OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 29, 2022

 'पोपुलर् फ्रन्ट्' निरुद्धम्। 

नवदिल्ली> पोपुलर् फ्रन्ट् नामकं संम्घटनम् अष्ट अनुबन्धसंघटनानि च केन्द्रसर्वकारेण निरुद्धानि। ५ वर्षाणि यावत्  'नियमविरुद्धप्रवर्तननिरोधनियम्' [यू ए पि ए] अनुसृत्य एव निरोधः।  

  इस्लामिक् स्टेट् नामक आगोलभीकरसंघटनेन सह संबन्धः, राष्ट्रस्य सुरक्षाम्  अखण्डतां परमाधिकारं च विरुध्य प्रवर्तनानि, आतङ्कवादप्रवर्तनानि, तदर्थमार्थिकसमाहरणं, इत्यादीन् अपराधान् गणयित्वा एव निरोधः कृतः।

Wednesday, September 28, 2022

 जाप्पानस्य भूतपूर्वप्रधानमन्त्रिणे भारतस्य श्रद्धाञ्जलिः। 

टोकियो> जुलाई  अष्टमदिनाङ्के निहतस्य जापानस्य भूतपूर्वप्रधानमन्त्रिणः षिन्सो आबे वर्यस्य कृते आयोजिते  अन्त्योपचारकर्मणि भारताय प्रधानमन्त्री नरेन्द्रमोदी श्रद्धाञ्जलिं समार्पयत्। भारतप्रधानमन्त्रिणं समेत्य उपचत्वारिंशत् राष्ट्रनेतॄणां सान्निध्ये आसन् कुजवासरे  अन्त्योपचारकर्माणि सम्पन्नानि। 

  जापाने निप्पोण् बुडोक्काण्  सभागारे आसन् कर्माणि  प्रवृत्तानि। तदन्तरे मोदिवर्यः जापानस्य प्रधानमन्त्रिणा फुमियो किषिदा इत्यनेन सह मिलित्वा भारतस्य अनुशोचनं निवेदितवान्। भारतस्य आत्ममित्रमासीत् आबे वर्य इति मोदिना अनुस्मृतम्।

 विविधराष्ट्रेषु चीनेन आरक्षकालयः गुप्तरूपेण विन्यस्तः।


बैजिङ्> चीनेन विविधराष्ट्रेषु स्वस्य आरक्षकालयः गुप्तरूपेण संस्थापितः। विषयमिदं 'इन्वेस्टिगेट् जेर्णलिसं रिपोर्टिक' द्वारा प्रतिवेदितम्। चीनस्य नूतनपदक्षेपः मनवाधिकार सेवकानां मध्ये आशङ्कां प्रसारितः इत्यपि आवेदितमस्ति। पदक्षेपः विरुद्ध्य जायमानप्रक्रमान् प्रति रोद्धुमुद्दिश्य भवति चीनस्य अयं हीनपदक्षेपः इति प्रतिवेद्यते। चीनस्य 'पब्लिक् सेक्यूरिट्टी ब्यूरो संस्थया संबन्धितः भवति कानडदेशो संस्थापितः आरक्षका लयः। अस्मिन् 'ग्रेट्टर् टोरन्टो' मण्डले त्रयः आरक्षकालयाः वर्तन्ते। 

आविश्वं २१ राष्ट्रेषु चीनेन अनया रीत्या आरक्षकालयाः उद्घाटिताः। युक्रैन् फ्रान्स् स्पेयिन् जर्मनि यू के इत्येतेषु राष्ट्रेषु अपि आरक्षकालयस्य स्थापनाय प्रयत्नं कुर्वन्नस्ति। तत्र कर्म-परिशीलन-केन्द्राणि इति व्याजरूपेण भवति प्रवर्तनम्।

व्याजवार्ताः बहुलीभवन्ति। वाचकाः जाग्रता पालनीया।

 पूर्वकाले वयं वार्तामन्विष्य गच्छन्तः आसीत्। वार्ताः अधुनातनकालः अस्मत्सकाशमागच्छन्त्यः इति काले व्यत्यासः।  मुद्रणात् आरभ्य रेडियो, दूरदर्शनादिमाध्यमान् पृष्ठतः कृत्वा अन्तर्जालमाध्यमस्य प्रसक्तिः वर्धिते अस्मिन् सन्दर्भे व्याजवार्तानां वर्धितसानिध्यस्य कारणं  सामाजिकमाध्यमाः इति आविश्वे समायोजितानि अध्ययनानि दृढीकुर्वन्ति। नूतनसूचनाप्रौद्योगिकविद्या अतिशीघ्रम् अधःस्थितजनमध्येषु व्याप्ता। किन्तु परिवर्तनानुसारं नियन्त्रणानि आनेतुं तथा नियमान्  च दापयितुं सर्वकाराः अशक्ताः जाताः इत्येतत् अलीकवार्तायाः त्वरितप्रसरणस्य हेतुरभवत्। कोविड् महामारिणा ग्रसिते २०२२ संवत्सरे व्याजवार्तायाः गणनासु २१४ % वर्धना समभवत् इत्येव राष्ट्रिय- अपराध - अभिलेख - वार्ताविभागस्य गणना सूचयति। २०२० संवत्सरे भारते १५२७ प्रकरणानि प्रतिवेदितानि। २०१९ संवत्सरे ४८६ तथा २०१८ संवत्सरे २८० प्रकरणानि च प्रतिवेदितानि।

Tuesday, September 27, 2022

नासायाः क्षुद्रगोलप्रतिरोधदौत्यं समारब्धम्।


न्यूयोर्क्> भूमिम् अभिमुखीकृत्य समागतानां क्षुद्रगोलानां प्रतिरोधाय नासया सज्जीकृता डार्ट् नाम सुविधा अद्य प्रवृत्तिपथमारूढा। भूमिं घट्टयितुम् आगतान् क्षुद्रगोलान् अनया सुविधया गतिभ्रंशं क्रियते। अद्य भारतसमयं ४:४४ वादने असीत् अस्याः प्रथमदैत्यम्। भूमेः ११ दशलक्षं किलोमीट्टर् दूरे आसीत् उभयोः घट्टनम्। डर्ट्टस्य घट्टनेन क्षुद्रगोलस्य गतिभ्रंशः अभवत्। पादकन्दुकक्रीडाक्षेत्र-समुच्चयस्य समं विस्तृतम् आसीत् अस्य क्षुद्रगोलः इति आवेद्यते। जोण् होकिन् विश्वविद्यालयस्य अप्लैड् फिसिक्स् लबोरट्टरि भवति अस्य सुविधायाः नियन्ता।

Monday, September 26, 2022

 भारत-आस्ट्रेलिया क्रिकेट् परम्परा - भारतस्य विजयः। 

हैदराबादः> भारत-आस्ट्रेलियादलयोर्मध्ये सम्पन्नायाः टि-२० क्रिकेट् परम्परायाः तृतीये तथा च अन्तिमे प्रतिद्वन्द्वे अपि भारतस्य  उज्वलविजयः। अनेन २-१ इति रीत्या  भारतेन परम्परा स्वायत्तीकृता। भारतीयक्रीडकः सूर्यकुमार यादवः श्रेष्ठक्रीडकरूपेण चितः। परम्परायाः श्रेष्ठक्रीडकरूपेण अक्सर् पटेलः अपि चितः। 

  अन्तिमस्पर्धायां प्रथमं आस्ट्रेलिया दलेन २० क्षेपणचक्रैः सप्त ताडकानां विनष्टे १८६ धावनाङ्काः प्राप्ताः। प्रत्युत्तरक्रीडायां भारतेन १९. ५ क्षेपणचक्रैः चतुर्णां ताडकानां विनष्टे १८७ धावनाङ्काः प्राप्ताः।

