OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 28, 2018

काञ्चि-कामकोटि पीठाधिपतयः जयेन्द्र-सरस्वती स्वामिनः समाधिस्थाः।

            काञ्चीपुरम्> काञ्चि-कामकोटि पीठाधिपतयः जगद्गुरु जयेन्द्र-सरस्वती स्वामिनः समाधिस्थाः अभवत्। अद्य प्रातः नववादने आसीत् गुरोः देहत्यागः। त्र्यशीतिवर्ष देशीयः स्वामिपदाः विगतेमासे पञ्चदश-दिनाङ्के श्वासस्थगनेन अतुरालयं प्राविशत्। 
काञ्ची पीठस्य नवषष्ठी तमः अधिपः आसीत् जगद्गुरु जयेन्द्र सरस्वती। १९९४ तमात् आरभ्य एषः मठाधिपतिः आसीत्।
जम्मु - काश्मीरे भीकराणां सान्निध्यमस्ति इति आरक्षकाधिकारी
                श्रीनगरम् > जम्मुकाश्मीरे आतङ्कवादिनां सान्निध्यमस्ति इति  आरक्षक विभागाध्यक्षः  एस् पी वैदः। इस्लामिक् स्टेट् दलाध्यक्षः अबू बक्कर् बाग्दादि इत्यस्य प्रभाषणेन प्रभावितः जनः स्वयमेव आक्रमणोत्सुकाः भवितुम् अर्हति इति आरक्षकविभागेन पूर्वसूचना प्रदत्ता। विगते शनिवासरे राज्ये एकः आरक्षकः हतः । हननस्य दायित्वम् इस्लामिक् स्टेट् दलेन  स्वीकृतम् आसीत् । एतस्य पश्चात् एव राज्ये भीकरदलानां सान्निद्ध्यम् अस्ति इति आरक्षकाध्यक्षेण प्रस्तावितम्। D TV एव एतत् आवेदितम्।
                      यूरोप् भूखण्डे एतादृश आशये मग्नैः केचन अङ्गुलीपरिमितैः क्रियमाणाः आक्रमणाः प्रतिकूलतां वर्धते। ईदृशी अवस्था काश्मीरे जयते चेत् बहुक्लेशः भविष्यति इति आरक्षकाधिकारी वैदः अवदत्।
श्रीदेव्याः अन्त्येष्टिकर्म अद्य - मृतदेहः मुम्बय्यां प्रापितः। 
              मुम्बई > गतदिने दुबाय् मध्ये दिवंगतायाः अभिनेत्रिप्रतिभायाः श्रीदेव्याः अद्य अन्त्यसंस्कारः विधीयते। मुम्बय्यां 'पवन हान्स्' समीपस्थे श्मशाने अपराह्ने  सार्धत्रिवादने अन्येष्टिक्रियाः समर्पयिष्यन्ते। 
         श्रीदेव्याः मरणसम्बन्धिनी दुरूहता ह्यः एव समाप्ता। मरणकारणं न हृदयाघातः किन्तु जले निमज्य इति मरणोत्तरशोधनायां निर्णीतमासीत्। अपि च रक्ते मदिरासान्निध्यं च दृष्टम्। अतः मरणविषयः दुबाय् आरक्षकैः सर्वकारस्य 'पब्लिक् प्रोसिक्यूषन्' संस्थायै समर्पितः। तेषां विशदान्वीक्षणस्य निर्णयस्य चाधारे दुरूहता अपगता। मद्योन्मादेन स्नानागारे विद्यमाने स्नानद्रोणीं पतित्वा तस्मिन् निमज्य एव मरणमभवदिति स्थिरीकृतः! तत्परमेव मृतदेहः बन्धुजनेभ्यः दत्तः!

Tuesday, February 27, 2018

चीनाः शाकाहारी भवन्ति। मांस भोज्यानि त्यक्तवतां सङ्ख्याः वर्धते।
           बेय्जिङ्> विश्वस्य बृहतमः मांसविपणी भवति चीना। इदानीं ततः नूतनावेदनानि उपलभ्यते। बहोः कालात् पूर्वं चीनादेशे शाकाहारिणः विरलाः आसीत्। किन्तु इदानीं स्थिति: विपरीता अभवत्। चीना देशे सर्वत्र शाकाहारी भक्षणालयाः  अत्यधिकतया वर्धिताः इति च आवेदने उच्यन्ते। स्वास्थ्याय शाकाहारः एव युज्यते इति मन्वानः  बहवः सन्ति इति नूतन परिवर्तनस्य कारणत्वेन वदन्ति।
             मांसरहितं पूर्णतया प्रकृति सैहृदतया रोपितं शाकाहारमेव भोक्तव्यम् इति चीनानां अभिलाषः। २०१२ तमे संवत्सरे षाङ् हाय् प्रविश्यायां ४९ शाकाहारी भक्ष्यशालाः एव आसन्I किन्तु २o१७ तमे वर्षो अस्याः भोज्यशालायाः संख्या शाताधिका इति वर्धिता। अन्यासां प्रविश्यायामपि  एतादृश वर्धनम् अभवत्I विश्वस्य शाका विपणिषु उपभोगस्य ४०%  चीनराष्ट्रे  इत्येव गण्यते। मांसाहारः रक्तातिमर्दस्य अतिशरीरस्य च हेतुः इति बोधकरणः चीना राष्ट्रे सर्वत्र प्रचलत् अस्ति।

Monday, February 26, 2018

राष्ट्रपतिपदं - अनुवर्तिता व्यवस्था षि जिन् पिङ् इत्यस्य कृते  निरस्यते।
           बैजिङ् > चीनाराष्ट्रस्य राष्ट्रपतिपदे द्विवारात् अधिकम् अनुवर्तमानं व्यवस्थां  विरुद्ध्य आसीनः नियमः कम्यूणिस्ट् दलस्य शासन संविधानात् निष्कास्यते। राष्ट्रपतेः षि जिन् पिङ् इत्यस्य २०२३ तम संवत्सरान्तरमपि शासकरूपेण अनुवर्तितुं सन्दर्भकरणाय एतत् इति वार्तासंस्थया सिन् हुवया आवेदितम्। आधुनिक चीनस्य शक्तः नेता इति षि जिन् पिङ्: व्यवह्रियते। अतः अपरिमेयः शासनकालः तस्मै दातुमेव शासनसंविधानस्य परिष्करणमिति मन्यते।
शुचित्वयोजनायां भागं कर्तुं आह्वानं कृत्वा मन् की बात्।
       नव दिल्ली> स्त्रीणां प्रगतिः इत्यतः स्त्रीभिः नीता प्रगतिः इति अवस्तान्तरेण भारतसमूहः परिवर्त्यते इति मन् की बात् कार्यक्रमे प्रधानमन्त्रिणा मोदिना उच्यते। जीवनस्य समस्तमण्डलेषु स्त्रीणां भाग भाक्तं सबलं कर्तुं दायित्वं समूहस्येव भवति इत्यपि प्रधानमन्त्रिमहोदयेन उक्तम्। मालिन्य-निर्मार्जनम् पुनरुपयुक्त-मालिन्यबोधः च परिकल्पयितुं छत्तीस्गढ् राज्येन कृतयोजना प्रधानमन्त्रिणा विशेषतया अभिनन्दिता। मलिनवस्तून् ऊर्जवत् तथा धनप्रदायकवत् परिवर्तितुं सर्वेषाम् अनुकूलताम् अवाप्य भवतु इति मोदिना उक्तम्।

