्स्यते इति मुख्य उपदेष्टा इ.एम्. श्रीधरः अवदत्|

सेवननिवृत्ताः संस्कृताचार्याः समादृताः।

कोच्ची > केरळ- संस्कृताध्यापक-फेडरेषन् नामकस्य संघटनस्य एरणाकुलं जिल्लाघटकस्य आभिमुख्ये सेवननिवृत्तान् संस्कृताचार्यान् तथा कलालयाध्यापकरूपेण नियुक्तिं प्राप्तान् च विद्यालयाध्यापक-प्रतिभावर्यान् च समाद्रियत।
फेडरेषन् संस्थायाः राज्यस्तरीयार्थपतिः पि. पद्मनाभः आदरणमेलनस्य उद्घाटनमकरोत्। पदवीध्वंसनं , अध्यापक- छात्रानुपातः, सेवनानुकूल्यानां निरोधनम् इत्यादिविषयेषु अध्यापकानामाशङ्कां परिहर्तुम् ऐकमत्येन प्रयतितव्यमिति स उद्घोषयत्।
एरणाकुलं जिल्लासमित्यध्यक्षः तथा 'सम्प्रति वार्तायाः' मुख्यसम्पादकः च अय्यम्पुष़ हरिकुमारः आध्यक्ष्यमावहत्। विरामप्रायाः अध्यापकाः  नवपरम्परायै मार्गदीपाः भवन्तीति तेनोक्तम्।
अस्मिन् वर्षे विरम्यमानाः पि.एम् पुरुषोत्तमः, अार् प्रेमावती, पि.वि चिन्नम्मा, एम्. बेबिक्कुट्टी इत्येते गुरुवर्याः , डो. विश्वजा एस् नायर् , डो. भुवनेश्वरिकुञ्ञम्मा इत्येते कलालयाध्यापकपदप्राप्ताः युवप्रतिभाधनिकाः च समादृताः।
राज्यस्तरीयोपाध्यक्षौ पि. रती , एस् रविकुमारः तथा च अन्ये एम् एन् सानुः , एम् एन् प्रतापः प्रभृतयः च भाषणं कृतवन्तः।

Saturday, February 27, 2016

सुनिश्चयदण्डनाय नीतिशास्त्रं कालानुसृतं भवेत्-राष्ट्रपतिः।


कोच्ची > आधुनिके काले समूहे विद्यमानान् दुष्कृन्यान् परिहर्तुं भारतस्य नीतिन्यायनियमव्यवस्थासु कालानुसृत -परिवर्तनम्‌ आवश्यकम् इति भारतस्य राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उक्तम्। डयरक्टर् जनरल् ओफ्प्रोसिकूषन् द्वारा आयोजिते भारतस्य पीनल् कोट्संविधानस्य १५५ तम वर्षास्य समापन सभायां उद्‌घाटनं कृत्वा भाषामाणः आसीदयम्।

बिट्टीष्  शासनकालेषु निर्मितेषु दण्डशास्त्रेषु न्यूनातिन्यूनानां  दोषानामेव दण्डः कल्पितः। किन्तु अद्य अवस्थान्तरं जातम्। क्रूरकृत्यानां क्षेत्रत्वेन परिवर्तिततः समूहः। वित्तानुबन्ध अन्तर्जालानुबन्ध दोषकृत्यानि वर्धते। अतः आरक्षकाः नियमज्ञाः च तेषां कर्मसु सत्यतायाः पालनं करणीयम् इति च राष्ट्रपतिना बोधितम्।

राष्ट्रसीमाम् उल्लंघ्य पाक्किस्थानतः वायुसञ्चिका राजस्थाने आगतः।

जय् पूर् > राज्यसीमाम् उल्लंघ्य पाक्किस्थानतः वायुसञ्चिका (balloon) राजस्थानराज्यस्य जलोरदेशे आगतः। ग्रामीणै: वायुसञ्चिकाम् आरक्षकेभ्यः दत्तम्। 

पाक्किस्थान् मरैन् अक्कादम्यां 'इन्टर यूनिवेर्सिट्टि स्पोर्सस्य' समापनसम्मेलनमधिकृत्य लिखितः वस्त्राणं सममेव आसीदियम्।  स्कलितपथा भारते आगतं वायुसञ्चिकाम् अधिकृत्य अधिकृतैः किमपि न उक्तम्। 

इतः पूर्वमपि राजस्थानराज्यस्य बारमर् जिल्लायां तादृशं वस्तुं व्योमसैन्याय लब्धमस्ति। तत् अधिकृत्य प्रतिरोधमन्त्रालयः पाकिस्थानं प्रति सूचना प्रेषिता आसीत्।

राष्ट्रस्य आर्थिकाभिवृद्धिः ७- ७.५% ।

नवदिल्ली - भारतस्य आर्थिकवृद्धेः अनुपात ७ - ७.५% अस्तीति आर्थिक समग्र वीक्षणावेदनपत्रे प्रस्तूयते। आवेदनपत्रं धनमन्त्रिणा अरुण् जय्टली वर्येण संसदि समर्पितम्। राष्ट्रस्य संपत्मण्डले शुभ प्रतिक्षामावहति आवेदनपत्रम्। कार्षिकमण्डले समग्रं परिष्करणं निर्दिशति ।

Thursday, February 25, 2016

भारतस्य प्रथमा अन्तर्वाहिनीनौका सज्जा।

नवदिल्ली > भारतेन स्वयं निर्मिता  प्रथमा आणव अन्तर्वाहिनीनौका अरिहन्तः युद्धाय सज्जः अभवत्‌। इतः पर्यन्तम् अनेकेषु सागरान्तर्गतपरिशीलनेषु आयुधपरीक्षासु च विजयीभूतः विलम्बं विना सैन्यस्य भागः भविष्यति।

भारतेन स्वयं निर्मित: अरिहन्ता अस्माभिः निर्मितेषु पञ्चसु अन्तर्वाहिनी नौकासु प्रथमा एव। अस्यां ७०० कि.मी.मितिपर्यन्तं गम्यमानम् पञ्चदश हृस्वदूरमिसैल् शस्त्राणि ३५०० कि. पर्यन्तम् गम्यमानं K४ बालिसिटक् मिसैल् शस्राणि च योक्ष्यन्ते ।

अरिहन्ततः बृहदाकारका द्वे अन्तर्वाहिन्यौ विशाखपट्टणस्य महानौका निर्माणशालायां निर्माणे स्तः। ६००० टण् भारमितः अरिह्न्ता १११ मिट्टर् दीर्घः भवति ।

एछ्.एल्. दत्तुः मानवीयाधिकारसमित्याः अध्यक्षः।

नवदिल्ली - सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः न्याया. एछ् एल् दत्तुः भारतस्य मानवीयाधिकारसमित्याः अध्यक्षरूपेण निर्णीतः। के जि बालकृष्णस्य विरमणानन्तरं अष्ट मासं यावत् तत्स्थानं रिक्तमासीत्।

राष्ट्रिय-संस्कृत-संस्थानस्य नाट्य-महोत्सवः आरब्धः।

नव दिल्ली > राष्ट्रिय-संस्कृत-संस्थानस्य त्रयोदशः, त्रिदिवसात्मकः संस्कृत-नाट्य-महोत्सवः ह्यः नवदिल्ल्यां महता समारम्भेण आरब्धः | अशेषदेशस्य विभिन्नेषु राज्येषु व्यापृतैः एकादश-परिसरैः संयुतोऽयं राष्ट्रिय-मूल्याङ्कन-प्रत्यायन-परिषदा 'ए'-श्रेण्या प्रत्यायितः मानित-विश्वविद्यालयः प्रतिवर्षं संस्कृत-नाट्य-महोत्सवम् आयोजयति यो हि अन्तःपरिसरीय-संस्कृत-नाट्य-स्पर्धात्वेन छात्रेषु अतितरां प्रियोsस्ति | नाना-परिसरीयाः ज्येष्ठाः कनिष्ठाश्च छात्राः छात्र्यश्च रङ्गकर्मणि सोत्साहं सहभागित्वम् आवहन्ति- इति नूनं संस्कृत-वाङ्मयस्य कृते संस्कृत-नाट्य-शास्त्रीय-परम्पराणां कृते च शुभसङ्केतत्वेन परिगणयितुं शक्यते | अद्य उद्घाटनानुवर्ती पूर्वरङ्गः अतितरां रमणीयः नयनानन्द-दायकः सहृदयावर्जकश्च सिद्धः | अद्य प्रदर्शितेषु प्रहसनेषु जम्मू-कश्मीरस्थस्य श्रीरणवीरपरिसरस्य "लटकमेलकम्", त्रिपुराराज्यीय- अगरतलास्थस्य एकलव्य-परिसरस्य "वञ्चक-पञ्चकम्", हिमाचलप्रदेशस्य बलाहरस्थस्य श्रीवेदव्यासस्य "कुहनाभैक्षवम्" चान्यतमानि सन्ति |ऐषमः संस्कृत-नाट्य-महोत्सवस्य विषयोsस्ति - प्रहसनम् |  अद्य श्वश्च अपराणि अष्टौ प्रहसनानि अत्र प्रदर्शयिष्यन्ते | पूर्वेद्युः [ २३-फेब्रुआरि-दिने] संस्कृत-नाट्य-महोत्सव-विषयकं वार्त्ताहर-सम्मेलनं सुख्याते "प्रेस-क्लब"- इति स्थले सम्पन्नम् | अत्र वार्ताहरान् सम्बोधयन् संस्थानस्य कुलपतिः आचार्यः परमेश्वर-नारायण-शास्त्री संस्कृतस्य प्रचार-प्रसारार्थं विधीयमानानि कार्याणि विस्तरेण विशदीकृतवान्।

समराणां प्रक्षोभाणाम् आधारे सार्वजनीनद्रव्याणि नाशयितुं न अनुज्ञायते।

नवदिल्ली > राष्ट्रे विद्यमानानां समराणां प्रक्षोभाणाम् आधारे सार्वजनीनद्रव्याणि नाशयितुं यं कमपि न अनुज्ञायते इति सर्वोच्चन्यायालयेन आदिष्टम्। एतादृशान् विरुद्ध्य कर्कशव्यवस्थाः विधास्यन्ते। सार्वजनीनद्रव्यनाशकान् दण्डयितुं मानदण्डान् सज्जीकरिष्यन्ते इति न्याय. जे एस् खेर् वर्यस्य अध्यक्ष्यत्वेन न्यायासनेन स्पष्टीकृतम्।
  हर्दिक् पटेलस्य नेतृत्वे प्रचालिते प्रक्षोभे सम्पन्ने द्रव्यनाशे न्यायालयेन आशङ्का उल्लेखिता।

