OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 30, 2020

 केरले कोविड्व्यापनं प्रतिदिनं ७००० अधिकम्।

    कोच्ची - केरले कोविड्रोगबाधा आशङ्काजनकतया वर्धते। चत्वारि दिनानि यावत् रोगबाधितानां  प्रतिदिनसंख्या सप्तसहस्राधिका आसीत् । 

 रोगव्यापनस्य स्पष्टतामानं [positivity rate] केरले १३.७६ अस्ति। एतत्तु राष्ट्रियमानात् अधिकमिति स्वास्थ्यवृत्ताभिज्ञैः सूचितम्। अस्मिन् मासे एव आहत्य रोगबाधितानां संख्या एकलक्षाधिका इति उदगच्छत्। प्रतिदिनमरणसंख्या इतरराज्यानि अपेक्ष्य न्यूना अपि सम्प्रति २० - २२ इति रीत्या वर्तते। मृत्युसंख्या आहत्य ७१९ अभवत्। 

 ह्यः सर्वराजनैतिकदलानां मेलनम् मुख्यमन्त्रिणः नेतृत्वे सम्पन्नम्। नियन्त्रणानि इतो$पि कर्कशं विधातुं निर्णयः अभवत्। पुनरपि सम्पूर्णं पिधानं न भविष्यतीति मुख्यमन्त्रिणा पिणरायि विजयेनोक्तम्।

Tuesday, September 29, 2020

 कोविड्वाक्सिन् - भारतं प्रशंसमानः  W H O मुख्यः। 

    न्यूयोर्क्> कोविड्रोगस्य प्रत्यौषधविषये विश्वस्वास्थ्यसंघटनस्य नेता टेड्रोस् अथनों गेब्रियेसूस् नामकः भारतं प्राशंसत। कोविड्युद्धे इतरराष्ट्रेभ्यः साह्यं कर्तुं प्रत्यौषधस्य उत्पादनशक्तिम् उपयोक्ष्यते इति भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रस्तावं परामर्शयन्नासीत् अथनोमस्य प्रशंसा। 

   सामान्यहिताय विभवानाम् उपयोगेनैव महामारिं प्रतिरोद्धुं शक्यते इति सः ट्विटर् द्वारा निगदितवान्।

Monday, September 28, 2020

 ‘मनोगतम् [०२.१६] 

‘मन की बात’प्रसारण-तिथि:-२७’सेप्टेम्बरः, २०२०          

  [भाषान्तरं – सर्वश्री-पुरुषोत्तमशर्म-गवीशद्विवेदिभ्यां सम्भूय बलदेवानन्द-सागर-द्वारा]


    मम प्रियाः देशवासिनः, नमस्कारः| कोरोना-कालखण्डे अस्मिन् अशेषविश्वम्  अनेकानि परिवर्तनानि सम्मुखीकरोति| अद्य, यदा ‘दो गज़् की दूरी’ति अनिवार्या आवश्यकता सम्वृत्ता, तदा अमुना एव सङ्कटकालेन, कुटुम्ब-सदस्यान् परस्परं संयोजयितुं, मिथः सामीप्यं स्थापयितुं च महत्कार्यमपि कृतम्| परञ्च, एतावद्दीर्घकाल-पर्यन्तं, सम्भूय वासः,  केन प्रकारेण स्थेयम्, कालः कथं यापनीयः, प्रत्येकमपि क्षणः प्रसन्नता-प्रदः केन प्रकारेण स्यात्? एवम्, अनेकानि कुटुम्बानि काठिन्यानि अन्वभवन्, अस्य कारणमासीत् यत् अस्मदीयाः याः परम्पराः आसन्, कुटुम्बे याः संस्कारसरिद्रूपेण प्रवहन्ति स्म,  तासाम् अभावः अनुभूयते, एवं प्रतीयते यत्, अनेकेषु कुटुम्बेषु एतत्-सर्वं समाप्तम्, तथा च,  एतस्मात् कारणात्, सति तदभावे, एतत्-सङ्कटकालस्य यापनम् अपि कुटुम्बानां कृते किञ्चित् कठिनतरं सञ्जातम्, अपि च, तस्मिन् अन्यतरं महत्वपूर्ण-वृत्तं किमासीत्? प्रत्येकमपि कुटुम्बे कश्चन वरिष्ठः, कुटुम्ब-ज्येष्ठाः जनाः च, कथाः श्रावयन्ति स्म तथा च, गृहे नवीनां प्रेरणाम्, अभिनवाञ्च ऊर्जां पूरयन्ति | वयम्, नूनमिदम् अनुभूतवन्तः स्युः, यत् अस्मदीयैः पूर्वजैः याः विधाः प्रवर्तिताः, ताः अद्यापि