आतुरालये अग्निबाधा। भिषग्वरः तस्य अपत्ये च मृताः।

हैद्राबाद्> आन्ध्राप्रदेशे रेनिगुण्डायां आतुरालये जातायां अग्निबाधायां भिषग्वरः तस्य पुत्रः पुत्री च मृताः। चिट्टूर् जिल्लायां नूतनतया निर्मिते कार्तिकेय नाम आतुरालये एव अपघातः जातः। आतुरालयस्य भिषग्वरः डो. रविशङ्कर् रेड्डी, पुत्रः सिद्धर्थ् रेड्डी(१२), पुत्री कार्तिका(६) च मृताः। रात्रौअपघातसमये सकुटुम्बं निद्रायाम् आसीत्। घूमावृते प्रकोष्ठे दृष्टिविघ्नेन अग्नौ पतिताः इति अग्निशमनसेनायाः अधिकारिभिः आवेदितम्। वैद्युतेः लघुपरिपथः (short circuit) एव अपघातकारणमिति अनुमीयते।

Saturday, September 24, 2022

 त्वरितहट्टतालः नीतिविरुद्धः - केरलस्य उच्चन्यायालयः। 

कोच्ची> पूर्वविज्ञापनं विना त्वरितगत्या आयोज्यमानः 'हर्ताल्' नामक प्रतिषेधः नीतिविरुद्धः इति केरल उच्चन्यायालयैन परामृष्टः। एतादृशाः हट्टतालाः सर्वथा प्रतिरोद्धव्याः इति न्यायमूर्तिः ए के जयशङ्करन् नम्पियारः, न्यायमूर्तिः सि पि मुहम्मद नियासः इत्येतयोः नीतिपीठेन निर्दिष्टम्। गतदिने  पोपुलर् फ्रन्ट् ओफ् इन्डिया नामक संघटनेन आयोजिते त्वरित हट्टताले आकेरलं व्यापकाः अक्रमदुर्घटनाः जाताः। दशसहस्रशः यात्रिकाः कार्येतरव्यापरणीयाः जनाश्च अत्यधिकं दुर्घटमनुभूतवन्तः। सामाजिकवाहनानि अभिव्याप्य अनेकानि यानानि हट्टतालानुकूलिभिः  भञ्जितानि। के एस् आर् टि सि संस्थायाः यानानां ५० लक्षं रूप्यकाणां नष्टं जातमिति गणना अस्ति। 

  २०१९ तमस्य उच्चन्यायालयादेशमनुसृत्य हट्टतालानुष्ठानाय सप्तदिनेभ्यः पूर्वमेव विज्ञप्तिपत्रं समर्पणीयमित्यस्ति। तस्य उल्लंघनमेव राज्ये सञ्जातमित्यतः नीतिपीठेन स्वमेधया अपराधप्रकरणं पञ्जीकृतमासीत्।

 भारते इंदप्रथमतया २१ कि.मि . दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गः निर्मीयते। 


नवदिल्ली> मुम्बै-अहम्मदाबाद् अतिवेगरेल्संपथस्य कृते२१ कि. मि. दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गाय राष्ट्रिय- अतिवेगलेहमार्ग - निगमेन (NHSRCL) संविदा आमन्त्रिता। सुरङ्गस्य सप्त किलोमीट्टर् भागः समुद्रान्तर्भागो भविष्यति। महाराष्ट्रेषु नूतनसर्वकारस्य शासनपदारोहणानन्तरमेव संपथार्थं निर्माणप्रवर्तने शीघ्रतां प्राप्तः।

Friday, September 23, 2022

 कानडाराज्ये भारतविरुद्धप्रवर्तनानि वर्धन्ते।

भारतीय छात्रैः जाग्रता पालनीया इति भारतसर्वकारः।

नवदिल्ली> कानडाराज्ये इदानीं भारतविरुद्धप्रवर्तनानि विद्वेषाक्रमणानि च वर्धन्ते। इतः पर्यन्तं कानटा सर्वकारेण कोऽपि प्रक्रमाः न स्वीकृताः। अतः भारतीयैः जाग्रता पालनीया इति भारतस्य विदेशकार्यमन्त्रालयेन संसूचितम्। बहिः गमनसमये भारतायोगस्य अन्तर्जालपुटे नाम पञ्जीकरणम् आवश्यकम् इति मन्त्रालयेन निर्दिष्टम्।

Thursday, September 22, 2022

 युद्धस्य प्रथम श्रेण्याम् रक्षितारक्षिदलानि अपि। पूर्वसूचनया पुतिनः।

लण्डन्> पाश्चात्यसेनां विरुद्ध्य अतिदृढां पूर्वसूचनां दत्वा रष्यस्य राष्ट्रपतिः व्लादिमिर् पुतिनः। आणवायुधभीषा अनुवर्तते चेत् अस्माकं जनानां संरक्षणार्थं लभ्यान् सर्वान् मार्गान् उपयोक्ष्यामः। एतत् वृथावचनं नास्ति। प्रत्याक्रमणं कर्तुं रष्यस्य सकाशं बहूनि आयुधानि सन्ति इति स्मर्तव्यम्। अण्वायुधं प्रयोक्ष्यति इति रष्यस्य भीषा केवलं भयदोहनाय (black mail) भवति इति प्रतिवेदनस्य प्रत्युत्तररुपेणैव पुतिनेन एवम् उक्तम्।

विद्वेषभाषणानि रोद्धुम् पर्याप्तः नियमः आवश्यकः - सर्वोच्चन्यायालयः।


नवदिल्ली> विद्वेषभाषणानि रोद्धुम् इदानीं पर्याप्तः नियमः नास्ति इति उक्त्वा दत्तायां याचिकायाम् आसीत् न्यायालयस्य निरीक्षणम्। एतदर्थं नियमनिर्माणं केन्द्रसर्वकारेण केन कारणेन न क्रियते इति न्यायालयेन अपृच्छत्। विद्वेषभाषकेभ्यः वार्तावाहिन्यः वेदिकां सज्जीक्रियन्ते इत्यपि सर्वोच्चन्यायालयेन परामृष्टम्।  विद्वेषभाषणानि प्रतिरोद्धुं केन्द्रनियममन्त्रालयेन कृतायाम् अनुशंसायां  केन्द्रसर्वकाराय स्वाभिमतं ज्ञापयितुम्  आदेशः दत्तः।

Wednesday, September 21, 2022

 केरले शुनकेषु 'राबिस्' विषबाधा वर्धते। 

कोट्टयं> केरलराज्ये शुनकेषु उन्मत्तकारणस्य राबिस् नामक विषाणोः व्यापनमानं वर्धते। शुनकेभ्यः सञ्चितेषु स्रवेषु  विविधपरीक्षणशालासु परिशोधनासु कृतासु प्रतिशतं पञ्चाशत् स्रवप्रतिरूपेषु विषाणुबाधा दृष्टा। 

  २०१६ तमे वर्षे विषाणुव्यापनमानं १६% आसीत्। २०२१ तमे एतत् ५६% इति वर्धितमिति वरिष्ठः पशुशास्त्रगवेषकः वैद्यश्च सि के षाजुवर्यः अवदत्। कोट्टयं जनपदे संवत्सरेSस्मिन् अद्यावधि ७२ शुनकानां स्रवाः परिशोधिताः। तेषु ३४ स्रवेषु भ्रान्तिकारणः विषाणुः दृढीकृतः। 

  केरलस्य विविधस्थानेषु अलर्कभीतिः वर्धमाना अस्ति।

द्रव्यभाण्डस्य नौकावरोपणसन्दर्भे भीमाकारा महानौका समुद्रे अमज्जत्। 


तुर्की> नौकाश्रये द्रव्यभाण्डस्य नौकावरोपणसन्दर्भे ईजिप्तस्य भारवाहकनौका समुद्रे अमज्जत्। तुर्की राष्ट्रे एव घटनेयं संवृत्ता। सी ईगिल् नाम भारवाहकनौका एव द्रव्यावरोपणावसरे अपघाते पतिता। महानौकायाः बृहत्पेटिकाः बहिः अवरोपणावसरे एव महानौका समुद्रे निमग्ना। बहुनि द्रव्याणि जले विनष्टानि।२५ बृहत्पेटिकाः (container ) विनष्टाः। जीवापायः नास्ति इति प्रतिवेदनमस्ति।