Wednesday, February 24, 2016


संवादः अस्तु; स्तंभनं मास्तु - राष्ट्रपतिः।

नव दिल्ली >जनकीयविषयेपु आरोग्यपूर्णः संवादः समीचीनमस्ति; कुतर्कः सभास्तंभनमित्यादिकम् अनभिलषणीयमिति राष्ट्रपतिः प्रणब् मुखर्जी उद्बोधयत्। भारतीयसंसदः सभाद्वयम् अभिसंबोधयन्नासीत् मुखर्जीवर्यः। आयव्ययपत्रम् अस्मिन् सम्मेलने अवतारयिष्यते। रेल्यानपत्रं २५ दिनाङ्के सार्वजनीनपत्रं २९ तम दिनाङ्के च अवतरिष्यते।

तमिळ् नाटुराज्ये १० विपक्षसामाजिकाः जयललितया सही

चेन्नै > राज्ये दश विपक्षसामाजिकाः त्यागपत्रं समर्प्य जयललितायाः ए ऐ ए डि एम् के दलेन सह युक्तवन्तः। विजयकान्तस्य डिएंडिके दलात् ८ सामाजिकानां त्यागपत्रसमर्पणात् तस्य विपक्षनेतृस्थानं विनष्टम्। तान् विना पुतिय तमिष़कं पिएंके दलाभ्याम् एकैकः अपि शासनपक्षे युक्तः।
कस्यापि दलस्य विपक्षनेतृस्थानाय अर्हता नास्ति इदानीम्।

द्वितीयलोकमहायुद्धदृश्यानि देशीयचलच्चित्रशेखरे। 

मुंबई >द्वितीये विश्वमहायुद्धे भारतीयसैन्यस्य अपूर्वाणि युद्धदृश्यानि देशीय फिलिम् आर्कैव्स् आफ् इन्डिया  संस्थायै दत्तानि। भारतसैन्यस्य सकाशात् ३० घण्डापरिमितदैर्घ्ययुक्तानि  दृश्यानि एव पूनास्थितायै एन् एफ् ए ऐ संस्थायै दत्तानि। महात्मा गान्धी सर्दार् पट्टेलः मुहम्मदालि जिन्ना इत्यदीनां नेतृजनानाम् अपूर्वदृश्यानि च अत्र अन्तर्भवन्ति।

एकस्मै रेल्यानाय नवषष्टि वर्षस्य  प्रतीक्षा।

नवदिल्ली > भारतं स्वतन्त्रतां प्राप्य नवषष्टि वर्षाणि अतीतानि। किन्तु आसां राज्ये विद्यमान बंग्लादेश् राष्ट्रस्य सीमाप्रान्तेषु वासमानेभ्यः जनेभ्यः ऎदंप्राथम्येन ह्यः नूतनमेकं रेल्यानम् प्राप्नोत्। सिल्च्चर् - नवदेहली-पूर्वोत्तर-सम्पर्ककान्ति एक्स्प्रेस इति नाम्ना प्रथितं रेल्यानम् रेल्यानविभागस्य मन्त्रीणा श्री सुरेष्प्रभुणा स्वस्य  इच्छया,प्रयत्नेन च सफलीकृतः। रेल्यानमिदं रेल्यानमन्त्रालयस्य चरित्रे सुवर्णाक्षरैः रेखयति एव।
कचार् इति कथ्यमान भारतस्य सीमामण्डलात् राष्ट्रस्य राजधानीं नवदेहलीं प्राप्तुं एतावता रेल्यानस्य सेवनं नासीत्। प्रदेशोfयं प्रसिद्धः प्रधानश्चास्ति इति आश्चर्य सत्य विषयः त्रिपुरा,मणिप्पूर्,मिसोरां,एतेषां त्रयाणां राज्यानां प्रवेशनमार्गः भवति एषः प्रदेशः। स्वतन्त्रतान्तोलने एतस्मात् प्रदेशात् बहूनां भागभागित्वमासीदिति श्रद्धेयः विषयः। तथापि कस्मात् एतावत्कालं रेल्यानस्य अभाव‌ इति प्रश्ने सति सर्वे मौनं भजन्ति।
ह्यः सिल्च्चल् रेल्याननिस्थानकात् केन्द्रमन्त्रिणा सुरेष्प्रभुणा यानस्यास्य प्रथमयात्रायै हरितपताकां प्रदर्श्य अनुमतिं अयच्छत।
२०२० तमे वर्षे भारतस्य पूर्वोत्तर राज्येभ्यः नवदेहल्यै रेल्यानानां यात्रा आरभ्यते इति प्रभुणा स्पष्टं  सूचितम्। २०१७-१९ वर्षेभ्यः आसां, मणिप्पूर्, अरुणाचल्प्रदेश्,त्रिपुरा राज्येभ्यः बोड्गेज् रेल् सर्क्यूट् भविष्यति  इत्यपि तेन प्रख्यापितम्।
भारते रेल्यानविभागस्य विकसनस्य प्रत्यक्षोदाहरणमेव एतत्। एते निर्णयाः भारतीय रेल्यानविभागस्य मकुटे सुवर्णाक्षरत्वेन रेखयति।


यु.एस्.राष्ट्रोपरि रष्यायाः डयनम्। 

वाषिड़्टण् > अत्याधुनीक डिजिट्टल् छायाग्रहण्या सह रष्यायाः विमानं यु.एस् राष्ट्रस्य उपरि उड्डयितुम् अनुज्ञां प्राप्तुं श्रमं करिष्यति। चतुस्त्रिंशत् (३४)राष्ट्रेण  संयुक्ततया  हस्ताक्षरं कृतं भवति  "सार्वजनिक -आकाशसन्धिं " रष्या- यु एस् राष्ट्रयोः भागभागित्वेन भवतः।  किन्तु निरीक्षणविमानडयनाय रष्याराष्ट्रं प्रति अनुमतिं ददाति चेत् यु.एस् राष्ट्रस्य रहस्यनि ज्ञातुम् उपकारकं भवेत् इति यु.एस् राष्ट्रस्य रहस्यान्वेषणवृन्तेन शासनाधिकारिण: निर्देशं दत्तः। ये राष्ट्राः सन्धौ  हस्ताक्षरं कृतवन्तः तेषां राष्ट्स्योपरि , आयुधं विना डयनाय, उपकारकाणि विज्ञापनानि दानाय च अनुमति: अनया आकाशसन्धिना लब्धः। किन्तु रष्याराष्ट्रः नूतनसाड़्केतिकविद्यया तेषां स्वार्थे प्रयोगं करिष्यति इत्यनेन  विरुद्धफलप्राप्तिः एव भविष्यतीति यु.एस् रहस्यविभागस्य शड़्का ।
ईजिप्ते चतुर्वयस्काय जीवनपर्यन्तं दण्डः।
कैरो> ईजिप्ते कैरो न्यायालये सङ्कलिते दण्डनीयानां पट्टिकायां चतुर्वयस्कः बालकः च । तस्मिन् आरोपितः दोषः तु हत्या' सम्पदः नाशः, समाधानान्तरीक्षस्य नाशः च । अस्वाभाविक दोषारोपः एते दोषाः अनेन प्रथमे वयसि कृतः। कैरो सैन्यस्य न्यायालयेन निर्मिता इयं पट्टिका ।

अहम्मद् मसूर् कोरानि नामकस्य बालकस्य दुरवस्थेयम्। एकस्मिन् दिने आरक्षकाः कोरानिम् अन्विष्य गृहमागताः। तैः अन्विष्यमाणः दोषी चतुर्थवयस्कः बालकः इति तस्य पिता अवदत्। किन्तु अस्मान् अवहेळयति वा इत्युक्वा बालकस्य पितरं चतुर्मासपर्यन्तं आरक्षकालये कारायां बबन्ध। ततः सः निरपराधी ज्ञात्वा अमुञ्चत। पुनः तेन पिता नियमज्ञस्य साहायेन जन्मतिथेः प्रमाणपत्रं न्यायालये अददात्। तथापि न्यायाधिपः तत् नागणयत् ।

इदानीं विषयः जनकीयविद्युत् माध्यमेषु प्रचलितः आसीत् । सैनिकन्यायालयस्य पट्टिकाकरण-प्रक्रियायां जातः त्रुटिः एव इति कैरोसैनिकाधिकारिणा उक्तम्। २०१४ तमे वर्षो ११६ दोषिणां पट्टिका एव न्यायालयेन पञ्चीकृता। रेखानुसारं  अहम्मद्अन् सूरस्य एकवयस्कः एव।




Tuesday, February 23, 2016

पौराणिक -वैज्ञानिक अध्ययनाय ऐ. ऐ. टि मध्ये संस्कृतविभागः ।


नवदिल्ली > पौराणिक-विज्ञान-अध्ययनाय  केन्द्रसर्वकारस्य शैक्षिकसंस्थासु प्रत्येकविभागः आरभते। शैक्षिक मन्त्रालयेन नियुक्तः एन्‌ . गोपालस्वामी ऐ.ए.एस् वर्यस्य अध्यक्षत्वेन आसीनः समित्या एव निर्दिष्टः।

भुवपूर्व प्रधानमन्त्रिणा ए.बी वाज् पेयी महोदयेन आरब्धा पद्धतिरासीदियम् ।
संस्कृत भाषायाः संवर्धनमुद्दिश्य दशवर्षाणां कृते इदानीम् आयोजितः अस्ति ।
विश्वविद्यालयेषु ऐच्छिकरूपेण पठतुं तथा छात्रवृत्तिः दातुं चं समित्या निर्दिष्टः अस्ति।

यू.जि.सि तलेषु संस्कृतं ऐच्छिक रूपेण स्वीकर्तुं अन्यैः विषयैः सह समन्वयितुं च 'कम्मीषनेन' निर्दिष्टम्। संस्कृत-साहित्यस्य वैज्ञानिकाध्ययनं सुगमया रीत्या निर्वोढुं, विविधान् आधुनिकान् विषयान् इव संस्कृत साहित्ये विद्यमानानाम् अनुसन्धानाय एव ' सेल्ल' ।