Sunday, September 27, 2020

कोविड्युद्धे संयुक्तराष्ट्रसंघटनस्य स्थानं कुत्रेति नरेन्द्रमोदी। 

    नवदिल्ली> यू एन् संस्थायाः परिष्करणकालविलम्बं प्रति निराशतां प्रकटयन् कोविड्प्रतिरोधे संस्थायाः सहयोगं विमृशन् च भारतप्रधानमन्त्री नरेन्द्रमोदी। संयुक्तराष्ट्रसंघटनस्य ७५तमां सामान्यसभां दृश्यश्रव्यमाध्यमद्वारा अभिसम्बोधयन् आसीत् नरेन्द्रमोदी। 

  "यू एन् संस्थायाः स्थिराङ्गसमित्याः परिष्कारप्रक्रमणे सयुक्तिकं पदक्षेपमालक्ष्य भारतीयाः आशङ्काकुलाः वर्तन्ते"- समित्यां भारतस्य स्थिराङ्गत्वं पुरस्कृत्य मोदी अब्रवीत्। कोविड्युद्धमभिलक्ष्य प्रतिकरणेषु प्रक्रमेषु निर्णयेषु च संस्थायाः परिष्करणं कालखण्डस्य आवश्यकता अस्ति - मोदिना सूचितम्। 

  शान्तिसंरक्षणार्थं यू एन् प्रति नीतेषु सैनिकेषु अधिकतमं नष्टं सम्भूतं राष्ट्रं भवति भारतम्। अस्मिन् दुरितकाले अपि भारतस्य औषधनिर्माणशालाभ्यः १५० राष्ट्रेभ्यः अवश्यौषधानि नीतानि। भारतस्य योगदानं पुरस्कृत्य अधिकमुत्तरदायित्वं स्वीकर्तुमर्हतीति च प्रधानमन्त्रिणा उक्तम्।

 बीहारे विधानसभानिर्वाचनम् उद्घुष्टम्। 

    नवदिल्ली> बिहारराज्यस्य विधानसभानिर्वाचनं ओक्टोबर २८, नवम्बर् ३, ७ दिनाङ्केषु विधातुं निर्णीतम्। मतगणना नवम्बर् १० तमे दिनाङ्के भविष्यति। 

  मुख्यनिर्वाचनाधिकारी सुनिल् अरोरा गतदिने निर्वाचनमार्गनिर्देशानां घोषणामकरोत्। कोविड्नियमान् परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते।

Friday, September 25, 2020

 विश्वप्रसिद्धगायकः एस् पि बालसुब्रह्मण्यम् दिवंगतः। 

कोविड्कालीनः बृहत्तमः नष्टः। 


    चेन्नै>  स्वस्य मान्त्रिकस्वरेण सङ्गीतलोकविजेता एस् पि बि इत्याक्षरत्रयेण लोकप्रसिद्धः गायकः एस् पि बालसुब्रह्मण्यम् सहस्रशः सङ्गीतप्रेमिणां प्रार्थनां विफलीकृत्य अद्य मध्याह्ने एकवादने चेन्नैवैयक्तिकातुरालये दिवं गतः। ७४ वयस्कः सः हृदयस्तम्भनेन परलोकप्राप्त इति वृत्तान्तः तस्य पुत्रेण एस् पि बी  चरणेनैव दृढीकृतः। आगस्त् पञ्चमदिनाङ्कादारभ्य कोविड्बाधया आतुरालयं प्रवेशितः अपि सप्ताहद्वयात्पूर्वं रोगमुक्तः आसीत्। 