Tuesday, September 20, 2022

 गर्वेण अपहृतम् हीरकं प्रत्यर्पयतु; एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं दक्षिण आफ्रिकादेशस्य जनाः ब्रिटेनदेशेन कृतानां सर्वेषां हानिनां क्षतिपूर्तिं याचन्ते स्म।

लण्डन्> दक्षिण- आफ्रिकादेशेन एलिजाबेथ् राज्ञ्याः अन्त्येष्ट्यानन्तरं स्वदेशात् बहिः तस्करीकृत्य नीतं बहुमूल्यं हीरकं प्रत्यानेतुं ब्रिटेनदेशाय आग्रहः कृतः। विश्वस्य बृहत्तमस्य हीरकस्य, आफ्रिकादेशस्य महान् तारकस्य प्रत्यागमनस्य आग्रहः कृतः। अस्य उपनाम कलालिनान् हीरकः इति अस्ति। १०६ ग्राम् भारयुक्तम् अयं हीरकः विश्वस्य बृहत्तमः भवति। अद्यत्वे एतत् रत्नम् आङ्ग्लवंशस्य भागः अस्ति। द्वितीयस्य बृहत्तमस्य खण्डस्य भारः ६३.५ ग्राम् अस्ति। आफ्रिकादेशस्य द्वितीयतारकम् इति प्रसिद्धम् अयं ब्रिटिशमुकुटे अलङ्कृतः आसीत् । शेष ७ खण्डाः स्वर्गीयराज्ञ्याः एलिजाबेथस्य स्वामित्वे आसन् इति प्रतिवेदनमस्ति।

Monday, September 19, 2022

 एलिसबत् राज्ञ्याः अन्त्येष्टिक्रियाः अद्य ।

भारतात् राष्ट्रपतिः लण्टनं प्राप्नोत्। 

लण्टन्> दशदिनात्मकस्य दुःखाचरणस्य अनन्तरं दिवंगतायाः एलिसबत् राज्ञ्याः भौतिकशरीरम् अद्य लण्टनस्थे 'वेस्ट् मिन्स्टर् आबी' नामकस्थाने मृद्विलयं प्राप्नोति। प्रभाते ११ इति  प्रादेशिकसमये [भारतस्य अपराह्ने ३. ३०] परम्परागतरीतिमनुसृत्य  अन्त्येष्टिक्रियाः आरप्स्यन्ते। ब्रिट्टनस्य राजपरिवाराङ्गाः ५०० लोकनेतारश्चाभिव्याप्य उपद्विसहस्रं जनाः कार्यक्रमेSस्मिन् भागभाजः भविष्यन्ति। 

  कार्यक्रमे भागं गृहीतुं भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू महाभागा ह्यः  लण्टनं प्राप्तवती। लङ्गास्टर् हौस् इत्यत्र स्थापिते अनुशोचग्रन्थे हस्ताक्षरं कृतवती। अनन्तरं वेस्ट् मिन्स्टर् आबीं प्राप्य राज्ञ्यै श्रद्धाञ्जलिं समर्पितवती। 

  लण्टनस्थे विन्स्टर् राजमन्दिरस्थे जोर्ज् षष्ठस्मारके देवालये भवति तस्याः अन्त्यविश्रान्तिस्थानम्।

Sunday, September 18, 2022

 चित्रकैः मानवैः मिथः संघर्षः भवेत् इति निर्णयः। दिवा नक्तं च पूर्णनिरीक्षणम्।

कोष़िक्कोट्> भारते सप्तदशकानन्तरं चित्रकाणां आगमनावसरे  विशेषवार्तया सह वन्यजीविवैज्ञानिकाः आशङ्कामापि प्रकटयन्ति। २००६ तमे संवत्सरे केन्द्रसर्वकारेण एतद्विषये चर्चा पुनरारब्धा तदा केचन वैज्ञनिकाः विरुद्धाभिप्रायान् प्रकटितवन्तः आसन्। डौण् टु एर्त् इत्यस्य गणनानुसारं कुनोयिल् शतचतुरस्रकिलोमीट्टर् विस्तृत्यन्तरे नव चित्रकाः भविष्यन्ति। एतत् तेषां अतिजीवनाय विघातः भविष्यति इति निर्णयः अस्ति। एषः विषयः वन्यजीविवैज्ञानिकः  डो. ईसा अपि अभिप्रैति।

 शिशुनां सैन्दर्यसंरक्षकसुवासकानां मानकः नास्ति । 

जोण्सण् आन्ट् जोण्सणस्य सुवासकनिर्माणानुज्ञा विनष्टा।



जोण्सण् आन्ट् जोण्सणस्य महाराष्ट्र राज्ये विद्यमानस्य सुवासकनिर्माणासंस्थयाः अनुज्ञा विनष्टा अभवत्।  शिशूनां सुवासकानां निर्दिष्ट मानकः नास्ति इति महाराष्ट्रस्य  फुड् अन्ट् ड्रग्स् अड्मिनिस्ट्रेषन्  द्वारा एव अनुज्ञा निवृत्ता।

 एषः युद्धाय कालः नास्तीति पुतिनं प्रति मोदी।

समर्खण्डः> एषः युद्धाय अनुयुक्तः कालः नास्तीति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी रष्यायाः राष्ट्रपतिनं व्लादिमर् पुतिनं समस्मारयत्। गतदिने उस्बक्किस्थानस्य समर्खण्डे सम्पन्ने एस् सि ओ संघटनस्य उच्चशिबिरे आसीत् उभयोरपि राष्ट्रनेत्रोः सम्मुखोपवेशनम्। शान्तेः मार्गः एव अस्मिन् काले स्वीकरणीय इति मोदिवर्यः स्मारितवान्। 

  युक्रैने रूसस्य अधिनिवेशाक्रमणानन्तरं प्रथमतया एव पुतिन-मोदी अभिमुखचर्चा सम्पन्ना।

Saturday, September 17, 2022

 

रोजर् फेरडरः निवर्तते। 

> विश्वविख्यातः टेन्निस् क्रीडकः रोजर् फेडररः क्रीडायाः निवर्तते। आगामिनि सप्ताहे सम्पत्स्यमाना 'लेवर् चषक' स्पर्धा स्वस्य अन्तिमा क्रीडा भविष्यतीति तेन निगदितम्। ग्रान्ड्स्लाम् क्रीडायामपि सः परं न क्रीडिष्यति। 

  ४१ वयस्कः रोजर् फेडररः १९९८ संवत्सरादारभ्य इतःपर्यन्तं १०३ किरीटानि प्राप्तवान्। आस्त्रेलियन् ओपण्, फ्रञ्च् ओपण्, विम्बिण्डण्, यु एस् ओपण् एतानि समेत्य २० ग्रान्डस्लामकिरीटानि च तेन प्राप्तानि। तस्य क्रीडामण्डले तस्मिन् १२५१ स्पर्धासु विजयं प्राप्तासु केवलं २७५ क्रीडासु पराजयमनुभूतवान्। 

  स्विट्सर्लान्ट् देशीयः फेडर‌रः जनप्रियः क्रीडकः इति प्रथां प्राप्य एव क्रीडाङ्कणात् विरमति।

