OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, February 3, 2018

अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकेटस्पर्धा भारतेन विजिता
पुरुषोत्तम शर्मा

    न्यूजीलैण्डदेशे समायोजिताया:  अन्त: ऊनविंशति: वयोमितानां विश्वचषकक्रिकशृङ्खला भारतेन स्वायत्तीकृता शनिवासरे न्यूजीलैण्डस्य मॉउण्ट् मौनगनयूस्थे क्रीडाङ्गणे क्रीडिते निर्णायकद्वन्द्वे ऑस्ट्रेलियादलेन प्रथमक्रीडयता भारताय षोडशोत्तरद्विशतं धावनाङ्कानां लक्ष्यं प्रदत्तमासीत्। लक्ष्यमनुसरता भारतीयदलेन ऑस्ट्रेलियावृन्दम् अष्टक्रीडकाणां सुरक्षापुरस्सरं पराजितम्। ।   मनजोतकालड़ा एकोत्तरशतं धावनाङ्का: समर्ज्य क्रीडापुरुषत्वेन चित:।