OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, November 30, 2017

केरलतीरेषु चक्रवातः वाति, शक्ता वर्षा, चत्वारः मृताः।
जाग्रता निर्देशः प्रसारितः ।
           अनन्तपुरम्> कन्याकुमारी देशस्य समीपे भारत महासमुद्रे सञ्जातेन न्यूनमर्देन केरलस्य दक्षिण जनपदेषु मध्यकेरलेषु च शक्तावर्षा I कन्याकुमारी नागर् कोविल् मण्डलेषु चक्रवातः वाति इदानीं। चक्रवातस्य वेगाः प्रति घण्टायां पञ्चसप्ततिः इति। पञ्चाशतधिकाः धीवराः मत्स्यबन्धनाय समुद्रं गत्वा इतःपर्यन्तं नागताः । मण्डलस्य वैद्युतबन्धः भग्नः।  गिरिशिखरदेशेषु रात्रिकाल-यात्रा निरुद्धा अस्ति।
वनितासंरम्भकानाम् उन्नत्यर्थं लिङ्गसमत्वम् अनिवार्यम्  - इवान्का ट्रम्पः। 
          हैदराबाद् > उद्योगमण्डलं प्रति वनितासंरम्भकान् आकर्षितुं तेषाम् उन्नमनाय च समाजे लिङ्गसमत्वम् आवश्यकमिति इवान्का ट्रम्पः। हैदराबादे प्रचाल्यमाने आगोल संरम्भत्व उच्चशिखरे 'स्त्रीशाक्तीकरणम्' इतिविषयमधिकृत्य भाषमाणा आसीत् अमेरिक्कायाः राष्ट्रपतेः पुत्री इवान्का। 
       लिङ्गसमत्वाय प्रगतिरूपाः व्यवस्थाः आवश्यिक्यः। राष्ट्रस्य आर्थिकविकासाय तदनिवार्या। आगोलतले वनितासंरभकाणां संख्या वर्धते एव। विश्वजनसंख्यायाः अर्धभागः महिलाः सन्ति। अतः महिलानां समस्याः न केवलं तासां समस्याः किन्तु मानवीयसमस्याः भवन्ति - इवान्का अवदत्।
कदलीफलस्य कवचेन भाग्यं विन्दति बालिका।
विशेषवार्ता -
         
      चतस्रवयस्का बालिका स्वस्य महत्तरा कर्मणा प्रसिद्घा अभवत्। इतानीं एषा बलिका उत्तराखण्ड राज्यस्य द्वानी नगरपालिकायाः  दूतिका वर्तते। मालिन्यागरेण सम्पूर्ण पल्ली निवासिनी इयं बालिका नामधेयेन स्वभावेन च लक्ष्मी एव भवति।

घटना एवमेव आसीत्-
     विगते ओक्तोबर् मासस्य एकत्रिंशत् दिनाङ्के द्वानि देशस्ते प्रसिद्धे रामलीला भूतले सर्दार् वल्ल्भायी पट्टेलस्य जयन्ती समारोहः प्रचलत् आसीत् । शिशुवाटिकातः आरभ्य उन्नत विद्यालयछात्राः प्रौढाः च बहवः तत्र सन्निहिताः आसन् । सङ्घाटकैः सदसि विद्यमानाः सर्वाः  अपि कदलीफल-पानीयादिभिः सत्कृताः चl सर्वैः खाद्यपानीयादीनि आस्वाद्यनन्तरं फलकवचाः तथा चषकाश्च असन्तस्य अधः वा स्वस्थानस्य समीपभागे च स्थापिताः आसन् । किन्तु इयं बालिका लक्ष्मी,  फल कवचं,   उपयोगरहितं चषकं च दूरस्थं  अवक्षय पात्रे न्यक्षिपत्। एषा स्वमेधया एतत् प्रक्रिया कृता आसीत् । वेदिकायां सदसि च विद्यमानेषु यः कोऽपि चषकः फलकवचं च अवक्षयपात्रे  स्थापयितुं न उद्युक्ताः। लक्ष्म्याः सत्कर्मः  कम्मीषणर् हर्बीर् सिहेन दृष्टम् । सः ताम् वेदिकायां आहूय अभिनन्दितवान्। सर्वे जनाः ताम् आदर्श रूपेण स्वीकर्तुंम् उपादिशत् च। लज्जिताः जनाः स्वस्य अवक्षिप्तानि अवक्षय पात्रे न्यक्षिपन् च। नगरपालिकाध्यक्षेण एषा लक्ष्मी तदा एव  नगरस्य दूतिका रूपेण प्रखापिता। तस्याः अध्ययनं वस्त्रादीनां व्ययः च नगरपालिका संस्थया वोढुमपि निश्चितः अस्ति। 
Eisode 66

Wednesday, November 29, 2017

हट्ताल्- नष्टपरिहारम् आहर्तुं सर्वेषु राज्येषु न्यायालयाः अवश्यकाः - सर्वोच्चन्यायालयः।
 ‍                     नवदिली> हट्ताल् नाम  कर्मप्रतिरोधक्रियया जायमानस्य नष्टस्य गुरुत्वं गणयित्वा नष्टपरिहारं आहर्तुं सर्वेष्वपिराज्येषु तथा केन्द्रशासनप्रदेशेषु च न्यायालयस्य आयोजनाय उच्च न्यायालयेन आदिष्टः।  उच्चन्यायालयेन सह संलोच्य एकं वा द्वे जनपद न्यायाधिपानां एतस्य उत्तरदायित्वं देयम् ।
 सार्वजनिकवस्तूनां नाशनं निवारयितुं नियमानां परिष्कारे एषः नियमः अपि निवेशनीयः इति न्यायाधिपौ ए के गोयल्, यु यु ललित् च आदिशताम्। हट्तालं विरुद्ध्य न्यायवादिनः कोशि जेक्कब् महोदयस्य व्यवहारे निर्णयं कृत्वा आसीत् सर्वोच्च न्यायालयस्य एतादृश आदेशः।
जापानस्य सागरतीरं लक्ष्यीकृत्य उत्तर-कोरिय राष्ट्रेण पुनरपि अग्निसायकं विक्षिप्तम्।
          सोल्> लोकान् युद्धभीत्यां पातयित्वा उत्तरकोरियस्य 'बालिस्टिक्' सायकः जापानस्य तीरे पतितः। पञ्चाशत् मिमेषपर्यन्तं डयनं कृत्वा एव पतितः। स्थितिम् आलोकयितुं जापानस्य प्रधानमन्त्री षिन् सो आबे झटित्येव मन्त्रिमण्डलम् आहूतवान् ।

         दक्षिणकोरियस्य वार्ताहरसंस्थया योन्हाप् इत्यनेन एव सायक-विक्षेपण वार्ता प्रथमं प्रकाशिता। अनन्तरं तत्रत्याः सेनया तथा यु एस् राष्ट्रेण च वार्तेऽयं प्रमाणीकृता। उत्तरकोरियस्य राजधानीस्थ पोङ्सोङ्तः एव विक्षितः। एतस्य प्रत्युत्तरवत् दक्षिणकोरियः समानशक्तियुत सायकस्य विक्षेपणम् अकरोत्। विगते सेप्तंबर् मासे जापानस्य आकाशमार्गेण  उत्तर कोरियराष्ट्रम्  अग्निसायकविक्षेपणं कृतमासीत्।
गोवा अन्ताराष्ट्रचलच्चित्रमेला समाप्ता। 
           पनजी > अष्टचत्वारिशत्तमा गोवा अन्तर्देशीया चलनचित्रमेला समाप्ता। 'एय्ड्स्' रोगं विरुध्य प्रतिरोधप्रवर्तनानि आधारीकृत्य आविष्कृतं '१२० बीट्स् पेर् मिनिट्' नामकं फ्रन्च् देशीयं चित्रं श्रेष्ठतमचित्राय समर्प्यमाणं 'सुवर्णमयूरं' पुरस्कारं प्राप्तवत्। श्रेष्ठः नटः अपि अस्मिन् चित्रे षोण् डाल्मासो नामकं कथापात्रम् अवतारितः नाहुल् पेरस् नामकः अस्ति। 
         श्रेष्ठा अभिनेत्री इत्यस्य 'रजतमयूरं'  पुरस्कारं कैरलीभाषायां साक्षात्कृते 'टेक् ओफ्' नामके चलनचित्रे समीरा नामिकाम् अनुवैद्याम् अनश्वरां कृतवती पार्वती प्राप्तवती। टेक् ओफ् चित्रेण विधिकर्तृृणां सविशेषपुरस्कारः अपि प्राप्तः।
संस्कृतविचारसभायाः अद्य शुभारम्भः।
         अनन्तपुरी> संस्कृतभाषां सार्वजनिकं  कर्तुमुद्दिश्य  केरलसर्वकारस्य सामान्यशिक्षाविभागेन आयोज्यमाना राष्ट्रियसंगोष्ठी अद्य अनन्तपुर्यां उद्घाटयिष्यति। विक्टोरिया जूबिली तिय्येट्टर् नामिकायां वेदिकायाम् एव कार्यक्रमः।
        अद्य प्रातः १० वादने सामाजिकस्य वि.एस्. शिवकुमार् महोदयस्य आध्यक्ष्ये केरलस्य शिक्षामन्त्रिणा प्रोफ. सि रवीन्द्रनाथवर्येण संगोष्याः उद्घाटनं क्रियते। नगरपालः वी.के.प्रशान्तेन मुख्यातिथिरूपेण वर्तिष्यते। भूतपूर्वः मुख्यसचिवः आर् रामचन्द्रन् नायर् महोदयः, राज्य-शैक्षिकानुसन्धानप्रशिक्षणपरिषदः निर्देशकः डो. जे. प्रसादः च भागभाजः भविष्यति। डो. पी. नारायणन् नम्पूतिरिवर्यः, प्रो. वी. माधवन् पिल्लावर्यः च प्रबन्धावतारणं करिष्यतः॥

Tuesday, November 28, 2017

सहिष्णुतया सह स्वीकार्यता च स्वामि विवेकनन्द्रः पाठितवान् - सन्यासिः मोक्षव्रतानन्दः ।
         अनन्तपुरी > सहिष्णुतया सह स्वीकार्यता च स्वामि विवेकनन्द्रः पाठितवान् इति श्रीरामकृष्ण मठस्य सन्यासिवर्यः मोक्षव्रतानन्दः अवदत्। स्वामी विवेकानन्दस्य पञ्चविंशत्यधिकशताब्दिपर्वणानुबन्धतया आयोजिते राज्यस्तरीय मेलने भाषमाणः आसीत् सः । त्यागः सेवा च भवतः भारतस्य आत्मा इति स्वामि             विवेकानन्देन स्वजीवनेन उद्बोधितः इति च सः अवदत्  I
अपरिमितकोटिजनानां मानसेषु अधुनापि जीवति विवेकानन्दः इति केरलस्य मुख्यमन्त्री पिणरायि विजयः  अवदत् ।  राज्य सर्वकास्य सांस्कृतिक-कार्य-विभागेन कार्यक्रमोऽयम्  आयोजितः। 
उदरे त्रिषष्ट्युत्तरद्विशतम्  नाणकैस्सहितम् पञ्चकिलोमितम् अय: ; स्तब्धा: वैद्या:।। 
          भोपालम्> मध्यप्रदेशीयस्य युवकस्य उदरात् शस्त्रक्रियया त्रिषष्ट्युत्तरद्विशतम् नाणकानि शतम् आणी: तथा आहत्य पञ्चकिलोमितम् अय: बहिर्निष्कासितम्। उदरवेदनया आतुरालयम् प्रवेशितस्य पञ्चत्रिंशत् वयस्कस्य मुहम्मद् मकसुदीनस्य उदरादेव पञ्चकिलोमितानि अयोवस्तूनि प्राप्तानि। एक्स्रे मध्ये अयस्सान्निध्यं दृष्ट्वा शस्त्रक्रियायै एनं विधेयमकरोत्
वृद्धकोशानामपि तारुण्सामर्थ्यम् विज्ञाय गवेषकाःI
        नवयौवनं सर्वेपि इच्छन्ति एव l आरोग्ययुक्त आयु: सम्पादनाय मनुष्यशरीरस्य पलितकोशान् अपि उपयोक्तुं शाक्यते इति लण्टन् एक्सटर् विश्वविद्यालयस्य गवेषकाः । रक्तवर्ण आसव-पानीये चाकलेहे द्राक्षाफले च अन्तर्लीन रवरसाट्रोलिनस्य शक्तिः  असाधारणा भवति इति तैः निरीक्षितम् । बि एम् सि सेल् बयोलजि नाम पत्रिकायां अध्ययनमिदं प्रकाशितम्।
एकाधिपतयः निर्वाचनं उद्घण्ठाजनकम् - रघुराम् राजः

           नव दिल्ली> निर्वाचितः सर्वकारः स्वस्य अधिकारिणः वाचं एव निशम्य प्रवर्तने निरतः चेत्  स्कलिते पतितुं  सन्दर्भः भविष्यति इति रिज़र्व बैङ्कस्य भूतपूर्वाध्यक्षः रघुराम राजः वदति। एतस्य परिहाराय सर्वेषां अभिमतानि ज्ञात्वा शासकाः वार्तिष्यमाणाः भवन्तु। निर्वाचन प्रक्रियया स्वेच्छाधिपतयः शासने मा आगच्छेयुः एवं चेत् तत् उद्घण्ठास्पदं भवति इत्यपि रघुरामराजेन अभिप्रेतम्।
           करः सर्वे दातव्यम् । सर्वकाराः जनेभ्यः सेवनसुविधा: विधातुं स्पर्ष्यमाणः भूयात् । प्रतिषेध प्रकाशनाय सन्दर्भः जनाधिपत्य संविधानस्य पोषणाय भवति इत्यपि अवदत् रघुरामराजः।