योगाभ्यासे विश्वासम् अर्पयित्वा वियट्नाम्।

हिनोयि >  युद्धेन विनष्टं जनानाम् आरोग्यं योगाभ्यासेन संप्राप्तुं शक्यते इति वियट्नाम् । जनाः सर्वे योगाध्ययने संप्रीताः विशिष्य महिलाः अपि। यु.एन् संस्थायाः निर्देशमनुसृत्य वियट्नां राष्ट्रे कृतस्य योगदिनाचरणस्य अनन्तरफलमेव एतत्।

गतवर्षे जूण् मासस्य 21 तमे दिनाड़्के योगदिनत्वेन आचरितेस्मिन् समये राष्ट्रस्य दश प्रविश्यायां परिशीलनं आयोजितवन्तः। रोगनिवारणाय योगः पर्याप्तः भवतीति ज्ञानमेव योगपरिशीलनायोजनस्य कारणम्। युद्धेन विनष्टम् शारीरिक -मानसिकारोग्यस्य दृढीकरणाय उत्तमौषधं भवति योगाध्ययनमिति परिशीलकैः अभिप्रयन्ति।

यद्यपि पूर्वकालादारभ्य विविधेषु राष्ट्रेषु योगशिक्षणमासन् तथापि गतवर्षस्य योगदिनाचरणेनैेव नूतनान्दोलनं जातम् । आरोग्यकार्ये तथा आकारसौष्टवे च श्रद्धालवः भवन्ति वियट्नां जनाः। अनेके भारतीय-योगाचार्याः इदानीम् आचार्यरूपेण वियट्नां देशं प्राप्ताः।

काश्मीरे त्रयः भीकराः हताः।

श्रीनगरं - त्रयदिनात्मकस्य संघट्टनस्य अन्ते जम्मु कश्मीर पांपोर् प्रदेशे भवने निलीयमानाः त्रयोपि भीकराः सैन्येन हताः। तेषां मृतशरीराणि ह्यः दृष्टानि। सैनिककार्यक्रमाः समाप्ताः।
लष्कर् इ तोय्बा प्रवर्तकाः भवन्ति भीकरा इति सि आर् पि एफ् निर्देशकः प्रकाश् मिश्रा अवदत्।

Monday, February 22, 2016

राष्ट्रियसङ्‌गोष्ठी 25, 26 दिनाङ्कयोः बालुश्शेरिदेशे

बालुशेरि (केरळम्) > राष्ट्रिय संस्कृतसंस्थानस्य ( डीम्ड् यूनिवेर्सिट्टी न्यूदिल्ली ) साहाय्येन सह,  बालुशशेरी देशे कालिकट्  आदर्शसंस्कृतविद्यापीठे 25,26 दिनाड़्कयोः साहित्य वेदान्त योगादिषु द्विदिन संगोष्ठी सज्जीकरिष्यति इति  आयोजकैः उक्तम् । राष्ट्रपतेः संस्कृतपण्डित जेत्रा, संस्कृत विद्यापीठं प्रबन्धकसमित्याः कार्यकर्त्रा  वराहं चन्द्रशेखरन् नायर् महोदयेन मेलनस्य उद्धाटनं करिष्यति । विविधेषु विषयेषु चेनै कृष्णमाचार्य, योगामन्तिरस्य डयरक्टर् डा. एम् जयरामन् ,पय्यनूर् सर्वकारीय विश्वविद्यालयात् विरमितः प्रोफ. पि मनोहरन्,  कालटी श्री शड़्कराचार्य संस्कृत विश्वविद्यलयात् निवृत्तः प्रोफ. के.पि श्रीदेवी,  शृंगेरी राजीव् गान्धी कांबस् उपदेशक विभागाध्यक्षः प्रोफ.महाबलेश्वर् पि.भट् , कालटी श्री शड़्काराचार्य संस्कृत विश्वविद्यालयस्य प्रोफ.वि वसन्तकुमारी इत्यादः  प्रबन्धावतरणं करिष्यन्ति । बिरुदानन्दर छात्राः, गवेषकछात्राः च प्रबन्धावतरणं करिष्यन्ति।

नेप्पाल् राष्ट्रस्य पुनर्नवीकरणाय भारतस्य धनसाहाय्यम्।

भूकम्पेन क्षयित नेप्पाल् राष्ट्रस्य पुनर्नवीकरणाय पञ्चविंशति यू.एस्.डोलर् सहायकत्वेन भारतं दास्यति। नेप्पाल्  प्रधानमन्त्रिणः भारतसन्दर्शने एव धनसहायः प्रख्यापितः।
नूतन नेप्पाल् भारत रेल्मार्गः,ऊर्जस्य तथा मार्गस्य च विकासाय परस्पर साहायश्च भविष्यति।

Sunday, February 21, 2016

जाट्ट् प्रक्षोभाग्निः - हरियानायां ५ हताः।
नवदिल्ली - आरक्षणविषये जाट्समुदायगतैः क्रियमाणः प्रक्षोभः अनियन्त्रितरीत्या अक्रमासक्तः अभवत्। सुरक्षाकार्यकर्तृभिः ५ प्रक्षोभकाः हताः। प्रक्षोभरूक्षितेषु ९ जनपदेषु स्थितिनियन्त्रणाय सैन्यस्य साहाय्यम् अपेक्षितम्। रोथक्, भिवानि जनपदयोः सैनिकाः पथसञ्चलनं कृतवन्तः। प्रक्षोभकैः सर्वकारस्थापनानि अग्निसात्कृतानि। रेल्यानसहितं सर्वाणि गतागतानि स्थगितानि। जनजीवनं दुस्सह अभवत्। जट्समुदायगतान् सर्वान् ओ बि सि विभागे अन्तर्भावयितुमेव प्रक्षोभः कल्पितः।

संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतम्।
  1. नवदिल्ली >"दिल्ली-विश्वविद्यालयस्य दक्षिण-परिसरस्थस्य श्रीमोतीलाल-नेहरू-महाविद्यालयस्य संस्कृत-विभागेन आयोजिते एकस्मिन् संस्कृत-कार्यक्रमे बहुविधाः प्रकल्पाः समुपकल्पिताः|कार्यक्रमारम्भे जवाहरलाल-नेहरुविश्वविद्यालयस्य संस्कृताध्ययन-विशिष्ट-केन्द्रस्य अध्यक्षेण प्राचार्येण गिरीशनाथ-झा-वर्येण पी-पी-टी-माध्यमेन संगणकीय-भाषाविज्ञान-क्षेत्रे संस्कृतमाधृत्य विधीयमानानि कार्याणि विशदीकृतानि | अवसरेsस्मिन् तेन एतदपि प्रदर्शितं यत् न केवलं भारतीय-भाषाणाम् , अपि च, कासाञ्चन योरोपीय-भाषाणामपि पोषिकास्ति पाणिनीया संस्कृत-भाषा | आधुनिकं संगणकीय-भाषाविज्ञानं साम्प्रतं सन्दर्भेsस्मिन् अनेकाः शोध-परियोजनाः अङ्गीकृत्य सुबहूनि कार्याणि विदधाति | एतदनु स्पर्धा-द्वयं [श्लोकोच्चारणं प्रश्नमन्चेति] सम्पन्नम्, ययोः विभिन्न-महाविद्यालयीयच्छात्रैः छात्रीभिश्च सोत्साहं सहभागित्वं निर्व्यूढम् | निर्णायक-त्रयेण [बलदेवानन्द-सागर-पंकजमिश्र-विकासेति] स्पर्धाद्वयस्य निर्णायक-भूमिका अनुष्ठिता | समग्रमपि कार्यक्रम-संयोजनं डो.कौशल्या-महाभागया सुष्ठुतया सम्पादितम् |"

Saturday, February 20, 2016

कौतुकवार्ताः
भगवतः हनुमतः उपस्थितिरावश्यकः - न्यायालयः।

बीहारुराज्यस्य रोह्तास् मण्डलस्य न्यायाधिपेन गतसप्ताहे अतिविशिष्टामेकाम् आज्ञां प्रख्यापिता। भगवतः हनुमतः साक्षादुपस्थितिः न्यायालये भवेदिति न्यायाधिपेन उद्घोषिता। मार्गविस्ताराय   हनुमान्मन्दिरस्य पतनं कारणीयम् इति राज्यमार्गसंरक्षणविभागेन दत्ते दूषणे एव इयमाज्ञा प्रख्यापिता।मार्गस्य उपघातेनैव पञ्चमुख शिलायाः उपस्थितिः इत्यस्मात् शिलायाः पतनेनैव मार्गस्य विस्तारः साध्यः इति  मार्गसंरक्षणविभागेन न्यायालये व्यवह्रतम्।
समाना एका आज्ञा बहु सरास् मण्डलस्य न्यायालयेनापि पूर्वं प्रख्यापिता आसीत्।
वंगदेशे सख्यं नास्ति; समञ्जनमस्तु। 

नवदिल्ली > वंगदेशे नियमसभानिर्वाचने सिपिएम् दलस्य कोण्ग्रस् दलेन सह सख्यस्य  अनुमतिः न लब्धा। किन्तु प्रादेशिकतले समञ्जनरूपेण निर्वाचनतन्त्रं प्रयोक्तुम् अङ्गीकारः लब्धः। द्विदिनात्मिकया केन्द्रसमित्या अयं निर्णयः कृतः।
एतदर्थं वंगदेशे तृणमूलसर्वकारं बहिष्कर्तुं भाजपादलं पृथक्कर्तुं च जनकीयदलं प्रख्यापितम्

अरुणाचलप्रदेशे नूतनसर्वकाराय मार्गः व्यक्तः। 

नवदिल्ली > राष्ट्रपतिशासनं वर्तमाने अरुणाचल्प्रदेशे नूतनसर्वकाररूपवत्करणकार्यविधिं विरुद्ध्य स्वीकृताम् अभिवृत्तिं सर्वोच्चन्यायालयः  निराकुरुत। एतेन तत्र नूतनसर्वकाराय मार्गः प्रकाशितः।
अरुणाचलप्रदेशे राष्ट्रपतिशासनं निराकर्तुं राष्ट्रपतिं न्यवेदयितुं केन्द्रमन्त्रिसभया निश्चितमासीत्। कोण्ग्रस्दलविमतस्य कलिखो पुलस्य नेतृत्वे सर्वकाररूपवत्करणाय प्रयत्न एव अरुणाचले वर्तते।