  १६ भाषासु चत्वारिशत्सहस्रेभ्यः परं चलच्चित्रगीतानि गायन् 'गिन्नस् अत्युत्कृष्टतां' प्राप्तवान्। दिनेनैकेन कन्नडभाषायां २१ गानानि मुद्रीकुर्वन् अपूर्वलाभं स्वायत्तीकृतवान्। 

  भारतसर्वकारेण पद्मश्री पद्मभूषण पुरस्काराभ्यां समादृतः। षड्वारं श्रेष्ठगायकाय दीयमानः राष्ट्रियपुरस्कारः तेन लब्धः। तदतिरिच्य विविधराज्यानां २५ श्रेष्ठगायकपुरस्कारैश्च सः बहुमानितः आसीत्। २५ चलनचित्रेषु स्वस्य नटनप्रावीण्यमपि एस् पि बी महाशयेन प्रकाशितम्।

 सौदीतः वन्देभारतसेवाः अनुवर्तिष्यन्ते।

      नवदिल्ली> सौदीअरेबिया राष्ट्रात् भारतं प्रति 'वन्दे भारतं' विमानसेवाः अनुवर्तिष्यन्ते  इति एयर् इन्डिया एक्स्प्रस् संस्थया निगदितम्। किन्तु भारतात् सौदीं प्रति यात्रिकाः न नेष्यन्ते। सौद्याः स्वदेशं प्राप्तुमुत्सुकेभ्य एव सेवाः विधास्यन्ते। 

  भारते कोविड्रोगिणां संख्यायां वर्धमानायां गतदिने 'सौदी जनरल् अतोरिटि आफ् सिविक् एवियेषन्' नामिकया संस्थया भारतमभिव्याप्य त्रिभ्यः राष्ट्रेभ्यः विमानसेवाः निरुद्धाः आसन्।

 महाकवये अक्कित्ताय ज्ञानपीठपुरस्कारः समर्पितः। 

    पालक्काट्> ५५ तमज्ञानपीठपुरस्कारः केरलस्य महाकवये अक्कित्तम् अच्युतन् नम्पूतिरि वर्याय समर्पितः।  अत्र कुमरनेल्लूरस्थे स्वभवने आयोजिते कार्यक्रमे प्रियजनपरिवेष्टितः महाकविः सांस्कृतिकमन्त्रिणः ए के बालस्य हस्तात् राष्ट्रस्य परमोन्नतं साहित्यपुरस्कारं स्वीकृतवान्। मुख्यमन्त्री पिणरायि विजयः समर्पणकार्यक्रमम् ओण्लैन् द्वारा उद्घाटनं कृतवान्। 

  भारतीयज्ञानपीठस्य चयनसमित्यध्यक्षा प्रतिभापाटीलः , केरलस्य अन्यतमः ज्ञानपीठजेता एम् टि वासुदेवन् नायर् , इ टि मुहम्मद बषीर् एम् पि , विधानसभासदस्यः  वि टि बलरामः इत्यादयः  महाकवये आशंसां समर्पितवन्तः।

Wednesday, September 23, 2020

 चीन-भारतचर्चा - नेतृस्ततरीयसन्धीन् विधातुं  निर्णयः। 

        नवदिल्ली>  सीमायां सन्तुलितावस्थां सुस्थिरीकर्तुं उभयोरपि राष्ट्रयोः नेतृभिः विहितान् सन्धीन् विधातुं गतदिने सम्पन्नायां मुख्यकमान्डर् स्तरीयचर्चायां निर्णयः अभवत्। मोल्डो प्रदेशे सोमवासरे प्रातः नववादने समारब्धा चर्चा रात्रौ ११वादने एव समाप्ता। सैन्यस्य अधस्स्तरे आशयविमयं संवर्धयितुं कुवार्ताः अपाकर्तुं च निर्णीतम्।

 भारते कोविड्मुक्तिप्रतिशतता ८० अतीता। 

     नवदिल्ली> भारते कोविड्रोगमुक्तानां संख्या अनुदिनं वर्धते। केन्द्रस्वास्थ्य-मन्त्रालयस्य आवेदनमनुसृत्य गतदिने १.०१लक्षं जनाः विरुजः अभवन्। रोगमुक्तेः प्रतिशतता ८०.८६ जाता। 