Sunday, February 25, 2018

मनोगतम्-४१’  ‘मन की बात्’      - नरेन्द्र मोदी
प्रसारण-तिथिः - 25.02.2018

   -   संस्कृत-भाषान्तर-कर्ता     -  डॉ.बलदेवानन्द-सागरः 

मम प्रियाः देशवासिनः, नमस्कारः |
अद्य प्रारम्भादेव ‘मन की बात’-प्रसारणं दूरभाषाकारणातः एव कुर्मः |         (दूरभाषाकारणा )
आदरणीय ! प्रधानमन्त्रि-महोदय !! अहं कोमल-त्रिपाठी, मेरठतः वदामि... अष्टाविंशति-दिनाङ्के ‘national science day’- इति राष्ट्रिय-विज्ञान-दिनं वर्तते... भारतस्य प्रगतिः विकासश्च, पूर्ण-रूपेण विज्ञानेन सम्बद्धौ स्तः... यावन्तम् अत्र वयं नवाचारम् अनुसन्धानञ्च करिष्यामः, तावन्तमेव अग्रेसरिष्यामः तथा च समृद्धिम् अवाप्स्यामः... किं भवान् अस्मदीयान् यूनः प्रोत्साहयितुं कांश्चन तादृशान् शब्दान् कथयिष्यति येन हि ते वैज्ञानिक-पद्धत्या स्वीयां विचार-सरणीम् विवर्धयेयुः तथा चास्माकं राष्ट्रमपि अग्रेसारयितुं शक्नुयुः...धन्यवादः |   भवत्याः दूरभाषाकारणायाः कृते भूरि-भूरि धन्यवादः | विज्ञानमधिकृत्य मम युव-सहचराः माम् अनेकान् प्रश्नान् अपृच्छन्, ते किमपि किमपि सततं मां लिखन्ति | वयम् अवलोकयामः यत् समुद्रस्य वर्णः नीलः दृश्यते परञ्च वयं स्वीय-दैनिक-जीवनस्य अनुभवैः जानीमः यज्जलस्य न कश्चन वर्णो भवति| किं कदाचिद् अस्माभिः विचारितं यत् नद्याः, समुद्रस्य वा जलं वार्णिकं कथं भवति ? अयमेव प्रश्नः विंशत्युत्तर-एकोनविंशति-शत-तमस्य  [1920] दशके एकस्य
नीरव् मोदितः १०,०००घट्यः प्रतिग्रहीतः। 
            नवदिल्ली> पञ्चाब् नाषणल् वित्तकोशात् ऋणधनचोरण प्रकरणे अपराधिनः नीरव् मोदिनः पार्श्वतः दशसहस्रं (१०,०००) घट्यः प्रतिग्रहीताः। एतस्य गृहतः वाणिज्य-संस्थाभ्यः च एते अतिमूल्यघट्यः लब्धः। एन्फोर्स्मेन्ट् निर्देशकालयेन कृतायाम् अन्वेषणे षष्ठि (६०) संख्यामितायां पलास्तिक पेटिकायां निक्षिप्रावस्थायामासीत् घट्यः। वज्राभरणेन सह विक्रयणाय अवनीताः स्यात् एते इति सूच्यते एन्फोर्स्मेन्ट् निर्देशकालयेन। इदानीं नीरव् मोदिनः धनविनिमयादयः स्थम्भितः अस्ति।
अभिनेत्री श्रीदेवी दिवंगता।
         कोच्ची > अतुल्यया अभिनयप्रतिभया सार्धदशकाधिकैः संवत्सरैः 'बोलिवुड्' चलच्चित्रमण्डलस्य मुखश्रीरूपेण परिलसिता विख्याता अभिनेत्री श्रीदेवी [५४] दिवंगता। दुबाय् देशे कस्मिंश्चन विवाहोत्सवे भागभाजं कर्तुं गतासीत्। मदिरां पीत्वा स्नाना य गता सा स्नानभ्ष्ट्रे निमज्जिजिता मृत्यु वशं गताः इति श्रूयते।  आतुरालये  प्रवेशितापि तत्पूर्वमेव मरणग्रस्ता इत्यपि श्रूयते।  रात्रौ सार्धैकादशवादने  अन्त्यं जातं स्यादिति मन्यते। स्वस्य चतुर्थे वयसि तमिळ् चलच्चित्रे नटनं कृत्वा एव श्रीदेव्याः अभिनयजीवनमारब्धम्। ततः हिन्दी, मलयालं, तमिल्, कन्नटा, तेलुगु इत्यादिषु भाषासु २५० परं चलच्चित्रेषु स्वस्य अभिनयप्रतिभां प्रकाशितवती। २०१३ तमे वर्षे राष्ट्रस्य पद्मश्री बहुमत्या समादृता। श्रीदेव्याः मरणे राष्ट्रपतिः, प्रधानमन्त्री, बहवः चलच्चित्र-सांस्कृतिक प्रमुखाश्च अनुशोचनं प्रकाशितवन्तः।।
वनवासिनः हत्या - सर्वे अपराधिनः गृहीताः। 
       पालक्काट् > केरले मधुनामकस्य वनवासियुवकस्य हत्यायाम् भागभागं कृतवन्तः सर्वे आरक्षकैः निगृहीताः। षोडश युवकाः अस्मिन् निष्ठुरे व्यापादने भागभागं कृतवन्तः इति आरक्षकाधिकारिभिः उक्तम्। तथा च मधोः मरणं संघटितेन मर्दनेनेति वैद्यसंघेन मरणोत्तरशोधनायाम् उपस्थापितम्। अनेकैः कृतस्य किरातमर्दनस्य सूचनाः मृतदेहे वर्तन्ते। शरीरे ताडनक्षतरहितः भागः नास्तीति वैद्यैः निरीक्षितम्। वरिष्ठवैद्यैरेव मरणोत्तशोधना कृता।

Saturday, February 24, 2018

तालिबानैः  भीकराक्रमणं -२२ सैनिकाः हताः।
      काबुल्> अफ्गानिस्थानस्य सैनिकस्थाने तालिबानस्य भीकरेण कृताक्रमणे द्वाविंशति(२२) सैनिकाः हताः। राजधान्यां आत्मघातिना कृताक्रमणे एकः च हतः षट्जनाः क्षताः। अफ्गानिस्थानम् अनुकूल्य यु एस् सैन्येन तालिबानं विरुद्ध्य कृतव्योमाक्रमणानुबन्धितया प्रत्याक्रमणवत् कृतमासीत् इदम् आक्रमणम्। अफ्गानिस्थानस्य पश्चिमप्रविश्यायां फरह्  मण्डलस्य सैनिकरक्षास्तम्भे एव घटनेयं प्रवृत्ता।
सभामेलनानि शतं दिनानि प्रचाल्यन्ताम् इति निश्चयं भवतु - प्रणाब् मुखर्जी।  
         नवदिल्ली> विधानसभायां प्रतिनिधि सभायां च मेलनानि न्यूनातिन्यूनं शतं दिनानि यावत् भवन्तु इति प्रधानमन्त्री तथा अन्ये मन्त्रिणः च निश्चयं करणीयम् तदर्थं नूतन नियमनिर्माणस्य आवश्यकता नास्ति इति भारतस्य भूतपूर्वराष्ट्रपतिना प्रणाब् मुखर्जिना  उक्तम्। 
        इन्स्टिट्यूट् आफ् सोष्यल् सयन्स् इति संस्थया आयोजिते डि टि लक्डवाला नामकस्य आर्थिक-विचक्षणस्य अनुस्मरणकार्यक्रमे भाषमाणः आसीत् सः। सम्मेलनदिनानि न्यूनानि तथा सभाकार्यक्रमाणां स्थगनं च भवति। एतत् न स्वीकार्यः, न अनुवर्तनीयः। प्रश्नकरणस्य चर्चायां भागभाक्करणस्य सर्वकारस्य प्रत्युत्तरश्रवणस्य च सामाजिकानाम् अधिकारः तथा सन्दर्भः च विनष्टः जायते इत्यपि प्रणाब् मुखर्जीवर्येण उक्तम्।

Friday, February 23, 2018

वित्तकोशर्णधनापहरणं - कोत्तारी पुत्रश्च सिबिऐ संस्थया गृहीतौ। 
    नवदिल्ली > वित्तकोशेभ्यः कोटिशः रूप्यकाणि अपहृतानि इति विषये 'रोटोमाक् पेन्स्' नामिकायाः  वाणिज्यसंस्थायाः स्वामी विक्रम् कोत्तारी  तस्य पुत्रः राहुलश्च सिबिऐ अधिकारिभिः निगृहीतौ। 'बैंक् ओफ् बरोडा' वित्तकोशस्य नेतृत्वे वर्तमानात् सप्तानां वित्तकोशानां समूहात् ऋणरूपेण स्वीकृतानां ३६९५ कोटिरूप्यकाणां प्रत्यर्पणे विलम्बः कृतः इत्यस्ति व्यवहारविषयः।
मनोगतम्
“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]      (प्रसारण-तिथि:)            
                                       -    बलदेवानन्द-सागरः  
मम प्रियाः देश-वासिनः !
             नमस्कारः | कतिपय-दिनेभ्यः पूर्वम् अहं कर्णाटकस्य बालमित्रैः सह परोक्ष-संवादस्य अवसरं लब्धवान् | Times Group - इत्यस्य ‘विजय-कर्णाटक’-वार्तापत्रं बाल-दिवसावसरे, प्राथमिक-प्रयासम् अकरोत् यस्मिन् साग्रहं बालाः प्रेरिताः यत्ते प्रधानमन्त्रिणं पत्रं लिखेयुः | अनन्तरम् अमुना कानिचन चितानि पत्राणि प्रकाशितानि | अहं तानि पत्राणि अपठम्, तत् मह्यं सुतरां अरोचत | एते लघु-लघु-बालकाः अपि,  देशस्य समस्याभिः अभिज्ञाताः सन्ति,  देशे प्रवर्तमानाभिः चर्चाभिरपि परिचिताः सन्ति | अनेकान् विषयान् आलक्ष्य एते बालाः अलिखन् | उत्तर-कन्नड़स्य, कीर्ति-हेगड़े, Digital India-Smart City - इति  योजनां प्रशंसन्ती परामर्शयत् यत् अस्मदीयायां शिक्षा-व्यवस्थायां परिवर्तनस्य आवश्यकतास्ति, तथा च, सा इदमपि परामर्शयत् यत् अद्यत्वे बालाः कक्ष्यायामेव पठितुं नाभिलषन्ति, तेभ्यः प्रकृति-ज्ञानं अतितरां रोचते | यदि वयं बालेभ्यः प्रकृति-सूचनां दद्मश्चेत्, स्यात् पर्यावरणस्य रक्षायाः कृते तेभ्यः भविष्यत्काले महत्-साहाय्यं सेत्स्यति |
             लक्ष्मेश्वरातः रीडा-नदाफः अलिखत् यत् सा सैनिकस्य पुत्री अस्ति, सा चैतद्-विषये गौरवम् अनुभवति | को नाम वा भवेत् भारतीयः, यः सैनिकत्व-विषये गौरवं नानुभवेत् ! भवती तु सैनिकस्य पुत्री, भवत्याः गौरवानुभूतिस्तु स्वाभाविकी | कलबुर्गीतः इरफ़ाना-बेग़मः अलिखत् यत् तस्याः विद्यालयः तद्-ग्रामात् पञ्च-किलोमीटर-मितान्तरालेन दूरं वर्तते, यतः तया गृहात् शीघ्रं निर्गन्तव्यं भवति, अपि च, प्रत्यागमनेsपि अतितरां विलम्बो भवति | सा इदमपि लिखितवती यत् एतस्मात् कारणात् स्वीयैः सखिभिः साकं सा कालं यापयितुं नैव शक्नोति |