अन्तर्जाल-राष्ट्रिय- कार्षिकविपणिः एप्रिल् १४ दिनाङ्के।

सेहोर् (मध्यप्रदेशम्) > राज्येषु सर्वत्र उत्तमगुणयुक्तानि कार्षिकोत्पन्नानि विक्रयणाय केन्द्रसर्वकारेण आयोजिता अन्त्रर्जालविपणिः एप्रिल् मासस्य १४ दिनाङ्के आरप्स्यते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रख्यापितः। विविधकार्षिकक्षेम पद्धति द्वारा २०२२ वर्षात् पूर्वं कृषकाणां आयः द्विगुणितम् भविष्यति। विविधानां राज्यानां ५८५ कार्षिक वितरणकेन्द्रान् अन्तर्जालेन बद्ध्वा जंगमदूरवाणी द्वारा अधिक मूल्यम् यत्र लभते तत्र विक्रयणस्य संविधानं भवति एतत् I वर्षद्वयाभ्यन्तरे एतस्य प्रथमघट्टस्य पूर्तिः भविष्यति ।

पट्याल न्यायालयं प्रति अभिभाषकानां पथसञ्चलनम्। 

  नव दिल्ली >उच्चोत्तर न्यायालयस्य निदेशान् विगणयन् पाट्याल  न्यायालयं प्रति अभिभाषकाः प्रतिषेध-पथसञ्चलनम् कृत बन्तः I गतदिने न्यायालय चत्वरे जायमाने घटनायाः कारणभूतस्य अभिभाषकस्य नेतृत्वे एव प्रकटनम् अभवत् । तस्मिन् समये न्यायालय: एस् ए आर् गीलानेः जाम्यावेदनं परिगणयन् आसीत्। प१चात् आवेदनं निरस्तम्। भारतविरुद्धमुद्रावाक्यघोषणमेव गीलाने: उपरि आरोपितः दोष: ।
भारत विरुद्ध संघानां प्रवर्तना नि निरोधनी यानि, जे एन् यु पिध !, जे एन् यु कृते दीय मानं साहाय्यादि कं निरोधनीयम, जे एन् यु मध्ये राष्ट्रद्रोहप्रवर्तनानि एव सन्ति इत्यादीनि प्रधानमुद्रावाक्यानि आसन् । मुद्रावाक्यानि उद्‌घोषयन् अभिभाषकाः न्यायालयस्य पुरतः प्रतिषेधं अकुर्वन् । समुचितरीत्या नीतिनिर्वहणाय अभिभाषकाः एतादृशप्रर्वतनेभ्यः प्रतिनिवर्तनीया: भवेयुः इति गतदिने न्यायालयेन अभिप्रेतम्  आसीत्। अभिभाषका: प्रकोपनपरान् अभिप्रायान् मा कुर्यु: इत्यपि न्यायालयेन सूचितमासीत् । किन्तु एतत्सर्वं निराकृत्य एव अभिभाषकैः प्रतिषेध: कृतः ।

अरुणाचले नवीनमन्त्रिसभायाः अधिकारप्राप्तिः। 

इट्टानगरं >अरुणाचल्प्रदेश् राज्ये कोण्ग्रस् दलस्य विमतपक्षनेता कलिखो पुल् नूतनमुख्यमन्त्रिरूपेण अधिकारं प्राप्तवान् । केन्द्रमन्त्रिसभायाः आदेशानुसारं ह्यः राष्ट्रपतिशासनं निराकृतमासीत्  ।
 ६०अङ्गयुक्तसभायां कोण्.विमतैः भाजपासामाजिकैः सहितं ३१ सामाजिकानां समर्थनं कलिखोवर्याय अस्ति।

शोभनपचनवातकपद्धतेः अद्य शुभारम्भः । 

कोच्ची > नालिकया गृहाणि प्रति पचनवातकं प्राप्यमाणा शोभनपचनवातकपद्धतिः (स्मार्ट् ग्यास्) नामिका सिटि ग्यास् पद्धतिः दक्षिणभारते इदंप्रथमतया अद्य प्रारभते। कलमश्शेरी सर्वकारीयारोग्य कलालये केरलमुख्यमन्त्रिणा उम्मन् चाण्टिवर्येण उद्घाटनं क्रियते।
इन्ड्यन् ओयिल् कोर्परेषन् तथा अदानि ग्यास् च मिलित्वा संरम्भः ऐ ओ ए जि कम्पनी अस्ति अस्य प्रायोजकाः।
  दंडगोलपचनवातकमपेक्ष्य सुरक्षितमस्ति नालिकावातकम्। तथा न्यूनमूल्यं च भवति।

Friday, February 19, 2016

वन्दे संस्कृतमातरम् ।

मुल्लकर रत्नाकरः संस्कृताध्यापक समितेः समापनसभा प्रौढ-गंभीरभाषाणेन उद्घाटति।



विवाद द्वीपे चैनाया: मिसैल् विन्यासः ।


बैजिङ् >दक्षिणचैनासमुद्रस्य वुडिनामके विवाद द्वीपे चैना दीर्घदूर विमानवेधमिसैल् अस्थापयत् ।
अष्टमिसैल् शस्त्राणि रडार् सौकर्यं च अस्थापयत् इति उपग्रहचित्रेभ्यः व्यक्तमिति पाश्चात्यमाध्यमैः सूचितम्। मेखलायाः सीमाविषयिकतर्कस्य परिहाराय कियाविधि: स्वीकरणीया इति अमेरिकायाः राष्ट्रपतिना बराक् ओबामया पूर्वम् अभिप्रेतम् आसीत्I ततः अग्रिमदिने एव चैना २०० कि .मि पर्यन्तं आक्रमणयोग्यानि मिसेल्शस्त्राणि अस्थापयत् । किन्तु चैनया आरोपणमिदं निरस्तम्।

दक्षिणकोरियाराष्ट्रम् आक्रमितुं सज्जा भवेत्- किं जोड़्ड़्

सोल > दक्षिण कोरियाराष्ट्रस्य आक्रमणाय सज्जा करोतु इति उत्तरकोरियाराष्ट्रस्य एकाधिपतिः
किं जोड़्ड़् उन् नेन व्यक्तः इति दक्षिणकोरियाराष्ट्रस्य गोप्यसंघस्य विज्ञापनः । अण्वायुध परीक्षणात्परम् उत्तरकोरियराष्ट्रस्य गूढचर्चायां उपस्थितः सेनूरिसंस्थानेतेन व्यक्तः इयं वार्ता।
किं जोड़स्य आज्ञानुसृत्य तस्य गोप्यसंस्थाः, दक्षिणकोरियाराष्ट्रं प्रति      सैबर् आक्रमणं कर्तुं सुसज्जा भवेत् इति  विज्ञापनः।
उत्तरकोरिया इतपरं  दक्षिणकोरियां प्रति आक्रमणं कृतः । किन्तु उत्तरकोरियाराष्ट्रस्य पद्वतिः किमिति वक्तुं न शक्यते। पद्धतिमधिकृत्य किमपि  स्पष्टीकृतः सेनूरि वक्तेन । कोरियाद्वयाणां स्वस्थजीवनाय प्रेरणा कृतः। नो चेत् युद्धाय सज्जा भवेत् इति उत्तरकोरिया एकाधिपतिना अवदत्। उत्तरकोरियायाः हैट्रजन् बोंब् प्रयोगस्य निरोधनप्रचरणात्परम् च दक्षिणकोरियेन बहवः कोलाहलः अस्ति चेत् युद्धमेव फलमिति उत्तरकोरियायाः भीषणिः ।

 राष्ट्रप्रेममभिवर्धयितुं केन्द्रसर्वकारः ;विश्वविद्यालयेषु देशीयपताका उन्नेतव्या।

नवदिल्ली  युवकेषु राष्ट्रप्रेमम् अभिवर्धयितुं विश्वविद्यालयेषु राष्ट्रपताका निश्चयेन उन्नेतव्या इति केन्द्रसर्वकारस्य निर्देशः।४६ विद्यालयानां उपकुलपतिभिः साकं मानवशेषिविभवमन्त्रिणी स्मृति इरान्या कृतायां चर्चायामयं निर्णयः। २०७ पादपरिमितं ध्वजं संस्थाप्य तस्मिन् पताका उन्नेतव्या।
जेएन् यू विश्वविद्यालये भारतविरुद्धमुद्रावाक्यघोषणानन्तरं सञ्जातेषु विषयेषु रजधानीनगरे प्रक्षुब्धे एव केन्द्रसर्वकारस्य अयं निश्चयः।

Thursday, February 18, 2016

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनम् आरब्धम्।

कविना गिरीष्पुलियूर् महोदयेन  कृतम् मुख्यभाषणम् । 'संस्कृताभिमानिनः भाषणम्‌'
कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करोति।

१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनम् अकरोत्। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनम् अकरोत्। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि अभवन्।
६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति। नियमसभासामाजिकः मुल्लक्कर रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

काश्मीरदेशस्य स्वतन्त्रतायै जावद्पूर् विश्वविद्यालये भित्तिपत्रिकाः

कोलक्कता >   अफ्सल् गुरुम् अनकूल्य मुद्रावाक्यानन्तरं जावद् विश्वविद्यालये  काश्मीरस्य मणिपूरस्य नागालान्डस्य च स्वतन्त्रतायै  भित्तिपत्रिकाः। "काश्मीरस्य स्वतन्त्रता, मणिपूरस्य स्वतन्त्रता, नागालान्टस्य स्वतन्त्रता वयं इच्छामः" इत्यस्ति पत्रिकायाम्। भित्तिपत्रिकाः सर्वे ' राडिक्कल्' इति नाम्ना भवति।
किन्तु अस्यां घटनायां भागभागित्वं न भवेत् इति विविधैः विद्यार्थि दलैः उक्तम्। विश्वविद्यालये  अनिष्टघटनामधिकृत्य छात्रसंघानां नेतृभिः सह  उप कुलपतिः चर्चां कृतवान्। ह्यः कलालये अफ्सल्गुरुम् अनुकूल्य छात्रैः मुद्रवाक्यानि उक्तानि। विषयेऽस्मिन्  रक्षीपुरुषाणां साहाय्यं विना  परिहारः करिष्यते इति  उप कुलपतिना उक्तम्।