  अद्यावधि ४५ लक्षं रोगिणः स्वस्थीभूताः। तेषु ७९% जनाः महाराष्ट्रं कर्णाटकम् आन्ध्रप्रदेशः उत्तरप्रदेशः तमिलनाडु ओडीषा दिल्ली केरलं वङ्गः पञ्चाबः इत्येतेभ्यो राज्येभ्यो भवन्ति।

 कोरोणा वैराणुव्यापन साहायकः संयुक्तः प्रत्यभिज्ञातः।

     सान्डियागो>गवेषकैः कोरोणा वैराणुव्यापन-साहायकः संयुक्तः प्रत्यभिज्ञातः।  कोविड् रोगस्य कारणभूतेन कोरोणा वैराणुना मनुष्यशरीरे  अधिरोहणाय उपयुज्यमानः संयुक्तः प्रत्यभिज्ञातः। हेपारन् सल्फेट् इति  संयुक्तः भवति एष:। कोविड् चिकित्सायां तथा प्रतिरोध-चिकित्सायां च इदं प्रत्यभिज्ञानम् अत्यन्तम् उपकारकं भविष्यति इति वैज्ञानिकैः उच्चते। कालिफोर्णिय विश्वविद्यालयस्य महाचार्यस्य  'जेफ्रि एस्को' इत्यस्य नेतृत्वे कृते अध्ययने आसीत् नूतनमिदं  प्रत्यभिज्ञानम् ।

Tuesday, September 22, 2020

 समाजसेवकैरपि विदेशात् उपदास्वीकारः निषिद्धः।

विधिपरिवर्तनविधायकं लोकसभया अनुमोदितम्। 

      नवदिल्ली > व्यक्तयः , संघटनानि, संस्थाः इत्यादिभिः विदेशराष्ट्रेभ्यः  उपायनस्वीकारे कर्कशं नियन्त्रणं विधास्यमानं विधेयकं - विदेशोपदानियमपरिवर्तनविधेयकं [नियन्त्रणं] - लोकसभया अनुमोदितम्। विदेशोपदास्वीकारे निषिद्धानां पट्टिकायां सर्वकारसेवकैः सह समाजसेवकाश्च समावेशिताः। 

 २०१० तमस्य विदेशोपायननियन्त्रणनियमं [एफ् सि आर् ए]  परिवर्तनं कृत्वा एव नूतनं विधेयकमवतारितम्। नियमोल्लङ्घकानां पञ्जीकरणं ३६० दिनानि यावत् निष्कासितुमधिकारः नियमपरिवर्तनानुसारं केन्द्रसर्वकाराय लप्स्यते। उपदास्वीकारयोग्यतार्थं पञ्जीकरणं कर्तुम् आधारसंख्या अवश्यं विधेया।

Sunday, September 20, 2020

 वङ्गान्तरस्समुद्रे न्यूनमर्दः - दक्षिणभारते अतिवृष्टिः। 

      कोच्ची> दक्षिणचीनसमुद्रे रूपवत्कृता 'न्योल्' नामिका वात्या वङ्गसमुद्रे न्यूनमर्दरूपेण संवृत्ता इत्यतः दक्षिणभारते, विशिष्य केरले अतितीव्रवृष्टिः भवेदिति केन्द्रपर्यावरणविभागस्य जाग्रतासूचना। इटुक्की, मलप्पुरं, कण्णूर्, कासर्कोड् जनपदेषु रक्तातिजाग्रता प्रख्यापिता। 

  कोट्टयं, एरणाकुलं, तृश्शूर्, पालक्काट्, कोष़िक्कोट्, वयनाट् जनपदेषु ओरञ्ज् जाग्रता च प्रख्यापिता। 

  गतसप्ताहे केरले अरबसमुद्रोद्भूतन्यूनमर्दस्य कारणतः सामान्येन शक्ता वृष्टिरजायत। जलसम्भरण्यः पूरितप्रायाः वर्तन्ते। षोलयार् परम्पिक्कुलं जलाशयौ प्रपूरितौ इत्यतः जलनिर्गमनमार्गाः उद्घाटिताः च।