Monday, November 27, 2017

अग्निपर्वतविस्फोटनम् - पूर्व सूचना दत्ता - बालि विमाननिलयं पिधानं कृतम् ।
               जक्कार्ता >विनोदाय बालिद्वीपं गतवन्तः तत्रैव प्रतिबन्धिताः I अग्नि पर्वत शिखरात् भस्मः धूमः च बलि अन्ताराष्ट्र विमाननिलयस्य समीपं प्राप्तौ इत्यनेन विमाननिलयं पिधानं कृतम्। अत एव यात्रिकाः प्रतिबन्धिताः अभवन्। बालिद्वीपस्य मौण्ट् अगुङ् अग्निपर्वतेन एव भीषा उद्पादिता। जाग्रता निर्देशानुबन्धतया उपशतं विमानाति स्थगितानि। सप्त विमानाति जक्कार्त 'सुरबाय, सिङ्गपुर मार्गण पथपरिवर्तनानि कृतानि।
मार्पाप्पा अद्य म्यान्मार् प्राप्नोति। 
            याङ्कोण् > रोहिङ्ग्यन् अभयार्थिनां विरुध्य सैनिकक्रियाभिः लोकराष्ट्राणाम् अभिशंसनपात्रं म्यान्मार् राष्ट्रं अद्य फ्रान्सिस् मार्पाप्पावर्यः प्राप्नोति।  आङ् सान् स्यूची, तिन् क्यो इत्येतैः राष्ट्रनेतृभिः सह पाप्पावर्यः श्वः मेलनं करिष्यति। अपि च राष्ट्रस्य बौद्धधर्मनेतृभिः साकं चर्चां करिष्यति। 
           आङ् सान् स्यूचिनः प्रधानमन्त्रिपदप्राप्त्यनन्तरं म्यान्मर् राष्ट्रेण सह वत्तिक्कान् राष्ट्रस्य नयतन्त्रबन्धः आरब्धः आसीत्। पाप्पावर्यस्य प्रथमं दक्षिणेष्यन् सन्दर्शनं भवत्येतत्।
विश्वे संस्कृतस्य महत्त्वं वर्धमानम् अस्ति। - डो बलदेवानन्दसागर:
संस्कृतसेवासमितिः एच.के. आर्ट्स-महाविद्यालयः च इत्यनयोः सहयोगेन मङ्गलवासरे संस्कृतभाषायाः वरिष्ठस्य विदुषः प्रवाचकस्य डो बलदेवानन्दसागरस्य व्याख्यानस्य आयोजनमभवत्। महोदयेन आकाशवाण्यां दूरदर्शने च अनेकानि वर्षाणि यावत् प्रवाचन-भाषान्तरादिभिः कार्यैः सेवा दत्ता अस्ति। आधुनिक-वैज्ञानिकयुगे संस्कृतस्य महत्त्वं प्रस्थापयितुं महोदयेन उक्तम् यत् संस्कृतस्य महत्त्वं शनैः शनैः वैश्विकस्तरे वर्धितमस्ति। वैद्युताणविक-सञ्चारमाध्यमेषु  न केवलं भारतीयाः अपि तु वैदेशिकाः संस्कृतभाषां पठितुं प्रयत्नरताः सन्ति। ट्विटर् फेसबुक ब्लोग व्होट्स-एप् एन्ड्रोइड् यु-ट्युब् इत्यादिषु www इति विश्वव्यापि-जालस्थानेषु संस्कृतस्य उपयोगः वर्धितः अस्ति। नैके जनाः एतेषु माध्यमेषु संस्कृतस्य प्रयोगं कुर्वन्ति। अद्यत्वे संस्कृतभाषया जीवितभाषारूपेण जनानां मनस्सु स्थानं स्वीकृतमस्ति।  बालानां नैतिकमूल्यवर्धनाय विविधाः एनिमेटेड् इति चलचित्रकथाः सरलतया उपलभ्यन्ते। वार्तापत्राणि पत्रिकाः च नियमितं प्रकाश्यन्ते। चतुर्षु विश्वविद्यालयेषु सञ्चारमाध्यमेषु संस्कृतपत्रकारितायाः अभ्यासक्रमः चलति। संस्कृतं विश्वभाषारूपेण सर्वस्वीकृता जायमाना अस्ति।newzviewz

Sunday, November 26, 2017

पाकिस्थाने निजीय दूरदर्शन वाहिन्यः निरोधिताः
             इस्लामबाद् > पाकिस्थानस्य राजधान्यां इस्लामबादे प्रतिषेध समरंकृतवतः विरुध्य सेनया कृतायाः प्रतिक्रियायाः तत्समयसंप्रेषणं कृतवन्तः निजीय दूरदर्शनानि। किन्तु अनेन कारणेन एव एतेषां दूरदर्शनानां सम्प्रेषणे बाधा अभवत् ।  पाकिस्थानस्य विद्युत्माध्यम अयोगस्य एव आदेश: । सैनिक प्रतिक्रियायाः सम्प्रेषणं माध्यम नियन्त्रण-नियमस्य विरुद्धः इत्यनेनैव ह्रस्व -काल नियन्त्रणम् ।  किन्तु सर्वकारीय दूरदर्शनस्य नियन्त्रणं नास्ति।
              द्विसप्ताहं यावत् मार्ग-पिधानं कुर्वन्तः आसीत् जनाः ।  आरक्षकानाम् उपरि अपि आक्रमणानि कृत्वा आमासीत् प्रतिषेधः। मार्गोबन्धः, पाषाण-खण्डप्रेषणम् च प्रतिषिध्य जनाः कृताः । एतान् स्वाधीनंकर्तुं अश्रु वातः प्रयुक्तवान् सैन्यः ।  एतत् सर्वं  माध्यमैः तत्समयं सम्प्रेषितम् ॥
उच्च न्यायालयेषु वनिता- दलित सान्निध्यं न्यूनं - राष्ट्रपतिः रामनाथ कोविन्दः
          नवदिल्ली> उन्नतन्यायालयेषु वनितानां तथा दलित-विभागानां च प्रतिनिध्यं अल्पं एव इत्यनेन उद्घण्ठितः अस्ति इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। लो कम्मीषन् आफ् इन्त्या, नीति आयोग् एतयोः संयुक्त सम्मेलनम् उद्घाटनंकृत्वा भाषमाणः आसीत् सः। ओ बि सि, अनुसूचित-विभागजानां च  प्रातिनिध्ये बहुकालादारभ्य न्यूनत्वं असीत् । तत् अस्वीकार्यः एव। वनितानां तु चतुर्षु एका इति क्रमेण भवति, तस्मादपि अधिकं भवतु कालान्तरेण, इत्यपि राष्ट्रपतिना उक्तम्। जानपदीय संसद् न्यायालयस्य न्यायाधिपानां वैभवाः संवर्ध्य तान्‌ उन्नतन्यायालयं प्रति नयेत् । अस्य उत्तरदायित्वमपि उन्नतन्यायालयानाम् एव। किन्तु न्यायविधाने न्यूनता कदापि मास्तु इति च राष्ट्रपतिना अक्तम्।
भारतश्रीलङ्कादलयो: द्वितीयक्रिकेटस्पर्धा 
भारतश्रीलङ्कादलयो: तिसृणां क्रिकेटस्पर्धामालिकाया: द्वितीया स्पर्धा नागपुरे प्रवर्तितास्ति । प्रथमपाल्यां प्रथमे दिने श्रीलङ्कया पञ्चोत्तरद्विशतं धावनाङ्का: सम्पादिताः आसन्। लक्ष्यमनुसरता द्वितीयदिवसीयक्रीडावसानं यावत् भारतीयदलेन प्रथमपाल्यां क्रीडकद्वयस्य हानौ द्वादशोत्तरत्रिशतं धावनाङ्का: विनिर्मिता: सन्ति । भारतम्  अद्य तृतीये दिवसे सप्तोत्तरैकशतं धावनाङ्कानां वृद्धिपुरस्सरम् अग्रे क्रीडिष्यति ।
विद्यालयेषु नवोत्थानप्रतिज्ञा श्वः। 
              कोच्ची > केरलराज्ये विद्यालयेषु श्वः छात्रैः नवोत्थानप्रतिज्ञा करणीया इति शैक्षिकविभागस्य आदेशः। स्वामिविवेकानन्दस्य केरलसन्दर्शनस्य १२५तमं वार्षिकं 'विवेकानन्दस्पर्शम्' इति नाम्ना राज्ये आचरिष्यति। अस्य भागतया एव नवोत्थानप्रतिज्ञा करणीयेति निर्देशः।
          नवम्बर् २७ दिनाङ्कादारभ्य  डिसम्बर् २२ पर्यन्तं सांस्कृतिकविभागस्य नेतृत्वे राज्ये विविधाः कार्यक्रमाः आयोक्ष्यन्ते। सर्वेषु जनपदेषु सांस्कृतिकमेलनानि , कलाप्रदर्शनानि च आयोक्ष्यन्ते इति मन्त्रिणा ए के बालेन निगदितम्।

Saturday, November 25, 2017

संस्कृत-वार्तावतारण-परिशीलन शिल्पशाला सम्पूर्णमभवत्।
                कोच्ची> छात्राणां कृते सर्वशिक्षा अभियानेन आयोजिता त्रिदिनात्मक संस्कृतवार्तावतारण शिल्पशाला सम्पूर्णा  अभवत्।  आधुनिकयुगे अन्तर्जालयुत-कार्यक्रमेषु संस्कृतभाषायाः स्थानं प्रथममेव इत्यस्य प्रमाणत्वेन आसीत् छात्राणां वार्ता प्रस्तुतिः। विविध भारतीय-भाषासु संस्कृतभाषायाः स्वाधीनता अत्यधिका अस्ति। अतः संस्कृताध्ययनं मातृभाषायाः स्वाभाविक वर्धनायभवति। 
             एरणाकुलं जनपदस्य विविधेभ्यः प्रदेशेभ्यः निर्वाचितान् उप विंशति छात्रान् उद्दिश्य आसीत् एतत् विशेषसत्रम् । दिनत्रयेण वार्तावतारणे कुशलतां प्राप्ता इति। छात्रैः अभिप्रेतम्I आधुनिककाले सर्वेषु कार्यक्रमेषु अवतारकाः आवश्यकाः अतः एतादृशकार्यक्रमाः कौशलवर्धनाय भविष्यन्ति इति BRC अध्यक्षया फौसिया महोदयया उक्तम्। रक्षाकर्तारः अपि एता दृश-नवीन कार्यक्रमस्य आयोजने सन्तुष्टाः अभवन्। समागमिष्यमाणे मेय् मासे नूतनतया वार्तावतारणशिल्पशाला आयोक्ष्यते इति कार्यक्रमाध्यक्षेण जोस् पेट् महोदयेन उक्तम्।
ईजिप्ट् राष्ट्रे इस्लामदेवालये भीकराक्रमणं - २३५ मरणानि। 
            केय्रो> ईजिप्ट् राष्ट्रस्य उत्तरसिना नाम प्रविश्यायां कस्मिंश्चित् इस्लामदेवालये दुरापन्ने भीकराक्रमणेन पञ्चत्रिंशदधिकद्विशतं विश्वासिजनाः मृताः।शताधिकाः आहताः च। इस्रायेल्-पालस्तीन् सीमायां 'बिल् अल् अब्द्' नगरे अल् रौदा मुस्लिम देवालये प्रार्थनावेलायामासीत् स्फोटनरूपम् आक्रमणम्। स्फोटनानन्तरं बहिः पलायितान् जनान् वाहनैः प्राप्ताः अक्रमिणः भुषुण्डिप्रयोगेणापि मारितवन्तः। ईजिप्त् राष्ट्रस्य चरित्रे जातं बृहत्तमं भीकराक्रमणं भवत्येतत्।
         आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। किन्तु  २०११ आरभ्य राष्ट्रे निरन्तरमाक्रमणं कुर्वन्तः ऐ एस् भीकराः एव अस्य भूमिकायामिति निगमनम्।

Friday, November 24, 2017

इस्रायेल्स्य प्रधानमन्त्री भारतं आगमिष्यति।
            जेरुसलेम्- इस्रायेल् राष्ट्रस्य प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहू वर्येण भारतं  सन्दृक्ष्यते। जनुवरिमासस्य १४ तमे दिनाङ्के एव तस्य सन्दर्शनम्। चतुर्दिवसीय-सन्दर्शनमेव सज्जीकृतम् वर्तते।  भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनानन्तरं षण्मासमतीतम् । 
२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ संवत्सरानन्दरमेव अधुनातनः प्रधानमन्त्री भारतं आगमिष्यति। द्विनवत्यधिकनव शतोत्तरैकसहस्र (१९९२ ) तमे संवत्सरे नयतन्त्रबन्धस्थापनानन्तरं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू इत्यस्ति विशेषता।
वातावरण -परिवर्तनेन अग्नि पर्वतविस्फोटनानि अधिकतया भवितुमर्न्ति।
               लन्टन्> वातावरणव्यत्ययस्य परिणामफलेन अधिकतया अग्निपर्वत-विस्फोटनानि भविष्यन्ति इति अध्ययनम्। आगोलतपनाधिक्योन हिमखण्डानि द्रवीकृतानि भवितुमर्हन्ति। अग्निपर्वतमण्डलेषु एव द्रवीकरणं अधिकतया  भविष्यति। अत एव तत्र अधिकतया  विस्फोटनानि भवितुमर्हति।
भौमोपरि मण्डले वायुमर्दे जायमानं व्यत्ययम् अन्गिपर्वतविस्फोटनं वर्धापयति।
ऑण्लैन् आधारीकृत्य कर्मसु भारतं प्रथमस्थाने
        अन्तर्जाल-माध्यमद्वारा स्वेच्छाया कर्मकुर्वत्सु भारतीयाः एव अधिकाः इति अध्ययनफलम्। ओक्सफोड् विश्वविद्यालयस्य अन्तर्जालसंस्थया कृतेषु अध्ययनेषु अन्तर्जालद्वारा कर्मसु २४% भारतीयाः व्यापृताः सन्ति। बंगलादेशे १६% (द्वितीयं स्थानं)अमेरिका १२% (तृतीयंस्थानं) फिलिप्पैन्स् यु के च पृष्टतः च स्तः। विविधेषु राज्येषु विविधकर्ममण्डलेषु प्रवर्तनं केन्द्रीकृतम्। भारतस्य अन्तर्जाल कर्मकराः प्रतिशतं पञ्च-पञ्चाशत् कर्माणि सोफ्ट्वेर् अनुबन्धतया एव भवति । वित्तमण्डलेषु वाणिज्य-मण्डलेषु नियमोपदेश मण्डलेषु च यु के राष्ट्रसमुच्चयः एव पुरतः तिष्टति।
         ऑण् लैन् वेदिकेति विख्याताः फीवर्, फ्रीलान्सर्,  गुरु, पीप्पिल्, पेर् अवर्  इति प्रमृतीनां विवरणसञ्चयान् अपग्रथनंकृवा एव अध्ययनावेदनं निर्मितम्।