Friday, September 16, 2022

यूबर् जालके सुरक्षाच्युतिः। जालकृतिः भञ्जिता इति दृढीकृता।

सान्फ्रान्सिस्को> यूबर् जालकृतिः भञ्जिता इति दृढीकृता। सैबर् सुरक्षासमस्याः अभिमुखीक्रियन्ते। विषयेऽस्मिन् अन्वेषणं प्रचलति इति यूबर् इत्यनेन ट्वीट्ट् कृतम्। यूबर् विधानेषु पूर्णप्रवेशः नियन्त्रणं च भञ्जकेन स्वायत्तीकृतमिति यूबर् अभियन्तृणा आवेदितम्।

 नरेन्द्रमोदी उस्बस्किस्थाने। 

नवदिल्ली> षाङ्हाय् सहयोगसंघटनस्य २२तमे उच्चसम्मेलने भागं गृहीतुं प्रधानमन्त्री नरेन्द्रमोदी उस्बस्किस्थानं प्राप्तवान्।तत्रस्थे समर्खण्डे सम्पद्यमाने सम्मेलने चीनः,रष्या, इरानः इत्येतेषां  राष्ट्रपतयः पाकिस्थानस्य  प्रधानमन्त्री च भागं कुर्वन्ति। 

  चीन-रष्ययोः  राष्ट्रपतिभ्यां सह नरेन्द्रमोदी पृथक् पृथक्  चर्चां करिष्यतीति विदेशकार्यमन्त्रालयेन निगदितम्। 

  पूर्वोक्तानि राष्ट्राणि समेत्य ताजिकिस्थानं, उस्बकिस्थानम् इत्यादिनि १५ राष्ट्राणि एस् सि ओ नामके अस्मिन् सहयोगसंघटने सन्ति।

Thursday, September 15, 2022

 गुजरातसमुद्रे उन्मादकवस्तुभिः सह पाकिस्थानीयाः ग्रहीताः। 

अहम्मदाबादः> २०० कोटिरूप्यकाणां मूल्यपरिमितैः ४० किलोपरिमितैः उन्मादकवस्तुभिः सहितमेकं पाकिस्थानीयं जलयानं भारतीयतटरक्षासेनया गुजरातीयारक्षकविभागस्य आतङ्कवादविरुद्धविभागेन च सह निगृहीतम्। तत्रस्थाः षट् पाकिस्थाननागरिकाः च निगृहीताः। 

  कच्चिल् जक्कावु महानौकापत्तनस्य समीपं भारतसमुद्रसीमायाः ६ कि मी अन्तराले आसीत् पाकिस्थानस्य नौका निगृहीता। पञ्चाबे कारागारबद्धः कश्चन विदेशीयः एवास्य कुकर्मणः सूत्रधार इति ए टि एस् अधिकारिभिः उक्तम्।

कोविडस्य नूतनविभेदः अमेरिक्कादेशे ब्रिट्टणे च प्रसरति ।

लण्डन्> कोविडस्य नूतनविभेदः अमेरिक्कादेशे बिट्टणे च प्रसरति इति प्रतिवेदनम्। कोविडस्य ओमिक्रोण् विभेदस्य उपविभेदः बि.ए.४.६ एव अधिकतया प्रसरति। ब्रिट्टणे आगस्त१४ दिनाङ्कादारभ्य लब्धासु गणनासु बि ए ४.६ विभेदस्य व्यापनं  ३.३% प्रतिदर्शेषु संदृष्टः। सि डि सि पि इत्यस्य गणनानुसारं अमेरिक्कासु नूतनोपभेदस्य व्यापनं ९% भवति। विश्वस्मिन् अन्येषु राष्ट्रेषु अपि एषः विभेदः संदृष्टः इति प्रतिवेदनमस्ति।

Wednesday, September 14, 2022

 'होट् स्प्रिङ्' क्षेत्रे सैनिकप्रतिनिवर्तनं सम्पूर्णम्। 

नवदिल्ली> पूर्वलडाकस्य गोग्र-होट्स्प्रिङ् क्षेत्रात् चीनभारतयोः सैन्यानां प्रतिनिवर्तनं सम्पूर्णमभवत्। अल्पकालिकतया निर्मितानि शिबिराणि विभागद्वयेनापि विदारितानि। 

  १६ वारं सम्पन्नैः कमान्डर् स्तरीयोपवेशनैः एव सैनिकनिवर्तनं सार्थकमभवत्। १५ तमात् पट्रोलिंग् स्थानात् सेनाप्रतिनिवर्तनमारब्धमिति सेप्तबर् अष्टमे दिनाङ्के उभयेनापि राष्ट्रेण प्रख्यापितम्। २०२० मेय् ५ तमे पांगोंग् क्षेत्रे उभयोरपि राष्ट्रयोः सैनिकाः मुखामुखं साक्षात् युद्धसन्नद्धाः एव तिष्टन्तः आसन्। अधुना युद्धं विना प्रतिनिवर्तते स्वयं इत्यस्मात् सीमाविषये विवादाःशाम्येरन् इत्याशास्महे ।

Tuesday, September 13, 2022

 रष्या-युक्रेनयुद्धः २०० दिनानि अतीतवान्। 

रष्यायाः प्रत्याघातः; अभिभूतान् प्रदेशान् युक्रेनः प्रत्यग्रहीत्। 

कीव्> युक्रेनेन सह रष्यया आरब्धो युद्धः द्विशतेषु  दिनेषु  अतीतेषु प्रत्याक्रमणस्य प्रतिग्रहणस्य च वार्ताः बहिरागच्छन्ति। रष्यया अभिभूतं बलाक्लियनामकं नगरं युक्रेनेन प्रतिगृहीतमिति सूच्यते। तथा च खार्कीव् प्रदेशे अपि युक्रेनस्य पुरोगमनं दृश्यते। तत्रस्थम् इसियं नगरं गतदिने प्रतिगृहीतम्। कुपियान्सिक् प्रदेशस्य भूरिशः स्थानेभ्यः रूससैनिकानां प्रतिनिवर्तनमनुवर्तते इति बी बि सि वार्ताहरमाध्यमेन सूचितम्।

ज्ञानवापी-शृङ्गारप्रकरणे अनवरतं वादश्रवणं विधातुं निर्देशः

वाराणस्याः जनपदन्यायालये ज्ञानवापी-शृङ्गारप्रकरणे अनवरतं वादश्रवणं विधातुं निर्देशः दत्तः। आगामिनं वादश्रवणं सितम्‍बर-मासे द्वाविंशे दिने भविष्यति। न्यायालयेन इस्लाम-पक्षस्य याचिकायाः निराकरणं विधाय कथितं ज्ञानवापी- शृङ्गार-प्रकरणस्य पक्षे प्रस्तुता याचिका वादश्रवणयोग्‍या वर्तते। जनपद-न्‍यायाधीशः ए.के.विश्‍वेसेनः इस्लाम-पक्षस्य याचिकाकर्तृणां पूजा-स्‍थलाधिनियम-सम्बद्धां याचिकां निराकृत्य समेभ्यः याचिकाकर्तृभ्यः अवोचत् यत् आगामिनं वादश्रवणं यावत् निजोत्तराणि प्रस्तुवन्तु।

अवधेयं यत् पञ्च महिलाभिः ज्ञानवापी मस्जिद-परिसरे शृङ्गार-गौर्याः दैनिकपूजायाः अनुमत्यै याचिका प्रस्तुतासीत्।

अंजुमन इंतजामिया मस्जिद-समित्या उक्तं यत् ज्ञानवापी-मस्जिद-वक्‍फ-सम्‍पत्तिः वर्तते। समित्या न्यायालये प्रस्तुत-याचिकायाः वादश्रवण-पात्रतायामपि प्रश्नचिह्नाङ्कनं कृतम्।

न्यायालयेन गतदिवसीयं निर्णयं निधाय वाराणस्यां निषेधाज्ञा प्रवर्तिता। विधिव्यवस्थायाः महानिदेशकः प्रशान्तकुमारः अवोचत् यत् राज्‍यव्‍यापक-जागरूकता प्रसारितास्ति।