 कोविड्मुक्तानां संख्यायां भारतं प्रथमम्।

      नवदिल्ली> कोविड्रोगमुक्तानां संख्यायां आगोलस्तरे अमेरिक्कामुत्तीर्य भारतं प्रथमस्थानं प्राप्तमिति केन्द्रस्वास्थ्यमन्त्रालयः। मन्त्रालयस्य आवेदनमनुसृत्य राष्ट्रे अद्यावधि ४२,०८,४३१ रोगिणः स्वस्थीभूताः अभवन्। यू एसे एतत् ४१ लक्षमस्ति। ७९.२८ अस्ति भारतस्य रोगमुक्तिप्रतिशतता। विश्वस्य रोगमुक्तेषु १९% भारते वर्तते। 

  गत२४होरासु  ९५,८८० जनाः विरुजः अभवन्। मृत्योः प्रतिशतता तु १.६१ इति न्यूनीभूतं वर्तितम्। एतत्तु विश्वे उत्कृष्टमानतां भजते। उचितकाले एव निरीक्षणानि उत्कृष्टश्रेणीं भजमानं वैद्यकीयपरिचरणं च अस्य लाभस्य हेतव इति स्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्।

Saturday, September 19, 2020

 नव अल् ख्वयिदा आतङ्कवादिनः एन् ऐ ए संस्थया गृहीताः। 

षट् बङ्गालतः त्रयः केरलतः। 

    कोच्ची>  भारतस्य राष्ट्रियान्वीक्षणसंस्थया [एन् ऐ ए] देशस्य विविधस्थानेषु कृते अवस्कन्दे नव अल् ख्वयिदाभीकरप्रवर्तकाः गृहीताः। षट् भीकराः वंगराज्यात् त्रयः केरले एरणाकुलं जनपदाच्च निगृहीताः। 

  राष्ट्रस्य विविधेषु एकादशस्थानेषु आसीत् एन् ऐ ए संस्थायाः अवस्कन्दः संवृत्तः। निगृहीतेभ्यः देशविरुद्धलघुलेखनानि आयुधानि साङ्केतिकोपकरणानि च अभिदृष्टानि। विविधस्थानेषु भीकराक्रणमालक्ष्य परियोजनाः आविष्कृता इति एन् ऐ ए संस्थया निवेदितम्। 

  केरलतः निगृहीतः मुर्षिदाबादप्रदेशीयः अबु सुफियान् नामक एव संघनेता इति अन्वीक्षणसंस्थया सूचितम्। त्रयः भीकरौ केरले एरणाकुलं जनपदस्थे पेरुम्पावूर् नगरसमीपे कर्मकररूपेण वृत्तिं कुर्वन्तः सन्ति। केरलस्य आतङ्कवादविरुद्धसंघस्य साह्येन ते निगृहीताः।

 केन्द्रसर्वकारस्य कार्षिकविधेयकानि विरुद्ध्य उत्तरभारते संग्रामान् संयोजयन्तः वर्तन्ते। 

केन्द्रमन्त्रिणी स्थानं त्यक्तवती। 

  नवदिल्ली>  कार्षिकमण्डलस्य परिष्करणं परिकल्प्य केन्द्रसर्वकारेण आनीतानि त्रीणि विधेयकानि विरुध्य एन् डि ए राजनैतिकदलयूथे तथा उत्तरभारते अपि अतृप्तिः वर्धते। संसदि अवतारितेषु विधायकेषु स्वप्रतिषेधं संसूच्य शिरोमणि अकालि दल् नामकराजनैतिकदलस्य [एस् ए डि] प्रतिनिधिः भक्ष्यसंस्करणमन्त्रिणी हर सिम्रत् कौल् स्थानमत्यजत्। किन्तु एन् डि ए सख्यसहयोगः अनुवर्तिष्यते इति एस् ए डि दलाध्यक्षः अब्रवीत्। 

  तथा च एस् ए डि दलमनुगम्य हरियानस्थेन  जननायक जनता पार्टी [जे जे पि] नामकेन  राजनैतिकदलेनापि प्रतिषेधः उन्नीतः। 

   पञ्चाबहरियानोत्तरप्रदेशराज्येषु विविधानि कार्षिकसंघटनानि प्रक्षोभान् संघटन्तः वर्तन्ते।