Thursday, November 23, 2017

आयकरनियमः समूलं  परिष्क्रियते। 
        नवदिल्ली > आयकरस्य शासनविधिं समग्रं परिष्कर्तुं केन्द्रसर्वकारेण षडङ्गसमितिः नियुक्ता। पञ्चाशत्संवत्सराणां प्राचीनतमम् अधुनातनविधिं राष्ट्रस्य नवीनार्थिकार्हतामनुसृत्य परिष्कर्तुमेव निर्देशः कृतः। केन्द्र प्रत्यक्षकरसमित्यङ्गः अरबिन्द् मोदी भवत्यस्याः समित्याः अध्यक्षः।
मानवमूल्य-संरक्षणाय संस्कृत अध्ययनम् आवश्यकम् - उत्तरप्रदेशराज्यमन्त्री  डॉ. वाचस्पति मिश्रः

        जयपुरम्> दाऊ स्थित जगद्गुरु रामानंदाचार्य: राजस्थान संस्कृत विश्वविद्यालयस्य श्रीरामानंदाचार्य: सभागारेस्मिन् मंगलवासरे एकदिवसीय राष्ट्रिय: शोध-संगोष्ठी: अभवत्। सङ्गोष्ठया: विषयः "संस्कृतसाहित्यस्य मूलतत्त्वविमर्श:" आसीत्। सङ्गोष्ठयां मञ्चे मुख्यातिथि: विधायक: श्री मोहन लाल गुप्ता दीक्षान्त भाषणाय  केंद्रीय: संस्कृत आयोगस्य सदस्य: देवर्षि कलानाथ: शास्त्री विश्वविद्यालयस्य कार्यवाहक-कुलसचिव: श्री सम्बसदाशिवमूर्ति: च आसन्। सङ्गोष्ठया: संयोजिका साहित्य च विभागाध्यक्षा डॉ. स्नेहलता शर्मा उक्तवती यत् सङ्गोष्ठया: विशिष्टातिथि: उत्तरप्रदेश-संस्कृत-संस्थानस्य अध्यक्ष: राज्यमंत्री च डॉ. वाचस्पति मिश्रवर्येण उक्तं यत् मूल्य संरक्षणस्य संस्कृत अध्ययनम् आवश्यकमस्ति। सङ्गोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपति: प्रो. विनोद: शास्त्रीवर्येण उक्तं यत् भारतीय संस्कृति: विश्वस्य प्राचीन संस्कृति: प्रथमश्च संस्कृति: अस्ति। एतदर्थं जीवने प्रत्येकं मनुष्यं आध्यात्मिक मूल्याणां प्रयोग: करणीयः। आध्यात्मिक मूल्यात् जीवनम् अग्रे गच्छति। सङ्गोष्ठयां शाश्वत: मूल्यं धर्मः-कर्मः मोक्ष-भारतीय-आचार-दर्शन: आदिभौतिक: आदिवैदिक: एवं आध्यात्मिक मूल्याणाम् विचाराः व्यक्तं कृतवन्तः। सङ्गोष्ठया: अंतिमे कुलसचिव महोदयेन आगन्तुकनाम् स्वागतम् धन्यवादश्च ज्ञापितम्।

Wednesday, November 22, 2017

अन्ताराष्ट्रन्यायालये भारतस्य विजयः
न्यायाधिपपदे पुनरपि दलवीर भण्डारिः।

              न्यूयोर्क्> भारतस्य नयतन्त्रविजयः। अन्ताराष्ट्र न्यायालयस्य न्यायाधिप-निर्वाचने नाटकान्तता। ब्रिट्टणं पश्चात्कृत्य भारतस्य दलवीर भण्डारिवर्यः न्यायाधिपपदमारूढवान् । सप्ततिवयस्कः भण्डारिवर्यः ब्रिट्टणस्य क्रिस्तफर् ग्रीन्वुड् वर्यम् एव प्रतिस्पर्धितवान् इति अत्र निदर्शनात्मकमिदं, यद्  भारतस्य नयतन्त्रचतुरतायाः विजयः अभूदिति। सार्वजनिक सभायाः त्रिनवत्यधिक एकशतं सम्मतिदानेषु त्र्यशीत्यधिक एकशतम् (१९३/१८३) सम्मतिदानानि तथा रक्षा समित्याः पञ्चदश सम्मतिदानानि च  लब्ध्वा भण्डारी महाभागः विजयी अभवत्। । आगामि नवसंवत्सरपर्यन्तं न्यायाधिपत्वं वोढूं शक्यते भण्डारिवर्याय।
होमियो वैद्यानां  स्वस्य चिकित्सालये औषध विक्रयणाय बाधा नास्ति।
                     कोच्ची > केन्द्र-स्वास्थ्य-कुटुम्बक्षेम-मन्त्रालयेन 'ड्रग्स् आन्ट् कोस्मटिक् आक्ट्' इति नियमः परिष्कृतः। परिष्कृत-नियमे होमियो वैद्यानां स्वस्य चिकित्सालये अन्षां वैद्यानां औषधि निर्देशानुसारं औषधविक्रयणे एव बाधा अस्ति। औषधविपणन-केन्द्रस्य अनुबन्धतया वर्तिष्यमाणे चिकित्सालये औषधविपणने भाागं कर्तुं अपि वैद्यकानां न नशक्यते। अलोप्पति औषध विपणनालये इतः आरभ्य होमियो औषधानां च विक्रयणं शक्यते। होमियो औषधनाम विक्रयणे औषध-निर्देशलेखने च वैद्याः कुमार्गं अवलम्ब्यते इति विज्ञाय एव अयं नियमः। अलोप्पति औषधविपणनालये विशेष अनुमतिं विना विक्रयणं शक्यते। किन्तु पञ्जीकृतः होमियो औषधपरिज्ञानार्जितः तस्मिन् विक्रयणकेन्द्रे निश्चयेन भवितव्यः इत्यस्ति केन्द्रमन्त्रालयस्य परिष्कृत नियम व्यवस्थायाम्॥
सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् अयच्छत् । 
         हरारे > सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् समर्पितवान् । व्यवहाराभिशम्सनारम्भानन्तरमेव त्यागपत्रं समर्पितवान् I [१९८०] अशीत्युत्तरनवशतोत्तरैकसहस्रतमवर्षाद् आरभ्य सः सिम्बाब्वे-अध्यक्षः आसीत् । सनु.पि. एफ् इति स्वदलं त्रिनवतिवयोयुक्तं मुगाबे महाशयम् अध्यक्षस्थानात् निष्कासितवत् । पश्चात् एमेष़्सण् नन्गाग्व दलनेतृत्‍वेन निर्वाचितः । मुगाबे इत्‍यस्य अनारोग्यं परिगणय्य स्वभार्या ग्रेय्स्, तस्याः सहचराश्च अधिकारं स्वायत्तीकृत्य स्वराज्यं मुष्णातुं करिष्यमाणं मोषणप्रयत्नम् अवरोद्धुमेवेति तदीयदलस्य आरोपः । मुगाबेपत्नीं ग्रेय्स् इत्यमुं च दलात् निष्कासितवन्तः । तदभ्यन्तरे यदा मुगाबे त्यागपत्रं दातुम् असनद्ध: आसीत्। तदा व्यवहाराभियोगस्य प्रारम्भं लोकसभासदस्याः स्वीकुर्वन्ति स्म।
कोच्चीमध्ये विमानं भग्नं पतितम्। 
             कोच्ची > नाविकसेनायाः पुरुषरहितविमानं निरीक्षणडयनवेलायां कोच्च्यां वेल्लिङ्टण् द्वीपे भग्नंपतितम्। इस्रायेलनिर्मितस्य विमानस्येयं दुर्घटना। यन्त्ररोगः अस्ति कारणमिति नाविकसेनायाः प्राथमिकनिर्णयः। 
          विल्लिङ्टण् द्वीपे कस्यांश्चन निजीयेन्धनसम्भरणशालायां ह्यः प्रभाते सार्धदशवादने विमानं पतितम्। शाला इन्धनरहिता आसीत् इत्यतः महान् दुरन्तः अपगतः। दशसंवत्सराणि यावत् नाविकसेनया इदं विमानं उपयुज्यमानमासीत्।

Tuesday, November 21, 2017

जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतसाहित्य ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहे प्रति रविवासरे भविष्यति। एषा प्रतियोगिता प्रति रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तम् भविष्यति। प्रतियोगितायां संस्कृत-सहित्यस्य प्रश्नाः आगमिष्यति। प्रतियोगिताया: आयोजनं जगदीश: डाभी, पण्डितः दीपक: शास्त्री, अमित: ओली. मञ्जु भट्टाचार्य, डॉ. सन्ध्या ठाकुर च कृतवन्त:। पुरस्कारस्य प्रयोजक: दैनिक संस्कृत समाचारपत्रम् 'विश्वस्य वृत्तान्तम्' अस्ति। गत रविवासरे  १९/११/२०१७ तमे दिनाङ्के प्रथमा प्रतियोगितायां आहत्य २७० जनाः उपस्थिता: आहत्य च २५० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता कृष्णकांत: पंचारिया, द्वितीय विजेता धीरज: शास्त्री, तृतीय विजेता राहुल: शर्मा च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं नाम संस्कृत-समाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं भविष्यति।
     आगामी द्वितीया प्रतियोगिता २६/११/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
तीर्थस्थानेषु GST नियमस्य बाधा अस्ति वा? 
 
     एरुमेली- केरलम्> पण्य-सेवनकरः इति यः वर्तते नियमः, सः प्रावर्तिकः सर्वत्र,  किन्तु एरुमेली तीर्थाटन केन्द्रे भोज्यवस्तूनां अधिकं मूल्यमेव दातव्यम्। परिच्छदोत्पन्नानां मूल्ये एव अनियन्त्रितवर्धनम्।  केरलात् बहिः आन्ध्राप्रदेशं कर्णाटकं तमिळ् नाट्  राज्येभ्यः तीर्थाटकाः एरुमेली देशम् आगत्य एव शबरि गिरि तीर्थाटनाय  गच्छन्ति। केरलेषु विद्यमानेषु तीर्था स्थानेषु जनानाम् आगमनस्य गणनानुसारं प्रथम स्थाने भवति शबरि-गिरी तीर्थस्थानम् । तत्रैव भवति  एतादृशाधिकधनापहरणाद्यधर्माः इति श्रद्धेयः अंशः ।
उपराष्ट्रपतिः अद्य केरले। 
कोच्ची > भारतस्य उपराष्ट्रपतिः वेङ्कय्यनायिडु महोदयः द्विदिवसीयसन्दर्शनार्थम् अद्य केरलं प्राप्नोति। उपराष्ट्रपतिस्थानारोहणानन्तरम् अस्य प्रथमं केरलसन्दर्शनं भवत्येतत्।  त्रिषु कार्यक्रमेषु उपराष्ट्रपतिः भागभागित्वं करिष्यति।  सायं चतुर्वादने कोच्चीनगरे 'इन्डियन् फिषरीस् आन्ड् अक्वा कल्चर फोरम्' सः उद्घाटनं करिष्यति।

