OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, February 2, 2018

न्यायाधिपैः अन्वीक्ष्यमाणस्य न्यायव्यवहारस्य भावः प्रकाशितः।
           नवदिल्ली> सर्वोच्चन्यायालये न्यायाधिपेभ्यः विभज्य-दीयमानाय 'रोस्टर्' इति संविधानं आयोजितम्। एतदनुबन्धतया मुख्यन्यायाधीशस्य दीपकमिश्रस्य आदेशः सर्वोच्चन्यायालयस्य अन्तर्जालपुटे प्रकाशिता अस्ति। इदं प्रथमतया एव एतादृशं विज्ञापनम्। एतदनुसृत्य सार्वजनीनाभीच्छां आधारीकृत्य लब्धानि न्यायव्यवहाराः  मुख्यन्या-याधीशेन आवेक्ष्यन्ते। न्याय व्यवहारान् विभज्य दीयमानेषु मुख्यन्यायाधीशेन विवेचनं क्रियते इति आरोपणम् उन्नीय प्रमुखाः अन्ये न्यायाधीशाः वार्ताहरमेलनम् अहूतवन्तः इति कारणेन तेषाम् उपरि  विप्रतिपत्तिं अपि प्रकाशितवन्तः अन्ये न्यायाधिपाः।