रष्यायाः मिसैल् आक्रमणेन मृतानां संख्या ५०

अमान् > आभ्यन्तर युद्धेन दूयमानायां सिरियायां रष्यायायाः मिसैल्आक्रमणेन पञ्चाशत् जनाः मृताः। मृतेषु सामान्यजनाः आतुरालयस्य उद्योगिनः च सान्ति। अलेप्पो,असास् नगरयोः द्वौ विद्यालयौ, पञ्च आतुरालयाः च भग्ना: .। ऐक्यराष्ट्रसभया इदं कृत्यम् अपलपितम्। राज्यान्तर-नियमस्य लङ्घनमेवेदम् इति अभिप्रेति च। अस्माभिः भीकराः लक्षीकृताः न सामान्यजनाः इति रष्यया उच्यते।
साहिती-पुरस्काराः वितरिताः
  
भारतस्य सुख्यातया सारस्वत-संस्थया साहित्य-अकादम्या विभिन्न-भारतीय-भाषाभ्यः प्रतिवर्षं प्रदीयमानाः ऐषमः स्वीयाः  साहित्यिक-पुरस्काराः चितेभ्यः कवि-लेखकेभ्यः नवदिल्ल्यां  अद्य वितरिताः | एतेषु चितेषु अन्यतमेन  संस्कृत-कविलेखकेन  डो.रामशंकर-अवस्थि-वर्येण साकं प्रतिपक्षं [मासस्य प्रथमे तृतीये च शनिवासरे] रात्रौ सार्ध-नववादने दिल्ल्यां राजधानी-वाहिकातः [ ६६६किलो-हर्त्टज्-मित्या ] प्रसार्यमाणस्य अर्धहोरावधिकस्य “संस्कृत-सौरभम्”-इति श्रव्य-पत्रिका-कार्यक्रमस्य कृते अद्य साक्षात्सम्भाषणस्य ध्वन्यंकनं सम्पन्नम् | अत्र साक्षात्-सम्भाषमाणः संस्कृत-कविलेखकः   डो.रामशंकर-अवस्थि-वर्यः अब्रवीत् यत् संस्कृत-विद्यायाः समुपासकोsसौ भगवत्याः सीतायाः अनुकम्पया कविकौशलं बिभर्ति | असौ "वनदेवी" इति स्वीय-संस्कृत-महाकाव्यस्य कृते पुरस्कारमेनम् अलभत | स्वीय-महाकाव्ये तेन भगवती सीता "वनदेवी"-रूपेणप्रतिष्ठापितास्ति | कार्यक्रम-संचालकेन डो.बलदेवानन्द-सागरेण पृष्टः अवस्थि-महोदयः न्यगादीत् यत् पारम्परिक-पद्धत्या नाधीतोऽपि सः सारल्येन भगवत्याः अनुग्रहेण कवयितुं पारयति |
कार्यक्रमोsयं फ़रवरी-मासस्य विन्शे दिनाङ्के शनिवासरे [ २०-०२-२०१६ ] रात्रौ सार्धनववादने श्रोतुं शक्यते |

प्राणसङ्कटे अपि अवयवदानसन्नद्धः युवकः।

बंगलुरु >दुर्घटनायां मृतप्रायः अपि बंगलुरु तुमाकुरु स्वदेशीयः हरीष् नञ्चप्पः प्राणरक्षार्थं न रोदिति स्म। परं यावच्छक्यं स्वस्य अवयवान् गृहीतुं भिषग्वरादिरक्षकान् उद्बोधयन्नासीत्।
बंगलुरु नगरस्थे वैयक्तिकस्थापने कर्मकरः हरीष् नञ्चप्पः स्वबैक्याने गृहात् कर्मस्थानं गच्छन्नासीत्। मरणं 'ट्रक्' यानस्य रूपं घृत्वा आगतम्।  किन्तु रक्षकान् स एवमेव अवोचत्। मत्तः यावच्छक्यम् अवयवान् स्वीकुर्वन्तु, अन्येषां प्राणरक्षार्थमुपकरिष्यन्ति। किन्तु दुर्घटनायां छिन्नभिन्नशरीरस्य तस्य नेत्रद्वयमेव उपकारितम्। अन्येषामवयवानां दोषाः संजाताः।

अक्बर् कक्कट्टिल् दिवंगतः।

कोष़िक्कोट् > केरलस्य प्रमुखःसाहित्यकारः अक्बर् कक्कट्टिल् (६८)कोष़िक्कोट् वैयक्तिकातुुरालये दिवंगतः। संवत्सरं यावत् रोगपीडितः आसीत्। 
 सामान्यजनानां चिन्ताः जीवितप्राराब्धाश्च अस्य कथाविषयी भूताः। अनेन विरचिताः अध्यापककथाः प्रसिद्धाः भवन्ति। केरल साहित्य अकादमी पुरस्कारात् प्रभृति अनेके पुरस्काराः एनं प्राप्तवन्ताः।

Wednesday, February 17, 2016

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वमुखछाया चित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वामुखछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ। विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्येतौ एव जलसमाधिं प्राप्तवन्तौ।

यु.एस्.राष्ट्रम् आक्रमितुं ऐ.एस् आतंकवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवंबर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।

केरलसंस्कृताध्यापकसमित्याः राज्यस्तरीयसम्मेलनं श्वः आरभते।

कोच्ची > केरलेषु संस्कृत-शिक्षामण्डले सारभूतैः योगदानैः संस्कृतप्रचारणे तथा संस्कृताध्यापकानां योगक्षेमे च अनुस्यूतं प्रवर्तमानायाः केरल संस्कृताध्यापक-फेडरेषन् नामिकायाः संस्थायाः ३८तमं राज्यस्तरीयसम्मेलनं जन्मभूमौ कोल्लं नगरे फिब्र. १८,१९ २० दिनाङ्केषु प्रचलिष्यति। उद्घाटनसम्मेलनेन सह प्रतिनिधि-सांस्कृतिक- विद्याभ्यास- संस्कृत-सेवननिवृत्तादरण- सार्वजनीनसम्मेलनानि एषु दिनेषु आयोजितानि।
१८ प्रभाते नववादने राज्याध्यक्षः वेणु चोव्वल्लूर् वर्यः पताकोन्नयनं करिष्यति। ततः प्रवृत्तमानं सम्मेलनं जिल्लापञ्चायदध्यक्षा के जगदम्मा उद्घाटनं करिष्यति। दशवादने प्रतिनिधिसम्मेलनं भूतपूर्वः राज्यस्तरीयकार्यदर्शिप्मुखः कटय्कोट् सुरेन्द्रः उद्घाटयिष्यति। अनन्तरं नूतनशासनसमित्याः निर्वाचनकार्यक्रमाणि भविष्यन्ति। ६वादने सांस्कृतिकसम्मेलनं कोल्लं नगरसभायाः उपाध्यक्षया विजया फ्रान्सिस् वर्यया उद्घाटनं करिष्यते।तस्मिन्नवसरे प्रशस्तः कविः गिरीष् पुलियूर् मुख्यभाषणं करिष्यति। तत्र विविधमण्डलेषु लब्धपुरस्काराः अध्यापकप्रतिभाः समादरिष्यन्ते।
१९ दिनाङ्के १० वादने विद्याभ्यास-संस्कृतसम्मेलने भारतसंसदङ्गः एन् के प्रेमचन्द्रः उद्घाटकः भविष्यति। देवस्वं बोर्ड् समित्यध्यक्षः प्रयार् गोपालकृष्णः मुख्यभाषणं करिष्यति। ११.३० वादने सेवननिवृत्तानाम् अध्यापकानां कृते आदरः।द्विवादने आरभ्यमानं सार्वजनीनसम्मेलनं  केरलस्य गतागतमन्त्री तिरुवञ्चूर् राधाकृष्णः उद्घाटनं करिष्यति।नियमसभासामाजिकः मुल्लक्करा रत्नाकरः मुख्यभाषणं करिष्यति।
  २०प्रभाते दशवादने राज्यसमित्याः उपवेशनं भविष्यति।

भारतविरुद्ध वाक्यघोषणेन विश्वविद्यालयस्य भूतपूर्व अध्यापकः ग्रहीतः।
नवदिल्ली > भारतलोकसभायाः आक्रमणात् मृत्युदण्डेन  मारितः अफसल् गुरोः अनुकूलतया कृता भारतविरुद्ध वाक्यघोषणे दिल्ली विश्वविद्यालयस्य भूतपूर्व अध्यापकः प्रोफ.एस्. आर्. गीलानी आरक्षकैः ग्रहीतः। विशदज्ञानाय
आरक्षकालयं नीतः। राज्यद्रोहः, दोषतरा-गूढालोचना, अनियमेन सङ्धीकरणं च तस्य उपरि आरोपितः प्रथमानुसन्धानपत्रविवरणम् (FIR ) लिखितम्।

ऐक्यराष्ट्रसभायाः भूतपूर्व महाकार्यदर्शी बुट्रोस् घाली दिवंगतः।

कैरो>  ९३ वयस्कस्य  अस्य अन्तिमनिमेषाः कैरो नगरस्य आतुरालये आसीत्। अरब् वंशजो अयं ईजिप्तस्य नागरिकः आसीत्। १९९२ वर्षे महाकार्यदर्शी इति पदवीं प्राप्तवान्‌।

 स्वार्थछायाचित्रीकरणवेलायां जलबन्धे पतित्वा द्वौ छात्रौ मृतौ।

नासिक् - महाराष्ट्रायां नासिक् वाल्देवी जलबन्धस्य उपरि स्थित्वा सेल्फी नामकस्वार्थछायाचित्रचित्रीकरणाभ्यन्तरे जले पतित्वा द्वौ कलालयछात्रौ मृतौ।विनोदयात्रार्थमागतेषु दशछात्रेषु सौरव् जगन्नाथ (१८),अजिन्क्य बावुसाहेब् (१८)इत्यतौे एव जलसमाधिं प्राप्तवन्तौ