Monday, November 20, 2017

रागिंग्-विद्यार्थिन्यः १३लक्षं दण्डितः।
पट्न> बीहारस्य धर्भंग वैद्यकलाशलायाः आतुरालयस्य प्रथम तृतीय अर्धाभागांश (semester) विभागस्य चतुर्पञ्चाशत् (५४) विद्यार्थिन्यः रागिङ्दोषेण त्रयोदशलक्षं रुप्यकाणि दण्डितानि। प्रति व्यक्तेः पञ्चविंशति सहस्रं दण्डः। अस्य मासस्य पञ्चिविंशति दिनाङ्कात् पूर्वं दण्डितशुल्कं समर्पणीयम्। नो चेत् षण्मासपर्यन्तं कलाशाला प्रवेशे बाधा भविष्यति। दोषमधिकृय सूचनानि बहिर्गता इत्यनेन आरक्षकालये न्यायव्यवहाराय सन्दर्भः च भविष्यति।
 व्यवहारास्पदा घटना एकादश दिनाङ्कात् आरब्धा। छात्रावासे प्रौढाः विद्यार्थिन्यः निर्बन्धितया माम्  अपीडयन् इत्युक्त्वा प्रथमार्धकालीनस्य विद्यार्थिनी भारतीयवैद्य आयोगास्य पुरतः व्यवहारं दत्तवती । आयोगस्य निर्देशानुसारं कलाशालाधिकारिणाः अन्वेषणम् अकुर्वन् । धटना सत्यमिति विज्ञातम्। किन्तु का दोषं कृतवती इति वक्तुं या कापि न उद्युक्ता इति एकैकां दोषिणीं पञ्च-विंशति-सहस्रं रुण्यकाणि अदण्डयत् च । तथापि घटनायाः विशदांशानि निरीक्ष्यन्ते इति आरक्षक विभागेन उक्तं च ।.
शासनपक्षनेतृत्वात् रोबर्ट् मुगाबे बहिष्कृतः। 
          हरारे > सिंबाब्वे राष्ट्रे ३७ संवत्सराणि पर्यन्तं विद्यमानः 'मुगाबेयुगः' अस्तं करोति इति सूचयन् शासनदलस्य 'सानु-पि एफ्' इत्यस्य नेतृस्थानात् राष्ट्रपतिः रोबर्ट् मुगाबे बहिः नीतः। 
     मुगाबे वर्येण बहिष्कृतः भूतपूर्वः उपराष्ट्रपतिः एमेष़सण् एम्नान् गाग्व वर्यः नेतृत्वपदे नियुक्तः। "नवयुगस्य उदयः भवत्विदानीम्। मुगाबे वर्यः कार्षिकवृत्तिं स्वीकुर्वन् कालयापनं करोतु" इत्येव दलस्य वरिष्ठनेत्रा उक्तम्।
मार्गहीनो जातः मुगाबे- राजनैतिक-दलाध्यक्षपदात् भ्रष्टः
                हरारे > सिम्बाब् वे राष्ट्रस्य सेनया अधिकारः बलाद् ग्रहीत्वानन्तरं गृहबन्धने आसीनः रोबर्ट् मुगाबे स्थानभ्रष्टः अभवत्। दलाध्यक्षपदं परित्यक्तुं गृहबन्धने आसीनः अपि सः न सज्जः। किन्तु सेनया तस्य सप्तत्रिंशत् संवत्सराणां शासनस्य अन्त्यम् कृतम् I भूतपूर्व उपाध्यक्षः एमेर्सन्  नन्गाग्व महाभागः एवभवति दलस्य नूतनाध्यक्षः। त्रिनवतिवयस्कः मुगाबे आसीत् विश्वस्य वयोधिकः राष्ट्रपतिः ।  ब्रिटन् देशतः स्वतन्त्रता प्राप्त्यनन्तरं एतावत्कालं राष्ट्रशासनम् अनेनेव कृतम् आसीत्।
इन्दिरा गान्धीमहाभागायाः धर्म: भारतीयाः सर्वे समानाः इति आसीत्  - सोणिया गन्धी ।
          नव दिल्ली> भूतपूर्व प्रधानमन्द्रिणी इन्दिरा गान्धी महाभागायाः जन्मशताब्दे ऐक्यभारत सन्देशेन सह कॉण्ग्रस् राजनैतिक-दलाध्यक्षा सोणिया गान्धी । भारतीयाः सर्वे भारत सुताः इति आसीत् तस्याः धर्मःI जाति-धर्मभेदानुसारं जनान् भेद्धुं सा कदापि न प्रयतितवती इति सोणियामहाभागया उक्तम्। भारतीयाः सर्वे समानाः इति उक्त्वा धर्मनिरपेक्षतायै प्रयतितवती । विपक्षदलस्य नेत्रा वाजपेयि महोदयः दुर्गा शक्त्याः दुर्गा इत्युक्त्वा सा इन्दिरा अभिनन्दिता।
          जन्मदिनसंवत्सरपर्वणि इन्दिरा गान्धी मेम्मोरियल् ट्रस्ट् इति संस्थया आयोजिते छायाग्राही-चित्रस्य प्रदर्शनोद्घाटनं कुर्विता भाषमाणा आसीत् सा। भूतपूर्व राष्ट्रपतिः प्रणाब् मुखर्जी, भूतपूर्व प्रधानमन्त्री मनमोहन सिंहः च भागं ग्रहीतवन्तौ ।

Sunday, November 19, 2017

काश्मीरे भीकरैः सह संघट्टनं - षट् भीकराः हताः। 
            श्रीनगरं  > जम्मु काश्मीरस्य बन्दिप्पोरा जनपदे षट् लष्कर् ई तोय्बा भीकराः सुरक्षासेनया सह संघट्टनेन हताः। व्योमसेनायाः कश्चन 'गरुड्' भटः अपि वीरमृत्युं प्राप्तः। 
    हतेषु भीकरेषु एकः पाकिस्थान् आस्थानत्वेन प्रवर्तमानस्य जमा अत्त् उद्दव नामकसंघटनस्य उपनेता अब्दुल् रह्मान् मक्कि इत्यस्य पुत्रः , २००८ तमे वत्सरे मुम्बई भीकराक्रमणस्य सूत्रधारः साक्कियूर् रह्मान् लख्वी इत्यस्य भागिनेयश्च ओवैद् नामकः भवति। हताः सर्वे भीकराः पाकिस्थानस्वदेशीयाः सन्ति। 
    व्योमसेनायाः कमान्डो विभागः भवति 'गरुड् कमान्डो बलम्'। २००४ तमे संवत्सरे रूपवत्कृतः अयं सैनिकविभागः भारतस्य  सुरक्षासैन्येन सह भीकरविरुद्धप्रवर्तनेषु अपि भागभागित्वं कुर्वन्नस्ति।
भक्ष्यविषबाधा इति सन्देहः – न्यूसिलान्टे भारतीयपरिवारः अस्त प्रज्ञावस्थायाम् आतुरालये। 
             हामिल्टण् > वन्यवराहस्य मांसं भुक्तवान् भारतीयपरिवारः अस्त प्रज्ञावस्थायां न्यूसिलान्ट् देशे आतुरालयं प्रविष्टः। केरले कोल्लं जनपदे कोट्टारक्करा नीलेश्वरं प्रदेशस्थे षिबुसदने षिबु कोच्चुम्मः [३५], पत्नी सुबी बाबुः [३२], माता एलिक्कुट्टी डानियल् [६२] इत्येते 'वैकाटो' प्रदेशस्थे आतुरालये सप्ताहं यावत् अबोधावस्थायां वर्तमानाः सन्ति। 'बोट्टुलिसं' नामिका भक्ष्यविषबाधा एव प्रज्ञानष्टस्य कारणमिति प्राथमिकनिगमनम्।
विश्वसुन्दरीपदं भारतस्य तनयायै।
              सान्य> अस्य संवत्सरस्य विश्वसुन्दरी पदं हरियाना देशीया 'मानुषी छिल्लर्' नामिकया प्राप्तम्। विश्व सुन्दरीपदमारूढासु षष्टतमा भारतीया भवति एषा ।  दीर्घाणि सप्तदशवर्षाणि यावत् प्रतिपाल्य तिष्ठन् आसीत् पुनरपि विश्वसुन्दरी-पद-प्राप्तये। चीनाराष्ट्रस्य सान्य नगरे आयोजितायं स्पर्धायां विविधेभ्यः राष्ट्रेभ्यः अष्टाधिक एकशतम् (१०८) कन्यकाः स्पर्धिताः। सर्वान् पराजित्य सुन्दरी पदं प्राप्ता  इति भारतस्य अभिमानाय अभवत्।


          विश्वे कस्य कर्मस्य अधिकनिष्कृतेः अर्हता, केनकारणेन ? इति प्रश्नस्य मानुष्याः प्रत्युत्तरे सम्प्रीताः विधिकर्तारः। षट्ष्ठ्यधिक नवशतोत्तरसहस्र (१९६६) तमे 'रीता फारिया' आसीत् भारतस्य प्रप्रथमा विश्वसुन्दरीपद-विजेता।

Saturday, November 18, 2017

सम्प्रतिवार्तायाः छात्र-शिल्पशाला समारब्धा
         कोच्ची>संस्कृत-वार्ता-वतारण-योजनायाः कृते छात्रान् सज्जीकर्तुमुद्दिश्य आयोजिता  शिल्पशाला समारब्धा। सर्व-शिक्षा अभियानस्य एरणाकुलम् उपस्तरे (BRC) ह्यः आरब्धा शिल्पशाला। सर्व शिक्षा अभियानस्य एरणाकुलं जनपदीय-कार्यक्रमाधिकारिण्या दीपा महाभागया कार्यक्रमस्य उद्घाटनं कृतम्। एरणाकुलम् उपस्तरस्य अध्यक्षा फौसिया-मल्लिशेरी-महाभागायाः आध्यक्ष्ये आसीत् कार्यक्रमः। अन्तर्जाल-माध्यमेन वार्ताप्रसाराणं क्रियमाणं विश्वस्य प्रप्रथमः कार्यक्रमः भवति अयम्। 
जनितकभिन्नतां कारयित्वा मशकान् विक्षिप्य मलेरियाव्याधिं दूरीकर्तुं भारतं सज्जं भविष्यति।
      बांग्लूरु> मलेरिया व्याधीं भारतात् निष्कासीतुं तीव्रपरिश्रमं कर्तुं भारतं सन्नद्धं भवति। मलेरिया रोगं व्यापितेषु मशकेषु 'जीन् एडिट्टिंग्' विद्यया मलेरिया' रोगाणुं निष्कासितुं परीक्षणं अत्र प्रारप्स्यते।
पुरुष अनोफलस् मशकाः मलेरिया रेगं व्यापयन्ति। तेषु जनितकव्यतियानं कारयित्वा रोगं रोद्धुं शक्यते। मशकानां अनन्तरपरम्परा अपि एतादृशगुणयुक्ताः एव भविष्यन्ति।
इतः परं सङकेतः षट् संख्या साहितं भविष्यति।
        नवदिल्ली >गृहस्य कार्यालयस्य च परं दीर्घ सङ्केतः न भविष्यति । अक्षराणि संख्याः च योजयित्वा षट् संख्यासहित सूचकं भवेत् सडकेत: । नाम, गृहनाम, प्रादेशिक मार्ग: , पत्रालयः , जनपदः च परं नावश्यकम्। आधार् व्यक्ति: परिचयाय यथा अभवत् तथा गृहस्य कार्यालयस्य च सूचकं भविष्यति।
दह्ल्यां नोयडायां च द्वयोः पत्र सङ्केतौ एवं सज्जीकृतम् ।    UV77D7 इति भवति ।

Friday, November 17, 2017

महाराष्ट्रं पलास्तिक-कूपी विमुक्त-राज्यं भविष्यति।
           मुम्बै> महाराष्ट्रं स्वच्छं भविष्यति। अचिरात् पलास्तिक-कूपी विमुक्त-राज्यं भविष्यति इति अस्यकारणम् । अस्याः योजनायाः भागतया सर्वकारेण सर्वकारीय-कार्यालयेषु पलास्तिक-कूप्यां जलमानयनं निरुद्धम्।  २०१८ मार्चमासपरिधौ सम्पूर्णतया रीत्या पलास्तिक कूपीनाम् उपयोगः परित्यक्तुं शक्यते इति परिस्थितिमन्त्री रांदास कदं अवदत्। निजीय कार्यालयेषु च पलास्तिक कूपीनां आनयनं रोद्धुमपि उद्दिश्यते। पलास्तिकानां स्थाने काकद-पटादयः उपयुज्य निर्मितेभ्यः स्यूतेभ्यः विपण्यां प्रचारं प्रदातुं प्रयत्नं क्रियते इत्यपि मन्त्री अवदत् ॥
२२००० भिषजः सत्यग्रहं कुर्वन्ति। चिकित्सां अलब्ध्वा कर्णाटकाराज्ये षट् जनाः मृताः।
                बांग्लूरु> कर्णाटकाराज्ये चिकित्सां अलब्ध्वा षट् जनाः मृताः। राज्यसर्वकार नयं प्रति सर्वकारेतर आतुरालयानां संग्रामानन्तरमस्ति अवस्था एषा सञ्जाता। एते आतुरालयाः बहिस्तान् रुग्णान् चिकित्सां न ददति। सव्वकारं प्रति द्वाविंशति सहस्रं भिषजः संग्रामं कुर्वन्ति। कर्णाटकाराज्यसर्वकारेण सर्वकारेतर भिषजां कृते चतुर्दश अधिक व्यवस्थाः निर्मिताः । तेन हेतुना अस्ति भिषजां संग्रामः। ऐ एम् ए संस्थायाः नेतृत्वे त्रिशतं भिषजः सचिवालयस्य पुरतः संग्रामं कुर्वन्ति।
 दिल्ल्यां वाहनचालकानुमतिपत्रम् खाद्यवस्तुवितरणपत्रम् प्रभृति ४० लोकसेवानां गृहेष्ववाप्ति: 
          नवदिल्ली>दिल्लीप्रसाशनेन जातिप्रमाणपत्रं वाहनचालनानुमतिपत्रं समेत्य ४० लोकसेवानां प्रतिगृहेषु प्रेषणयोजना विनिर्मितास्ति । निर्णयोsयं गुरुवासरे सञ्जाते मन्त्रिमण्डलीयोपवेशने विहत:। एतदर्थं प्राशासनिकेतर संस्थाया: निर्धारणं भविष्यति, संस्थेsयम् उपभोक्ताकेन्द्रं निर्मास्यति । राजधान्यां ३-४ मासाभ्यन्तरे एव सेवाया: उद्घाटनं भविष्यतीति सम्भाव्यते । उपभोक्तृभि: एतदर्थं सामान्यशुल्कमपि प्रदातव्यम्। योजनाया: द्वितीये चरणे ३० सेवा: संयोजयिष्यन्ते। ३० सेवा: संयोजयिष्यन्ते।
बाल भारती पब्लिक विद्यालये संस्कृतगीतोत्सवस्य भव्यायोजनम्॥
 वार्ताहर: हेमन्त जोशी 
 मुख्यातिथि: थपलियालवर्य:
                  नव दिल्ली >सर् गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक विद्यालये समायोजिते संस्कृत-गीतोत्सव-कार्यक्रमे बालकै:  विभिन्नाधुनिक-चलचित्रगीतानि  प्राचीन-स्तोत्राणि च साभिनयं स्वर-लय-ताल-पुरस्सरं प्रगीय सम्प्रस्तूय नैजी प्रतिभा विलक्षणप्रतिभा प्रदर्शिता । कार्यक्रमस्य शुभारम्भ: दीपप्रज्वालनपूर्वकं मातु: सरस्वत्या:   वन्दनया समभवत् । तत्पश्चात् प्रधानाचार्यवर्येण मुख्यातिथये विशिष्टातिथये च  स्मृतिचिह्नम् पादपं च प्रदाय  स्वागतपूर्वकम् अतिथिसत्कार: सम्पादित:।

                   अस्मिन्नवसरे बालभारती विद्यालये  सांस्कृतिक-कार्यक्रमस्यान्तर्गतं छात्रै: छात्राभिश्च संस्कृतगीताधारितं शास्त्रीय नृत्यमपि प्रदर्शितम् । कार्यक्रमेSस्मिन् द्वितीयकक्षात:  दशमीकक्षापर्यन्तं   छात्रै: छात्राभिश्च भागो भजित:। कार्यक्रमस्य अध्यक्षता विद्यालयस्य शिखरपुरुषेण  प्रधानाचार्येण श्री लक्ष्यवीरसहगलवर्येण सम्भालिता। कार्यक्रमेSत्र मुख्यातिथिरूपेण भारतसर्वकारस्य सूचनाप्रसारण मन्त्रालयस्य अन्तर्गतं प्रसारभारत्या: अंगभूताया: आकाशवाण्या:  वरिष्ठ कार्यक्रमनिष्पादकाधिकारी  प्रधानमन्त्रिण:  'मन की बात' कार्यक्रमस्य  संचालकश्च श्रीमान् पार्थसारथी थपलियाल:  समुपातिष्ठत।