Monday, September 12, 2022

 अमेरिक्काराष्ट्रस्य ब्लाक् होक् उदग्रयाने तालिबानस्य परिशीलनम्। उदग्रयानं भग्नम्। त्रयः यात्रिकाः मारिताः।

    काबूल्>  अमेरिक्कासेनायाः स्वाधीने वर्तमानं तालिबालेन संगृहितम् उदग्रयानं परिशीलनडयनावसरे भग्नम्। सेप्तंबर् मासस्य दशमे दिने एव दुर्घटनेयं जाता। अपघातस्य चलनचित्रखण्डः सामाजिकमाध्यमेषु प्रसरन् अस्ति। दुर्घटनायाम् अस्यां त्रयः यात्रिकाः मृताः इति प्रतिवेदनमस्ति। ३० मिल्यन् डोलर् मूल्ययुक्तम् उदग्रयानं डाययितुं तालिबानस्य अङ्गस्य परिश्रमः, नियन्त्रणं विना उदग्रयानस्य भञ्जनम्, अधः पतनम् इत्यादयः चलनचित्रखण्डे द्रष्टुं शक्यते। काबूलस्य सैनिकविमानपत्तनात् संगृहीतं दृश्यमिति एन् डि टि वि माध्यमस्य प्रतिवेदनमस्ति।

 द्वारकापीठस्य शङ्कराचार्यः स्वरूपानन्दसरस्वतिस्वामिनः समाधिं प्राप्तवन्तः। 


भोप्पालः> श्रीमदादिशङ्कराचार्येण अद्वैतवेदान्तदर्शनप्रचाराय  स्थापितेषु चतुर्षु मठेषु अन्यतमस्य गुजरातस्य  द्वारकापीठस्य इदानीन्तनाचार्यः स्वामि स्वरूपानन्द सरस्वती स्वधामं प्राप्तवान्। बदरीनाथस्थस्य ज्योतिर्मठस्य च आचार्यः आसीत्। 

  १९२४ तमे वर्षे मध्यप्रदेशस्थे सियोनिजनपदे डिगोरिनामके आसीत् अस्य सन्यासिवर्यस्य जननम्। पोतिराम उपाध्याय इत्यासीत् पूर्वाश्रमनाम। बाल्य एव आध्यात्मिकविषयेषु तत्परः सः नवमे वयसि आत्मीयान्वेषणाय गृहं तत्याज। १९४२ तमवर्षस्य 'क्विट् इन्डिया' स्वतन्त्रतान्दोलने भागं गृहीतवान् सः तत्कारणेन द्विवारं कारागारबन्धितश्चाभवत्। 

  विविधविषयेषु स्वस्य मत दृढतामालक्ष्य सः 'विप्लव स्वामी'ति प्रथां लब्धवान्। १९८१ तमे शङ्कराचार्यपदमलभत। समाध्युपवेशनकर्माणि अद्य आश्रमे सम्पत्स्यति।

 एष्या चषकक्रिक्कट् - श्रीलङ्का विजिता। 

दुबाय्> एष्या चषकक्रिक्कट् स्पर्धापरम्परायाः अन्तिमस्पर्धायां पाकिस्थानं २३ धावनाङ्कैः पराजित्य श्रीलङ्का विजयश्रीलालिता अभवत्। अन्तिमद्वन्द्वे प्रथमं कन्दुकताडनं कृतवती श्रीलङ्का २० क्षेपणचक्रैः ६ ताडकानां विनष्टे १७० धावनाङ्कान् प्राप्तवती। प्रतिद्वन्द्वे क्रीडायाः अन्तिमकन्दुकक्षेपणे पाकिस्थानस्य  सर्वे ताडकाः बहिर्गताः। तेषां लाभः केवलं १४७ धावनाङ्काः। 

  श्रीलङ्कायाः षष्ठः एष्याचषककिरीटप्राप्तिः एषः। दारिद्र्य संघर्षादिसङ्कटेषु निमग्नायै श्रीलङ्कायै तस्याः कीडादलम् अनेन विजयेन महत्सान्त्वनमेव अदात्।

Saturday, September 10, 2022

 पूर्वलडाकतः भारत-चीनयोः सैनिकप्रतिनिवर्तनम् आरब्धम्। 

नवदिल्ली> पूर्वलडाक् इति केन्द्रशासितप्रदेशस्थे गोग्रा प्रदेशात् स्वबलं प्रतिनिवर्तयितुं भारत-चीनयोर्मध्ये सन्धिः अभवत्। एतदधिकृत्य भारतस्य प्रस्तुतिमनुगम्य चीनेनापि स्वप्रतिनिवर्तनं स्थिरीकृतम्। सोमवासरे सेनायाः प्रतिनिवर्तनं पूर्णं भविष्यतीति चीनेन प्रस्तुतम्। 

  सेनाविन्यासाय निर्मितानि शिबिराणि विशीर्य स्थानानि पूर्वस्थितिं कारयिष्यति। अनेन २०२० तमे आरब्धस्य संघर्षस्य लाघवं प्रतीक्षते।

 हमीरपुरम् न्यायाधीशः संस्कृतभाषायाम् अदेशः दत्तवान्।

हमीरपुर-उत्तरप्रदेशः> जिल्ला दण्डाधिकारी डॉ. चन्द्रभूषणः न्यायालयादेशः संस्कृतभाषायां दत्वा नूतनप्रक्रमः समारब्धः। अनुसूचित जातीया व्यक्तिः स्वस्यभूमिः  इतरजातीयव्यक्त्यै विक्रयं कृतवान् इति विषये संस्कृतभाषया निर्णयादेशं दत्तवान् जनपदस्तरीय-दण्डाधिकारी डॉ. चन्द्रभूषणः। एवं न्यायालयस्य संस्कृतभाषायाः  प्रथमादेशः भवति अयम्। एषः न्यायाधीशः संस्कृतभाषायां पी एच् डी स्वीकृतवानासीत्। अयं नवप्रक्रमः संस्कृतभाषायाः प्रोत्साहनाय भविष्यति इति बार् कौण्सिल् अध्यक्षेण दिनेशशर्मणा उक्तम्।


 एतां भाषां ज्ञातुं, अवगन्तुं च वयं प्रयत्नशीलाः भविष्यामः इत्यपि तेन उक्तम्। प्रायेण हिन्दीभाषायां अथवा आङ्ग्लभाषायां निर्णयाः प्रसारिताः भवन्ति । संस्कृतभाषायां न्यायादेशं दत्त्वा प्रशंसनीयः उपक्रमः समारब्धः इत्यनेन संस्कृतप्रेमिणः सन्तुष्टाः भवन्ति।

 एलिसबत् राज्ञ्याः वियोगः - भारते एकदिवसीयदुःखाचरणम् ।

   नवदिल्ली> दिवङ्गतायाः एलिसबत् राज्ञ्याः आदरसूचकत्वेन भारते एकदिवसीयदुःखाचरणं रविवासरे भविष्यति। केन्द्रगृहकार्यालयेन एव वार्तेयम् आवेदिता। तस्मिन् दिने सर्वकारमन्दिरेषु अन्यत्र च राष्ट्रपताकां अर्धावरोहणं कृत्वा बध्नाति। औद्योगिककार्यक्रमाः न भविष्यन्ति।

Friday, September 9, 2022

 एलिसबत् राज्ञी दिवङ्गता।

लण्डन्> ब्रिडण् देशस्य एलिसबत् राज्ञी (९६) दिवङ्गता। ब्रिट्टीष् राज्ञ्याःग्रीष्मकालवासस्थाने   स्कोट्ट्लण्डस्थे बाल्मोरल् राजभवने एव देहवियोगः अभवत्। गतवर्षे ओक्टोबर् मासादारभ्य स्वास्थ्यसमस्यया पीडिता आसीत् एषा। गुरुवासरे प्रभाते विशेषस्वास्थ्यपरिशोधनानन्तरं तस्याः स्वास्थ्यविषये भिषग्वरैः आशङ्कां प्रकटितवन्तः। तत्पश्चात् तस्याः देहवियोगः अभवत्। बेक्किंङ्हाम् राजभवनेन सविशेषप्रतिवेदनद्वारा एव वियोगवार्ता आवेदिता। अनन्तरं राज्ञ्याः ज्येष्ठपुत्रः चाल्स् ब्रिट्टणस्य राजा भविष्यति।