 भारतसेनां प्रतिरोद्धुं केनापि न शक्यते- राजनाथसिंहः।

      नवदिल्ली> पूर्वलडाके परम्परागतपरिचंक्रमणमण्डले भारतसेनां प्रतिरोद्धुं विश्वस्मिन् केनापि न प्रभवति इति राष्ट्रस्य रक्षामन्त्री राजनाथसिंहः राज्यसभायां प्रास्तौत्। सीमायां वर्तमानानां साम्प्रतिकघटनानां हेतुः सेनायाः सीमापरिचङ्क्रमणं निरोद्धुमुद्यमः भवति। अत एव सैनिकानां वीरमृत्युः तत्राभवत्। रक्षामन्त्रिणा विशदीकृतम्। 
  चीना-भारतयोर्मध्ये यथातथनियन्त्रणरेखायाम् अनुवर्तमानं संघर्षमधिकृत्य गतदिने राज्यसभायां विशदीकृत्य भूतपूर्वरक्षामन्त्रिणा ए के आन्टणिवर्येण उन्नीतान् सन्देहान् दूरीकृत्य भाषमाणः आसीत् राजनाथसिंहः।

Thursday, September 17, 2020

 आयुर्वेदवरिष्ठः डो. पि आर् कृष्णकुमारः दिवंगतः। 

 


  कोयम्पत्तूर्>  आयुर्वेदाय आविश्वप्रशस्तिं सम्मानितवान् वैद्यश्रेष्ठः , कोयम्पत्तूरस्थायाः  'आर्यवैद्यफार्मसि' [ए वि पि] संस्थायाः  निदेशकमुख्यश्च डो. पि आर् कृष्णकुमारः [६९] गतरात्रौ  दिवंगतः। न्यूमोणियाज्वरबाधितः सः कोयम्पत्तूरस्थे आतुरालये चिकित्सायां वर्तितः आसीत्। 

  परम्परया लब्धमायुर्वेदसरणिं स्वप्रयत्नेन विश्वसमक्षमानीय विजयश्रीलालितः अभवत्। आयुर्वेदाय दत्तं समग्रयोगदानं पुरस्कृत्य २००९ तमे पद्मश्रीपुरस्कारेण बहुमानितः। परम्परागतरीत्या सह आधुनिकतामपि समञ्सेन सम्मेल्य नूतनः अध्ययनस्मप्रदायः तेन आविष्कृतः। विश्वस्वास्थ्यसंघटनस्य तथा भारतीयवैद्यकगवेषणसंस्थायाः [ऐ सि एम् आर्] च सहयोगेन कृष्णकुमारस्य नेतृत्वे  परम्परागतचिकित्सासरणीः अवलम्ब्य कृतमनुसन्धानं लोकश्रद्धामाचकर्ष।

Wednesday, September 16, 2020

 नवल्निः श्वसनसाह्योपकरणात् विमुक्तः ; रूस् प्रतिनिवर्तते। 

    बर्लिन् >  जर्मनिराष्ट्रे चिकित्सायां वर्तमानः रूसीयविपक्षनेता अलक्सि नवल्निः 'वेन्टिलेटर्' उपकरणात् विमुक्तः। 'इन्स्टग्राम'माध्यमेन नवल्निना एवेयं वार्ता बहिरागता। विषबाधितानन्तरं सः प्रथमतया अर्पिते इन्स्टग्रामवृत्तान्ते श्वसनसाह्योपकरणं विनैव श्वसितुं शक्यत इति तेन निवेदितम्। 

  नवल्निः रूस् राष्ट्रं प्रत्यागमिष्यति , तद्विना किमपि न परिगण्यते इति तस्य वक्ता किरा यार्मिष् नामकः उक्तवान्। ओगस्ट्मासस्य २० तमे सैबीरियातः मोस्कों प्रति आगमनवेलायां विमाने सः अस्तप्रज्ञः अभवत्। परीक्षणे नाडीसीदनकारणं नोविचोक् नामकं विषमेव नल्विने अदादिति स्पष्टम्। रूस् राष्ट्रपतेः व्लादिमिर् पुटिनस्य निर्देशानुसारमेव विषप्रयोगः इत्यारोपः नल्वनेः सहप्रवर्तकैः कृत आसीत्।