                     उपप्रधानाचार्याया: श्रीमत्या: मीना मल्होत्रावर्याया:  मुख्याध्यापिकाया:  डॉक्टर सुनीता गेहानी वर्याया: च दिङ्निर्देशे समस्तकार्यक्रमस्य आयोजनम् नितान्तभव्यतया सुसम्पन्नम्। कार्यक्रमस्य संयोजनं  मञ्चसंचालनञ्च संस्कृत-शिक्षिका डॉक्टर ज्योत्स्ना श्रीवास्तव:  व्यधात्। कार्यक्रमे  युवराजभट्टराई, दीपक-शर्मा, सुमनकुमारझा, सोमा-गांगुली, संतोष-कुमारश्चेति शिक्षकै:  सविशेषं योगदानं प्रदत्तम्।

                     कार्यक्रमस्य  अन्ते गायकस्य पङ्कजझा वर्यस्य आधुनिकसंस्कृतगीतानां सुमधुरगुंजनेन  समग्रोSपि सभागारो  मंत्रमुग्धो जात:। मुख्यातिथिना श्रीपार्थ-सारथी-थपलियाल-महाभागेन निज-सम्बोधने  विद्यालयीयसांस्कृतिकगतिविधीन्  प्रशंसता  प्राचार्य:, अध्यापकगण:  अभिभावकाश्च सफलकार्यक्रमस्य  आयोजनार्थम् भृशं वर्धापिता:।
हिमाधिक्येन शीघ्रगमन-मार्गे ३० वाहनानि घट्टितानिI १८ जनानां मृतिः ।
बेय्जिङ्> कठिनहिमवातेन  चीनादेशस्य शीघ्र-गमनमार्गे उप त्रिंशत् (३०) वाहनानि मिथः घट्टितानि। पूर्व चीनादेशस्य अन् हुयि प्रविश्यायाः फुयाङ् नगरे बुधवासरे अतिप्रभाते एव आसीत् इयं दुर्घटना। दुर्घटनायां अष्टादश (१८)जनाः मारिताः एक विंशति जनाः क्षतजाः च। एतान् समीप स्थान् आतुरालयान् प्रविशन्l  दुर्घटनायां प्रविष्टेषु यानेषु अग्निबधा अभवत्। उप विंशति अग्निशमना वाहनानि मिलित्वा कृतेन कर्मेणा होरा त्रयाणान्तरमेव अग्निः रोधनाय अशक्यत

Thursday, November 16, 2017

श्री श्री रविशङ्करः योगिना सह चर्चां कृतवान् - अद्य अयोध्यां सम्प्राप्नोति। 
          लख्नौ > बाबरी मस्जिद् - रामजन्मभूमि तर्कपरिहाराय माध्यस्थ्यं वोढुं स्वयमेव सिद्धः जीवनकलाचार्यः श्रीश्री रविशङ्करः उत्तरप्रदेशमुख्यमन्त्रिणा योगि आदित्यनाथेन सह चर्चां कृतवान्। लख्नौ मध्ये मुख्यमन्त्रिणः औद्योगिकभवने आसीत् अर्धहोरापर्यन्तं चर्चा। अयोध्या प्रकरणे चर्चया रूपीक्रियमाणः समवायः वा न्यायालयविधिः वा यत् उपपाद्यते ततदस्माभिः माननीयमिति यू पि सर्वकारस्य अभीप्सितिः। प्रश्नपरिहार एव स्वस्य लक्ष्यं,  वैयक्तिकं किमपि प्रयोजनं नाभिलषतीति रविशङ्कर् महोदयेनापि स्पष्टीकृतम्। किन्तु रविशङ्करस्य माध्यस्थप्रयत्नः वि एछ् पि संघटनेन सन्देहेन वीक्ष्यते।
सिम्बाब्वे राष्ट्रे सैन्य नियन्त्रितशासनं - राष्ट्रतिः मुगाबे गार्हिकबन्धने।
            हरारे > सिम्बाब्वे राष्ट्रे राष्ट्रपति 'रोबर्ट् मुगाबे' सैनिकैः गृहे बन्धितः। नवत्रिंशत् (९३) वयस्कः एषः इदानीं सुरक्षितः इति सैनिकवक्त्रा उक्तम्। मुगाबे महोदयं परितः विद्यमानाः अधार्मिकाः राष्ट्रं नाशयन्ति। तान् प्रति लक्षीकृत्य एव क्रियाविधयः आजोजिताः इत्युक्त्वा 'मेजर् जनरल्' 'मोयो' दूरदर्शन-वाहिन्यां प्रत्यक्षः अभवत्।
पूर्वस्मिन् वासरे चीनदेश सन्दर्शान सन्दर्भे सिंबाब्वे राष्ट्रस्य  सैनिकाध्यक्षः 'कोण्स्टान्टिनो चिवेन्कः' शासनदलेषु शेधाय सज्जीकरणं क्रियते इति अवदत्। गतवासरे बहिर्त्यक्तः उपराष्ट्रपतिः 'एमेर्सन् नन्गाग्व महोदयं राष्ट्रपति पदे प्रतिष्टातुं प्रयन्नः प्रचलति इति पाश्चात्यदेशस्य वार्तामाध्यमानि आवेदयन्ति।
अन्तरिक्षमलिनीकरणेन  क्लिश्यते-१५०० कोटि सञ्चिचितधननं न उपयुज्यते।
       नवदिल्ली> राष्ट्रराजधानी कठिनवायुप्रदूषणेन क्लेशः अनुभूयते तथापि प्रदूषित-परिहाराय आकलितं पञ्च-शताधिकैकसहस्रं(१५००) रुप्यकाणि (हरिताश्वासधनं) नव दिल्ली सर्वकारेण नोपयुक्तानि इति वार्ता बहिरागच्छति।  दिल्यां आगतवत्द्भ्यः भारवाहनेभ्यः आकलितानि भवन्ति एतानि धनानि। सर्वोच्च न्यायालयस्य आदेशानुसारमेव आकलनं प्रचायाल्यते। परिस्थिति-दोषपरिहारधनं, प्रतिलिट्टर् अग्नितैलस्यकृते स्वीकृतं अधि-मूल्यं च अस्मिन् सञ्चिचितनिधौ अन्तर्भवति।
         दक्षिण दिली नगर पालिका द्वारा आकलितं इदं धनं वाहनविभागस्य कृते दीयते इति PTI संस्थया आवेदितम्। वायुप्रदूषण निरोधाय २००७ दिसंबर् मासे षीलादीक्षित् महाभागया अग्नितैलाय अतिमुल्य-स्वीकार सम्प्रदायः आयोजितः I

Wednesday, November 15, 2017

GST- अद्य आरभ्य भक्ष्यशालायां भक्ष्यमूल्यं न्यूनं भविष्यति
            अनन्तपुरी> पण्यसेवन करः एकीकृतः इत्यनेन अद्य आरम्भ भक्ष्यालयेषु मूल्यं न्यूनंभाविष्यति। नवम्बर् मासस्य एकादश (१५) दिनाङ्कादारभ्य एकीकृत करः एव स्वीकर्तव्यः इति  पण्य सेवनकर-आयोगेन गत सप्ताहे मेलनं कृत्वा निश्चितः आसीत्। जि एस् टि प्रवेशानन्तरं वायु-शीतीकृत-भक्षयशालायां १८% अन्येषां १२% च आसीत् करप्रकारः। किन्तु भक्ष्यवस्तूनां वर्धितमूल्येन जनानां विप्रतिपत्ति विज्ञाय एव करप्रकारे पुनरालोकनं कृतम्। आयोगस्य निश्च्यानुसारं भक्ष्यवस्तुना सह अन्येषां वस्तूनां करः २८तः १८ % इति परिवर्तितः। चाक्कलेयं, केशफेनकं, स्वास्थ्य-पानीयाः, सौन्दर्यवर्धकवस्तूनि, हस्त घटी, काफी, विद्युत् कोशः च न्यूनमूल्यीकृतेषु अन्तर्भवन्ति।
वातावरणव्यत्ययः वैज्ञानिकानाम् अवधानाय निर्देशः
        न्यूयोर्क् >भूमेः उपस्थितिमधिकृत्य आविश्वे १८२ राष्ट्रेषु विद्यमानैः १५००० वैज्ञानिकैः  दीयमानः अवधाननिर्देश मधिकृत्य इदानीं पर्यालोच्यते। अत्यन्तमापत्करं पर्यावरण-व्यतियानं, वननशीकरणं, शुद्धजलदौर्लभ्यम् अनियन्त्रिता जनसंख्यावर्धना इत्यादीनि बहूनि अवस्थाभेदानि भूमेः मुख्या भीषा  इति जाग्रतानिर्देशेन सह  वैज्ञानिकानां पूर्व सूचना। अनया रीत्या गच्छति तर्हि अस्माकं भूमेः आयुः  अधिकं न भविष्यति इत्यपि वदन्ति ते। प्रथमं १९९२ तमे वर्षे अयं निर्देशः प्रकाशितः आसीत्। अस्मिन् १७०० वैज्ञानिकाः हस्ताक्षरमकुर्वन् च। तदनुसृत्य अनन्तरं प्रसिद्धीकृते निर्देशे १८२ राष्ट्रेभ्यः १५००० वैज्ञानिकाः हस्ताक्षरं कृतवन्तः।
राजधान्यां  सप्तत्रिंशत्तमं भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम्  
      नवदिल्ली >  मङ्गलवासरात् देशस्य राजधान्यां नवदिल्ल्यां ''प्रगतिमैदान'' इत्यत्र सप्तत्रिंशत्तमं 
भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम् । राष्ट्रपति: रामनाथगोविन्द: मेलकम् उद्घाटितवान् । चतुर्दश दिवसीयमेलकस्यायोजन भारतवाणिज्यसंवर्धनसङ्घटनेन विधीयते । ऐषम: मेलकस्य विषय:  "स्टार्ट अप इंडिया, स्टैंडअप इंडिया" इति वर्तते ।

        अस्मिन् वर्षे मेलेके वियतनामराष्ट्रां सहयोगिराष्ट्रं विद्यते। झारखण्डश्च सहयोगिराज्यत्वेन सम्मिलितो वर्तते । मेलके द्वाविंशति: देशानां सप्तसहस्राधिक प्रतिभागिन: निजोत्पादानां प्रदर्शनं करिष्यन्ति ।  राज्यकेन्द्रशासितप्रदेशस्वयंसाहाय्यसमूहसमेता: लघुमध्ययमशीर्षवाणिज्यसमवाया नां विनिर्माणोद्यमानां वैविध्यं मेलके अस्मिन् दृष्टिपथमायास्यति । सामान्यजनानां प्रतिभागसंवर्धनाय व्यावसायिकदिनानां संख्या पञ्चदिनतो दिनचतुष्टयात्मिका विहितास्ति । नागरिकेभ्य: १८-२७ दिनाङ्कं यावत् प्रवेशावुमति: प्रदत्तास्ति।
कलिफोर्णिय देशो भुषुण्डिप्रयोगः त्रयः मारिताः।
                 रेड् ब्लफ् (U S)> उत्तर कलिफोर्णियदेशे टेहाम कौण्टि प्रदेशे भुषुण्डिप्रयोगेण त्रयः मारिताः। विद्यालय-छात्राः अपि क्षतजाः अभवन्I आक्रमणकारी आरक्षकाणां गोलिका प्रहारेण हतः । प्रादेशिसमयः प्रभाते अष्टवादने आसीत् इयं घटना। समीपस्थ गृहे एव आक्रमणस्य आरम्भः अभवत्। पश्चात् विद्यालयं प्रति व्याप्तम् इति च प्रादेशिक वार्ता माध्यमैः आवेदितम्। क्षतजाः छात्राः एकाक्षविमानमार्गण आतुरालयम् प्रविष्टाः। न भीकराणाम् आक्रमणम् इति प्राथमिक निगमनम्।

Tuesday, November 14, 2017

शिशवः बहवः अदर्शनं गताः भवन्ति।
          कोच्ची> भारते अष्टनिमेषाभ्यन्तरे एकः शिशुः इति गणितप्रकारेण नष्टाः भवन्ति। केन्द्र-वनिता शिशु-क्षेम -मन्त्रालयस्य अन्तर्जालपुटे प्रकाशित-विवरणानुसारं दक्षिणस्यां दिशि केरलेऽपि प्रतिदिनं त्रयः शिशवः एवं अधार्मिकैः अपहृत्य कुत्रापि अन्तर्धानं गताः नष्टाः भवन्ति।

अप्रत्यक्षाः के?
         पितरं विरुद्ध्य अनिष्टेन गृहं परित्यज्य गतवन्तः एव अप्रत्यक्षेषु अधिके भवन्ति।   एते राष्ट्रस्य विविधेषुकोणेषु बालश्रमिक-रूपेण कालं यापयन्ति। केचन भिक्षुकसंघस्य निर्देशम् अनुसृत्य भिक्षाटनं कृत्वा नरकपीडां अनुभवन्ति । बालिकाः तु निकृष्टकर्मसु नीताः भवन्ति। काश्चन राष्ट्रान्तरं नीताः। अन्ये अन्तरावयवमुमुषिषुभिः जनैः बलादपहृताः वा पीडिताः वा उत मारिताः वा भवन्ति। मोचनद्रव्यस्यकृते बालापहरणे जाते  पक्षनियामकविधानम् अपि पञ्चीकृतम् अस्ति।
एवं स्थिते बालकबालिकयोः सुरक्षायै आधारपत्रस्य जीवमात्रक सौविध्यानि उपयोक्तव्यानि।  बालकेन सह गमनाय सर्वत्र  संलक्ष्य एव अनुज्ञा दातव्या। एवं चेत् बालकेन सह कः अनुगच्छति इति ज्ञातुं प्रभवति इति एकः उपायः । शिशूनां संरक्षणाय नूतनानि उपायानि करणीयानि।
अद्य शिशुदिनम्। आभारतम् अद्य शिशुदिनम् आधुष्यते। 

