OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 1, 2017

‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा
परम्परा प्रवर्तते | प्रसाद-याचनस्य अस्याः परम्परायाः पृष्ठ-भूमौ इदम् आमान्यते यत् एवंकरणेन जनस्य आहतः अहङ्कार-भावो नश्यति | अहङ्कार-भावना मानवस्य उन्नतौ बाधिका जायते | भारतस्य एनां महतीं परम्परां प्रति प्रत्येकमपि गौरवमनुभवतीति तु सुतरां स्वाभाविकम्|

              मम प्रियाः देशवासिनः, ‘मन की बात’ इति मनोगत-प्रसारणस्य प्रशंसापि भवति, आलोचनापि जायते परञ्च यदा कदाचिदपि ‘मन की बात’ - प्रसारणस्य प्रभावं विभावयामि, तदा मे विश्वासः दृढ़तरो भवति यत् देशस्य जनमानसेन साकं ‘मन की बात’- प्रसारणं प्रतिशतं शत-मित्या अविच्छिन्न-सम्बन्धेन संपृक्तं जातम् | खादीवस्तूनां तथा च handloom-इति हस्तवेम्नः उदाहरणमत्र प्रमाणम् | गान्धि-जयन्त्याः अवसरे अहं सततं हस्तवेम्नः खादि-वस्तूनाञ्च कृते विशेषेण ब्रवीमि तथा च, अस्य परिणामः किमस्ति ? भवन्तोsपि एतद् ज्ञात्वा प्रसन्नाः भविष्यन्ति | सूचितोsस्मि यत् ओक्टोबर-मासेsस्मिन् 17-दिने ‘धनतेरस्’-पर्वणि दिल्ल्यां खादी-ग्रामोद्योगभवनस्य आपणे प्रायेण विंशति-लक्षोत्तर-कोटि-रूप्यकात्मकः आभिलेख्यः विक्रयः सञ्जातः | एकस्मिन्नेव खादी-हस्तवेमापणे एतावान् बृहद्-विक्रयः ! वृत्तमेतत् श्रुत्वा भवन्तोsपि आनन्दं संतोषञ्च अनुभूतवन्तः इति विश्वसिमि |

               दीपावल्याः अवसरे “खादी-gift coupon” इति उपहार-पर्णिकानां विक्रये प्रायेण प्रतिशतम् अशीत्यधिक-षट्-शतमिता वृद्धिः अभिलेखिता | खादी-हस्तवेम-वस्तूनां समग्र-विक्रयेsपि विगत-वर्षापेक्षया वर्षेsस्मिन् प्रायेण प्रतिशतं नवति-मिता वृद्धिः सञ्जाता | अमुना एतत् प्रमाणितं भवति यत् सम्प्रति युवानः, वरिष्ठाः, वृद्धाः, महिलाः च खादी-हस्तवेम-वस्तूनि अभिलषन्ति | कल्पयितुं शक्नोमि यत् अमुना प्रकरणेन हि तन्तुवायानां निर्धनानां हस्तवेम-श्रमिकाणां च कियन्तो हि लाभान्विताः जाताः | पूर्वं Khadi-Foundation- इति प्रतिष्ठानमासीत् तथा च, Khadi for fashion- इति मया उक्तमासीत्, परञ्च विगतानुभवानाम् आधारेण वक्तुं शक्नोमि यत् ‘Khadi for nation’ तथा ‘Khadi for fashion’ - इत्यनयोः अनन्तरम्, अधुना ‘ Khadi for transformation’ - इति रूपान्तरः स्थानापन्नो भवति | खादी-हस्तवेम-वस्तूनि निर्धनानां जीवनानि परिवर्तयन्ति सन्ति तान् क्षमान् समर्थान् च विधातुं शक्तिमत्-साधनत्वेन सिद्ध्यन्ति | ग्रामोदयस्य कृते एतद्-द्वयमपि महतीं भूमिकां निर्वहति |

              श्री-राजन्-भट्टः NarendramodiApp- इत्यत्र अलिखत् यत् ते सुरक्षा-बलैः साकं मम दीपावल्याः अनुभव-विषये ज्ञातुम् अभिलषन्ति तथा चेदमपि अवगन्तुं वाञ्छन्ति यत् अस्माकं सुरक्षा-बलानि केन प्रकारेण प्रकाशपर्व दीपावलीम् आयोजयन्ति | श्रीतेजस-गायकवाडः अपि NarendramodiApp-इत्यत्र अलिखत् यत् अस्माकं गृह-निर्मितानि मिष्टान्नानि अपि सुरक्षा-बलेभ्यः प्रापयितुं किं व्यवस्थापयितुं शक्यते ? वयमपि अस्मदीयानि वीर-सुरक्षा-बलानि स्मरामः | वयमपि अनुभवामः यत् अस्माकं गृह-निर्मितानि मिष्टान्नानि देशस्य सैनिकेभ्यः प्रापणीयानि स्युः |