 आयुर्वेदशास्त्रं विश्वस्मिन् सर्वत्र प्राप्तव्यम् - भारतस्य उपराष्ट्रपतिः। 

    कोच्ची> प्रतिसन्धीन् उत्तीर्य सर्वेषु राष्ट्रेषु आयुर्वेदशास्त्रस्य उत्कृष्टता प्राप्तव्या इति भारतस्य उपराष्ट्रपतिः एम्. वेङकय्यनायिडु उद्बोधितवान्। कोच्चीनगरे आयोजितम् आगोलायुर्वेदसम्मेलनम् ओणलैन् द्वारा उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। आयुर्वेदोद्योगस्य आगोलविपणिं लक्ष्यीकृत्य आधुनिकसाङ्केतिकविद्यायाः साह्यः अपेक्षित इति तेन प्रपूरितम्। 

   २०२६ तमे वर्षे आयुर्वेदोद्योगः १,४००कोटि डोलर् मूल्ययुक्तेन प्रवर्धिष्यते इति Confederation of Indian Industry (CIA) नामकसंस्थायाः केरलविभागेन आयोजिते सम्मेलने निरीक्षितम्।

Tuesday, September 15, 2020

 सैनिकेभ्यः जनसभायाः सहयोगः आवश्यकः - नरेद्रमोदी।

      नवदिल्ली>  दुर्घटेषु सीमाप्रदेशेषु सधीरं सीमासंरक्षणं कुर्वद्भ्यः सैनिकेभ्यः जनसंसदेः सभाद्वयेनापि सहयोगः प्रकाशयितव्य इति प्रधानमन्त्रिणा नरेद्रमोदिना निर्दिष्टम्। जनसभायाः वर्षाकालसम्मेलनस्य पीठिकारूपेण कृते सन्देशे आसीत् प्रधानमन्त्रिणः निर्देशः। 

   एकस्मिन् पार्श्वे कोरोणामहामारिं विरुध्य युद्धः; अपरस्मिन् तु अस्माकं सीमासंरक्षणार्थं सैनिकानां परमधर्मः। स्वधर्मपरिपालनव्यापृतान् सर्वान् अभिनन्दामीति मोदिना प्रस्तुतम्।

Monday, September 14, 2020

 भारतस्य नेतारः चीनेन निरीक्षन्ते।

 प्रधानमन्त्री राष्ट्रपतिः प्रभृतयः सहस्राधिकाः निरीक्षणे सन्ति।


      नवदिल्ली> चीन सर्वकारेण कम्यूणिस्ट् राजनैतिकदलेन च सम्बन्धितेन  काचन संस्थया  भरतस्य प्रमुखान् नेतृन् संस्थाः च निरीक्षन्ते  इत्यस्ति नूतनम् आवेदनम्। सहस्राधिकाः व्यक्तयः संस्थाः च तेषां दृष्टिपथे सन्ति।  'षेन् हाई डाट्टा इन्फोर्मेषन् टेक्नोलजी'  इति भवति सा संस्था।  आवेदनमिदम् इन्ट्यन् एक्स्प्रस् पत्रिकया प्रकाशितम् । प्रधानमन्त्री नरेन्द्रमोदी,  राष्ट्रपति रामनाथ कोविन्दः  विविधकेन्द्रमन्त्रिणः संयुक्तसेनाधिपः मुख्यन्यायाधिपः राज्यस्य मुख्यमन्त्रिणः  विपक्षदलनेत्री सोणियागान्धी तेषां कुटुम्बाङ्गाः च निरीक्षितानां गणे सन्ति।

 आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय जीवनं प्रत्यानेतुं सैन्यैः यत्नः समारब्धः।

   श्रीनगरम्> आतङ्कवादेषु आकृष्टान् यूनः प्रत्यभिज्ञाय समाजस्य मुख्यधारां प्रत्यानेतुं सैन्यैः यत्नः समारब्धः। सङ्घर्षेण हतानां गृहीतानां च प्रादेशिकानां आतङ्किनां दूरवाणीतः विवरणानि सङ्गृह्य तान् प्रत्यभिजानन्ति। अनन्तरं  मनःपरिवर्तनोपदेशैः प्रत्यानेतुं यत्नः प्रचालयिष्यते। यथाकालं दीयमानेन हृदयोपदेशेन यूनः प्रत्यागन्तुं शक्यते इति लफ्. जनरल् बि एस् राजुः अवदत्।