     नवदिल्ली>भारतस्य राष्ट्रपतिना राम् नाथ् कोविन्देन तथा प्रधानमन्त्रिणा  नरेन्द्रमोदिना शिशुभ्यः बालिका-बालकेभ्यश्च सर्वेभ्यः शुभाशंसाः अर्पिताः। भारते विविध-राज्येषु तत्तत्प्रदेशस्थैः मुख्यमन्त्रिभिः  शिशु-दिनीयसमारोहस्य उद्‌घाटनं क्रियते। क्रीडा विनोदैः पदसञ्चलनादि शोभायात्रया च दिनमिदं शिशूनां चित्तेषु सामोदं विलसेत् इत्यत्र न वर्तते कोऽपि  सन्देहः। भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ वर्यस्य जन्मदिनमेव शिशु दिनत्वेन पर्वायते।

Monday, November 13, 2017


लोकराष्ट्राणाम् पुरत: शक्ति: प्रकटीकृता भारतेन -राजनाथ सिंहः

     लख्नौ>लोकराष्ट्राणाम् पुरत: स्वीयशक्ति: भारतेन प्रकटीकृतेति केन्द्राभ्यन्तरमन्त्री राजनाथसिंह:। अग्रे शक्तराष्ट्राणाम् पट्टिकायामेव भारतस्य स्थानम्, लोकराष्ट्रै: तत् अवगतम् अङ्गीकृतमित्यपि तेन भाषणे योजितम्। लख्नौ मध्ये कस्याश्चन माध्यमसंस्थाया: नेतृत्वे आयोजिते कार्यक्रमे भाषमाण: आसीत् स:। राष्ट्रान्तरतले भारतस्य प्राधान्यम् वर्धितमेव। लोक एव महत्सु साम्पत्तिकशक्तिषु अग्रगण्यस्थानमाप्तम् भारतेन यच्च लोकराष्ट्रै: प्रत्यभिज्ञातम् च। भारतम् इत: परं दुर्बलराष्ट्राणाम् पट्टिकायां नास्त्येव। कानिचनविमर्शनानि एव इदानीम् अस्माकम् पुरत: सन्ति। किम् अवाप्तुं वयम् ऐच्छाम तत्तु प्राप्तवन्त: एव इति च स: सूचितवान्।

Sunday, November 12, 2017

 अन्तरिक्षमलिनीकरणम्-सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकाराय विशेषानुमतिः।
नवदिल्ली> अन्तरिक्षमलिनीकरणम् अत्यधिकं बाधमाने देहलीनगरे स्वीयवाहनानां उपयोग विषये सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकारस्य कृते देशीय-हरित- ट्रिब्यूणल् विशेषानुमतिम् अदात्। नवंबर् मासस्य त्रयोदश दिनादारभ्य  सप्तदशदिनाङ्क पर्यन्तमेव नियमः अयं पाल्यते। प्रातः अष्टवादनादारभ्य सायम् अष्टवादन-पर्यन्तमेव यानानि नियन्त्रितानि। वाहनानां संख्यासु विद्यमानानां अन्तिम संख्यामाधारीकृत्यैव सम-विषम-संख्या सम्प्रदायः भविष्यति। दिन-व्यवहित-दिनेषु एव सम-विषम-संख्यायुतानि यानानि पथि प्रवेश्यन्ति।
             सि- एन् - जि इत्यनेन प्रर्वर्तमानानि वाहनानि,  रुग्णवाहनानि,(आम्बुलन्स्) अग्नि शामकसेना-वाहनानि च नियमादस्मात् बाहीकानि भविष्यन्ति। इतः प्रागपि देहल्यां नियन्त्रणमिदमागतमासीत् । तदानीं द्विचक्रिकारूढान् सर्वकार्योद्योगिनः, स्त्रीजनान् च परित्यजन्‌ । किन्तु इदानीं एतेषामपि  नियमः अयं अनुवर्तते एव। नगर्यां वायो: गुणाः अत्यन्तं नष्टा: चेदपि कुतः नियन्त्रणमिदं कारयितुं विलम्बो जातः इति विषये, नियन्त्रणात् किमर्थं बहून् यात्रिकान् परित्यजन्ति इति विषये च देशीय-हरित-ट्रिब्यूणल् सर्वकारं प्रति प्रश्नयन्ति।
        देहली नगरस्य समीपस्थ प्रवेशानाञ्च वायु मलिनीकरणस्य न्यूनीकरणाय सम-विषम-संख्या संप्रदायः पर्याप्तो वा इति विषयमधिकृत्य चर्चाकरणाय आहूतात्   विशेषसमावेशात् पश्चादेव विषयो-यं तैः प्रकटीकृतः ।       नियन्तणविषये पुनः चर्चाकरणाय अद्यापि सायं त्रिवादने विशिष्टसमावेशः आयोजितः अस्ति।
'आसियान्' उच्चशिखरसम्मेलनम् अद्य प्रारभते। 
            मनिला > दक्षिण-पूर्वेष्यन् राष्ट्राणां सङ्गमस्य 'आसियान्' नामकस्य एकत्रिंशः उच्चशिखरसम्मेलनं फिलिप्पीन्स् राष्ट्रस्य राजधान्यां मनिलायाम् अद्य प्रारभते। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनार्थम् अद्य एव प्रस्थास्यति।  अमेरिक्कायाः राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि भागभागित्वं करिष्यति। 
    रोहिङ्ग्यन् समस्या, दक्षिणचीनासमुद्रविषयः, आतङ्कवादः इत्यादयः चर्च्यमानविषयाः भविष्यन्तीति मन्यते। उच्चशिखराय आसियान् सङ्घस्य दश राष्ट्रप्रतिनिधयः फिलिप्पीन्स् प्राप्स्यन्ति। 
    आस्ट्रेलिया, चीना, भारतं, जापान्, न्युसिलान्ट्, दक्षिणकोरिया, रष्या, यू एस्, कानडा, यूरोप्यन् यूणियन् इत्येतानि अङ्गराष्ट्राणि भवन्ति।
हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च  
                                                              - बलदेवानन्द-सागरः  
हरियाणा अर्थात् परमात्मनः निवास-स्थानम्  -
             सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं  सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
               “हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना
सुधर्मा भारतस्य संस्कृतपत्रिका 
      अस्याः संरक्षणस्य दायित्वं कस्य? अस्माकम् एव। पश्यतु अयं चलनमुद्रिकाखण्डः I

Saturday, November 11, 2017

पाकिस्थानेन सह सम्भाषणे भारतस्य निश्चयस्य व्यत्ययः नास्ति। भारत-विदेशकार्य मन्त्रालयः
         नवदिल्ली> केन्द्र विदेशकार्य मन्त्रालयेन उक्तं यत् पाकिस्थानेन सह अनुरञ्जन भाषणविषये भारतस्य पूर्व निश्चयः न व्यतिकरोति। भीकर-प्रवर्तनानि तेषां मिथः संस्थापितः बन्धः च परित्यज्य एव पाकिस्थानः चर्चायै आगन्तव्यम्। तथा एव चर्चा प्रकरणे पुरोगतिः भविष्यति इति मन्त्रालयस्य प्रवक्ता रविष् कुमारेण उक्तम्। सार्वजनिक निर्देशकतलेषु चतुश्चत्वारिंशत् (४४) तम उभय -विभाग-चर्चायै बुधवासरे पाकिस्थास्य प्रतिनिधी भुत्वा मेजर् जनरल् मुहम्मद् सयीद् भारतं प्राप्तवान् आसीत् । अवसरेस्मिन् वार्तामाध्यमानां प्रश्नस्य उत्तरं दत्तवानासीत् रवीष्कुमारः।

Friday, November 10, 2017

ऐ एस् भीकराः मरुभूमिं प्रति पलायिताः - सिरिया राष्ट्रस्य सर्वाण्यापि नगराणि स्वतन्त्रताम् प्राप्तानि ।
      वेयरुट्>  भीकरसंस्थया ऐ एस् (इस्लामिक् स्टेट्) अधीनसिरिया देशास्य अल्बु कमल् जनपदम् सिरियन् सेनाभिः प्रतिस्वीकृतम् अभवत् । रक्षाम् प्राप्ताः भीकराः मरुभूमिंप्रति पलायीताः अभवन् । इराखस्य सिरियाप्रदेशास्य सीमाप्रान्तान् आक्रम्य अधीनतां कृत्वा एव ऐ एस् दलेन खिलाफत्  रूपीकृता।
इराखदेशात् निष्कासिताः  एते भीकराः  सिरिया प्रर्दशेषु शिबिरं कृत्वा उषितवन्तः आसन्। सिरियन् सेनापि इदानीम् प्रत्याक्रमणम् अकरोत्। सिरियन् सैनिकैः सह सख्यसंघस्य साहाय्यमपि प्रदेशस्य अस्य विमोचनाय उपलब्धम् ।
राष्ट्रपति: नवम्बरस्य दशमे एकादशे च दिवसे मध्यप्रदेशस्य  यात्रां करिष्यति
         नवदिल्ली> राष्ट्रपते: रामनाथकोविन्दस्य   राष्ट्रपतिपदग्रहणानन्तरं प्रथमेयं मध्यप्रदेशयात्रा भविष्यति। राष्ट्रपति: नवम्बरस्य दशमे दिवाङ्के भोपाले कबीरप्रगतोत्सवं संबोधयिष्यति। असौ तत्र जीटीबीकॉम्प्लेक्सस्थले तात्याटोपे वर्यस्य भोपाले च रानी झल्करीबाई इत्यस्या: प्रतिमायां श्रद्धाञ्जलिं समर्पयिष्यति। नवम्बरस्य एकादशे दिवसे  राष्ट्रपति: अमरकण्टके इन्दिरागांधी राष्ट्रियजनजातीयविश्व-विद्यालयस्य  द्वितीयदीक्षान्तसमारोहं सम्बोधयिष्यति । 
नानो मिसैल् निर्माणं कृत्वा (निर्मीय) भारतीय विद्यार्थी प्रशंसा पात्रमभव् ।
 विश्वस्य अत्यन्तलघु नानो मिसैल् निर्मय  भारतीयविद्यार्थी डेचर्ला पाण्डुररङ्गा रोहित् प्रशंसायाः कार णभूतोभूत् । चेन्नै एस् आर् एं विश्वविद्यालयस्य विद्यार्थी भवति एष : । भीकरवाद विरुद्धप्रवर्तनाय सैनिकेभ्यः आरक्षकेभ्य: च प्रयत्नमिमं अत्यन्तम् उपकरिष्यति ၊ भीकरकेन्द्रं प्राप्तस्य मिसैलस्य (अणु अस्त्रस्य ) प्रयोगेण तत् विरुद्ध भीकर प्रवर्तनानि आचरितुं शक्नोति इति विद्यार्थी अकथयत् । अत्यन्त लघुमिसैल् भवति इति अस्य सविशेषता । छात्रस्य एषा प्राप्तिः  विश्वे प्रथमा प्रशंसनीया च।

Thursday, November 9, 2017

उत्तराखण्डस्य स्थापनादिवसावसरे राज्यस्य  निवासिभ्य: प्रधानमन्त्रिण: अभिनन्दनम्
      नव दिल्ली>प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तराखण्डस्य नागरिकेभ्य: उत्तराखण्डस्थापनादिवसवसरे शुभाशंसा प्रदत्तास्ति।

मोदिनोक्तं “विकासस्य पथि समेधमानेभ्य: उत्तराखण्डस्य निवासिभ्य: राज्यस्य स्थापनादिवसस्य हार्दिक्य: शुभकामना: ” राज्यस्य स्थापनादिवसे उत्तराखण्डनिवासिभ्य: मम अभिनन्दनम्।
पथः पार्श्वे बन्धितानि यानानि परिस्थितेः भीषाम् उत्पादयन्ति । - विद्यार्थिनः उच्च-न्यायालये न्यायव्यवहारं दत्तवन्तः।

           कोच्ची> आरक्षाकालये ग्रहीतानि-वाहनानि परिस्थितेः  दोषमुद्पाद्य मार्गपार्श्वेषु वर्तन्ते। यानस्य लोहभागानाम् उपक्षयकारणेन सञ्जातस्य सार्वजनिक नष्टस्य परिरक्षणाय च छात्राः सार्वजनिक-निवेदनं दत्तवन्तः। 

          केरलस्य विविधेषु आरक्षकालयेषु न्यायव्यवहारेषु बद्धानि वाहनानि परिरक्षां विना द्रवीकृत्य नाशं यान्ति। अनेन कारणेन राष्ट्रधनस्य नष्टः भवति इति अध्ययनफलं प्रदर्श एव छात्रैः उच्चन्यायालये व्यवहारः पञ्जीकृतः। पेरिङ्डों वयक्कर पञ्चायत्तस्य तविडिश्शेरि सर्वकार-विद्यालयस्य विद्यार्थिभिः एव एवं न्याय-व्यवहाराय न्यायालयः प्राप्ताः। विद्यालयस्य सप्तमकक्ष्यायाः छात्रे  इ विस्मय, के पि अनुप्रिया, षष्ट कक्ष्यायाः  सि अनुश्री, पञ्चमकक्ष्यायाः के.जी नाथ् , एम् अञ्जली च मिलित्वा विषयेस्मिन् अध्ययनं कृत्वा अध्ययन-फलेन साकं न्याय-व्यवहारं कृतवन्तः।

      एतत् अध्ययनफलम् अनुसृत्य   केरलेषु प्रति संवत्सरं अष्टाधिक अष्टशतोत्तरैक सहस्रं टण् मितः (1808 ) लोहाः क्षयेण नाशं यान्ति।  नव-शताधिक त्रिपञ्चाशत्  सहस्रोत्तर त्रिचत्वारिंशत् लक्षाधिकत्रिकोटि (3,43,53,900 ) रुप्यकाणां नष्टः पुरातनलोहस्य  मूल्यत्वेन सङकलिते अपि अस्ति। न्यायव्यवहारेषु अन्तिमादेशाय जायमानं  कालदैर्ख्यम्  एव एतादृशनष्टस्य  कारणेषु प्रमुखम् इति । विद्यालयस्य अध्यापकस्य के सि सतीशस्य नेतृत्वे असीत्  छात्राणां विशेषाध्ययनम्।