              भवद्भिः सर्वैः अतितरां हर्षोल्लासेन दीपावली-पर्व आमानितम् | मम कृते ऐषमः अपि दीपावली विशिष्टानुभव-संयुता संवृत्ता | पुनरेकवारं सीम्नि संनद्धैः नियुक्तैः वीरैः सुरक्षाबल-सैनिकैः साकं दीपावली-समायोजनस्य सौभाग्यम् अलभम् | अस्मिन् क्रमे जम्मू-कश्मीरे गुरेज़-क्षेत्रे सुरक्षाबलैः सार्धं दीपावली-समायोजनं मम कृते अविस्मरणीयं सिद्धम् | सीम्नि यासु कठिनासु विषमासु च परिस्थितिषु अस्मदीयानि सुरक्षाबलानि देशं रक्षन्ति, तेषां संघर्षस्य, समर्पणस्य, त्यागस्य च कृते, अहं सर्वेषामपि देशवासिनां पक्षतः अस्मत्-सुरक्षा-बलानि संमानयामि वर्धापयामि च | यत्रापि अवसरान् लभेम, यत्रापि चानुकूलता भवेत् - अस्माकं सैनिकानाम् अनुभवाः अवश्यम् अवगन्तव्याः, तेषां गौरव-गाथाः श्रवणीयाः |
अस्मत्सु अनेके इदं नैव जानन्ति यत् अस्माकं सुरक्षा-बलानां सैनिकाः न केवलं सीम-प्रदेशेषु, अपि तु, विश्वस्मिन्नपि विश्वे शान्तिं प्रतिष्ठापयितुं महत्वपूर्णां भूमिकामावहन्ति | UN Peacekeeper-इति संयुक्त-राष्ट्रिय-शान्ति-संधारकत्वेन एते जगति हिन्दुस्थानस्य कीर्तिं वितानयन्ति | नातिचिरं ओक्टोबर-मासे चतुर्विंशे दिने अशेष-जगति, संयुक्त-राष्ट्र-दिवसः आयोजितः | जगति शान्तिं प्रतिष्ठापयितुं संयुक्त-राष्ट्रस्य प्रयासान्, सकारात्मिकाञ्च भूमिकां सर्वेsपि सुस्मरन्ति | तथा च, वयन्तु ‘वसुधैव कुटुम्बकम्’ - इति विश्वसिमः अर्थात् संपूर्णमपि विश्वं अस्मदीयं कुटुम्बम् अस्ति | एवञ्च, अस्य विश्वासस्य कारणादेव भारतं प्रारम्भादेव संयुक्त-राष्ट्र-संघस्य विभिन्नेषु महत्वपूर्णेषु आरम्भिकोपायेषु सक्रियं सहभागित्वं निर्वहन्नस्ति | भवन्तः नूनम् अवगताः स्युः यत् भारतस्य संविधान-प्रस्तावनायां तथा च, UN Charter-इति संयुक्त-राष्ट्र-प्रस्तावनायाञ्च, ‘we the people’- इत्यादि- शब्दैः एव आरभ्यते | भारते नारीणां समानतायै सर्वदैव सबलं प्रयत्यते, तथा च, UN-Declaration of Human Rights- इति संयुक्त-राष्ट्र-मानवाधिकाराभिघोषणा अस्य प्रत्यक्षं प्रमाणं वर्तते | UN Umbrella-इत्यस्य अन्तर्गतं भारतं यत् महत्त्वाधायि-योगदानं व्यदधात् तदस्ति - संयुक्त-राष्ट्र -शान्ति-संधारक-कार्येषु भारतस्य भूमिका | संयुक्त-राष्ट्रस्य शांति-रक्षा-कार्यक्रमे भारतं सर्वदैव सक्रियां भूमिकां निर्वहन्नस्ति | सम्भवतः भवत्सु अनेके तादृशाः भवेयुः ये प्रप्रथमं सूचनामिमां प्राप्नुवन्ति | अष्टादश-सहस्राधिकाः भारतीयसुरक्षा-बल-सैनिकाः संयुक्त-राष्ट्र -शान्ति-संधारक-कार्येषु निज-सेवाः अर्पितवन्तः | वर्तमान-काले भारतस्य प्रायेण सप्त-सहस्रं सैनिकाः संयुक्त-राष्ट्र-शान्ति-संधारक-कार्येषु संलग्नाः सन्ति, अपि च, विश्वस्मिन्नपि विश्वे एषा तृतीया बृहत्तमा संख्या वर्तते | एतानि कार्याणि Korea, Cambodia, Laos, Vietnam, Congo, Cyprus, Liberia, Lebanon, Sudan-इत्यादिषु विश्वस्य अनेकेषु भू-भागेषु, अनेकेषु देशेषु प्राचलन् | Congo-दक्षिण-Sudan-देशयोः भारतीय-सेनानां चिकित्सालयेषु विंशति-सहस्राधिक-रोगिणः समुपचारिताः तथा च, अनेके जनाः संरक्षिताः | भारतस्य सुरक्षा-बलानि, विभिन्नेषु देशेषु न केवलं तत्रत्यान् जनान् संरक्षितवन्ति परञ्च, people friendly operations- इति जनानुकूल-कार्याणि अनुष्ठीय तेषां हृदयानि अपि विजितवन्ति | भारतीय-महिलाः शांति-प्रतिष्ठापक-कार्येषु अग्रणीं भूमिकां निरवहन् | अति-न्यूनाः एव अवगताः स्युः यत् भारतं नाम प्रप्रथमः देशः येन Liberia-देशे संयुक्त-राष्ट्रस्य शान्त्यभियान-कार्यक्रमे female police unit- इति महिलारक्षि-यूथानि प्रेषितानि | अपि च, पश्यन्तु ! भारतस्य अयं पदक्षेपः, जगतः सर्वेषामपि देशानां कृते प्रेरणास्रोतस्त्वेन सिद्धः | एतदनुपदम्, सर्वेsपि देशाः निज-निज-महिलारक्षि-यूथानि प्रेषयितुमारभन्त | भवन्तः एतत् श्रुत्वा गौरवमनुभविष्यन्ति यत् भारतस्य भूमिका, केवलं शांति-प्रतिष्ठापक-कार्येषु एव सीमिता नास्ति अपि तु, भारतं प्रायेण पञ्चाशीति-देशानां शांति-प्रतिष्ठापकानां प्रशिक्षण-कार्याणि अपि करोति | महात्म-गाँधि-गौतम-बुद्धयोः अस्याः भूमेः अस्मदीयाः वीराः शांति-रक्षकाः सम्पूर्णेsपि विश्वे शांति-सद्भावयोः संदेशं प्रापितवन्तः | शांति-प्रतिष्ठापक-कार्याणि न मनागपि सरल-कर्माणि | अस्माकं सुरक्षा-बलानां सैनिकाः दुर्गम-स्थानेषु गत्वा एतानि कार्याणि आचरन्ति | ते विभिन्नानां जनानां मध्ये गत्वा कार्याणि अनुतिष्ठन्ति | भिन्नासु परिस्थितिसु पृथक्-पृथक्-संस्कृतयः चावगन्तव्याः भवन्ति | ते स्थानिकावश्यकता-परिवेशानुकूलम् आत्मानं स्थापयन्ति | अद्य यदा वयं अस्मदीयान् वीरान् संयुक्त-राष्ट्रस्य शांति-प्रतिष्ठापकान् संस्मरामः तदा कैप्टन्-गुरबचनसिंह-सलारिया-वर्यं को नाम विस्मरेत् येन अफ्रीकायां Cango-क्षेत्रे शान्त्यर्थं युयुधानेन नैजं सर्वस्वमपि समर्पितम् | तं स्मृत्वा प्रत्येकमपि देशवासी गौरवमनुभवति | असौ अनन्यतमः संयुक्त-राष्ट्र-शान्ति-संधारकः वीरपुरुषः आसीत् यो हि परमवीर- चक्रेण सम्मानितः | लेफ्टिनेंट-जनरल-प्रेमचंदजी, तेषु भारत-शान्ति-संधारकेषु अन्यतमः, येन Cyprus-देशे विशिष्टाभिज्ञानम् अधिगतम् | नवाशीत्युत्तर-एकोनविंशति-शत-तमे वर्षे [1989] द्विसप्तति-वर्ष-मिते आयुषि असौ Namibia-देशे शान्ति-कार्यार्थं गुल्म-नायकपदे नियोजितः, तथा च, सः तस्य देशस्य स्वतन्त्रतां सुनिश्चेतुं स्वीय-सेवाम् अर्पितवान् | जनरल-थिमैय्या, यो हि भारतीयसेनानामपि अध्यक्षः आसीत्, सः Cyprus-देशे संयुक्त-राष्ट्र-शान्ति-संधारक-वाहिनीं सन्नीतवान्, शांति-कार्यार्थं सर्वस्वञ्च आहूतवान् | भारतम्, शांतिदूतरूपेण सर्वदैव जगति शान्तेः,एकता- याः, सद्भावनायाश्च संदेशं दददस्ति | अस्मदीयोsयं दृढ-विश्वासः यत् प्रत्येकमपि जनः शांति-सद्भावाभ्यां सह जीवतु तथा प्रोन्नत- स्य शांतिपूर्णस्य च भविष्यतः निर्माण-दिशं प्रति अग्रेसरेतु |

              मम प्रियाः देशवासिनः, अस्मदीया एषा पुण्यभूमिः तादृशैः महद्भिः जनैः सुशोभिता अवर्तत, ये नाम निःस्वार्थभावेन मानवताम् असेवन्त | Sister Nivedita, यां वयं भगिनी-निवेदिता इत्यपि वदामः सापि तेषु असाधारण-जनेषु अन्यतमा आसीत् | सा आयरलैंड-देशे मार्गरेट्-एलिज़ाबेथ-नोबेल- (Margaret Elizabeth Noble)-नाम्ना जनिम् अलभत, परंतु स्वामि-विवेकानंदः तस्यै ‘निवेदिता’ इत्यभिधानं प्रादात् | तथा च, निवेदिता अर्थात् सा या हि पूर्ण-रूपेण समर्पिता स्यात् | अनन्तरं सा स्वाभिधानानुरूपं आत्मानं सिद्धीकृतवती | श्वः भगिनी-निवेदितायाः सार्धशती जयन्ती अवर्तत | सा स्वामि-विवेकानन्दात् तादृशी प्रभाविता जाता यत् स्वीयं सुख-सम्पन्नं जीवनं त्यक्त्वा निर्धनानां सेवायै समर्पितवती | Sister Nivedita ब्रिटेन्-शासने संजायमानैः अत्याचारैः अतितरां दुःखिता आसीत् | आङ्ग्ल-शासकाः न केवलं अस्माकं देशं दासीकृतवन्तः अपि तु, ते अस्मान् मानसिकरूपेण दासान् विधातुं प्रायतन्त | अस्मदीयां संस्कृतिं हीनां प्रदर्श्य हीन-भावनायाः प्रसारस्य कार्यम् अनारतं प्राचलत् | भगिनी निवेदिता भारतीय-संस्कृतेः गौरवं पुनः प्रतिष्ठापितवती | राष्ट्रीयचेतनाम् उद्भाव्य जनान् सङ्घटितान् कर्तुं आरभत | सा विश्वस्य नाना-देशेषु गत्वा सनातनधर्मस्य दर्शनस्य च विषये विधीयमानं दुष्प्रचारं विरुद्ध्य प्रचारमकरोत् | प्रसिद्धः राष्ट्रवादी तमिल-कविः सुब्रह्मण्यम्-भारती ‘पुदुमई पेन्न’ ( Pudhumai Penn), New Women-इति-निज-क्रांतिकारिणीनां कवितानां कारणात् महिला-क्षमीकरणस्य च कृते विख्यातः आसीत् | एवम् उच्यते यत्तस्य प्रेरणा, भगिनी निवेदितासीत् | भगिनी निवेदिता महते वैज्ञानिकाय जगदीश-चन्द्र-बसु-वर्याय अपि सहयोगं प्रादात् | सा स्वीय-लेखानां सम्मेलनानां च माध्यमेन बसु-वर्यस्य शोधकार्याणां प्रचार-प्रकाशनयोः कृते साहाय्यम् अकरोत् | भारतस्य इदमेव रमणीयं वैशिष्ट्यं यत् अस्मदीय-संस्कृतौ आध्यात्मिकता विज्ञानञ्च, परस्परं पूरकौ स्तः | भगिनी निवेदिता वैज्ञानिकः जगदीशचन्द्र-बसुश्च अस्य सबलोदाहरणत्वेन वर्तेते | अष्टादश-शताब्दस्य नवनवति-तमे वर्षे [1899 ] कोलकोतायां प्लेग्-इति भयङ्करी महामारी प्रावर्तत, पश्यता एव जनानां नैकसहस्रं काल-कवलीभूतम् | भगिनी निवेदिता, निज-स्वास्थ्य-चिंताम् अविगणय्य, नालिकाः मार्गान् च स्वच्छीकर्तुम् आरभत | सा तादृशी महिला आसीत् या हि सहजतया सुख-सौविध्य-युतं जीवनं यापयितुं क्षमते स्म, परञ्च सा निर्धनानां सेवाहेतोः संलग्ना जाता | तस्याः अस्मादेव त्यागात् प्रेरणामादाय जनाः अपि सेवा-कार्यैः संयुताः जाताः | सा निज-कार्यैः जनान् स्वच्छतायाः सेवायाश्च महत्वस्य पाठमपाठयत् | तस्याः समाधौ एताः पङ्क्तयः लिखिताः सन्ति “Here reposes Sister Nivedita who gave her all to India’ - अत्र भगिनी निवेदिता विश्राम्यति या हि नैजं सर्वस्वमपि भारताय प्रादात् | निःसंदेहं सा एवमेव आचरत् | एतस्य महतः व्यक्तित्वस्य कृते साम्प्रतं न कश्चन तादृशः समीचीनतरः श्रद्धांजलिः भविता यत् प्रत्येकमपि भारतवासी, तस्याः जीवनात् शिक्षामादाय स्वयमपि तस्मिन् सेवापथि चलितुं प्रयतेत |

            [दूरभाषः] - माननीय ! प्रधानमन्त्रि-महोदय ! मम नाम डॉ.पार्थ-शाहः अस्ति... नवम्बर-मासे चतुर्दश-दिनाङ्कं वयं बालदिनत्वेन आयोजयामः यतो हि अस्मदीयस्य प्रथम-प्रधानमन्त्रिणः श्री-जवाहरलाल-नेहरोः जन्म-दिवसः अस्ति, तस्मिन्नेव दिने “विश्व-मधुमेह-दिवसो”sपि आयोज्यते ... मधुमेहः केवलं ज्येष्ठानां रोगः नास्ति, अयं बालानाम् अधिसंख्यमपि प्रभावयति... तर्हि अस्य समाह्वानस्य कृते वयं किं कर्तुं शक्नुमः ?

          - भवतः दूरभाष-सन्देशस्य कृते धन्यवादः| सर्व-प्रथमं तु अस्माकं प्रथम-प्रधानमन्त्रिणः श्री-जवाहरलाल-नेहरोः जन्म-दिवसोपरि आयोज्यमानस्य बाल-दिवसस्य कृते सर्वेभ्यो बालेभ्यो भूरिशो शुभकामनाः | बालाः नूतनभारतस्य निर्माणे सर्वेषु महत्वपूर्ण-नायकत्वेन वर्तन्ते | भवतः चिन्ता स्थाने एव, कदाचित् पूर्वं ये रोगाः एधितायुषि, वा जीवनस्य अन्तिमायाम् अवस्थायां जीवनं प्रभावयन्ति स्म, ते अद्यत्वे बालेषु अपि दृश्यन्ते | सम्प्रति आश्चर्यन्तु तदा भवति यदा वयं शृण्मः यत् बालाः अपि मधुमेहेन पीड्यन्ते | पूर्वन्तने काले एते रोगाः ‘राज-रोग’-रूपेण अभिज्ञायन्ते स्म | राज-रोगः अर्थात् तादृशाः रोगाः यैः केवलं विलासिनो वा सुख-सौविध्य-युताः एव पीड्यन्ते स्म | युव-जनेषु एतादृशाः रोगाः अति-दुर्लभाः आसन् | अस्माकं जीवन-शैली परिवर्तितास्ति | अद्यत्वे एते रोगाः “lifestyle disorder”- इति नाम्ना ख्याप्यन्ते | यौवने एव एतादृशानां रोगाणां बाहुल्यस्य अन्यतमं प्रमुखकारणमस्ति - अस्माकं जीवनशैल्यां शारीरिक-क्रिया-कलापस्य न्यूनता तथा च, अस्मदीयेषु पानाशनयोः पद्धतौ परिवर्तनम् | समाजेन कुटुम्बेन चात्र विशेषावधानं प्रदेयम् | यदि विषयेsस्मिन् वयं विचारयिष्यामः, चेत्, भवन्तः अनुभविष्यन्ति यत् नात्र किञ्चिदपि विशिष्टं करणीयम् अवशिष्यते | केवलम् एतदेव आवश्यकं यत् लघु-लघु-कार्याणि समीचीन-रीत्या नियत-प्रकारेण च, कुर्वन्तः वयं निज-दैनन्दिन-जीवनं तादृशम् अभ्यस्तं करवाम येन रीतिरेषा स्वभाव-रूपा स्यात् | अहमिच्छामि यत् कुटुम्ब-जनाः जागरूकतया एवं प्रयतेरन् येन बालाः अनावृतेषु प्राङ्गणेषु क्रीडाभ्यस्ताः स्युः | शक्यमस्ति चेत् वयं ज्येष्ठाः अपि अनावृतेषु प्राङ्गणेषु गत्वा किञ्चित् बालैः साकं क्रीडाम | बालाः उद्वाहिकया आरोहणावरोहणयोः अपेक्षया सोपान-मार्गस्य अभ्यस्ताः स्युः | रात्रि-भोजनानन्तरं बालैः साकं पूर्णमपि कुटुम्बं किञ्चित् पद्भ्यां गन्तुं प्रयतेरन् | Yoga for Young India-इति योगाभ्यासः, विशेषतया अस्मदीय-युवमित्रेषु स्वस्थ-जीवन-शैलीं संधारयितुं जीवनशैल्याः दुर्व्यवस्थातः आत्मानञ्च रक्षितुं नूनं सहायी सेत्स्यति | विद्यालयात् प्राक् त्रिंशत्-मिनिट्-मितः योगाभ्यासः ! अनुभविष्यन्ति यत् कियान् लाभप्रदः भविता ! गृहेsपि कर्तुं शक्यते, तथा च, योगस्य इदं वैशिष्ट्यं यत् अयं सहजः, सरलः, सर्व-सुलभश्च | सहजः इति कथयामि यतो हि कश्चन अपि आयुषः जनः सरलतया एनं कर्तुं पारयति | सरलः यतो हि सरलतया शिक्षितुं शक्यते, तथा च, सर्व-सुलभः यतो हि, कुत्रचिदपि कर्तुं शक्यते, विशेषोपकरणानि उताहो प्राङ्गणस्य चावश्यकता नैव भवति | मधुमेह-नियन्त्रणे योगाभ्यासः कियान् प्रभवति - इति कृत्वा अनेकविधम् अध्ययनं प्रचलति | AIIMS-इत्यत्रापि एतद्-विषयकम् अध्ययनं विधीयते, तथा च, साम्प्रतं यावत् अधिगत-परिणामाः अतितराम् उत्साह-वर्धकाः सन्ति | योगः आयुर्वेदश्च केवलम् उपचार-माध्यमे इति नैव परिशीलनीयम् अपि तु वयम् एतौ जीवनस्य अङ्गत्वेन स्वीकरवाम |
मम प्रियाः देशवासिनः, विशेषेण मम युव-सखायः ! क्रीडा-क्षेत्रेषु विगत-काले शुभंकर्यः वार्ताः प्राप्ताः| नाना-क्रीडासु अस्माकं क्रीडकाः देशस्य यशोवितानम् अकुर्वन् | हॉकी-क्रीडायां भारतेन भव्यं क्रीडित्वा एशिया-चषको विजितः | अस्माकं क्रीडकाः भव्य-प्रदर्शनं कृत्वा दश-वर्षाणाम् अनन्तरं एशिया-चषक-विजयिनः अजायन्त | समग्राय क्रीडक-वृन्दाय सहायि-कार्मिक-समूहाय च मम पक्षतः देशवासिनाञ्च पक्षतः भूरि भूरि शुभकामनाः |

              हॉकी-क्रीडायाः पश्चात् बैड्मिंटन्-क्रीडायाः कृतेsपि भारतं शुभां वार्तां बिभर्ति | बैड्मिंटन्-क्रीडकः किदाम्बी-श्रीकान्तः उत्कृष्टं प्रदर्शयन् Denmark-मुक्त-क्रीडां च विजित्य प्रत्येकमपि भारतीयं गौरवान्वितं व्यदधात् | अहं अस्मभ्यः युव-मित्रेभ्यः तेषां एताः उपलब्धीः आलक्ष्य, भारतस्य च गौरव-वर्धनार्थं भूरि भूरि वर्धापनानि वितरामि |
मित्राणि, मासेsस्मिन् FIFA Under-17 -World Cup-क्रीडाः आयोजिताः | अशेष-विश्वस्य क्रीडक-वृन्दानि भारतम् आगतानि | सर्वेsपि पाद-कन्दुक-क्रीडाङ्गणेषु स्वीयं कौशलं प्रादर्शयन् | अहमपि एकां क्रीडा-स्पर्धामवलोकयितुम् अवसरं लब्धवान् | क्रीडकेषु दर्शकेषु च महान् उत्साहः दरीदृष्टः | इयती महती स्पर्धा ? अहन्तु सर्वेषां यूनां क्रीडकानां ऊर्जाम् उत्साहं “किञ्चित् नूनं करणीयमि”ति भावनाञ्च दृष्ट्वा चकित-चकितोsभवम्| विश्व-चषकस्य आयोजनं सफलमवर्तत, सर्वाण्यपि क्रीडक-वृन्दानि स्वीयं श्रेष्ठं प्रदर्शनम् अकुर्वन् | भवतु नाम, भारतेन अत्र विजयो नैवाधिगतः, परञ्च भारतस्य युव-क्रीडकैः सर्वेषामपि हृदयानि विजितानि | भारतेन सम्भूय अशेष-विश्वं क्रीडा-स्पर्धानां महोत्सवस्य आनन्द-सन्दोहम् अन्वभवत् | पाद-कन्दुक-क्रीडायाः भविष्यत् उज्ज्वलं वर्तते - अस्य संकेताः दरीदृश्यन्ते | पुनरेकवारमहं सर्वान् अपि क्रीडकान्, तेषां सहयोगिनः, सर्वान् च क्रीडा-प्रेमिणः अभिनन्दामि, शुभकामनाश्च व्याहरामि |
मम प्रियाः देशवासिनः ! स्वच्छ-भारतस्य विषये यावन्तो जनाः मां लिखन्ति, एतत् प्रतीयते यत् तेषां भावनाभिः साकं यदि अहं न्याय्यं विचारयामि चेत्, तदा मया प्रतिदिनं ‘मन की बात’-कार्यक्रमः करणीयो भविता, तथा च, प्रतिदिनं मया स्वच्छताविषये एव ‘मन की बात’-प्रसारणम् अर्पणीयं भवेत् | केचन लघु-लघु-बालानां चित्राणि प्रेषयन्ति, केचन तु युव-समूहानां प्रयास-कथाः वर्णयन्ति | कुत्रचित् स्वच्छता-विषयकस्य नवाचारस्य कथा भवति, उताहो कस्यचन अधिकारिणः समर्पित-कार्यानुष्ठानेन समापन्न-परिवर्तनस्य वार्ता भवति | विगतेषु दिनेषु विस्तृतं विवरणमेकं प्राप्तवान् यस्मिन् महाराष्ट्रस्य चंद्रपुर-दुर्गस्य कायाकल्पस्य कथा वर्तते | तत्र प्रशासनेतरस्य {NGO} पर्यावरण-संरक्षण-संघटनस्य संपूर्ण-समूहेन चंद्रपुर-दुर्गस्य स्वच्छ्तायाः अभियानम् आरब्धम् | द्विशत-दिनानि यावत् प्रवर्तिते अस्मिन् अभियाने जनाः विनैव विश्रम्य, विनैव च परिक्लान्तिं समूह-भावनया दुर्गस्य स्वच्छता-कार्याणि अकुर्वन् | द्विशत-दिनानि यावत् !! पूर्वं पश्चाद् - इति कृत्वा एतानि चित्राणि ते मह्यं प्रेषितवन्तः | एतानि चित्राणि दृष्ट्वा स्वच्छता-विषयिणी निराशा विश्वासे परिवर्तिष्यते | स्वच्छतायाः अयं भगीरथ-प्रयासः सौन्दर्यस्य, सामूहिकतायाः सातत्यस्य च अद्भुतम् उदाहरणम् वर्तते | दुर्गाः नाम अस्मदीय-रिक्थस्य प्रतीकरूपाः सन्ति | ऐतिहासिक-रिक्थानां सुरक्षायाः स्वच्छतायाः च दायित्वं अस्माकं सर्वेषामपि देशवासिनां वर्तते | अहं पर्यावरण-संरक्षण-संघटनस्य अस्य संपूर्ण-समूहस्य चंद्रपुरस्य च नागरिकाणां कृते कोटिशो वर्धापनानि वितरामि |

               मम प्रियाः देशवासिनः, आगामिनि नवम्बर-मासीये चतुर्थे दिने वयं गुरुनानकजयंतीम् आयोजयिष्यामः | गुरुः नानकदेवः सिक्खानां प्रथमः गुरुरेव नैव अपि तु जगद्-गुरुः अस्ति | असौ अशेष-मानवतायाः कल्याणम् अचिन्तयत्, सर्वाः च जातयः तुल्याः इति प्रतिपादितवान् | महिलानां शक्तीकरणं नारी-संमाननञ्च तेन सबलं ख्यापितम् | गुरुः नानकदेवः पद्भ्यामेव अष्टाविंशति-सहस्र-किलोमीटर-मितां यात्रां व्यदधात्, अस्याः यात्रायाः अवसरे असौ उच्च-मानवतायाः सन्देशं प्रादात् | सः जनैः साकं संवादम् अकरोत्, तान् सत्य-त्याग-कर्मनिष्ठानां मार्गं प्रादर्शयत् | तेन समाजे समानतायाः सन्देशः प्रसारितः, स्वीयः संदेशोsयं न केवलं व्याख्यानैः अपितु कर्मभिः सार्थकीकृतः | सः लंगर-इति सामूहिक-प्रसाद-ग्रहण-प्रणालीं प्रावर्तयत् यया जनेषु सेवाभावनाः समेधिताः | सम्भूय सामूहिक-प्रसाद-ग्रहणेन जनेषु एकतायाः समानतायाः च भावाः जागृताः जाताः | गुरु-नानक-देवः सार्थक-जीवनस्य सन्देशत्रयं प्रादात्– परमात्मनः नामजपं कुरु, परिश्रम - कार्यं कुरु तथा च, निःसहायानां कृते साहाय्यं कुरु | गुरु-नानक-देवः स्वीयं हार्दं प्रकटयितुं ‘गुरबाणी-ग्रन्थं’ विरचितवान् | आगामिनि वर्षे अर्थात् एकोनविंशोत्तर-द्विसहस्र-तमे वर्षे, वयं गुरुनानकदेव-चरणानां सार्ध-पञ्च-शतीमिति प्रकाशवर्षम् आयोजयिष्यामः | आगच्छन्तु, वयं तस्य संदेशानां शिक्षायाश्च मार्गोपरि अग्रेसर्तुं प्रयतेम |

               मम प्रियाः देशवासिनः, दिवस-द्वयानन्तरं ओक्टोबरस्य अन्तिमे दिने वयं सरदार-वल्लभ-भाई-पटेलस्य जन्मजयन्तीम् आयोजयिष्यामः | वयं सर्वेsपि जानीमः यद् आधुनिकस्य अखण्ड-भारतस्य शिलान्यासः अमुना महापुरुषेण विहितः आसीत् | भारतमातुः अस्य महतः संतानस्य असाधारण-यात्रया अद्य वयं सुबहु शिक्षितुं शक्नुमः | ओक्टोबर-मासस्य एकत्रिंशत्तमे दिने श्रीमती-इंदिरा-गाँधी अपि, इहलोकतः प्रस्थिता | सरदार-वल्लभ-भाई-पटेलस्य विशेषता इयमासीत् यत् सः न केवलं परिवर्तन-कारिणः विचारान् प्रददाति स्म, परञ्चासौ तेषां क्रियान्वयनमपि विधातुं जटिलतराणां समस्यानां व्यावहारिकस्य समाधानस्य अन्वेषणे कुशलः आसीत् | विचाराणां साकारीकरणे तस्य नैपुण्यम् आसीत् | सरदार-वल्लभ-भाई-पटेलः भारतमेकसूत्रेण संनद्धीकर्तुं तत्-कार्यस्य नेतृत्वं व्यदधात् | तेन एतत् सुनिश्चितीकृतं यत् कोटि-कोटि-भरतवासिनः ‘एकम् - राष्ट्रम् एकम् - संविधानम्’ इति सूत्रस्य छत्रछायायां समन्विताः स्युः | तस्य निर्णय-क्षमता तस्मै सर्वाः अपि बाधाः परिहर्तुं सामर्थ्यं प्रादात् | देशस्य एकीकरणस्य इदं कार्यं केवलं सः एव कर्तुं क्षमते स्म | तेन उक्तमासीत् - “ जातेः पथः च कश्चन अपि भेदः अस्मान् नावरोधयेत्, सर्वेsपि भारतस्य पुत्राः पुत्र्यश्च सन्ति, अस्माभिः सर्वैरपि निज-देशः अनुरक्त्या भावनीयः तथा च, पारस्परिक-प्रेमाणं सद्भावनाञ्च आधृत्य निज-नियतिः विनिर्मेया |”

          सरदार-महोदयस्य इदं कथनम् अद्यत्वेsपि अस्मदीयस्य नूतन-भारतस्य विकासाय प्रेरकः प्रासंगिकश्च वर्तते | इदमेव कारणं यत् तस्य जन्म-दिवसः ‘राष्ट्रीयैकता-दिवस’-रूपेण आमान्यते | देशाय अखण्ड-राष्ट्रस्य स्वरुपप्रदाने तस्य योगदानम् अतोलनीयं वर्तते | सरदार-महोदयस्य जयन्त्याः अवसरे सम्पूर्णेsपि देशे ‘Run for Unity’- इति एकता-धावनम् आयोजयिष्यते, यस्मिन् अशेष-देशात् बालाः,युवानः.महिलाः, प्रत्येकमपि आयुषः जनाः समावेक्ष्यन्ते | साग्रहं भवतः कथयामि यत् भवन्तः सर्वेsपि ‘Run for Unity’- इति पारस्परिक- सद्भावनायाः उत्सवेsस्मिन् सहभागिनो भवन्तु |

           मम प्रियाः देशवासिनः, दिपावल्याः अवकाशानन्तरं नूतन-संकल्पेन, अभिनवेन निश्चयेन च साकं भवन्तः सर्वे निजे दैनन्दिने जीवने पुनरेकवारं संलग्नाः सञ्जाताः स्युः | मम पक्षतः देशवासिभ्यः, तेषां स्वप्नानां सम्पूर्ति-हेतोः अनेकशो मङ्गल-कामनाः | भूरिशो धन्यवादाः |
*****