Thursday, February 22, 2018

आधारपत्रमिव शिशूनां कृते नूतना प्रत्यभिज्ञानसङ्ख्या।
           नवदिल्ली> शिशूनां कृते  प्रत्यभिज्ञानसङ्ख्या आधारपत्र सङ्ख्या इव  सज्जीक्रियते केन्द्रसर्वकारेण। शिशूनां जननमारभ्य शिक्षा, स्वास्थ्यम् इत्यादि विशेषाः संग्रहीतुम् उद्दिश्यते । किन्तु बयोमेट्रिक् विवरणानि न रेखीक्रियते। 
           शिशूनां जननकाले स्वास्थ्य विभागात् एव संख्या लभते। अनन्तरम् इमानि विवरणानि आधार् संख्यया सह बद्ध्नाति। अतः अस्मिन् संख्यायाम्  समग्रविवरणानि भविष्यति।  राष्ट्रस्य शिशूनां शिक्षा, शिक्षानन्तरं  कर्मरहिनां गणानादिकं च अवगम्यते। अतः शिक्षायाः श्रेष्ठतावर्धनं  भविष्ययोजनायाः आयोजनं च शक्यते।
भारतात् भीत्या चीनेन व्योमसुरक्षा वर्धापिता I
         नवदिल्ली >  भारतात् आक्रमणभीत्या चीनेन सीमायां सुरक्षाप्रक्रमाः वर्धापिता। वार्तामिमां चीनस्य सेनाविभागेन आवेदितम्I जे १० एयर्क्राफ्ट् लघुभारयुक्तः मल्टि रोल् एयर् क्राफ्ट्, जे- ११ एक आसन्दयुक्त एन्जिन्द्वययुक्त एयर् क्राफ्ट् च सीमायां विन्यस्ताः। पीप्पिल्  लिबरेषन् सेनायाः  अन्तर्जालेन संयोज्य एव अस्य प्रवर्तनं सज्जीकृतम् ।
सुप्रसिद्घनटः कमलहासः  नूतराजनैतिकदलं अवातारयत् ।
॥ 'मक्कल् नीति मय्यम्' ॥
                मधुर> दक्षिणभारतस्य विख्यातः नटः कालहासः 'मक्कल् नीति मय्यम्' इति नूतनं राजनैतिकदलम् व्यज्पयत्I दिल्ली मुखयमन्त्री अरविन्द् केजरिवाल्  अन्ये आम आद्मीदल नेतारः च कार्यक्रमे भागभाजः आसन्।  अहं नेता न जनेषु एकः एव।  केरल मुख्यमन्त्रिणः पिणरायि विजयस्य वीडियो सन्देशमपि तत्र प्रदर्शितवान् । भूतपूर्वराष्ट्रपतेः ए पि जे अब्दुल् कलामस्य गृहसन्दर्शनानन्तरमेव राजनैतिक दल प्रख्यापनस्य  प्रारम्भयात्रामारब्धवान् ।

Wednesday, February 21, 2018

महाराष्ट्र सर्वकारस्य  विमाननिर्माणदायित्वं युवकाय।
                मुम्बै> प्रथमविमाननिर्माणेन  सफलताम् अवाप्य अमोल् यादवः।  महाराष्ट्र सर्वकारस्य कृते विमाननिर्माणस्य दायित्वम् इदानीं अमोल् यादवस्य एव। एतदर्थं पञ्चत्रिंशत् कोटिरुण्यकाणि सर्वकारेण प्रदास्यते। अमोलस्य तेर्स्ट् एयर्क्राफ्ट् प्रै. लिमिट्टड्  नाम उद्योग संस्थया निर्मितं षट् यात्रिकणां यात्रासनयुक्तं विमानं व्याेमयान विभागस्य अङ्गीकारम् अवाप्तम्  इत्यनेन एव महाराष्ट्र सर्वकारः सन्धौ  हस्ताक्षरीकृतम्।  योजनायाः कृते पल् गर् जनपदे सप्तपञ्चाशतधिक एकशत (१५७) 'एकर्' परिमितं भूमिं प्रदास्यते। नवदश यात्रारासनयुक्तं विमानमेव (१९) नवीनायां योजनायां प्रथमतया निर्मीयते इति अमोल् यादवेन उक्तम्।
सिरियायाः व्याेमाक्रमणे २०० जनाः हताः।
           गूट्ट> पूर्वगूट्टा देशे सिरियस्य सेनया कृते व्योमाक्रमणेन द्विशतं (२००) जनाः हताः। अस्मिन् मण्डलस्य अवस्था अतीव गुरुतरा इति ऐक्यराष्ट्र संस्थया आवेदितः। रविवासरात् अनुवर्त्यमाणे आक्रमणे सप्तपञ्चाशत् (५७) शिशवः मारिताः इति युद्धनिरीक्षकाः 'सिरियन् ओब्सर्वेट्टरि इति दलेन उच्यते। २०११ तमात् संवत्सरात् आरभ्य विमतसेनायाः नियन्त्रणे भवति पूर्वगूट्टI इदानीम् एतन्मात्रमेव भवति दमास्कसस्य समीपवर्ती विमतानां शक्तिकेन्द्रः।  प्रदेशस्थान् जनान् लक्षीकृत्य क्रियमाणः आक्रमणः झटित्येव स्थगनीयः इति यु एन् समित्या आदिशत्I
केरल संस्कृताध्यापक फेडरेषन् - समितेः राज्य स्तरीय महामेलनं कासरगोड् जनपदे।
                 कासरगोड् > केरलसंस्कृताध्यापक फेडरेषन् समित्याः चत्वा रिंशत् तमं  (४०) राज्यस्तरीय महामेलनं श्वः (२२ दिनाङ्के) समारभ्यते। कासरगोड् नगरपालिकासभायां दिनत्रयात्मकं मेलनं विविधविपुल कार्यक्रमैः सम्पन्नं भविष्यति। शिक्षा-मेलनं केरलराज्यस्य मन्त्रिणा इ. चन्द्रशेखरेण उद्घाट्यते । संस्कृतपण्डितस्य तथा महाजनसंस्कृत कलाशालायाः स्थापकस्य नीर्चाल् श्री खण्डिगे भट्टस्य स्मृतिमण्डपात् प्रज्वालितदीपशिखा प्रयाणेन सह महामेलन कार्यक्रमः समारभ्यते। विविध मण्डलेषु सुज्ञाताः विशेषज्ञाः सभायां भागभाजः भविष्यन्ति।

Tuesday, February 20, 2018

सर्वाशस्तिषु श्रेष्ठा विशाखा मदीया
   
वार्ताहर: मंजू भट्टाचार्य 
कत्तर्> गतदिबसे कतार् (Qatar) प्रदेशे डोहा (Doha ) इति स्थाने 'संस्कृत भारती' नाम्नः समूहः संस्कृतस्य प्रचार-प्रसारणाय 'संस्कृतं दिनम्'  इति एकम् अभिनव प्रतियोगितायाः आयोजनम् अकरोत्। डोहा अञ्चले स्थितं सर्वेषां भारतीयानां विद्यालयानां छात्राः अस्यां स्पर्धायाम् अंशग्रहणम् अकुर्वन्। संस्कृतं दिनम् अनुष्ठाने  सुभाषितानि च लघुकथावाचश्च हस्तलिखनं च संस्कृत - गीतं च नानाविधानि विभागेषु स्पर्धा आयोजितम् आसीत्। 'विशाखा हरिकृष्णनः ' नाम्नः एका द्वादशवर्षिया बाला संस्कृते अनुवादितं " सारे जहाँ से अच्छा हिंदुस्तान हमारा (सर्वलोकेषु रम्यं भारतमस्मदीयं मदीयम् ....)" गीत्वा प्रथमस्थानम् प्राप्तवती। अत्र उल्लेखनीय यत् इदं बहुः लोकप्रियश्च विख्यातः गीतस्य संस्कृतानुवादं भारतवर्षस्य आसामप्रदेशनिवासी रञ्जन बेजबरुआ महाशयेन कृतम्। २०१६ तमे वर्षे इदं गीतं दूरदर्शने प्रसारणम् अभवत्। इदानीं रञ्जन महाशयेन  अनुवादितम् इदं गीतं संस्कृतजगति सर्वाधिकं लोकप्रियं भवति। कनिष्ठा विशाखा इदं गीतं च हस्तलिखनं द्वे क्षेत्रे प्रथमं स्थानम् प्राप्तवती। वालायाः  उत्फुल्लश्च गर्वितः पिता श्रीः एइच् गणपति महाशयः स्वयं अयं सन्देशः पत्रमाध्यमेन गीतानुवादकं प्रेषितवान्। एषा वार्ता सर्वसंस्कृतप्रेमीणां निकटे हि आनन्ददायका।
चीनस्य वण् बल्ट् वण् रोड् योजनायाः प्रत्युत्तरवत् नूतन योजनया सह भरतं यूरोप्यन् यूणियन् च।
          होङ्कोङ् > चीनस्य 'One belt one Road, योजनां विरुद्ध्य स्पर्धितुं निश्चित्य भारतं तथा 'यूरोप्यन् यूणियन्' राष्ट्राश्च नूतना योजना समायोजयति। अमेरिक्क, जप्पान् , ओस्ट्रेलिय, प्रभृतयः राष्ट्राः योजनामधिकृत्य भारतेन सह चर्चाम् अकरोत् इत्यपि सूचना आगच्छति। ओस्ट्रेलिय राष्ट्रस्य प्रधानमन्त्रिणा कृतायां अमेरिकसन्दर्शन वेलायामपि इयं योजनामधिकृत्य चार्चा आसीत् । ईदृशी चर्चा प्रचालयते इति जापानस्य चीफ्‌काबिनट् सेक्रट्टरी योषी गिडे सुगा इत्याख्यः अवदत्।

Monday, February 19, 2018

एकस्मिन् हस्ते अनुजः अन्यस्मिन् हस्तेन टिप्पणी पुस्तके लिखति।
   
               बालकस्य जस्टिनस्य चित्रमिदं तस्य अध्यापिकया सर्वजनिक वाहिन्यां संस्थापितम्। विद्यालयं गन्तुम्  अनीप्सितानां छात्राणाम् अभिप्रेरणात्मकं भवति जस्टिन् नाम बालकस्य इदं चित्रम्। एषः फिलिपैन्स् देशीयः भवति। देशेऽस्मिन् भूरिशिशवः विद्यालयं न गच्छन्ति। ते तेषां सहजातानाम् अनुजानां पालनाय गृहे एव तिष्टन्तः सन्ति। जस्तिनस्य गृहे सर्वे जनाः कर्मकर्तुं गृहात् बहि: गच्छन्ति प्रतिदिनम्। मातामही अपि कर्मकर्तुं गच्छति। अतः अनुजस्य पालनस्य उत्तरदायित्वम् जस्तिनस्य  शिरसि पतितम्। सः सार्थैकवयस्कस्य अनुजेन साकं विधालयं गन्तुं  न्यश्चिनोत्। साल्वेषन् एलिमेन्टरि विद्यालयस्य प्रथमकक्ष्यायाः छात्रः भवति एषः। आर्थिकक्शेन अत्रत्याः जनाः सामान्येन शिशून् विद्यालयं न प्रेषयन्ति।
त्रिपुरायां मतदानं प्रतिशतं ७६। 
           नवदिल्ली > सि पि एम् - भा ज पा दलयोः मुखामुखप्रतियोगिता संवृत्ते त्रिपुराविधानसभानिर्वाचने प्रतिशतं ७६ परिमितं मतदानं संवृत्तम्। गतनिर्वाचने एतत् ९१.८२% आसीत्।  ६० अङ्गयुक्तविधानसभायां ५९ स्थानेष्वेव ह्यः निर्वाचनमभवत्।
शतदिनाभ्यन्तरे कोच्ची याचकमुक्तनगरं भविष्यति। 
          कोच्ची > आरबसमुद्रस्य राणीति कीर्तिमाप्तं कोच्चीनगरं सम्पूर्णयाचकनिरॊधितनगरं कर्तुम् आॊयोजना  आविष्क्रियते। केरल लीगल् सर्वीसस् अतोरिटी नामकस्य नीतिन्यायसाहाय्यसंघटनस्य सेवनमुपयुज्य  शतदिनानात्मकेन यज्ञेनैव लक्ष्यो$यं प्राप्स्यते! 
        राज्यान्तरेभ्यः प्राप्ताः याचकस्त्रियः बालिकाः च स्वदेशं प्रापयितुं यत्नः करिष्यते। वीथिषु अटन्तान् अन्यान् बालकान् नगरे एव वर्तमानेषु अभयकेन्द्रेषु वाससुविधां कृत्वा अध्ययनादिकं सर्वं सज्जीकरिष्यते। नगरे याचकानामाधिक्यं जनानां भीतिश्च नगरसभाधिकारिभिः एतादृशनिर्णयाय कारणमभवत्।

Sunday, February 18, 2018

छत्तीस् गड् राज्ये मावोवादिनः आक्रमणम् - द्वौ सुरक्षासेनान्यौ वीर मृत्युं प्राप्तवन्तौ।
नवदिल्ली>सुक्म जनपदस्थे बेज्जि देशे प्रवृते मावोवादिनः आक्रमणेन द्वौ सुरक्षासैनिकाै वीरमृत्युं प्राप्तवन्तौ। षट् सङ्ख्यकाः क्षताः च। बेज्जिदेशस्थे चिन्तगुफ मार्गनिर्माणाय मृतौ सैनिकौ अन्यै सैनिकैः सह सुरक्षाकार्यं कुर्वन्तौ  आस्ताम् । मावोवादिभिः कृतेन स्फोटनेन एव द्वौ हतौ। मड्कां हन्त, मुकेष् कट्ति च मृतौ आरक्षकौ। किन्तु सुरक्षा उद्योगस्थानाम् अयुधानि न नष्टानि इति आरक्षकप्रवरः (।G) सुन्दरराजः अवदत्।  मार्गनिर्माणस्य रोधाय  अक्रमिणः वाहनानि अग्निसात्‌ कृतानि च ।
छात्रैः सह प्रधानमन्त्रिणः परीक्षायै चर्चा कार्यक्रमः
पुरुषोत्तम शर्मा
        नवदिल्ली>प्रधानमन्त्री नरेन्द्रमोदी नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणं कृतवान्। श्रीमोदी अभिभावकान् अध्यार्थयत् यत् ते स्वाबालानाम् उपलब्धीन् सामाजिकप्रतिष्ठाविषयत्वेन मा स्वीकुर्युः। प्रत्येकस्मिन बाले तस्य विशिष्टा प्रतिभा विद्यते ।  नवदिल्ल्यां परीक्षायै चर्चा कार्यक्रमे छात्रैः सह सम्भाषणावधौ श्रीमोदिनोक्तं यत् अभिभावकैः अङ्कप्राप्तेः स्थाने छात्राणां सहयोगः करणीयः। बालकानां जीवने अभिभावकानां महत्त्वपूर्णं योगदानं भवति, अतः साहाय्यं कर्तव्यम् , यथोक्तमस्ति शास्त्रेषु प्राप्ते एकादशे वर्षे पुत्रं मित्रवदाचरेत् । प्रधानमन्त्रिणा विद्यार्थिभ्यः कथितं यत् ते आत्मना सह प्रतिस्‍पर्धां कुर्वन्तु न तु अन्येभ्यः। सममेव प्रधानमन्त्रिणा ध्यानाय योगाभ्यासः परीक्षायां सफलतायै च सकारात्मकदृष्टेः सम्मर्शः प्रदत्तः। परीक्षासज्जतासमये आत्‍मविश्‍वासः आवश्यकः वर्तते।
पि एन् बि धनापहरणं - त्रयः निगृहीताः। 
          मुम्बई > पञ्चाब् नाषणल् वित्तकोशं वञ्चयित्वा वज्रव्यापारिणा नीरव् मोदिना एकादशसहस्राधिकं कोटिरूप्यकाणि अपहृतानीति विषये वित्तकोशस्य पूर्वाधिकारिणम् अभिव्याप्य त्रयः जनाः निगृहीताः। वित्तकोशस्य भूतपूर्वः उपप्रबन्धकः गोकुल नाथषेट्टी, एकजालकस्य नियन्ता मनोज् खाराट्, नीरव् मोदिनः कार्यकर्ता हेमन्त भट्टश्च निगृहीताः वर्तन्ते। नीरव मोदिने प्रमाणानि विना 'बयेर्स् क्रडिट्' नामकस्य  ऋणानुकूलपत्रदानस्य मुख्यसूत्रधारो भवति गोकुलनाथःइति सि बि ऐ संस्थया निगदितम्।

Saturday, February 17, 2018

धर्म-राजनैतिकतयोः परस्परव्यवहारः न कार्यः - उपराष्ट्रपतिः
           अनन्तपुरी > धर्मस्य व्यवहारः राजनैतिकतायां राजनैतिकतायाः व्यवहारः धर्मे च निरोद्धव्य इति उपराष्ट्रपतिः वेङ्कय्यनायिडुः अवोचत्। आराधनार्थं चित्तशुद्धीकरणार्थं च धर्मः कल्पितः। किन्तु अधुना दौर्भाग्यवशात् कानिचन राजनैतिकदलानि धर्मं स्वकीयपोषणाय विनियुज्यन्ते इति अनन्तपुर्यां श्री चित्रतिरुनाल् प्रभाषणवेलायां तेनोक्तम्।
           स्वभावः , शेषी, पाटवः, अन्यैः सह व्यवहारः इत्येतेषां गुणानामाधारे एव जनाधिपत्यरीत्या कश्चन नेता निर्वाचनीयः। किन्तु अद्य तेषां स्थानं जातिधर्मधनादिभिः अपहृतम् इति तेन निरीक्षितम्।

Friday, February 16, 2018

ऋणधनापहरणम् - उत्तरदायी पि एन् बि इति आर् बि ऐ।
                नव दिल्ली> ११३०० कोटि ऋणधनानाम् उत्तरदायित्वमखिलं पञ्चाब् राष्ट्रिय वित्तकोशस्य इति रिज़र्व् बाङ्कद्वारा उक्तम्। बयेर्स् क्रडिट् सुविधया स्वीक्रियमाणः विदेश-ऋणधनस्य उत्तरदायी सुविधा दत्तवन्तः वित्तकोशस्य इति आर् बि ऐ संस्थया स्पष्टीकृतम्। पञ्चाब् राष्ट्रिय वित्तकोशेन प्रदत्तस्य प्रमाणपत्रस्य आधारेणेव अन्यवित्तकोशाः वज्रव्यापारिणे नीरव् मोदिने ऋणम् अदात् । अतः ऋणधनस्य प्रत्यर्पणस्य दायित्वं पञ्चाब् राष्ट्रिय वित्तकोशस्य एव भवति इति आर् बि ऐ संस्थया उक्तम्। विद्यमाननियमानुसारेण कर्मकराणां स्कालित्यस्य उत्तरदायी वित्तकोशः एव। अतः नीरव् मोदिना स्वीकृतस्य ऋणधनस्य प्रत्यर्पणम् पि एन् बि वित्तकोशेन करणीयम्  इति आर् बि ऐ विशदीकरोति। जनुवरि-मासस्य प्रथमे दिने एव सः नीरव मेदी राष्ट्रान्तरं गतम् ।
त्रिपुरानिर्वाचनम् - घोषप्रचरणस्य अद्य परिसमाप्तिः।
         अगर्तला > त्रिपुराराज्ये रविवासरे प्रचाल्यमानस्य निर्वाचनस्य घोषप्रचारः अद्य सायं परिसमाप्यते। सि पि एम् दलस्य नेतृत्वे विद्यमानः शासनपक्षः , भा ज  दलं, कोण्ग्रस् दलं च मुख्यप्रतिद्वन्दिरूपेण जनमतसम्मतिम् ईक्षन्ते।  शासनपक्षायख्यमन्त्री मणिक् सर्कारः, भाजपादलाय प्रधानमन्त्री नरेन्द्रमोदी, कोण्ग्रस् दलाय देशीयाध्यक्षः राहुल्गान्धी च प्रचाराङ्कुशं वहन्ति।

Thursday, February 15, 2018

पञ्चाब् नाषणल् वित्तकोशस्य एकस्याः शाखायाः ११,३३४ कोटि रूप्यकाणि अपहृतानि। 
          मुम्बई > राष्ट्रस्य सामान्यमण्डलीयवित्तकोशसंस्थासु द्वितीयस्थानमलङ्कृतायाः पञ्चाब नाषनल् बैंक् वित्तकोशसंस्थायाः मुम्बई शाखातः ११,३३४ कोटिरूप्यकाणाम् अपहरणं संवृत्तमिति विज्ञातम्। गतेषु सप्तसंवत्सरेषु वित्तकोशाधिकारिणां साहाय्येन संवृत्तैः भ्रष्टाचारप्रवर्तनैः एव एतादृशमपहरणं कृतमिति सि. बि. ऐ संस्थया उक्तम्।

Wednesday, February 14, 2018

Episode 77 
पौराणां प्रत्यभिज्ञान-प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? -सर्वोच्चन्यायालयः।
                   नवदिल्ली> आधारपत्रं विरुद्ध्य न्यायाय-व्यववहारः सर्वोच्चन्यायालये प्रचलत् अस्ति। सर्वोच्च न्यायालयस्य मुख्य-न्यायाधीशस्य दीपक् मिश्रस्य आध्यक्ष्ये पञ्चन्यायाधीशाः वादान् श्रूयन्ते। पौराणां प्रत्यभिज्ञान प्रमाणं प्रष्टुं सर्वकारस्य अर्हता नास्ति वा? - इत्यासीत् मुख्य न्यायाधीशस्य दीपक् मिश्रस्य प्रश्नकरणम् । कश्चन साहाय्यः वा आनुकूल्यानि वा भवतु तानि अर्हानां हस्ते प्रदातुं सर्वकारेण प्रत्यभिज्ञान-प्रमाणस्य आधारेण एव शक्यते। तदर्थं सर्वकारस्य प्रत्यभिज्ञान प्रमाणम् आवश्यकं खलु ? पञ्चाङ्ग-संविधानपीठः अपृच्छत्l  वादः गुरुवारे अनुवर्तिष्यते।

Tuesday, February 13, 2018

भीकरतां प्रति ओमानेन सह भारतस्य सहयोगः।
             मस्कत्> भीकरतां प्रति भारतं ओमान् च ऐक्यमत्येन प्रवर्तेते। आशयतया तथा आर्थिकतया भीकरान् ये सहाय्यं कुर्वन्ति तान् प्रति अपि नकारात्मकं प्रवर्तनं करिष्यतः तदर्थं राष्ट्रान्तरैक्यं आवश्यकमिति संयुक्तप्रस्तावे ओमानेन उक्तम्।

             मेय्क् इन् इण्डिया पद्धत्याः भागत्वेन प्रतिरोध उत्पन्नानां निर्माणे सहयोगपद्धतेः कार्यान्वयनं करिष्यति। ओमान् भारतात् तेषां उत्पन्नानां क्रयणं करिष्यति। व्याजरुप्यकाणि, लहरि उत्पन्नानि इत्यादि क्षेत्रेषु मिलित्वा प्रवर्तनं करिष्यति। संयुक्त सैनिकपरिशीलनाय भारतस्य इण्स्ट्टिट्यूस् फोर टिफन्स् स्टटीस् आण्ट् अनालिसिस् तथा ओमान् राष्ट्रस्य नाषणल् टिफन्स् महाविद्यालयः च धारणापत्रे हस्ताक्षरं अकुरुताम्। अस्य वर्षस्य सैनिकसमिति येगः ओमाने मस्कत् नगरे प्रचलिष्यति।

             प्रतिरोधं, बहिराकाशं, स्वास्थ्यं, भक्ष्यसुरक्षा, खननं, विनोदसञ्चारं, इतेयादि अष्ट समयेषु भारतं ओमान् च हस्ताक्षरे अकुरुताम्। मस्कते सुल्तान् खाबूस् ग्राण्ट् आराधनालये तथा पुरातने शिवमन्दिरे च दर्शनानन्तरमेव मोदिना भारतं प्रति यात्रा आरब्धा।

Monday, February 12, 2018

आधारपत्रस्य अभावेन अवश्यसेवनानि निषिद्धानि मा भवतु - प्राधिकारी
          नवदिली > आधारपत्रस्य अभावेन आनुकूल्यानि तथा अवश्यसेवनानि कदापि निषिद्धानि भवतु इति आधारपत्र प्राधिकारिणा पुनरपि आदिष्टा। आतुरसेवनं, विद्यालयप्रवेशः, सार्वजनिक-वितरणसम्प्रदायः इति कार्येषु आधारपत्रं न निर्बद्धम् इति प्राधिकारिणा प्रकाशिते वार्तालेखे संसूच्यते। गत वर्षे सेप्तंबर् चतुर्विंशति दिनाङ्गे प्रधिकारिणा आदेशः प्रदत्तः आसीत् । किन्तु इतःपर्यन्तं जननां परिदेवनानि सन्ति इत्यनेन पुनरपि आदेशः प्रसारितः।
राजनैतिकदलानां अड्गीकारं रोद्धुम् अधिकारः आवश्यकः इति निर्वाचकायोगः।
            नवदेहली>  राजनैतिक दलानां अड्गीकारं रोद्धुम् अधिकारः तथा दलेषु आभ्यन्तर जनाधिपत्यं चालयितुं अधिकारः आवश्यकः इति निर्वाचकायोगः।   १९५१ तमे वर्षे आगतेन जनप्रातिनिध्य नियमेन इदानीं वर्तमानेभ्यः  राजनैतिक दलेभ्यः अड्गीकारं दातुं अधिकारः निर्वाचकायोगस्य वर्तते किन्तु अड्गीकारं रोद्धुम् अधिकारः नास्ति। अतः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः।
अमित् शर्मा अश्विनी उपाध्याया इत्येते अभिभाषकौ कलड्किताः जनाः दलानां रूपीकरणात् रोद्धव्याः इति उच्चतरनीतिपीठं निवेदितवन्तौ। तयोः समाधानरूपेण निर्वाचकायोगस्य प्रस्तावः। गत विंशति वर्षेभ्यः जनप्रातिनिध्य नियमे भेदगतयः आवश्यकाः इति केन्द्र सर्वकारं प्रति पत्रप्रेषणं कुर्वन्तः स्मः। किन्तु किमपि प्रयोजनं न लब्धम्। २०१६ फेरुवरी तः डिसंबर पर्यन्तं कृते अन्वेषणे २५५ राजनैतिक दलाः केवलं पत्रेषु एव वर्तते।
            राजनीतिं अक्रममुक्तं कर्तुं  प्रयत्ने जागरूकः अस्ति निर्वाचकायोगः। तदर्थं सर्वकारस्य साहाय्यं तथा नियमभेदगतिः च आवश्यकौ इति सत्यप्रस्तावे निर्वाचकायोगेन उक्तम्। आगामिनि मंगलवासरे उच्चतरनीतिपीठं निवेदनमिदं  गणयिष्यति।

Sunday, February 11, 2018

भारतदक्षिणाफ्रीकादलयो: एकदिवसीयाया: क्रिकेट्स्पर्धामालिकाया: चतुर्थो द्वन्द्व: अद्य 
       भारतदक्षिणाफ्रीकादलयो: एकदिवसीयान्ताराष्ट्रियक्रिकेट-स्पर्धामालिकाया: चतु्र्थो द्वन्द्व: अद्य जोहानिसबर्गनगरे भविष्यति । भारतीयसमयानुसारेण अपराह्णे सार्धचतु: वादनात् स्पर्धेयं प्रारप्स्यते । षड्स्पर्धान्वितायां शृङ्खलायां स्पर्धात्रयं विजित्य भारतीयवृन्दम् अग्रेसरत्वं वहति। अद्यतनद्वन्द्वं जेतुं भारतीयदलं सन्नद्धं वर्तते। स्पर्धां विजित्य भारतीयक्रिकेट्वृन्दं शृङ्खलामपि जेष्यति।
भारतदक्षिणाफ्रीकादेशयो: महिलाक्रिकेट्दलयोर्मध्ये स्पर्धा अद्य 
       भारतदक्षिणाफ्रीकादेशयो: महिलाक्रिकेट्दलयो: एकदिवसीयान्ताराष्ट्रियक्रिकेट-स्पर्धामालिकाया: अन्तिमस्पर्धा अद्य पोचेस्ट्रम् क्रीडाङ्गणे भविष्यति। भारतीयसमयानुसारेण अपराह्णे सार्धैकवादनात् स्पर्धेयं प्रारप्स्यते । शृङ्खलायां भारतीयवृन्दस्य २-० इति अन्तरालेन अग्रेसरत्वं वर्तते।
परीक्षा भीः - १६ दिनाङ्के छात्राः मोदिना सम्बुद्ध्यन्ते। 
           नवदिल्ली > छात्रेभ्यः परीक्षा भीतिं  निर्मार्जयितुम् उद्दिश्य प्रधानमन्त्री नरेन्द्रमोदी दूरदर्शनद्वारा  छात्रान् प्रति संवक्ष्यति। कथं भीतिं विना परीक्षां लिखामः, सम्मर्द रहितया रीया कथं परीक्षाकालं यापयामः इति प्रतिपाद्यते अस्मिन् कार्यक्रमे। अस्मिन्‌मासस्य षोडश दिनाङ्के (१६) प्रभाते द्वादशवादने (११) कार्यक्रमोऽयं प्रसारयिष्यते ।
            'परीक्षा पे चर्चा' इति कार्यक्रमः विद्यालये, कलालये, साङ्केतिक कलाशालायां च छात्राणां पुरतः प्रदर्शनीयः इत्युक्तवा, विश्वविद्यालय -साहायधनायाेगः शिक्षा संस्थाभ्यः पत्रम् अलिखत्। दिल्यां तल्कतोरा क्रीडागृहे एव कार्यक्रमः प्रचालयिष्ते।

Saturday, February 10, 2018

'नाथुल' मार्गेण कैलसयात्रा चीनया अनुज्ञा प्रदत्ता।
             नवदिल्ली> कैलासः मानससरोवरं च दृष्टुमुत्सुकानां तीर्थाटकानां कृते नाथुल पर्वतमार्गः उद्घाटयितव्यम् इति अभिलाषः  चैनाराष्ट्रेण अङ्गीकृतम् । दोक्ला विषयसंबन्ध-रोषेण  गतबर्षे अयं मार्गः चीनेन पिधानं कृतम् आसीत्। उभयराष्ट्रयोः चर्चायां भारतेन अयं विषयः उन्नीतः चीनेन अनुकूल प्रकिया स्वीकृता इति च विदेशकार्यमन्त्रिणा वि के सिंहेन लोकसभायाम्  उक्तम्।

Friday, February 9, 2018

एकं प्रत्यभिज्ञानपत्रं तत्र दोषः किम्- सर्वोच्च न्यायालयः।
            नवदिल्ली>एकं राष्ट्रं एकं प्रत्यभिज्ञानपत्रं तत्र दोषः किम् इति सर्वोच्च न्यायालयः अपृच्छत् । आधारपत्रं विरुद्ध्य बंगालराज्य सर्वकारेण प्रदत्ते न्यायव्यवहारे न्यायवादाः प्रचलत् अस्ति। सर्वकारस्य कृते उपस्थितस्य न्यायवादिनः  कपिल् सिबिलस्य वादान् श्रुत्वा आसीत् सर्वोच्च न्यायालयस्य मुख्यन्यायाधीशस्य  दीपक् मिश्रस्य प्रश्नकरणम्।  केन्द्रीकृत्य संरक्षितानि विवरणानि चोरणं कर्तुं   शाक्यते इत्यनेन  पूर्णतया चोरणं शक्यते इति अर्थः नास्ति। विवरणानां संरक्षणाय अधिकसुरक्षितप्रक्रमाः अवश्यकाः इत्येव सूच्चते इति न्यायाधीशः चन्द्रचूडः अवदत्।  आधारपत्रस्य शासन संविधानुसारं साधुता नास्तीति कपिल् सिबिलः स्ववादमुन्नीतवान् - वादप्रतिवादाः अनुवर्तन्ते।
जैवौषध-चिकित्सायां नूतनाविष्कारेण- भारतीयाः।
            सिंहपुरम् > अर्बुदसमान रोगान् आरंभकाले प्रत्यभिज्ञाय चिकित्सां करोति चेत्‌रोगपरिमार्जनं शक्यते। किन्तु रोगस्य आधिक्यावस्थायामेव प्रत्यभिज्ञानप्रप्तिः इत्यनेन रोगान्मुक्तिः नास्ति। अतः रोगबाधायाः आरंभकाले एव प्रत्यभिज्ञानम् आवश्यकम्। 
           अस्याम् अवस्थायाम् सिंहपुरदेशस्थ  नान् याङ् टेक् निक्कल् विश्वविद्यालयस्य गवेषकः डा. श्रीकान्त् के वि (केरलम्) नाषणल् विश्वविद्यालयस्य डा शिवरामपणिक्कर् श्रीजित्तः , याङ् विश्व विद्यालयस्य प्राध्यापकः डा. रञ्जन् सिंहः (बिहार्) च मिलित्वा परीक्षण निरीक्षणानि कृतवन्तः।
२०१६ ओक्टोबर् मासे आरब्धगवेषणम् एव इदानीं सफलतां प्राप्तम्। बयोसेन्सर् नाम नूतनविद्यया अर्बुदादिरोगान् आरम्भकाले  एव प्रत्यभिज्ञातुं शक्यते। सूक्ष्मातिसूक्ष्मवस्तुः वा आकारयुक्तवस्तुः वा ततः प्रतिफलित प्रकाशान् उपयुज्य अवगन्तुं बहुप्रयत्नः आवश्यकः । किन्तु इदानीं  'नानो बयो सेन्सर्' नामिकया नूतन विद्यया वैषम्यानां पारंगताः एते श्रमशालिनः गवेषकाः।

Thursday, February 8, 2018

भूचलनेन महासौधानि भूमेः अन्तर्गतानि। ५ जनाः मारिताः २४७ क्षताः
          हुवालिन्> तैवान् राष्ट्रे भूचलनेन महान्तः नाशनष्टः। पञ्चः जनाः मृताः सप्तचतवारिंशतधिक द्विशतं  क्षताः। बहवः अप्रत्यक्षाः च । रिक्टर् मापिन्यां भूचलनस्य शक्तिः  ६.४ इति अङ्किताI द्वादश अट्टयुतहर्म्यस्य अट्ट चतुष्टयः भूमेः अन्तः मग्नाः। विंशतिजनाः अट्टात्  रक्षिताः। रक्षाप्रवर्तनानि प्रचलन्ति। नवशतं जनान् सुरक्षितस्थानं प्राविशत् । विद्युत्बन्धः विनष्टः। उपशतम् अनुबन्धचलनानि अजायत इत्यनेन अपघातस्य व्याप्तिः विस्तृता अभवत् । 
         १९९९ तमे आसीत् भूतपूर्व भूचलनम्। तस्मिन् समये भूकम्पस्य तीव्रता ७.६ इत्यासीत् । तदा चतुश्शतोत्तर-द्विसहस्रं जनाः मारिताः ।

Wednesday, February 7, 2018

Episode 76
एकेन सूचिना सूचीकर्मः ४६ जनाः एच् ऐ वि रोगबाधिताः।
          उन्नावो> उत्तरप्रदेशस्थ उन्नावोदेशे एकेन सूचिना कृते सूची प्रयोगे षट्चत्वारिंशत् (४६) जनाः एच् ऐ वि रोगबाधिताः अभवत्I गत-दशमासाभ्यन्तरे एव रोगबाधितानां संख्या एतावत् वर्धिता। एतस्य पृष्टभूमौ कृते अन्वीषणे एव निर्णायकः विशदांशाः  लब्धाः।  अनेन प्रकारेण चिकित्सां कृतवत्भ्यः व्याज -चिकिन्सकेभ्यः अन्वीषणम् आरब्धम् । एप्रिल् मासतः जूलैपर्यन्तं कृतान्वीषणे  द्वादशजनाः (१२) रोगाणुबाधिताः इति स्पष्टः  अभवत्I बंगर्मौ मण्डले एव आसीत्  अयम्। नवंबर् मासे कृते अध्ययनेऽपि त्रयोदशजनाः अणु बाधिताः आसन् इत्यपि आवेदितः इति प्रधान चिकित्सकाध्यक्षेण डा एस् पि चौधरिणा उक्तम्। 