Wednesday, November 8, 2017


राष्‍ट्रियान्‍वेषणाभिकरणेन आतङ्कवादिभ्य: आर्थिकसौविध्यप्रदानप्रकरणे नवजना: निगडिता:
नवदिल्ली>  राष्‍ट्रियान्‍वेषणाभिकरणेन जम्‍मूकश्‍मीरे आतङ्कवादिभ्य: आर्थिकसौविध्यप्रदानप्रकरणे षडत्रिंशत् कोट्याधिकपुरातनधनपत्राणि स्वायत्तीकृतानि। आरोपे नव जनाश्च निगडिता: । आधिकारिकाधिसूचनानुसारेण एते जना: नवदिल्ल्यां निगडिता: सन्ति।
एन् ऐ ए इत्यस्य वरिष्ठाधिकारिणोक्तं यत् आतङ्किभ्य: आर्थिकसाहाय्यप्रदानप्रकरणे निगडितेभ्य: पृथक्तावादिभ्य: पृथक्तावादिभ्यः लब्दां सूचनामनुसृत्य कोटिश: पुरातनमुद्रापत्राणि इदानीमपि वर्तन्ते । अत: प्राप्तसूचनानुसारेण कश्मीरस्य संदिग्धजना: यदा सोमवारे पुरातानमुद्रापत्राणि परिवर्तयितुं दिल्ल्यां समायाता: तदा एते दिल्ल्या: कनॉटप्लेसक्षेत्रे निगडिता:  ।
अन्तरीक्षमलिनीकरणः - दिल्याम् स्वास्थ्य सूचना।
            नवदिल्ली > अन्तरीक्षमलिनीकरणस्य आधिक्येन नवदिल्यां सर्वकारेण स्वास्थ्य सूचना प्रसारिता । कठिना धूमपटलेन विद्यालयेभ्यः दिनत्रयपर्यन्तं विराम: ख्यापितः। जनाः गृहात् बहिः मा गच्छन्तु इति निशितनिर्देशः प्रदत्तः। राजधानीस्थानि  निर्माण प्रवर्तना न्यखिलं निवारितम्। 

        .सोमवासरे सायाह्नादारभ्य अन्तरीक्षे रुक्षतरधूम-पटलानि आविर्भुतानि। २०० मीट्टर् अधिकतया किमपि द्रष्टुं न शक्यते। सुरक्षितावस्थातः दशगुणितो भवति इदानीन्तन मलिनीकरणमानः। दिल्षाद् गार्डन्, द्वारका, आनन्दविहारं इत्येतेषु प्रदेशेषु मलिनीकरणमानः भयानकरीत्या भवति इत्यनेन विरामदानाय निश्चयः स्वीकृतः आसन्। सर्वकारसंस्थासु च विरामः प्रख्यापितः।
पञ्चाब् हरियान इत्येदेषु प्रदेशेष्वपि धूमपटलाः व्याप्यन्ते। तत्रापि मलिगीकरणस्य मानः परिधिम् उल्लङ्घ्यते इति वातावरण निरीक्षण केन्द्रण उक्तम्।

Tuesday, November 7, 2017

करदाने असहिष्णुतया विदेश-वित्तालयेषु निक्षेपः। पारडैस् प्रमाणेषु ७१४ भारतीयाः। 
प्रमुखाः अमिताभ् बच्चः, आर् के सिन्ह, नीरा राडिय, जयन्त् सिन्हश्च।
           नवदिल्ली> भूमौ भारतेन सह अशीत्यधिकशतंराष्ट्रेषु राष्ट्रप्रमुखाः प्रमुखाः व्यक्तयः निजीय संस्थाः च कराश्वासदायकेषु एकोन-विंशतिराष्ट्रेषु कृतासु धननिक्षेपस्य प्रमाणपत्राणि बहिरानीतानि। १९५० आरभ्य गतवर्ष पर्यन्तेभ्यः प्रतिवार्ताः एव प्रकाशितेषु सन्ति। भारतव्योमयानमन्त्री जयन्तसिन्हः भा ज पा दलस्य राज्यसभाङ्गः, अर् के सिन्हः, महानटः अमिताभ् बच्चः। कोण्ग्रस् नेतुः वयलार् रवेः पुत्रः रविकृष्णः, वीरप्पमोय्लि इत्यस्य पुत्रःहर्षमोय्लिः, 2G स्पेक्ट्रं नाम विषयस्य मध्यवर्तिनी नीरा राडिया, व्यवसायी  विजय् मल्य च पट्टिकायाम् अन्तर्भूताः प्रमुखाः। अस्यां पट्टिकायाम् आहत्य ७१४जनानां नामानि सन्ति इति जर्मनी देशस्था सूड् डोय् चे सैटुङ् नाम पत्रिकया प्रकाशिता पारडैस् नाम प्रमाणपत्राणि व्यक्तीक्रियते। 

लोकराष्ट्रेषु विद्यमानानां व्यावसायिक प्रमुखानां तथा राष्ट्र प्रमुखानां च अनियम-रहस्य निक्षेपाणां प्रतिवार्ताः 'पानमा प्रमाणपत्रम्' इति प्रमाणीकृतपत्र द्वारा बहिरानेतुं प्रयत्नं कृतवता देलन एव अस्य प्रमाणस्य पृष्टभूमौ प्रयतितवन्तः। International Consortium of investigative journalist (ICIJ) इति भवति अस्य दलस्य नाम ।
प्रकाशितानां प्रमाणानाम् आधारेण क्रियाविधयः स्वीकर्तुं केन्द्रधनमन्त्रालयेन आयकरविभाग: आदिष्टः अस्ति।
वार्ता-माध्यमानाम् अधिकारदुर्विनियोगः दण्डार्हः। प्रधानमन्त्री नरेन्द्रमोदी।
           चेन्नै>माध्यमस्वतन्त्रता वस्तुतारहितानां अनृतानां लेखनस्वतन्त्रता नास्तीति प्रधानमन्त्री नरेन्द्रमोदी। सर्वकारस्य तथा न्यायालयानां च उत्तरदायित्वमिव तादृशं उत्तरदायित्वं माध्यमानामपि वर्तते। जनहितं लक्ष्यीकृत्य स्यात् माध्यमानां प्रवर्तिः। समान्य जनानां हिताय श्रद्धया बुद्ध्या च माध्यम-स्वतन्त्रता  उपयोक्तव्या। माध्यमानां स्वास्थ्यं मात्सर्यं जनाधिपत्यं शाक्तीकारयति। मोदिना उक्तम्।
           मह्त्मजिं उद्धृत्य माध्यमाः स्वाधिकारस्य दिर्विनियोगं न समीचीनमिति मोदिना उक्तम्। लिखितानि कार्याणि वस्तुतापराणि इति दृढीकर्तुं  लेखकानां उत्तरदायित्वं अस्तीति मोदिः अस्मारयत्। चैनै नगरे दिनतन्ती समाचारपत्रस्य पञ्चसप्तति वार्षिकाघोषे भागभाक् कुर्वन्नासीत् सः।  प्रधानमन्त्रिणः भाषणस्य प्रसक्तभागाः।
* राष्ट्रीयदलानां परितः इदानीं माध्यमाः प्रवर्तन्ते। भारतं तावत् राजनैतिक दलप्रवर्तकाः न । १२५ कोटि जनाः सन्ति भारतम्। माध्यमाः तेषां हितानां अहितानां वार्ताः अपि प्रतिवेदनीयाः।
* संप्रेषणीयानां लिखितानां च वार्तानां विश्वास्यता माध्यमानां उत्तरदायित्वमेव। सर्वासां वार्ताणां   निरूपणं जनाः कुर्युः। विश्वासयोग्यानां माध्यमानां प्रवर्तिः जनाधिपत्यस्य शोभां वर्धयति।
* व्यक्तयः माध्यमानां प्रवर्तकाः सन्तिरपि तेषां लक्ष्यं धर्म च सांस्कृतिक सामान्यमेव। समाधानेन पर्ष्करणानि आनेतुं प्रयतन्तानि उपकरणानि भवन्ति माध्यमानि इति विद्वांसः वदन्ति। न्यायायमिव चयितसर्वकारमिव सामाजिकं उत्तरदायित्वं माध्यमैः अपि प्रदर्शनीयम्।

Monday, November 6, 2017

मानवसंसाधन-विकासमन्त्रालय: विद्यालयीय-शिक्षामवलम्ब्य कार्यशालामायोजयिष्यति 
               नवदिल्ली> मानवसंसाधनविकासमन्त्रालयस्य विद्यालयशिक्षासाक्षरताविभागाभ्यां शिक्षाक्षेत्रे प्रमुखविषयेषु विवेचनायै विभिन्नस्वयंसेविसंघटनानि निजीक्षेत्राणि व्यक्तिगतस्तरे च समेषां संयोजनाय विद्यालयशिक्षाविषये द्विदिवसीयकार्यशाला समायोजयिष्यते।
               केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: विद्यालयशिक्षासाक्षरताराज्यमन्त्री उपेन्द्रकुशवाहा उच्चशिक्षाराज्यमन्त्री डा. सत्यपालसिंहश्च अस्यां राष्ट्रियकार्यशालाम् उपस्थिता: भविष्यन्ति ।

              कार्यशालेयं डिजिटलशिक्षा शारीरिकशिक्षा मूल्यशिक्षा जीवनकौशलशिक्षा प्रायोगिकज्ञानकेन्द्रिता च भविष्यति ।  कार्यशालायां निर्मितकार्ययोजनाया: विवरणं मानवसंसाधनमन्त्रिणे प्रदास्यते ।
पण्य-सेवनकरस्य श्रेण्यनुपातः नूनं न्यूनं कारयति।
            नव दिल्ली> शुक्रवासरे आयोक्ष्यमाणे जी एस् टि आयोगेन बहुनाम् उत्पन्नानां कराहरणश्रेणी न्यूनीकरिष्यते। प्रतिशतं अष्टाविंशतिः (२८ %) करमूल्ययुक्तानां नित्योपयोगवस्तूनां मूल्यं १८% इति न्यूनं भविष्यति। पण्य-सेवनकरेषु उन्नत मूल्यक्रमः २८% एव भवति। शताधिकानां उत्पन्नानां करः समीपकाले न्यूनीकृतम् आसीत्I करस्य पुनर्निर्णयाय निर्देशः आयोगेन पूर्वं अङ्गीकृतम्। केन्द्र मन्त्री अरुण्जैटिली आयोगस्य अध्यक्षः भवति। राज्यानां वित्तमन्त्रिणः अस्मिन् आयोगे अङ्गाः एव।  लघु व्यवसायिभिः निर्मिताभिः वस्तूनां करः एव न्यूनीकरणेषु प्रथमतया भविष्यति।
यु एस् राष्ट्रे देवालये गोलिका प्रहारः - २७ जनाः हताः।
                 वाषिङ्टण् > यु एस् राष्ट्रस्य टेक्सस् मध्ये प्रार्थना वेलायां आक्रमकारिणा क्रियमाणे गोलिकाप्रहारे सप्तविंशति (२७)जनाः मारिताः सङ्ख्याधिकाः जनाः क्षतजाः च। अन्टोणियो प्रदेशस्य समीपे विल्सण् कौण्डि सतर्लान्ट् स्प्रिङ्स् मध्ये वर्तमाने 'फस्ट् बाप्तिस्ट्' देवालये एव दुर्घटना। प्रादेशिकसमयः ह्यः प्रभाते ११.३० वादने एव आक्रमणः अभवत्I प्रार्थनावेलायाम् आगतः आक्रमणकारी अतिचटुलतया गोलिका प्रहारं कृतवान् आसीत्।  गोलिका प्रहारशब्दाः बहुवारं निमिषाभ्यन्तरेण अनुवर्तिताः  इति प्रदेशवासी अवदत्l  अधुना लभ्यमानायाः  सूचनायाः अनुसारेण अक्रमी अपि मृतः। एफ् बि ऐ संस्थया अत्र अन्वेषणमारब्धम्।
मुद्रापत्रनिरोधः - ३५००० निजीयसंस्थया निक्षिप्ताः राशिः १७००० कोटिः।
              नवदिल्ली > मुद्रापत्रस्य निर्मूल्यकरणानन्दरं पञ्चत्रिंशत् सहस्रं (३५००) नामावशेषित निजीय संस्थाः वित्तकोशेषु सप्तदशसहस्र कोटि रुप्यकाणि न्यक्षिपन्। सर्वकारेण पूर्वमेव एतस्याः संस्थायाः पञ्जीकरणं विलोपितम् आसीत् । किन्तु एतैः एव वित्तलेखेषु अधिकतया घनं निक्षिप्तम् इति सर्वकारेण प्रकाशिते आवेदने व्यक्तीक्रियते।
                समीपकाले २.२४ लक्षम् उद्योग संस्थानां पञ्जीकरणं त्रिसंवत्सरं यावत् निरस्तमासीत्। एतेषु एकस्याः संस्थायाः २१३४ वित्तलेखाः सन्तीति प्रत्यभिज्ञाताः । २०१६ नवंबर् मासस्य अष्टमदिन-पर्यन्तं यावत्कालं मुद्रापत्रविनिमयः नासीत् तावत् कालेषु  वित्तलेखात् २४८४ कोटि रुप्यकाणि एव प्रत्याहरितानि। ५६ वित्तकोशानां ५८००० वित्तलेखानि सूक्ष्मावलोकनं कृत्वा एव सर्वकारस्य आवेदनम्।



Sunday, November 5, 2017

द्विशतं परिष्काराः अपि आविष्क्रियन्ते । लक्ष्यं तु उद्योगसौहृदराष्ट्रम् इति स्थानप्राप्तिः । 
         मुम्बै> उद्योगसौहृदराष्ट्राणां श्रेण्यां प्रथमपञ्चाशन्नामसु अन्तर्भवितुं महत्‍परिष्काराय केन्द्रसर्वकारः सज्जः भवति । औद्योगिकस्तरेषु आगामि संवत्सरेषु केन्द्रसर्वकारः द्विशताधिकपरिष्कारान्  आविष्कर्तुं चिकीर्षति इति Industrial policy & promotion इति विभागस्य सचिवं रमेष् अभिषेकम् उद्धृत्य  P.T.I. वार्तामाध्यमद्वारा आवेदितम्। 