यु एस् राष्ट्रम् आक्रमितुं ऐ एस् आतंगवादिनां पद्धतिः -
 सि.ऐ.ए अध्यक्षः।

वाषिड़्टण् > यु एस् राष्ट्रे पुनः भीकराक्रमणं भविष्यति इति गूढसंघानां विज्ञापनम् । गत नवबंर मासे पारीस् राष्ट्रे भवितः भीकराक्रमणस्य कारणं गुप्तान्वेषणसंघस्य जाग्रताराहित्यस्य फलमेव   इति सि ऐ ए (सेन्ट्रल  इन्टलिजन्स् एजनसि)  अध्यक्षेण जोण् ब्रेननेन उक्तः।

 यद्यपि पारीस् आक्रमणानन्तरं इस्लामिक् स्टेट् भीकाराणां पद्धदीनामधिकृत्य अवगमनाय क्लेशमस्ति तथापि ते यु एस् राष्ट्रम् आक्रमितुं सज्जा भवेत् इति शङ्‌का नास्ति; ब्रननेन अवदत्। आतंकवादिनः
नूतन आशयविनिमय-संविधानानि उपयुज्यन्ते। एतस्य भेदनं दुष्करं  भवतीति रहस्यान्वेषणसंधस्य मतम्।

पारीस् भीकराक्रमणे  १३० जनाः हताः। तेषु अष्टेषु मृत्यु योध्रृषु सप्त संख्याकाः फ्रञ्च् पौराः अभवन्। "ते सिरिया राष्ट्रं गत्वा शिक्षणं प्राप्तवन्तः- इति सि ऐ ए अध्यक्षः अवदत्।  पाश्चात्यराष्ट्र-इस्लामिकराष्ट्रयोः मध्ये विद्वेषमुद्पाद्य  भीकरप्रवर्तनानि  आयोजयितुमेव आतंकवादिनां श्रमः। ,

यु एस् ऐतेषु राज्येषु अधीशत्व स्थपनाय श्रमं कुर्वन्तीति असत्य प्रचारणमपि भवेत्। ऐ एस् सङ्घः इदानीं रासायुधशक्तियुक्ताः, तेषां पाश्चात्यगमनं निवारणीयं च भवेत् इति ब्रेननेन उक्तः ।


कोलञ्चेरि क्रैस्तवदेवालये विभागद्वयस्यापि आराधनानुमतिः।
 
नवदिल्ली >ओर्तडोक्स्, याकोबाय विभागयोः विवादैः अस्वस्थभूते कोलञ्चेरि क्रैस्तवदेवालये (केरलं) विभागद्वयस्यापि तात्कालिकाराधनासौकर्याय सर्वोच्चन्यायालयेन निर्दिष्टः।

Tuesday, February 16, 2016

विद्यालयसमीपे गोलिकाप्रहारः।

कोल्कोत्ता > कोल्कत्ता नगरे लोरेट्टो विद्यालयस्य समीपे गोलिकाप्रहारः। प्रातः द्वि चक्रिकाभ्याम् आगताभ्यां अज्ञातृभ्यां भीकरावस्था सृष्टा। एकः यात्रिकः व्रणितः। सुरक्षा देलेन इदानीं परिसरः रक्षितः अस्ति।

स्वच्छतायां मैसूर् नगरं प्रथमम्।

नवदिल्ली > स्वच्छतागणनायां भारतस्य नगरेषु मैसूर् नगरं प्रथमश्रेण्याम् अस्ति।Quality Council Of India नामिकया संस्थया कृतानुसन्धानस्य फलमेव एतत्‌। द्वितीय वारमेव भवति मैसूरस्य इयं स्थानप्राप्तिः।
द्वितीयं स्थानं चण्डिघट्टस्य तिरुचिरप्पल्ली, दिल्ली विशाखपट्टणं च प्रथमासु पञ्चमश्रेणीषु अन्तर्भवति । ७३ नगरेषु कृतानुसन्धाने केरळं ५५ तमं भवति। केन्द्रमन्त्रिणा वेङ्कय्यनायिडुना फलं प्रख्यापितम्। प्रथानमन्त्रिणा  नरेन्द्रमोडिना २०१४ तमे आरब्धा इयं स्वच्छ भारतयोजना।

 जे.एन् .यू विषयः प्रक्षुब्धः।

नवदिल्ली - मृत्युदण्डितः अफ्सल् गुरुनामकः जवहर्लाल् नेह्रु विश्वविद्यालये (जे एन् यू) अनुस्मृतः इत्यस्मात् विश्वविद्यालयपरिसरः प्रक्षुब्धः जातः। विद्यार्थिनेता कनय्यकुमारः  राष्ट्रद्रोहापराधित्वेन आरक्षकैः गृहीतः इति कारणेन राजधानीनगरं आन्दोलन संघर्षेषु निमग्नमभवत्।
    कनय्यकुमारस्य मोचनमुन्नीय विद्यार्थिनः अनिश्चितकालान्दोलनम् आरब्धवन्तः। अफ्सल् गुरु अनुस्मरणाय ऐ.एस् संस्थायाः साहाय्यं लब्धमित्यारोप्य आसीत् संघर्षस्य प्रारंभः।

स्त्रीवेषंधृत्वा रक्षां प्राप्तुं ऐ.एस्.भीकरैः कृतः श्रमः पराजितः। 

बाग्दाद् > इराख् सैन्येन रिमाददेशे बन्धनस्थाः  ऐ.ऐस् आतङ्कवादिनः  तु स्वरक्षार्थं  प्रच्छन्नवेषं स्वीकृत्य कृतः श्रमः विफलोऽभवत्। स्त्रीवेषान् स्वीकृतान् नव आतङ्कवादिनः रिमादियायाः प्रान्तप्रदेशस्थेन सैन्यकेन बन्धिताः। ऐ.एस् भीकरैः आक्रमितः अंबर् प्रविश्यायाः राजधानीं, रमादीदेशं संपूर्णतया मोचितम् इति इराख् सैन्येन उक्तम्। शिष्टान् सर्वान् आतङ्कवादिनः ग्रहणाय सैन्येन तीव्रश्रमः क्रियते।
रमादी   इदानीं सैन्यस्य पूर्णाऽधीना भवति इति इराख्  सैन्यः अवदत्।

 ओ.एन् .वि वर्यस्य स्मरणार्थं प्रतिमा कलाग्रामश्च।

अनन्तपुरी - दिवंगतस्य कैरलीकवेः ओ एन् वि कुरुप् महोदयस्य स्मरणार्थं राजनगर्यां तस्य प्रतिमां स्थापयिष्यति। जन्मदेशे चवरायां ओ एन् वि कवितानां दृश्याविष्कारेण कलाग्रामं च स्थापयिष्यति। केरलनियमसभायां संवृत्ते अनुस्मरणसम्मेलने मुख्यमन्त्रिणा एवमुद्घोषितम्।

Monday, February 15, 2016

प्रतिषेधानां मध्ये च पाकिस्थानाय युद्धविमानं  विक्रीयते।
वाषिड़्टण् > भारतस्य प्रतिषेधमवगण्य पाकिस्थानं प्रति एफ् - 16 युद्धविमानानां विक्रये एव यु.एस् राष्ट्रस्य श्रद्धा। पाकिस्थानस्य भीकरवादविरुद्ध प्रवर्तनानि  उचितसमये एव रोधनीयमिति यु.एस् राष्ट्रम्।
अनेन युद्धविमानविक्रयेण सह पाकिस्थानस्य भीकरवादविरुद्ध-प्रवर्तनम् ,अपि च आतङ्कवादिनः उन्मूलनाशं च कर्तुं सहायकः इति यू.एस्‌।
पाकिस्थानाय एफ्- 16 युद्धविमानविक्रयणाय यु.एस् राष्ट्रेण निश्चितः। अपि च बहूनि युद्धोपकरणानि विक्रीयन्ते इति च दुःखात्मकं भवेत् इति भारतेन उक्तम्।
७००दशलक्षं डोलर् मूल्यस्य  विमानानां विक्रयणाय यु.एस् शासनाधिकारिणा अनुमतिः दत्तः। यु.एस्  कोण्ग्रस् अधिकारिणां वाक्यानि विगण्य एवायं निश्चयः। पाकिस्थानराष्ट्रस्य  सुरक्षार्थम् इयं उचिता योजना स्वीकृता इति यु.एस् प्रतिरोध मन्त्रालयेन उक्तः।
दिनरात्रौ विभिन्नायाम् अन्तरीक्ष अवस्थायाम् उपयोक्तुं  सर्वथा उपकारकं भवेत् एफ् 16 युद्धविमानम्।

मुम्बय्यां 'मेक् इन् इन्डिया' वेदिकायां महती अग्निबाधा।

मुम्बई >मुम्बय्यां मेक् इन् इन्डिया वाराचरणमनुबध्य सम्पन्ने सांस्कृतिककार्यक्रमे महती अग्निबाधा सञ्जाता।जीवहानिः नाभवत्।गिर्गाव् चौपात्ति प्रदेशे ह्यः रात्रौ अमिताभ् बच्चन् वर्यस्य कवितावतरणानन्तरमेव अग्निबाधा सञ्जाता। २५००० परिमिताः जनाः भागभागित्वं गृहीतुमागतवन्तः ।किन्तु सर्वानपि अपनेतुम् अवसरः लब्धः।


अन्टार्टिकायां १.५ लक्षं पेन्ग्विन् पक्षिणः मृताः। 


सिडनी - पूर्वान्टार्टिकायां कोमण्वेल्त् अन्तःसमुद्रे महत्तरः हिमखण्डः स्थले कुटति स्म इत्यस्मात् पेन्ग्विन् पक्षिणां मरणावलिः सञ्जाता। १०० चतु.कि.मी. विस्तृतियुक्तः बि०९बि इति नामकः हिमखण्ड एव स्थले २०१०तमे स्थिरभूतः। आवासव्यवस्थायाः विनाशेन तेषां वंशनाशात् भीः जाता।

Sunday, February 14, 2016

संस्कृतमेलनं सम्पन्नम्। 
केरळम् तृश्शूर्> संस्कृतभारत्याः केरलराज्यस्य मध्यसम्भागस्य कार्यकर्तृमेलनं तृश्शूर् नगरे तेक्केमठे लक्ष्मीमण्डपे फेब्रुवरी मासे त्रयोदश (१३) दिनाङ्के शनिवासरे प्रातः दशवादनतः चतुर्वादनपर्यन्तम् अभवत्। अखिलभारतीयसङ्घटनामन्त्री श्री दिनेश् कामत् महोदयः मार्गदर्शनं कृतवान् । षष्ट्यधिकं कार्यकर्तारः उपस्थिताः आसन्।

काशमीरे पञ्च भीकराः सैन्येन हताः।

श्रीनगरम् > काश्मीरस्य कुप्वारा जनपदे सीमारेखायाः समीपे संवृत्ते संघट्टने पञ्च भीकरान् भारतसैन्यं हन्ति स्म। द्वौ भटावपि निहतौ। चौक्की बाल् प्रविश्यायां कस्मिंश्चित् गृहे भीकराःनिलीय वर्तमाना इति ज्ञात्वा एव सुरक्षासेना अत्र प्राप्ताः।

पाकिस्थानराष्ट्रम् भीकरराष्ट्रम् -बि. जे. पि.