        गतमासे प्रवृत्ते निरीक्षणे द्वात्रिंशत् (३२) जनाः रोगबाधिताः। रोगबाधितेभ्यः षट्वयस्कः शिशुरपि अन्तर्भवति। राज्यसर्वकारेण विषयमधिकृत्य अन्वीषणं क्रियते इति उत्तरप्रदेशस्य स्वास्थ्यमन्त्रिणा सिद्धार्थ  नाथसिंहेन उक्तम्। 
वनाग्निनियन्त्रणाय केन्द्रसर्वकारस्य नूतनः प्रयत्नः।
              कोच्ची > दावानलस्य नियन्त्रणाय प्राधान्यं परिकल्प्य केन्द्रवनं-परिस्थितिमन्त्रालयेन नूतना वनसंरक्षणायोजना आविष्क्रियते। विविधेषु राज्येषु पर्यावरणव्यतियानेन वनाग्निव्यापनं सर्वसाधारणमित्यतः इयं योजनेति मन्त्रालयॆन स्पष्टीकृतम्।
कुलभूषणजादवस्योपरि अधिकतया  दुष्टारोपं कृत्वा पाकिस्थानः।
              इस्लामबादः> मृत्युदण्डं लब्ध्वा पाकिस्थानस्य  कारागृहे उषितः कुल् भूषण् जादवस्योपरि नूतनया अधिकदोषाः आरोपिताः इति आवेदनम् लब्धम्। आतङ्कवादः, विरुद्धप्रवर्तनानि च एतस्योपरि अधिकतया संयोजिता दुरारोपः इति पाकिस्थानस्य वार्ता पत्रिकयाम् आवेदितम्। २०१६ मार्च् मासे बलूचिस्थानस्य प्रविश्यातः, एव कुलभूषणः  पाकिस्थानस्य सेनया गृहीतः

Tuesday, February 6, 2018

शिलातैलात् सौरोर्जं प्रति- नवीनया योजनया सौदि अरेब्य।
‍             रियाद्> प्रधान आयमार्गः शिलातैलः आसीत्। किन्तु इदानीं तैल्यस्य विपण्यां मूल्यं न्यूनं अभवत् इत्यनेन नूतनम् आयमार्गं अन्विष्य सौदि अरेब्या। विविधमण्डलेषु स्वदेशीयकरणं कृत्वानान्तरं सौरोर्ज-योजनायाः आयोजनम् आलोच्यन्ते सौदीशासकाः। भाविनिकाले प्रधान आयस्य स्रोतः इति रूपेण  सौरोर्जं परिवर्तितुं सुसज्जाः भवितुं निश्चितं सौदीराष्ट्रेण। आर्थिक व्यवस्थां विविधतया विपुलीकर्तुं राजकुमारस्य सल्मान् बिन् मुहम्मदस्य नेतृत्वे भवति नूतना पद्धतिःI
मालद्वीपे आपत्कालघोषणा। 
         माले> राजनैतिक-सन्निग्धता अनुवर्तमाने सति मालद्वीपे राष्ट्रपतिना अब्दुल्लायमीन् इत्याख्येन आपत्कालघोषणा ख्यापिता। पञ्चदश दिनपर्यन्तमेव घोषणाकालः। सन्दर्भेस्मिन् भारतीयैः जाग्रता पालनीया इति विदेशकार्य मन्त्रालयेन उक्तम्I मालद्वीप सन्दर्शनम् इदानीं मास्तु इति मन्त्रालयेन उपदिष्टाः।

Monday, February 5, 2018

सीमनि पाक् आक्रमणम् - चतुर्णां सैनिकानां वीरमृत्युः।
        श्रीनगरम्> पाक् सैन्यस्य आक्रमणेन चत्वारः भारतसैनिकाः वीरमृत्युं प्राप्ताः। जम्मूकाश्मीरे नियन्त्रण-रेखायाः समीपे पूञ्च् रजौरी जनपदयोः एव भुषुण्डिप्रयोग-विरामसन्धिः  उल्लङ्घ्य  आसीत्  पाक् सैन्यस्य आक्रमणम् । भारतेन शक्तया रीत्या प्रतिक्रिया कृता  च । प्रकोपनं विना रविवासरे प्रभातादारभ्य 'षेल्' आक्रमणम् आरब्धम् आसीत्I 'मोर्टार्' नियन्त्तायुधाः मिसैल् आदयः आक्रमणाय उपयुक्ताः। पूञ्च् जनपदे प्रवृत्ते सैनिकाक्रमणे एका बालिका एकः सैनिकः च क्षतौ। साम्ब घण्डे सीमा-सुरक्षासेनया पाक् सैन्यस्य निलीनप्रवेशः निरुद्धः आसीत्। एतस्य पश्चात् एव पाक् सेनया भुषुण्डिप्रयोगः आरब्धः।  जनुवरि १८तः २२ पर्यन्तं जम्मुप्रदेशो आपन्ने आक्रमणे ८ प्रदेशवासिनः  ६ सैनिकाः आहत्य १४ जनाः मारिताः। ६० अधिकाः क्षताः च । सुरक्षानुबन्धतया रजैरी पूञ्च् जम्मु साम्ब जनपदेषु ३०० विद्यालयानां गतदिनेषु विरामः प्रदत्तः आसीत् । 

Sunday, February 4, 2018

गुजरातसर्वकारेण संस्कृतसाहित्य-ज्ञानवर्धकं जीवन्त-प्रश्नोत्तरी प्रतियोगिता  आयोजिता ।
          G.C.E.R.T - गांधीनगस्य, ESSAR OIL - जामनगरस्य च उपलक्ष्ये जनपद-शिक्षण-प्रशिक्षण-भवन-जूनागढपक्षत: (DIET) आयोजितं जूनागढ-गीर सोमनाथजनपदस्तरीय शिक्षणक्षेत्रे शैक्षणिक: नवीकरण-प्रदर्शनं (educational innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य इणाजग्रामे गुजरातसर्वकारेण संचालित: 'इणाज मॉडल स्कूल' इति विद्यालये गतदिने समायोजित: । सर्वप्रथमं कार्यक्रमस्य आरम्भ: अभवत् । अनन्तं मञ्चोपरि नवीकरणस्य लघु-चलचित्राणां प्रदर्शनम्। अस्यां नवीकरण-प्रदर्शने संस्कृतभाषाया: प्रचार-प्रसारार्थं (innovation fair-2018) गीर सोमनाथजनपदस्य वेरावलप्रान्तस्य सर्वकारीय श्रीकाजली प्राथमिक-शालाया: शिक्षक: श्री जगदीश: डाभीमहोदयेन जनसञ्चारमाध्यमोपरि संस्कतसाहित्यज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता (सोशल मिडिया फेसबुक) पर लाइव प्रश्नोत्तरी प्रतियोगिता द्वारा संस्कृत शिक्षण) प्रतिरूप-परियोजना स्वरुपे प्रस्तुता जाता । अस्मिन् जनपदस्तरीय प्रदर्शने गीर सोमनाथजनपदस्य ३३ नानाविध-प्रतिरूप-परियोजना: प्रस्तुता: जाता:। इत्यस्मिन् समारोहे आयोजकपक्षत: जगदीश: डाभीमहोदयेन सह परियोजना प्रस्तुतं कृतवता: ३३ शिक्षकान् प्रमाणपत्रं दत्त्वा सम्मानितं कृतवान्। अस्मिन्  समारोहस्य सुव्यवस्थितम् आयोजनं जूनागढजनपद-शिक्षण-प्रशिक्षण-भवनस्य प्राचार्य: श्री वि.एम. पंपाणियामहोदय: प्राचार्य: मुकेश: धारैयामहोदयश्च  कृतौ । जगदीश: डाभीमहोदयेन प्रस्तुता परियोजना संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नववादनत: दशवादन-पर्यन्तम् आमुखपटलस्य (फेसबुक) संस्कृतं जनभाषा भवेत् इति समूहोपरि प्रचलन् अस्ति । 
   अस्या: प्रतियोगिताया: आयोजक: गुजरातत: जगदीश: डाभी अस्ति । सहायका: पण्डितः दीपकशास्त्री (राजस्थानम्), अमित: ओली (उत्तराखंड:), मञ्जु भट्टाचार्य: (महाराष्ट्र:), डॉ. सन्ध्याठाकुर: (उत्तरप्रदेश:), डॉ. योगेशव्यास: (राजस्थानम्), शिवांगी शर्मा (देहली), प्रकाश रंजन मिश्र: (बिहार:) च सन्ति ।
       अस्या: प्रतियोगिताया: पुरस्कारस्य प्रायोजकाः सुरतत: (गुजरातम्) दैनिक-संस्कृतसमाचारपत्रं 'विश्वस्य वृत्तान्तम्', हरिद्वारत: भुवनेश्वरी बालकुमारी ट्रस्ट, जयपुरत: भारती संस्कृत-मासपत्रिका च सन्ति ।
कान्सर्  रोगस्य औषधं सम्प्राप्तम्। 
            न्यूयोर्क्> अर्बुदचिकित्सायां  पुरोगतिं प्रख्याप्य वैज्ञानिकाः।  तैः वैज्ञानिकैः दृष्टं  रासवस्तून्  उपयुज्य मूषिकेषु  कृते गवेषणे अर्बुद-रोगशान्तये औषधं सफलम् इति प्रमाणम् अभवत्। अतः इदं ओषधं मनुष्येषु प्रयोगं कर्तुं   यतन्ते। अतिसूक्षमपरिमाणपरिमितं द्वे प्रतिरोधवर्धक-वस्तुनी अर्बुदकोशेषु सूचिद्वारा सिन्नवेश्य आसीत् पर्यवेषणम् । तदा रोगेण वर्धितांशाः अप्रत्याक्षाः अभवन्I स्टाफट् विश्वविद्यालयस्य 'ओङ्कोलजी' विभागास्य प्राध्यापकः रोणाल्ड्  लेवि वदति यत् लिम्फोम कान्सर् रोगं विरुद्घ्य नवति-संख्या-परिमितेषु मूषिकेषु कृतेषु पर्यवेषणेषु सप्ताशीति संख्याकाः मूषकाः पूर्णतया रोगान्मुक्ताः अभवन्। अवशिष्टेभ्यः पुनरपि सूचीकर्म क्रियते । science translational medicine journal मध्ये एव अध्ययनमिदं प्रकाशितम्I