         द्वाविंशत्युत्तरशतं परिष्काराः एव गतवर्षे प्रयोगपथमानीताः । ते विश्ववित्तकोशस्य आवेदने प्रतिफलिताः इति च रमेष् अभिषेक् वदति । अस्मिन् वर्षे नवति परिष्कारा: औद्योगिकस्तरम् आनीताः ।
भगिनी राणी मरिया 'संस्तुता' जाता। 
             इन्डोर् > सर्वं येशुदेवं समर्प्य सेवनमार्गे सञ्चरन्त्याः यत् बलिदानित्वं जातं, तत् अभिवन्द्य कत्तोलिक्का परमाधिकारसभया यदुद्घुष्टं , तदनुसारेण सा संस्तुता भवति।   सा ईशवीया उपासिका  सिस्टर् राणी मरिया इति ख्याता। सहस्रशः क्रैस्तविश्वासिनां सान्निध्ये शनिवासरे प्रभाते दशवादने मध्यप्रदेशस्य इन्डोर् प्रदेशस्थे 'सेन्ट् पोल्' उच्चतरविद्यालयाङ्कणे संवृत्ते कार्यक्रमे फ्रान्सिस् मार्पाप्पा वर्यस्य प्रख्यापः प्रतिपुरुषेण कर्दिनाल् डो. आञ्जलो अमात्तो वर्येण  प्रस्तुतः। प्रतिसंवत्सरं फेब्रुवरी २५ दिनाङ्कः राणी मरियायाः  पुण्यदिनत्वेन चरिष्यति। संस्तुतानां गणे सिस्टर् राणीमरिया भारतसभायाः प्रथमा बलिदानिनी भवति।

Saturday, November 4, 2017

तृणमूलकांग्रेसदलस्य मुकुलरॉयः भाजपादले समाविष्टः
                   नव दिल्ली > तृणमूलकांग्रेसदलस्य पूर्वनेता मुकुलरॉयः ह्यः भारतीयजनतापार्टीति दले समाविष्टः। तेन नवदिल्ल्यां भाजपामुख्यालये केन्‍द्रीयमंत्रिणः रविशंकरप्रसादस्यर पश्चिमबंगालभाजपाप्रभारिणः कैलाशविजयवर्गीयस्य़ उपस्थितौ दलसदस्यता स्वीकृता । भाजपादलं धर्मनिरपेक्षदलं प्रतिपादयता तेनोक्तं यत् इतः पूर्वं तृणमूलकांग्रेसदलेन भाजपादलेन सह संयुतिः कृतासीत् , यतोहि तद्दलं भाजपादलस्य समर्थनं विना स्थातुं समर्थः नैवासीत् । शारदाप्रवञ्चनाप्रकरणविषये तेनोक्तं यत् विधिः निजकार्यं करोति । रविशंकरप्रसादेन रॉयस्य भाजपादले स्‍वागतं विदधता प्रतिपादितं यत् अनेन राज्‍ये भाजपादलस्य स्थितिः भद्रतरा भविष्यति।
कृष्ण सोप्ति महोदयायै ज्ञानपीठ पुरस्कार : I
       अस्य वर्षस्य ज्ञानपीठपुरस्कारं हिन्दी भाषासाहित्य कारिणी कृष्णा सोप्ति महोदया प्राप्तवती । साहित्य मण्डले अस्या : योगदानमादृत्य एषा पुरस्कृता।
   हिन्दी भाषायां बहवीः कथाः कादम्बरर्यः च अनया उलिखत् । पञ्चदशोतरिद्वसहस्र (२०२५ )तमे  वर्षै प्रवर्त दाद्री कलापकारणेन एषा सर्वकारै: सह विरोध प्रस्तावं कृतवती आसीत् । अनेन कारणेन पुरस्कारान् प्रतिदत्तवती अपि। दशोत्तरद्विसहस्रतमे महाभागेयम्
पद्मभूषण् निराकृतवती आसीत् । सिन्दगीनाम ग्रन्थाय आशीत्युत्तर नवदश सहस्रे अक्कादमी पुरस्कारम् लब्द म् । सादित्याक्कादमी फेललोषिप्पपि षडनवत्युत्तर नवदश सहस्रतमे अनया प्राप्ता।
द्विनवति वयस्का अनया इदानीं पाक्कस्थान राष्ट्र विद्यमान गुजरात ग्रामे जन्म प्राप्तवती । एकाशी त्युत्तर नवदशतमे शिरोमणी पुरस्कारः तथा हिन्दी अक्कादमी शलाका पुरस्कारश्च अनया प्राप्ता आस्ति।

Friday, November 3, 2017

चेन्नैनगरे अतिवर्षा अनुवर्तते। विद्यालयानां विरामः
                  चेन्नै > चेन्नैमध्ये तथा प्रान्तप्रदेशेषु तीरदेशेषु च  दिनचत्वारं यावत् वर्षा अनुवर्तते। जलोपप्लवः भविष्यति इत्यनेन जनाः जाग्रत् भवतु इति राष्ट्रिय दुरन्तनिवारण आयोगेन पूर्वसूचना विज्ञापिता। चेन्नै मध्ये ह्यः प्रभाते वृष्टिः न्यूना अभवत् चेदपि रात्रौ च वर्षा  अनुवर्तितमासीत्। नगरस्य सर्वेष्वपिभागोषु रूक्षः जलोपप्लवः गतागत क्लेशः च अभवत्। मिम्नप्रदेशाः इदानीमपि जलेनप्लाविता भवति ।  किन्तु पेयजलस्य स्रोतांसि जलसम्पन्ना भवति । ' पून्दि' चोळवारं, रड्हिल्स् चेम्परम्बाक्कम् इत्येतासु जलसम्भरणिषु जलविधानं सप्तशतं ७०० कुबिक् पादमितम् अभवत्।  पेयजलाभावेन दूयमानेषु समाश्सावास्पदं भविष्यति इयं वर्षा। दिनद्वयं यावत् वृष्टिः भविष्यति इति वातावरण-निरीक्षण -संस्थया उक्तम्।
एस् बि ऐ वित्तकोशेन भवन - वाहनाभ्यां ऋणस्य शिखावृद्धिः न्यूनीकृता।
                 मुम्बै> राष्ट्रस्य बृहत्तमवित्तकोशेन एस् बि ऐ संस्थया भवन-वाहनाभ्यं दीयमानाय ऋणधनस्य शिखावृद्धिः न्यूनीकृता। भवनऋणस्य ८.३०% वाहन ऋणस्य ८.७०% च भवतः। अनया विपण्यां न्यूनतमा शिखावृद्धिभूता वित्तकोश-संस्था इति ख्यातिः एस् बि ऐ वित्त-कोशाय लभते। नवम्बर मासस्य प्रथम दिनाङ्कात्  आरभ्य इयं सुविधा प्रबला अभवत् इति वित्तकोशेन ज्ञाप्यते। 

               नूतनतया ऋणस्वीकारेभ्यः एव प्रथमतया न्यूनीकरणस्य  आनुकूल्यं लभतेI अन्येषां तु निश्चितकालानन्तरम् एव आनुकूल्यवितरणं भविष्यति। एतदनुसृत्य निष्कृत्यायकारिभ्यः वनिताभ्यः ३० लक्षपर्यन्तेभ्यः भवनऋणस्य कृते ८.३०% इति शिखावृद्धिः पुनर्निर्णीतम्। एतदधिरिच्य प्रधानमन्त्री आवास योजनानुसारं अर्हानां कृते २.६७ कोटि रुप्यकाणाम् अर्थसाहाय्यः च लभते।
के. सच्चिदानन्दाय 'एष़ुत्तच्छन्' पुरस्कारः। 
               अनन्तपुरी > केरलराज्यसर्वकारस्य परमोन्नताय साहित्यपुरस्कारत्वेन विद्यमानाय 'एषुत्तच्छन्' पुरस्काराय केरलीयकविः, विमर्शकः, विवर्तनकारश्च के. सच्चिदानन्दः अर्हति। पञ्चलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्काररूपेण दीयन्ते। 
    अध्यापकः प्रभाषकः संघाटकः इत्यादिमण्डलेषु स्वप्रतिभां प्रकाशितवतः सच्चिदानन्दस्य कविताः नैकाः भारतीयभाषाः विदेशभाषाः च प्रति अनूदिताः वर्तन्ते। बहवः यूरोप्यन् लाटिनमेरिक्कन् कविताः अनेन कैरलीं प्रति भाषान्तरं कृताः।

Thursday, November 2, 2017

यानदुर्घटनानां निष्कृतिदानाय मानदण्डं विधाय सर्वोच्चन्यायालयः। 
               नवदिल्ली > यानदुर्घटनाभिः हतेभ्यः निष्कृतिं निर्णेतुं सर्वोच्चन्यायालयेन नूतनः मानदण्डः निर्दिष्टः। हतानां 'भविष्त्कालसाध्यताम्' अपि परिगणय्य तेषामायः कथं निश्चितव्यमित्यस्य मार्गरेखा एव न्यायालयस्य शासनसंहितापीठेन निर्दिष्टा। 
     हतभाग्यः स्थिरकर्मयुक्तः तथा ऊनचत्वारिंशद्वयस्कः चेत् तस्य वेतनेन सह प्रतिशतं पञ्चाशच्च योजयित्वा एव तस्य भविष्यत्कालायः निर्णेतव्यः। यदि हतः ४०-५० वयस्कः वेतनेन सह ३०% अधिकतया योजयितव्यम्! वयः ५०-६० तर्हि १५% अधिकतया योजयितव्यम्! 
   यदि हतः ऊन४०वयस्कः तथा निजीयकर्मकरः स्थिरवेतनयुक्तश्च तर्हि वेतनस्य ४०% अपि अधिकतया योजयितव्यम्!
यू पि तापनिलये स्फोटनं - २० मरणानि। 
           रायबरेली > उत्तरप्रदेशस्थे राय्बरेलिप्रविश्यायां 'नाषणल् तेर्मल् पवर् कोर्परेशन्' संस्थायाः अधीनत्वे विद्यमाने तापनिलये संवृत्ते विस्फोटने विंशतिः कर्मकराः मृताः, शतप्रायाः क्षताः च। दुरन्तबाधितानां संख्या अधिकतरा स्यादिति उत्तरप्रदेशस्य मुख्यगृहसचिवेन उक्तम्। 
         रायबरेल्यां ऊंचहार् क्षेत्रस्थे २९ संवत्सराणि प्राचीने तापनिलयस्थे क्वथननालिका (Boiler) एव विस्फोटिता। २१० मेगावाट् शेषियुक्ताः पञ्च एककानि (unit) अत्र विद्यन्ते। ५०० मेगावाट् शेषियुक्तं एककान्तरमपि गते मार्च् मासे प्रवर्तनमारब्धमासीत्। अस्मिन् विद्यमानं क्वथनपेटकमासीत् विस्फोटितम्। देशीयदुरन्तसेनया रक्षाप्रवर्तनमारब्धम्। मृतानाम् आश्रितानां कृते लक्षद्वयरूप्यकाणां क्षतिसाहाय्यं मुख्यमन्त्रिणा योगि आदित्यनाथेन  प्रस्तुतम्।
जनप्रतिनिधयः अपराधी स्थानं भूत्वा १३००० न्यायव्यवहाराः। शीघ्रतर-न्यायालयाय निर्देशः।
                  नव-दिल्ली > जनप्रतिनिधयः अपराधी स्थाने भूत्वा त्रयोदशसहस्रं न्याय व्यवहाराः विविधन्यायालयेषु सन्ति। ईदृशव्यवहारेषु विलम्बं विना विधिप्रस्तावः अनिवार्यः अतः शीघ्रतर विशेषन्यायालयानां विन्यास: कर्तव्यः इति सर्वोच्च न्यायालयेन आदिष्टः।  ईदृश-व्यवहारेषु एकसंवत्सराभ्यन्तरेण निर्णयः प्रस्ताव्यः काल विलम्बः मा भवितव्यः इत्यपि न्यायालयेन निर्दिष्टः। महापराधित्व-व्यवहारे दण्डितानां सामाजिकानां निर्वाचने  स्पर्धितुं आजीवनं बाधा भवतु इति निर्वाचनाध्यक्षेण न्यवेदितम्। किन्तु विषयेस्मिन् केन्द्रसर्वकारेण अभिमतः न प्रकाशितः।  विशदानां क्रिया विधीनां मार्गरेखा दिसम्बर त्रयोदशदिनाभ्यन्तरेण समर्पणीया इति न्ययाधीशस्य रञ्जन् गोगोय् वर्यस्य आध्यक्षे आयोजितः नीतिपीठः आदिशत्।

Wednesday, November 1, 2017

कोच्ची मेट्रो योजनायै राष्ट्रियपुरस्कारः। 
नवदिल्ली > वरिष्ठानुबन्धगतागतश्रृङ्खलायाः समर्प्यमाणः राष्ट्रिय पुरस्कारः केरलस्य कोच्ची मेट्रो रेल्यानयोजनायै ।  मेट्रो यात्रामनुबन्ध्य बस् यानसेवनं, 'जल मेट्रो', त्रिचक्रिकासेवनानि इत्यादयः संयोज्य वरिष्ठं सामाजिकगतागतसंविधानस्य आयोजनायै एवायं पुरस्कारः। केन्द्रनगरविकसनमन्त्रालयेन आयोजितः अयं पुरस्कारः नवम्बर् षष्ठदिनाङ्के हैदराबादे उपराष्ट्रपतिना वैङ्कय्य नायिडुवर्येण सम्मानीयते।
      अस्मै पुरस्काराय ४६ नगराणि प्रतिस्पर्धितानि। राष्ट्रस्य नगरान्तराणां कोच्ची मेट्रो योजनायाः संयोजितसंचरणसुविधा आदर्शभूता भवतीति पुरस्कारनिर्णयसमित्या प्रकीर्तितम्।
‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा