OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, February 5, 2018

सीमनि पाक् आक्रमणम् - चतुर्णां सैनिकानां वीरमृत्युः।
        श्रीनगरम्> पाक् सैन्यस्य आक्रमणेन चत्वारः भारतसैनिकाः वीरमृत्युं प्राप्ताः। जम्मूकाश्मीरे नियन्त्रण-रेखायाः समीपे पूञ्च् रजौरी जनपदयोः एव भुषुण्डिप्रयोग-विरामसन्धिः  उल्लङ्घ्य  आसीत्  पाक् सैन्यस्य आक्रमणम् । भारतेन शक्तया रीत्या प्रतिक्रिया कृता  च । प्रकोपनं विना रविवासरे प्रभातादारभ्य 'षेल्' आक्रमणम् आरब्धम् आसीत्I 'मोर्टार्' नियन्त्तायुधाः मिसैल् आदयः आक्रमणाय उपयुक्ताः। पूञ्च् जनपदे प्रवृत्ते सैनिकाक्रमणे एका बालिका एकः सैनिकः च क्षतौ। साम्ब घण्डे सीमा-सुरक्षासेनया पाक् सैन्यस्य निलीनप्रवेशः निरुद्धः आसीत्। एतस्य पश्चात् एव पाक् सेनया भुषुण्डिप्रयोगः आरब्धः।  जनुवरि १८तः २२ पर्यन्तं जम्मुप्रदेशो आपन्ने आक्रमणे ८ प्रदेशवासिनः  ६ सैनिकाः आहत्य १४ जनाः मारिताः। ६० अधिकाः क्षताः च । सुरक्षानुबन्धतया रजैरी पूञ्च् जम्मु साम्ब जनपदेषु ३०० विद्यालयानां गतदिनेषु विरामः प्रदत्तः आसीत् ।