 प्रतिशतं २९ छात्राणाम् एकाग्रता नास्तीति एन् सि इ आर् टि संस्थायाः समीक्षणम्। 

नवदिल्ली> षष्ठकक्ष्यातः दशमकक्ष्यापर्यन्तेषु छात्रेषु २९% छात्रेषु एकाग्रता  अतिन्यूना इति National Council of Educational Research and Training (NCERT) संस्थया कृते मानसिकस्वास्थ्यसमीक्षणे स्पष्टीकृतम्। ११- १५ वयस्केषु छात्रेषु कठिनानि वैकारिकव्यतिचलनानि (Mood swings) दृश्यन्ते। छात्राणां मानसिकस्वास्थ्यं परिमातुं NCERT संस्थायाः मनोदर्पण् नामकविभागेनैव इदं समीक्षणं कृतम्। आराष्ट्रं ३. ७९ लक्षं छात्राः एतस्मिन् समीक्षणे भागभाजः अभवन्। 

  प्रतिशतं ७३ छात्राः विद्यालयजीवने तृप्ताः सन्ति। ८१% छात्राः अध्ययन-परीक्षा-परीक्षाफलविषयेषु उत्कण्ठाकुलाः भवन्ति। 'ओण् लेन्'अध्ययनं प्रति ५१% छात्राः प्रतिकूलिनः वर्तन्ते। 

  उन्नतमूल्यगुणयुक्ताः सामाजिकव्यवहाराः, वैयक्तिकबन्धाः, योगानुष्ठानं, ध्यानमित्यादीनि छात्राणाम्  उद्वेगान् न्यूनीकर्तुं  समर्थकानि भवन्तीति समीक्षणस्य आवेदनपत्रे सूच्यते।

 राहुलगान्धिनः 'भारत झोडो' यात्रा समारब्धा। 

कन्याकुमारी> कोण्ग्रस् राजनैतिकदलस्य पुनरुज्जीवनं  केन्द्रसर्वकारस्य जनापकारप्रक्रमेषु प्रतिषेधं च उद्दिश्य कोण्ग्रस् दलस्य नेत्रा राहुलगान्धिना नीयमाना 'भारत झोडो यात्रा' इति कृतनामधेया पदयात्रा गतदिने कन्याकुमारीतः आरब्धः। कन्याकुमारीतः काश्मीरपर्यन्तं १५० दिनैः २३०० परं कि मी दूरं पद्भ्यामेव  सञ्चरिष्यति। कन्याकुमारीस्थे महात्मागान्धिस्मृतिमण्डपे आयोजिते कार्यक्रमे  राष्ट्रस्य कोण्ग्रस् मुख्यमन्त्रिणां देशीयनेतृजनानां च सान्निध्ये तमिलनाटस्य मुख्यमन्त्री एम् के स्टालिनः पताकापरिदानं कृतवान्।

Thursday, September 8, 2022

 इदानीं राजपथस्य स्थाने कर्तव्यपथः।


नवदिल्ली> राष्ट्रराजधान्याः प्रधानमार्गः राजपथः इदनीं कर्तव्यपथः इति नाम्नि विश्रुतं भवेत्। राष्ट्रपति भवनात् इन्ट्यागयिट् पर्यन्तं दीर्घीतः मार्गः भवति कर्तव्यपथः। प्रधानमन्त्रिणा नरीन्द्रमोदिना मार्गस्य नाम कर्तव्यपथः इति पुनर्नामकरणं कृतम्।

 शबरिगिरौ अद्य श्रावणसग्धिः।

शबरिगिरिसन्निधौ अद्य भक्तजनानां कृते श्रावणसग्धिः भविष्यति। देवस्वं अधिकरिणः एव सग्धिः सज्जीक्रियते। मुख्यार्चकेन परमेश्वरन् नम्पूतिरिणा ह्यः उत्तराषाढासग्धिः सज्जीकृतः। मुख्यतन्त्री कण्ठरर् महेश्वर् मोहनर् महोदयेन प्रोज्वालितस्य दीपस्य पुरतः कदलीपत्रे अप्यप्पस्वामिने सग्धिं परिवेष्टितः। भक्तजनाः सर्वे सग्धिं स्वीकृतवन्तः। सन्निधाने अर्चकाणां देवस्वं कर्मकराणां च नेतृत्वे श्रावणपुष्पकोष्ठमपि आरचितः।

 'नीट् यू जि- २०२२ फलं प्रसिद्धीकृतम्।  

नवदिल्ली> वैद्यकाध्ययनार्थं राष्ट्रिय परीक्षा संस्थया आयोजितायाः प्रवेशनार्हतापरीक्षायाः [नीट्] फलं प्रसिद्धीकृतम्। राजस्थानीया कनिष्का प्रथमस्थानं प्राप्तवती। दिल्लीस्था वत्सा आशिष् बत्रः, कर्णाटकराज्यीयः  नागभूषणगांगुलिः च यथाक्रमं द्वितीयतृतीयस्थाने प्राप्तवन्तौ। 

  १८,७२,३४३ अपेक्षकेषु १७,६४,५७१ छात्राः परीक्षां लिखितवन्तः। ९,९३,०६९ छात्राः प्रवेशनयोग्याः जाताः।

 केरलेषु श्रावणोत्सवलहरी। 

कोच्ची> निप्पा-प्रलय-कोविड्महासङ्कटानामन्ते त्रिचतुरवर्षाणामनन्तरं केरलीयाः सर्वे स्वकीयदेशीयोत्सवलहर्याम् आमग्नाः वर्तन्ते। तीव्रवृष्टेः आशङ्कामतिजीव्य केरलीयाः ऐकमत्यस्य साहोदर्यस्य सौहार्दस्य समत्वस्य च उत्सवम् आघोषयन्ति। 

  "माबलिशासनकाले देशे मानवास्सर्वे समाना एव" इति प्रथां स्मरन्तः केरलीयाः प्रतिवर्षं श्रावणमासे श्रावणनक्षत्रे इममुत्सवं समाघोषयन्ति। महाबलिः प्रतिवर्षम् अस्मिन् दिने स्वप्रजाः द्रष्टुं केरलानागच्छतीति ऐतिह्यमस्ति। 

  सप्ताहपर्यन्तमनुवर्तमानाः उत्सवकार्यक्रमाः मुख्यमन्त्रिणा पिणरायि विजयेन रविवासरे उद्घाटिताः। राष्ट्रपतिः, प्रधानमन्त्री, राज्यपालः इत्यादयः सर्वेभ्यः केरलीयेभ्यः 'ओणाशंसान्' प्रकाशितवन्तः।

भारते जनाः अधिकतया अन्टिबयोटिक् गिलन्ति।

   कोरोणा-कालानन्तरं पूर्वं च जनाः आवश्यं विनापि अन्टिबयोटिक् औषधानि उपयुज्यन्ते इत्यस्ति सर्वेषणम्। असित्रोमैसिन् इति औषधमेव अनेन प्रकारेण अधिकतया उपयुज्यन्ते। औषधायोगस्य अङ्गीकारमि एतादृशानाम् औषधानां नास्ति। लन्सेन्ट् इति औषधविज्ञानीयपत्रिकायां प्रकाशितमस्ति इदं विवरणम्।

