OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 2, 2018

भारतराष्ट्रे अन्तरिक्षवायोः शुद्धतामापने केरलस्य प्रथमस्थानम्।
                 नवदिल्ली> राष्ट्रे अन्तरिक्षवायोः शुद्धतामापने अतिमलिनः  वायुः दिल्यामेव, स्वच्छः वायुः केरलस्य पत्तनंतिट्ट जनपदे भवति। अत्रत्यः मापनाङ्कः षट्विंशतिः(२६ ) एव। षष्ठि (६०):  पर्यन्तं मलिनतां मापिन्यां प्रदर्शिते सत्यपि तथा न दोषः। वायु दूषणे सीमारेखायां वर्तते तृश्शूर् जनपदः । पञ्च पञ्चाशत् (५५) एव अत्रत्याः शुद्धतामानम्। अन्यराज्यापेक्षया शुद्धता केरलस्य भूप्रदेशेषु एवभवति इति परिस्थितिमण्डलेषु प्रयत्नं  कुर्वन्त्या ग्रीन् पीस् इन्द्या नामिकया संस्थया अवदत्। २८० नगरेषु प्रवृत्तेषु सर्वाध्ययनस्य फलमेव इदम् । वायुमण्डले अन्तर्लीनं पि एम् १० इत्यस्य विषकणस्य आधारेण एव वायुमापनम्I भारतस्य विविध नगरेषु मलिनीकरणस्य व्याप्तिः  गतवर्षत्रयेभ्यः अधिका वर्धते। किन्तु भारतादपि बृहत्तमेषु व्यावसायिक राष्ट्रेषु मलिनीकरणानि न्यूनीकृतानि । चीनेन प्रतिशतं १७ अमेरिक्केन १५ अन्ययूरोप् राष्ट्रेषु २० च मलिनीकरणस्य आधिक्यात्‌ न्यूनीकरणमभवत् । भारते दिल्ली २९०, हरियाणा २७२  राजस्थानम् २६२, बिहारः २६१, उत्तराघण्ट् २३८ इत्यादि क्रमेण वर्धमानम् अस्ति वायुमलिनीकरणम् इत्यनेन भरतस्य अवस्था शोच्या भविष्यति इत्यपि सर्वेक्षणेन संसूच्यते।