OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 4, 2018

कान्सर्  रोगस्य औषधं सम्प्राप्तम्। 
            न्यूयोर्क्> अर्बुदचिकित्सायां  पुरोगतिं प्रख्याप्य वैज्ञानिकाः।  तैः वैज्ञानिकैः दृष्टं  रासवस्तून्  उपयुज्य मूषिकेषु  कृते गवेषणे अर्बुद-रोगशान्तये औषधं सफलम् इति प्रमाणम् अभवत्। अतः इदं ओषधं मनुष्येषु प्रयोगं कर्तुं   यतन्ते। अतिसूक्षमपरिमाणपरिमितं द्वे प्रतिरोधवर्धक-वस्तुनी अर्बुदकोशेषु सूचिद्वारा सिन्नवेश्य आसीत् पर्यवेषणम् । तदा रोगेण वर्धितांशाः अप्रत्याक्षाः अभवन्I स्टाफट् विश्वविद्यालयस्य 'ओङ्कोलजी' विभागास्य प्राध्यापकः रोणाल्ड्  लेवि वदति यत् लिम्फोम कान्सर् रोगं विरुद्घ्य नवति-संख्या-परिमितेषु मूषिकेषु कृतेषु पर्यवेषणेषु सप्ताशीति संख्याकाः मूषकाः पूर्णतया रोगान्मुक्ताः अभवन्। अवशिष्टेभ्यः पुनरपि सूचीकर्म क्रियते । science translational medicine journal मध्ये एव अध्ययनमिदं प्रकाशितम्I