न्यूदिल्ली > मुम्बै भीकराक्रमणस्य सूत्रधारः डेविड् कोल् मान् हेड्लेः वाक्यमनुसृत्य पाक्किस्थानं भीकरराष्ट्रत्वेन प्रख्यापनीयमिति बि. जे.पि  दलानां मतम् । तदर्थं नूतनकार्याणि नय तन्त्रेषु स्वीकरणीयानि । पाक्  गुप्तचराणां संस्थया आदड़्कवादीनां सीमलड़्घने प्रोत्साहनं करोतीति हेड्लेः उक्त्या व्यक्तः। लोकराष्ट्रणां मध्ये पाक्किस्तानं  निराकर्तुं भारतं  श्रद्धालुः भवेयमिति भा.ज.पा. दलस्य देशीयकार्यकर्ता सिद्धार्थनाथ सिंहेन उक्तः।
इस्रत् जहानायाः कलहमृत्युः निर्वाचनवेलायाम् अद्यतनविपक्षस्य अनुकूलं यथा, तथा परिणामयितुं ते ऐच्छन्। इस्रत् जहाना लष्कर् तोयिबायाः  'सन्नद्धमृत्युयोद्ध्री' इति हेड्लिना निर्दिष्टम्। गुजरात्त् देशे इस्रत् गोलिकाप्रहरणेन कारणं विना मारिता इति कुप्रचारः आसीत्।


 कविः ओ एन् वि कुरुप् दिवंगतः।

 अनन्तपुरी> कैरल्याः प्रियङ्करः ,केरलीयानां मनसि लब्धप्रतिष्ठः जनकीयकविः ओ एन् वि कुरुप् महाशयः (८४)हृदयाघातेन अनन्तपुर्यां वैयक्तिकातुरालये दिवंगतः।
ज्ञानपीठ-पद्मविभूषण-पद्मश्रीपुरस्कारैःआदृतः आसीत्। महाकविकालिदासस्य जीवनचरितमुपजीव्य विरचितम् उज्जयिनीकाव्यमवलम्ब्य तस्मै ज्ञानपीठपुरस्कारः दत्तः। कैरलीचलच्चित्रगानशाखायामपि अस्य योगदानं महत्तरमासीत्। १३ वारं उत्तमगानरचयितुः पुरस्कारेण आदृतः।त्रिवारं देशीयपुरस्कारमपि प्राप्तः। 
  ६० संवत्सराणां काव्यसपर्यया नाटक-परिस्थिति-मातृभाषा-संस्कृति-इत्यादिषु जीवनस्पर्शिषु विषयेषु अपि तस्य सर्गवैभवः व्यापृतः।विविधकलालयेषु अध्यापकवृत्तिं कृतवानयं गुरुश्रेष्ठः ।
अन्त्यसंस्कारक्रियाः श्वः भविष्यति।

Saturday, February 13, 2016

यत्र नार्यस्तु पूज्यन्ते।
जार्खण्डे स्त्रीणां कृते धनविनियोगपत्रम्।
राञ्चि> जार्खण्ड् नियमनिर्माणसभायां नारीणां क्षेममुद्दिश्य धनविनियोगपत्रम् अवतारयिष्यते। भारते प्रथमतया एव एतादृशी प्रस्तुति इति मुख्यमन्त्रिणा रघुबरदासेन उक्तम्।
परश्वः प्रस्तूयमाने धनविनियोगपत्रावतरणे स्त्रीणां क्षेमाय निर्मितमिदं पत्रं मुख्यमन्त्रिणा एव सभायां प्रस्तोष्यते। गतवर्षे राज्येषु कृतायां चर्चायामेव स्त्रीणां कृते धनविनियोगपत्रमिति आशयं जातम्।

'फ्री बेसिक्' योजनां समापयति - इति फेस् बुक्।
न्यूदिल्ली > अन्त्रर्जाल-समत्वस्य दृढीकरणाय ट्राय् द्वारा कृतेन विधिना ततःपरं जायमानविवादेन "फ्री बेसिक् " योजना समापयितुं फेस् बुक् अधिकृतैः निश्चितः। टेलिकों  संस्थायाः सहकरणेन फेस् बुकेन आविष्कृतां योजनां प्रति प्रारंभे एव विमर्शनानि आसन्।
फ्री बेसिक्स् द्वारा कानिचन वेब् सैट् स्थानानि निशुल्कानि प्राप्तानि शक्यन्ते। 'सर्वेभ्यः जनेभ्यः अन्तर्जालं लभ्यमानं भवेत्' इति  अन्तर्जाल समत्वस्य लक्ष्यम् ।
"रिलयन्स् कम्यूणिकेषन्स्" संस्थायाः सहकरणेन भारते फ्री बेसिक् इति योजनायाः प्रसारः निश्चितः आसीत्‌। किन्तु " टेलिकों रगुलेटरि अतोरटरि आफ् इन्ड्यायाः " विज्ञापनानुसारेण अन्तर्जालस्य लब्धये विविधानां शुल्कानां स्वीकारः रोधितः। एतेन एयर् टेल् स्य 'सीरो रेट्टिङ्' इत्यस्य  च विरामः भवेत्।
2014 तम वर्षादारभ्य इन्टर् नेट् ओर्ग मार्गेण सप्तादशराज्येषु फेस् बुक् लभ्यमानं भवेत्। विवादाभिमत-प्रकाशनात् परं  'फ्री बेसिक्' इति पुनर्नामकरणं कृतः ।  सर्वेषां सामान्यजनानां सहकरणार्थं टी वि-पत्रमध्यम द्वारा  प्रचारणं कुर्वदासीत्।


 क्षेमपद्धतिवर्षैः आयव्ययपत्रावतरणं केरले।

अनन्तपुरी > केरले निर्वाचनद्वारे तिष्ठति क्षेमपद्धतीनां वर्षैः मुख्यमन्त्रिणा उम्मन् चाण्टिमहाभागेन आयव्ययपत्रम् अवतारितम्। दारिद्र्यरेखाधःस्थितेभ्यः परिवारेभ्यः (बि पि एल्) निःशुल्कव्रीहीदानं प्रख्यापितम्।विपक्षदलैः आयव्ययपत्रावतरणं बहिष्कृतम्।

Friday, February 12, 2016

हनुमन्तप्पा वीरस्वर्गं प्राप्तवान्
न्यूदिल्ली > सियाचिन् देशे हिमपतनदुर्घटनात्  मुक्तः हनुमनन्तप्पा कोप्पाड् ( 35) षष्टे दिने मृतः। दिल्ली कन्टोण्मेन्ट् आर्. आर्. आतुरालये प्रभाते 11.45 वादने एव तस्य मृत्युः।  हनुमन्तप्पावर्यस्य जीवरक्षायै वैद्यकैः कठिनप्रयत्नः कृतः। तथापि  आन्तरिकावयवानां प्रवर्तनं स्थगितम् अभवत्। आन्तरिकावयवानां प्रवर्तनराहित्येन तस्य मृत्युः अभवत्।
कर्णाटकाराज्ये धार्वाड् स्वदेशिं हनुमन्तप्पां सोमवासरे हिमपातस्थलात् अरक्षत्। ३५ पादमितस्य हिमपातस्य अधोभागात् एव सः उद्धारयित्वा रक्षितः। प्रधानमन्त्री नरेन्द्रमोडी , भूतल सैनिकनेता दलबीर् सिंहः च हनुमन्तप्पां द्रष्टुम् आगतवन्तौ । हनुमन्तप्पा महोदयस्य परिवारः च दिल्ल्याम् आसीत्।

गुरुत्वतरङ्गं दर्शितः

वार्षिङ्‌टण् > १०० वर्षेभ्यः पूर्वं वैज्ञानिकः अल्बर्ट ऐन्स्टीन् महाभोगन उद्‌घुष्टं गुरुत्वतरङ्गस्य सान्निध्यम् आधुनिक शास्त्रज्ञैः प्रमाणीकृतम् । प्रपञ्चस्य उत्‍पत्तिम् आरभ्य जायमानेषु कार्या -कारणेषु प्रवेष्टुम् अनेन गवेषणफलेन शक्यते। यू.एस् नाषणल् सयन्स्फौण्डेषन् संस्थायाः वैज्ञानिकाः एव अस्मिन् विषये गवेषणम् अकुर्वन्। १३० कोटि प्रकाशवर्षात् दूरे वर्तमानयोः द्वयोः तमोगर्तयोः मिथः संधट्टनेन जातः तरङ्ग एव तैः परीक्षण शालायां निरीक्षितः। लेसर् इंटर् फेरोमीट्टर् ग्राविट्टेषन् वेव् ओब्सर्वेट्टरि (LIGO) परीक्षणशालायां प्रोट्टोण् एकस्य सहस्रांशाकारकं व्यत्ययं निर्मातुं तेन तरङ्गेन शाक्यते इति 'लगोयाः' नियुक्तो  निदेशकः डेविड् रयिट्य् महोदयः अवदत्।

Wednesday, February 10, 2016

जर्मनी राष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्छदासीत् यानमेव आपदि पतितम्। घट्टनस्य उग्र शक्त्या यानं तिर्यक्कृत्य पट्टिकातः पतितम् इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति। मृतानां संख्या इतोऽपि  अधिकाः भवेत्। व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति। यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजा महाभागया कृतम्। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।
संस्कृतसत्रं सम्पन्नम्।