Saturday, February 3, 2018

अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता
पुरुषोत्तम शर्मा

    न्यूजीलैण्डदेशे समायोजिताया:  अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकशृङ्खला भारतेन स्वायत्तीकृता शनिवासरे न्यूजीलैण्डस्य मॉउण्ट् मौनगनयूस्थे क्रीडाङ्गणे क्रीडिते निर्णायकद्वन्द्वे ऑस्ट्रेलियादलेन प्रथमक्रीडयता भारताय षोडशोत्तरद्विशतं धावनाङ्कानां लक्ष्यं प्रदत्तमासीत्। लक्ष्यमनुसरता भारतीयदलेन ऑस्ट्रेलियावृन्दम् अष्टक्रीडकाणां सुरक्षापुरस्सरं पराजितम्। ।   मनजोतकालड़ा एकोत्तरशतं धावनाङ्का: समर्ज्य क्रीडापुरुषत्वेन चित:।
विद्यार्थिनः कृते मोदिना विरचितं पुस्तकं अद्य प्रकाश्यते।
         नवदिल्ली> परीक्षां अभिमुखीकर्तुं छात्रेभ्यः आत्मविश्वासप्रदायकं पुस्तकं विरच्य प्रधानमन्त्री नरेन्द्रमोदी। पुस्तकस्य नाम 'Exam-warriors' इति भवति। पुस्तकमिदम् अद्य प्रकाश्यते। चाणक्यपुरस्थस्य प्रवासी भारतीयकेन्दे पादोन-चतुर्वादने प्रकाशन-कार्यक्रमः प्रचाल्यते। भारतस्य विदेशकार्य-मन्त्रिणी सुषमा स्वराजः मुख्यातिथि रूपेण वर्तिष्यते।  मानव-संसाधन-विकसन-मन्त्री प्रकाश् जावदेक्करः अपि कार्यक्रमे विशेषभाषणं करिष्यति। प्रधानमन्त्रिणः मन् की बात् इति प्रतिमास कार्यक्रमद्वारा अपि,  परीक्षावेलायां छात्राः समाश्वसिताः आसन्।

Friday, February 2, 2018

न्यायाधिपैः अन्वीक्ष्यमाणस्य न्यायव्यवहारस्य भावः प्रकाशितः।
           नवदिल्ली> सर्वोच्चन्यायालये न्यायाधिपेभ्यः विभज्य-दीयमानाय 'रोस्टर्' इति संविधानं आयोजितम्। एतदनुबन्धतया मुख्यन्यायाधीशस्य दीपकमिश्रस्य आदेशः सर्वोच्चन्यायालयस्य अन्तर्जालपुटे प्रकाशिता अस्ति। इदं प्रथमतया एव एतादृशं विज्ञापनम्। एतदनुसृत्य सार्वजनीनाभीच्छां आधारीकृत्य लब्धानि न्यायव्यवहाराः  मुख्यन्या-याधीशेन आवेक्ष्यन्ते। न्याय व्यवहारान् विभज्य दीयमानेषु मुख्यन्यायाधीशेन विवेचनं क्रियते इति आरोपणम् उन्नीय प्रमुखाः अन्ये न्यायाधीशाः वार्ताहरमेलनम् अहूतवन्तः इति कारणेन तेषाम् उपरि  विप्रतिपत्तिं अपि प्रकाशितवन्तः अन्ये न्यायाधिपाः।
भारतराष्ट्रे अन्तरिक्षवायोः शुद्धतामापने केरलस्य प्रथमस्थानम्।
                 नवदिल्ली> राष्ट्रे अन्तरिक्षवायोः शुद्धतामापने अतिमलिनः  वायुः दिल्यामेव, स्वच्छः वायुः केरलस्य पत्तनंतिट्ट जनपदे भवति। अत्रत्यः मापनाङ्कः षट्विंशतिः(२६ ) एव। षष्ठि (६०):  पर्यन्तं मलिनतां मापिन्यां प्रदर्शिते सत्यपि तथा न दोषः। वायु दूषणे सीमारेखायां वर्तते तृश्शूर् जनपदः । पञ्च पञ्चाशत् (५५) एव अत्रत्याः शुद्धतामानम्। अन्यराज्यापेक्षया शुद्धता केरलस्य भूप्रदेशेषु एवभवति इति परिस्थितिमण्डलेषु प्रयत्नं  कुर्वन्त्या ग्रीन् पीस् इन्द्या नामिकया संस्थया अवदत्। २८० नगरेषु प्रवृत्तेषु सर्वाध्ययनस्य फलमेव इदम् । वायुमण्डले अन्तर्लीनं पि एम् १० इत्यस्य विषकणस्य आधारेण एव वायुमापनम्I भारतस्य विविध नगरेषु मलिनीकरणस्य व्याप्तिः  गतवर्षत्रयेभ्यः अधिका वर्धते। किन्तु भारतादपि बृहत्तमेषु व्यावसायिक राष्ट्रेषु मलिनीकरणानि न्यूनीकृतानि । चीनेन प्रतिशतं १७ अमेरिक्केन १५ अन्ययूरोप् राष्ट्रेषु २० च मलिनीकरणस्य आधिक्यात्‌ न्यूनीकरणमभवत् । भारते दिल्ली २९०, हरियाणा २७२  राजस्थानम् २६२, बिहारः २६१, उत्तराघण्ट् २३८ इत्यादि क्रमेण वर्धमानम् अस्ति वायुमलिनीकरणम् इत्यनेन भरतस्य अवस्था शोच्या भविष्यति इत्यपि सर्वेक्षणेन संसूच्यते।

Thursday, February 1, 2018

 शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति - डॉ. के. साम्बशिवमुर्ति:
वार्ताहरः- दापक् शास्त्री

          नवदिल्ली>जगद्गुरूरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालय: तथा शंखनादफाउन्डेशन इत्यनयो: तत्वावधाने २७-०१-२०१८ तमे दिनाङ्के विश्वविद्यालयस्य परिसरे रामानन्दसभागारे "भिक्षा न शिक्षा ददातु" इति विषये एका संगोष्ठी समायोजिता। संगोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपतिः डॉ. विनोदशास्त्रीमहोदय: आसीत्। कुलपतिमहोदयेन आशीर्वादप्रदाय उक्तम् यत् प्राचीन भारते शास्त्रेषु वेदेषु शिक्षा सन्दर्भे वर्णितानां विशेषविषयाणां प्रतिपादनं कृतम्। कार्यक्रमस्य सारस्वतातिथि: विश्वविद्यालयस्य कुलसचिव: डॉ. के. साम्बशिवमुर्ति: महोदय: आसीत्। महोदयेन स्वभाषणे सम्बोधितं यत् अन्नदानं तु  महादानं वर्तते  अन्नदानात् श्रेयस्कर: तु विद्यादानं वर्तते  यतो हि अन्नात् क्षणिका तृप्ति: भवति किन्तु शिक्षादानेन दीर्घकालिका सन्तुष्टि: भवति अन्यानपिशिक्षितुं शक्नोति। तथा अशिक्षितजनानां शिक्षा दानं भवेत् शिक्षितजनानां अपि संस्कारप्रदानं भवेत् इति उद्बोधयत्। राजस्थान बालायोगस्य अध्यक्षा मनन चतुर्वेदी बालयोगेन आयोजितानां कार्यक्रमाणां एवं सर्वकारीय परियोजनानां परिचयं दत्वा परिचयं  तासां सफलतायै सर्वान् सहयोगं प्रदानाय अनुरोधं कृतवती। क्रमेSस्मिन्  शंखनाद फाउन्डेशनस्य अध्यक्ष: श्रीवेदप्रकाश महोदयेन फाउन्डेशन विषये विस्तृतं परिचयम् उपस्थापितम्। भूमिका महोदया संगोष्ठया: आयोजनस्य उद्देश्य: कार्य-योजनायाश्च विषये प्रस्तावना प्रस्तुतवती।  संगोष्ठयामस्यां विश्वविद्यालयस्य सर्वेशिक्षका: पी.एच्.डी षाण्मासिक पाठ्यक्रमस्य शोधार्थिन: सर्वे: विभागीयच्छात्राश्च समुपस्थिता: आसन्। सभायाः संचालनं शुभममिश्रमहोदयेन कृतम्।
केन्द्र आर्थिकसमाकल्पना अद्य।
             नवदिल्ली > अद्य प्रातः ११ वादने धनमन्त्रिणा अरुण्जैट्ली महाभागेन केन्द्र अर्थिकसमाकल्पना विधानसभायां अवतारयिष्यते। पण्य-सेवनकरस्य आयोजनानन्तरं अवतार्यमाणः प्रथमः आर्थिक-समाकल्पना भवति इयम्। २०१९ तमे वर्षे आयोक्ष्यमाणात् लोकसभानिर्वाचनात् प्राक् अवतार्यमाणा आर्थिक-समाकल्पना इति कारणतया अस्याः प्राधान्यं अधिकं वर्तते। पञ्चमोऽयं सन्दर्भः यस्मिन् जय् ट्ली महाभागेन आर्थिकसमाकल्पना अवतार्यते। करस्य श्रेणिक्रमे समाश्वासः प्रतीक्ष्यते आर्थिकविचक्षणैः। प्रत्यक्षकरनियमस्य परिष्करणाय गते नवंबर् मासे वरिष्ठाधिकारिणः संयोजनेन टाक्स् फोर्स् नाम आयोगः रूपीकृतः आसीत् । आयोगस्य करसमाश्वासनिर्देशाः परिगणयिष्यते  इत्यपि श्रूयते।