Wednesday, September 7, 2022

 भारत-बङ्गलादेशराष्ट्राभ्यां सप्त सन्धयः हस्ताक्षरिताः। 

नवदिल्ली> उभयोः राष्ट्रयोः वाणिज्य-व्यापारव्यवहारवर्धनाय समग्रार्थिकसहयोगं दृढीकर्तुं अचिरेणैव चर्चां कर्तुं भारत-बङ्गलादेशराष्ट्राभ्यां निर्णयः कृतः। तस्य भूमिकारूपेण सप्त सन्धयः राष्ट्रद्वयेन हस्ताक्षरिताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी  बङ्गलादेशस्य प्रधानमन्त्री शैख् हसीना इत्येतयोर्मध्ये गतदिने सम्पन्ने उपवेशने आसीदयं निर्णयः। 

  भारतस्य आर्थिकसाह्येन बङ्गलादेशे निर्मितस्य रुष्प रेल्मार्गसेतुोः, राम्पाल् तापोर्जनिलयस्य च उद्घाटनमपि सम्पन्नम्।

Tuesday, September 6, 2022

 दिल्ल्यां गंगाराममार्गस्थेन बालभारती पब्लिक स्कूल् इत्यनेन हर्षोल्लासेन मानित: शिक्षकदिवस:

वार्ताप्रेषक: युवराज: भट्टराई

(समवाप्त साहित्याकादेमीयुवपुरस्कार:)

नवदिल्ली> करोलबागमध्ये सर-गंगाराम चिकित्सालयमार्गस्थिते प्रतिष्ठिते शैक्षणिकसंस्थाने बालभारती पब्लिकस्कूल इत्याख्ये विद्यालये शिक्षक-दिवस समारोह: नितान्तमेव हर्षोल्लासेन परिपालित:।   विद्यालयस्य विशाल-सभागारे आयोजितस्य शिक्षकदिवस-कार्यक्रमस्य अवसरे विद्यालयस्य प्री प्राइमरी कक्षात: उच्चमाध्यमिक-कक्षा-पर्यन्तं अध्यापननिरताः सर्वे शिक्षका: सर्वा: शिक्षिकाश्च प्रतिभागितां कृतवन्तः। शिक्षक-दिवस-समारोह-कार्यक्रमस्य आरम्भ: प्रधानाचार्योपप्रधानाचार्यसहितै: समस्त-शिक्षकाभिभावक-संघस्य सदस्यैः दीप-प्रज्वालन-पूर्वकं कृतम्। तदनु पूर्व राष्ट्रपते: डा० सर्वपल्ली राधाकृष्णन् वर्यस्य चित्रे पुष्पार्पणमपि विहितम्। एतस्मिन् अवसरे सर्वै: शिक्षकै: पूर्वराष्ट्रपते: डा० सर्वपल्ली राधाकृष्णन् वर्यस्य स्वप्नानां साकारीकरणस्य दृढसंकल्प: कृत:।
तस्य अनुक्षणमेव विद्यालयस्य एव संस्कृत-विभाग-द्वारा प्रकाशिताया: अभिनव-पत्रिकाया: संस्कृतसौगन्धिका इत्यस्याः लोकार्पणं माननीयस्य

ओमिक्रोण् प्रतिरोधक्षमता रक्षाकवचं भविष्यति। इतः परं पुनः तरङ्गसाध्यता नास्ति इति वैज्ञानिकाः।

नवदिल्ली> राष्ट्रे कोविड्व्यापनं गण्यतया आकुञ्चति। अतः अपरतरङ्गसाध्यता नास्ति इति स्थास्थ्यविशारदाः अभिप्रयन्ति। जनसंख्यायाः प्रतिशतं अधिकजनाः कोविडस्य तृतीयतरङ्गे ओमिक्रोण् बाधिताः सन्तः रोगमुक्तिं प्रापुः। रोगबाधया आर्जिता प्रतिरोधक्षमता तेषां रक्षाकवचं भविष्यति। नातिगुरुतराः त्रिशताधिकाः ओमिक्रोण् विभेदाः भारते दृश्यन्ते। १८-५९ वयस्केषु  ८८% जनाः प्रतिरोधवाक्सिनस्य अनुमोदकमात्रा न स्वीकृताः तथापि एतत् कोविड्व्यापनस्य कारणं न भविष्यति। नूतनप्रभेदान् संद्रष्टुं जाग्रता, परिशोधना, निरीक्षणं च दृढं करणीयमिति एन् टि ए जि ऐ मेधावी डो. एन् के अरोरया प्रोक्तम्।

भारतबयोटेक् इत्यस्य नासिका-वाक्सिनाय अनुज्ञा लब्धा।

नवदिल्ली> भारतबयोटेक् इत्यस्य नासिकाद्वारा दीयमानाय वाक्सिनाय  अनुज्ञा लब्धा। सेन्ट्रल् ड्रग् स्टान्टेर्ड् और्गनैसेषन् (CDSCO) इत्यतः एव अनुमतिः लब्धा। मात्राद्वयस्य कोविषील्ड् वा कोवाक्सिन् वा स्वीकृतेभ्यः १८ अष्टादशोपरि वयस्केभ्यः एतत् नासिकाद्वारा दीयमानं वाक्सिनं लभते। ४००० जनेभ्यः वाक्सिनं दत्वा कृतं परीक्षणं विजयं आसीत्। परीक्षितेभ्यः एकस्यापि विपरीतफलानि न उद्पादितानि। अत एव  अधुना अनुज्ञा लब्धा।

 केरले लक्षद्वीपे च तीव्रवृष्टिसाध्यता। 

अनन्तपुरी> केरले लक्षद्वीपे च गुरुवासरपर्यन्तम् अतितीव्रवृष्टेः साध्यता वर्तते इति केन्द्रपर्यावरणविभागेन निगदितम्। अद्य तिरुवनंतपुरं, कोल्लं, पत्तनंतिट्टा, इटुक्की जनपदेभ्यः रक्तजागरणनिर्देशः दत्तः। अन्येषु जनपदेषु 'ओरञ्च्' जागरणनिर्देशः विहितः। लक्षद्वीपे च घोरवातेन सह तीव्रवृष्टिर्भविष्यति। अतः तत्र मत्स्यबन्धनादिकं सामुद्रिकयत्नं निरुद्धम्। 

  केरलेषु अद्य  श्रावणिकोत्सवः समारभ्यते इत्यतः विविधोद्योगमण्डलेषु व्यापरन्तः जनाः केरलीयाश्च आशङ्काकुलाः वर्तन्ते।

 उद्योगप्रमुखः सैरस् मिस्त्री कार् यानदुर्घनया मृतः। 

मुम्बई> टाटा सण्स् नामकोद्योगसंस्थायाः भूतपूर्वाध्यक्षः सैरस् मिस्त्री मुम्बय्याः समीपे पाल्घरजनपदस्थे चरोट्टीनाकस्थाने दुरापन्नया कार् यानदुर्घनया मृतः। मिस्त्री तस्य परिवारमित्राणि च  कार् यानेन अहम्मदाबादतः मुम्बयीं सञ्चरन्तः आसन्। मुम्बयीतः १३५ कि मी दूरे सूर्यनद्याः सेतुमध्ये विद्यमाने  विभजके घट्टनं कृत्वा एव दुर्घटना जातेति आरक्षकाधिकारिभिः उक्तम्। सहयात्रिकेषु जहांगीर् बिन्षा पन्डोल् नामकः अपि दुर्घटनास्थाने एव मृतः। अन्ये सर्वे मुम्बयीस्थं रिलयन्स् आतुरालयं प्रवेशिताः। 

  दुर्घटनामधिकृत्य विशदमन्वेषणं कर्तुं महाराष्ट्रस्य उपमुख्यमन्त्री तथा च गृहमन्त्री देवेन्द्र फट्नाविसेन आदिष्टम्। मिस्त्रीमहोदयस्य आकस्मिकनिर्याणे प्रधानमन्त्री नरेन्द्रमोदी, राहुलगान्धी, विविधाः नेतारः इत्यादयः अनुशोचितवन्तः।