पुदुच्‍चेरी> पुदुच्चेरीस्थेन श्री - अरविन्द - भारतीयसंस्कृति - संस्थानेन आयोजितः सप्तदिनात्मकः 'स्पन्दन' झ्याख्यः संस्कृतशिक्षणवर्गः सुचारुतया सम्पन्न:। असिन् शिक्षण वर्गे देश विदेशेभ्यः उपपञ्चाशत् प्रतिभागिनः संस्कृत शिक्षणार्थम् आगतवन्तः आसन्। संस्थानस्य निदेशकः डॉ. सम्पदानन्द मिश्रः वर्ग सञ्चालनमकरोत्। वर्गे अस्मिन् मन्त्रोच्चारणशिक्षणं,  संभाषणकौशलं, संस्कृते कथानिर्माण कौशलं, बालगीतनिर्माणकौशलं, व्याकरणज्ञानं, छन्दसां परिचयः इत्यादयः अनेके विषयाः योजिताः आसन्। अन्तर्जालस्य उपयोगेन संस्कृताध्ययनं इति विषयमपि सत्रे चर्चिताः।  प्रतिभागिनां संभाषणदक्षतावर्धनाय प्रतिदिनं होरात्रयं सम्भाषणाभ्यासः चासीत्। संस्कृतस्य नानाविधविभवान् अधिकृत्य प्रतिभागिनः सप्ताहाभ्यन्तरेण प्रबोधिताः।
 डा. सम्पदानन्द मिश्रः कक्ष्यां चालयति 
 एक लिटर् शिलातैलमुपयुज्य 200 किलोमीटर्  गन्तुं शक्यते 


जय् पूर्> एक लिटर् पेट्रोल उपयुज्य 200 किलोमीटर्  गम्यमानेन  कार् यानेन सह छात्राणां संघः। जय् पूर् स्वदेशिनः अतुल आरोरया सह त्रिंशत् प्रयत्नशालिनः एव कर् यानस्य निर्मातारः।  वेल्लूर्
 इन् स्टिट्यूट् आफ् टेक्नोलजी कालालयस्य छात्रैः 'रुद्रा' इति कारयानाय नामकरणं कृतम् । न केवलं पेट्रोलस्य व्ययः पुनः पारिस्थितिकमालिन्यानि च  न्यूनीकरोति इति  सविशेषता। इलक्ट्रोणिक् संविधानेन इन्धनोपयोगक्षमता वर्धयितुं शक्यते। अष्टमासाभ्यन्तरेण  निर्मितं  कार् यानस्य  षेल् इक्को मारतण् एष्या स्पर्धायाम्  औद्योगिकरूपेण भागभागित्वं भविष्यति ।

महाराष्ट्रायां पृष्ठोपविष्टानां 
द्विचक्रयानयात्रिकानामपि शिरस्त्राणम् अनिवार्यम्। 


मुंबई > महाराष्ट्राराज्ये द्विचक्रवाहनस्य पृष्ठोपविष्टानां यात्रिकाणामपि  शिरस्त्राणम् अनुपेक्षणीयम् इति गतागतविभागस्य आदेशः। २००० तमे वर्षे मुम्बई उच्चन्यायालयेन कृतं निर्देशमनुसृत्यैव अयमादेशः। किन्तु शिरस्त्राणव्यापारिणां साहाय्यार्थमेवायमादेश इति राज् ताक्करे महोदयस्य नव निर्माणसेनायाः अभिमतम्।

मुम्बई भीकराक्रमणं ऐ.एस्.ऐ. संस्थया आसूत्रितम् - हेड्लि।


नवदिल्ली > मुम्बई नगरे २००८ संवत्सरे संवृत्तं आतङ्कवादि आक्रमणं पाकिस्तानसैन्यस्य ऐ. एस् .ऐ इति  तस्य गुप्तसंघस्य च साहाय्येन कृतमासीदिति आक्रमणस्य मुख्यसूत्रधारः डेविड् कोल्मान् हेड्लि।प्रस्तुते भीकराक्रमणे दण्डितः तीव्रवादी अस्ति पाक्-अमेरिकन् वंशजः दावूद् गीलानी नामकः हेड्ली। 
द्विवारं विफलं भूत्वा तृतीयवारप्रयत्न एव मुम्बई भीकराक्रमणे सफलीकृत इति हेड्ली मुम्बय्यां सविशेषन्यायालये स्पष्टीकृतवान्। २००८ सेप्टम्बर् ओक्टोबर् मासयोः कृतं उद्योगद्वयमपि विफलं जातम्। पुनः नवंबरमासे तेनैव संघेन कृतं प्रयत्नं सफलीकृतम्।वीडियो कोन्फ्रसिंग् द्वारा स उक्तवान्।

ऐ.एस् भीतेः भारतं न मुक्तम् - यु.ए.इ।

अबुदाबी > इस्लामिक् स्टेट् दलात् जातभीतितः भारतं  इतोऽपि न मुक्तम् भवेत् इति यु .ए .इ राष्ट्रस्य सूचना। ऐ.एस्. संघेन समं बन्धं स्थापिताः  द्वादश जनाः भारतं निगूढयारीत्या अन्तः प्रविष्टाः । भीकरविरुद्धप्रवर्तनाय भारतेन समं दृढप्रयत्नं कर्तुं शक्यते इति  यु .ए.इ राष्ट्रेण उक्तम् च। 
ऐ .एस्  भीतितः कोपि न मुक्तः। 
यः कोपि सुरक्षितस्थाने अस्तीति चिन्तयति चेत् ते बहुक्लेशमनुभवितुम् अर्हाः। भारतमपि यु.ए. इ समानं भवेत् इति यु.ए.इ मन्त्री डा.अन् वर् मुहम्मद् गरगाषः अवदत्। षेयिख् मुहम्मद् बिन् सयिद् अल् निह्यानस्य त्रिदिवसीय - भारतसन्दर्शनवेलायामेव आसीत् इयं सूचना। अपि च भीकरविरुद्धप्रवर्तनार्थं नूतन तन्त्राणि  आविष्करोतीति देशीय माध्यमान् प्रति सः अवदत्।

जर्मनीराष्ट्रे रयिल् यानयोः अपघातः बहवः मृताः 


train-accident
बर्लिन्> जर्नीयोः  राष्ट्रे बवेरियायां रयिल् यानयोः दुर्घट्टने बहवः मृताः शताधिकाः व्रणिताः म्युनिक् देशेएव अपघातः जातः होर्किच्चन् देशतः होसन् हयिं प्रति  गच्चतासीत् यानमेव आपति पतितम् घट्टनस्य उग्र शक्त्या यानं विपरी कृत्य रेल्तः पतितः इति दृक्साक्षिणः वदन्ति दुर्घटनायां कति मृताः इति वक्तुं न शक्यते इति आरक्षकाः वदन्ति मृतानां संख्या इतोऽपि  अधिका वर्धते व्रणितानां अवस्था गुरुतरा वर्तते रक्षाप्रवर्तनानि अधुनापि प्रचलन्ति यानान्तर्भागे यात्रिकाः बन्धिताः सन्ति।
छात्राः न आगच्छन्ति चेत् विद्यालयः छात्रान् अन्विष्य गमिष्यति।
 जयपूर > छात्रान् अन्विष्य विद्यालयः सञ्जरन्ति! ग्रामीणछात्राणां पठनार्थं जय्पूर् नगरस्य टाबर सोसैटी संस्थया अविष्कृता नूतना पद्धतिरियम्।
" स्कूल् ओपण् वील् " इति नाम्ना विद्यालयः ग्रन्थशाला च संभूय भवति एतत्। "सञ्जारविद्यालयस्य " प्रवर्तनोद्धाटनं मुख्यमन्त्रिणा वसुन्धरा राजेन कृतः। प्रथमतया जय्पूर् जनपदे एव विद्यालयस्य प्रवर्तनम्। लूणिया वास् , गोणार् मण्डलाणां ग्रामीणानां तथा गार्डिया लोहार , गुमान्डु विभागानां मध्ये च प्रवर्तनाय उद्दिश्यते। सर्वकारीयशैक्षिक रङ्गे विविधेषु राज्येषु  पृष्ठतः अस्ति राजस्थानदेशः।
संस्कृतसंभाषण शिबिरम्।
केरळम् - तृश्शूर्>  तृश्शुर् नगरे पुनः दशदिनसम्भाषणशिबिरम् भविष्यति ।  चिन्मयमिषन्  भुवनेश्वरी मन्दिरे प्रातः १० वादनतः १२ वादन पर्यन्तम् । फेब्रुवरी १७ दिनाङ्के आरम्भ:।
पाकिस्तान् संसदि हिन्दुविवाहनियमः अङ्गीकृतः।
इस्लामबाद् > हिन्दु विवाहनियमस्य प्राथमिकदेयकं पाकिस्तानी संसद्समित्या ऐककण्ठ्येन अङ्गीकृतम्।अचिरादेव नियमो भविष्यति। एतदनुसृत्य विवाहवयः १८ भवति।पञ्च हैन्दवान् सभाङ्गान् अामन्त्र्य पर्यालोचनानन्तरमेव देयकं संसिद्धम्।
आगोलभीकरसंस्थानां नियन्त्रणं ऐ.एस्.ऐ द्वारा।

नवदिल्ली > आगोलतले जिहादीप्रवर्तनानां नियन्त्रणं ऐ एस् ऐ नामकेन पाक् चारसंघेन क्रियते इति न्यूयोर्क् टैम्स् दिनपत्रिकया निवेद्यते।इस्लामिक् स्टेट् संधटनायाः प्रारम्भ अपि अनेन संघेन कृतमिति पत्रिकायां प्रसिद्धीकृते लेखने प्रस्तूयते।अन्ताराष्ट्रमुजाहिदीन् प्रवर्तकेषु भूरिभागः सुन्नितीव्रवादिनः। ऐ.एस्.ऐ इत्यस्य साहाय्यं एतेभ्यः लभ्यते इत्यत्र प्रमाणमस्तीति लेखने उच्यते।
लोके अन्विष्टाः सर्वे भीकराः पाकिस्ताने सुरक्षिताः भवन्ति। हखानी श्रृङ्खलायाः नेता सिराजुदीन् हखानी तत्र स्वतन्त्रः।तालिबान्,अल् ख्वीयदा इत्यादयः ऐ एस् ऐ इत्यस्मात् साह्यं स्वीकुर्वन्ति।
  न्यूयोर्क् टैम्स् पत्रिकायाः उत्तराफ्रिक्कन् लेखिका कार्लोट्टा गाल् एव लेखनं सज्जीकृतवती।