 ब्रिट्टने लिस् ट्रस् प्रधानमन्त्री भविष्यति। 


लण्टन्> ब्रिट्टने इदानींतनविदेशकार्यमन्त्री लिस्ट्रस् महाभागा प्रधानमन्त्री भविष्यति। 'कणसर्वेटीव् पार्टी' इति राजनैतिकदलस्य नेतृस्थानाय निर्वाचने लिस् ट्रस् विजयं प्राप्तवती इति हेतोः एव अस्याः प्रधानमन्त्रिपदप्राप्तिः। भारतवंशजः भूतपूर्वः वित्तमन्त्री ऋषि सुनकः अनया पराजितः। 

  मार्गरट् ताच्चरः, तेरेसा मे इत्यनयोः अनन्तरं प्रधानमन्त्रिपदं प्राप्नुवन्ती महिला भवति लिस् ट्रस्। अद्य स्कोट्लान्टे सम्पद्यमाने कार्यक्रमे सा पदं स्वीकरिष्यति।

Monday, September 5, 2022

 युक्रैन् संघर्षे कोविड् संक्रमणवेलायां च भारतेन अत्यधिकं साहाय्यं दत्तम्। मोदिनं प्रशंस्य शैख् हसीना।

धाक्का> रष्या-युक्रैनयोः च मिथः जातायां संघर्षवेलायां पूर्वयूरोप्पे स्थगितान् बङ्गलादेशीयान् विद्यार्थिनः स्वदेशं प्रति प्रत्यानेतुं नेतृत्वं दत्तवान् भारतस्य प्रधानमन्त्री  नरेन्द्रमोदी बड्लादेशस्य प्रधानमन्त्रिण्या शैख् हसीनया प्रशंसिता। सर्वत्र कोविडस्य अतिशीघ्रव्यापनवेलायां 'वाक्सिन् मैत्री' नाम परियोजनया कोविड् प्रतिरोधवाक्सिनं दातुं मोदिना प्रकाशिताय सौमनस्याय च शैख् हसीना मोदिनं प्रशशंस।

Sunday, September 4, 2022

अतिशीघ्रं परिवर्तनं व्यापनं च। नूतनाः कोविड् विभेदाः पुनः भवेयुः - इ एम् ए।


दि हेय्ग्> कोविडस्य नूतनविभेदाः पुनः भवेयुः इति यूरोप्यन् मेडिसिन्स् एजन्सि इत्यनेन पूर्वसूचना प्रदत्ता। अतिशीघ्रं कोविड् विभेदानां परिवर्तनम् अनुवर्तते इति इ एम्. ए इत्यनेन स्पष्टीकृतम्। गणनानुसारं यूरोप्पे ओमिक्रोण् बि ५ विभेदः प्रसरन् अस्ति। नूतनतरङ्गस्य स्वभावः साहचर्यं च अभिमुखीकर्तुं सज्यते इति इ एम् ए अङ्गेन मार्को कावल्रिना उक्तम्। किन्तु नूतनप्रभेदान् अधिकृत्य वक्तुं श्रमकरं भवति इत्यपि तेन निगदितम्।

Saturday, September 3, 2022

भारतीयसमुद्रसीमायै अद्य प्रभृति विक्रान्त् सुरक्षा।


भारतेन स्वकीयेन निर्मिता विमानवाहिनी महानौका विक्रान्तः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पिता। समुद्रसुरक्षार्थं भारतस्य उत्तरं, अभिमानः च भवति विक्रान्तः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। ३३३ नीलतिमिङ्गलानां तुल्यः आकारः च अस्ति विक्रान्तस्य। ४४,५०० टण् भारः, २६२ मीट्टर् आयतिः,६३ मीट्टर् विस्तृतिः.५९ मीट्टर् उन्नतिः च अस्ति । पादकन्दुक-क्रीडाङ्कणद्वयतुल्या विस्तृतिः अपि अस्ति। १६०० अधिकसैनिकान् वोढुं पर्याप्ता भवति एषा विमानवाहिनी महानौका। २० युद्धविमानानि १० उदग्रयानानि च युगपत् संरक्षितुं शक्यते।

Friday, September 2, 2022

अतिशक्तः चक्रवातः भविष्यति। वेगः होरायां ३१४ कि.मी


डोक्कियो> विश्वस्मिन् संवत्सरीये अतितीव्रः चक्रवातः पूर्वचीनासमुद्रे प्रबलः भविष्यति इति प्रतिवेदनम्। एषः चक्रवातः जाप्पानः फिलिप्पीन्स् चीना राष्ट्रान् बाधिष्यते इति प्रतिवेदनं बहिरागच्छति। १५ किं मि. उपरि समुद्रतरङ्गस्य दुष्प्रभावः भविष्यति इति पूर्वसूचना अस्ति। हिन्ननोर् इति ख्यातस्य चक्रवातस्य होरायां २५७ कि मि. आरभ्य ३१४ कि.मि. पर्यन्तं शीघ्रताम् आर्जयितुं शक्तः भवति इति सूचना अस्ति। अमेरिक्कायाः चक्रवातसूचना-विभागेन तथा जापानस्य वातावरणनिरीक्षणविभागेन च संयुक्ततया एव पूर्वसूचना प्रदत्ता।

Thursday, September 1, 2022

 मिखायेल् गर्बच्चोवः यशःशरीरोSभवत्। 

मोस्को> विंशशतकस्य चरित्रगतेः परिवर्तनं कृतवान्, तृतीयविश्वमहायुद्धस्य अग्रात् लोकं रक्षितवान् , सोवियट् राष्ट्रसमूहस्य अन्तिमः राष्ट्रपतिः मिखायेल् गर्बच्चोवः दिवं गतः। मोस्कोस्थेन 'सेन्ट्रल् क्लिनिक्कल्' आतुरालयेन वृत्तान्तमिदं गतदिने निगदितम्। 

  सोवियट् यूणियन् इति राष्ट्रस्य समग्रप्रगत्यर्थं गर्बच्चोवेण आविष्कृतं 'ग्लास्नोस्ट्' [विशालमनः],  पेरिस्ट्रोयिक्का' [पुनर्निर्माणं] इति कृतनामधेयं परिष्करणद्वयं विधिवैपरीत्येन पराजयमभवत्। प्रबलराष्ट्रेषु अनुवर्तिताभ्यः  आणवस्पर्धाभ्यः गर्बच्चोवस्य प्रतिनिवर्तनं पाश्चात्यराष्ट्रैः सह शीतयुद्धस्य विरामकारणमभवत्। तेन  प्रक्रमेण सः १९९० तमस्य शान्तिनोबल् सम्मानार्हः जातः।

 प्रधानमन्त्री अद्य कोच्चीं सम्प्राप्नोति। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी अद्य सायं चतुर्वादने कोच्चीं सम्प्राप्नोति।   भारतेन स्वकीयतया निर्मिता प्रथमा विमानवाहिनियुद्धमहानौका 'विक्रान्तः' इत्यस्य राष्ट्रसमर्पणं प्रधानमन्त्रिणा करिष्यति। श्वः कोच्ची महानौकानिर्माणशालायामेव कार्यक्रमः सम्पत्स्यते। 

  अद्य कोच्ची अन्ताराष्ट्रविमाननिलये अवतीर्यमाणः प्रधानमन्त्री सायं कालट्यां आदिशङ्करजन्मभूमिमन्दिरं सन्द्रक्ष्यति। पेट्टा - तृप्पूणित्तुरा मेट्रो रेल् सेवायाः समुद्घाटनं, एरणाकुलं जेङ्शन्,  एरणाकुलं टौण्, कोल्लम् इत्येतेषां रेल् निस्थानकेन्द्राणां नवीकरणस्य निर्माणोद्घाटनं च प्रधानमन्त्रिणः अद्यतनकार्यक्रमेषु अन्तर्भवन्ति।