 जनसभासम्मेलनाय अद्य शुभारम्भः। 

मेलनं स्वास्थ्य-सुरक्षानियमान् परिपाल्य। 

   नवदिल्ली> भारतजनसभायाः वर्षाकालसम्मेलनम् अद्य प्रारभते। कोविड्रोगव्यापनकालं परिगणय्य कर्कशाः स्वास्थ्य सुरक्षानियमाः परिपाल्यन्ते। ओक्टोबरमासपर्यन्तमेव मेलनं निर्णीतम्। 

   १७तमलोकसभायाः चतुर्थं तथा राज्यसभायाः २५२तमं  मेलनं च भवत्येतत्। प्रथमे दिने अस्मिन् लोकसभा प्रातः नववादनतः ११ पर्यन्तं , राज्यसभा मध्याह्नात्परं त्रिवादनतः सायं सप्तवादनपर्यन्तं च मेलिष्यति।

Sunday, September 13, 2020

 अप्रत्यक्षाः भारतीयाः युवकाः चीनेन प्रत्यर्पिताः। 

    इट्टानगरम्> अरुणाचलप्रदेशात् अस्य मासस्य द्वितीये दिनाङ्के अदृश्यं गतान् पञ्च युवकान् चीनसेना गतदिने भारतं प्रतिसमार्पयत्। मृगयाविनोदाभ्यन्तरे सीमामुल्लङ्घितवन्तः अरुणाचल-प्रदेशीयाः युवकाः चीनसैन्येन निगृहीताः आसन्। अरुणाचलप्रदेशस्थे अञ्चावु जनपदे दमा नामके स्थाने आसीत् प्रत्यर्पणकार्यक्रमः।

 तालिबानफ्खानशान्तिचर्चा खत्तरे समारब्धा। 

     दोहा>  अफ्खाने दशकैः संवत्सरैः यावत् अनुवर्तमानस्य संघर्षस्य परिसमाप्तये सर्वकारः तालिबानेन सह चर्चा खत्तरराष्ट्रे समारब्धा। फेब्रुवरिमासे कृतस्य यू एस् तालिबानयोः सुरक्षासन्धेः अनुबन्धतया मार्च्मासे आरम्भणीया शान्तिचर्चा एव कतिपयमासेभ्यः परं गतदिने आरब्धा। 

  तालिबानस्य अफ्खानिस्थानस्य च सर्वकारीयप्रतिनिधिभिः साक्षात्क्रियमाणः प्रथमः संवादः भवत्येषः। अफ्खानसर्वकारः अमेरिक्कायाः क्रीडनीयकमित्यारोप्य तालिबानः चर्चायै सन्नद्धो नासीत्। संवत्सरदशकात् परं दीर्घितस्य संघर्षस्य शान्तियुक्तः शाश्वतपरिहार एव लक्ष्यम्।

Saturday, September 12, 2020

 केरले कोविड्बाधिताः लक्षमतीताः।

 द्वौ मन्त्रिणौ रोगबाधितौ। 

   अनन्तपुरी>  केरले ह्यः २९८८ जनेषु कोविड्बाधितेषु रोगबाधितानामशेषसंख्या १,०२,२५४ जाता। ७२,५७४ जनाः रोगमुक्तिं प्राप्ताः। रोगमुक्तेः प्रतिशतता ७३.११ अस्ति। आहत्य ४१० मरणानि अभवन्। 

  केरलस्य द्वौ मन्त्रिणौ कोविड्बाधितौ अभवताम्।  वित्तमन्त्री डो. तोमस् ऐसकः सप्ताहात्पूर्वं रोगबाधया चिकित्सायां वर्तते। उद्योगमन्त्री ई पि जयराजः अपि गतदिने कोविड्रोगयुक्तः अभवत्। द्वयोरपि स्वास्थ्यावस्था शुभोदर्का वर्तते।

 स्वामि अग्निवेशः दिवंगतः। 


    नवदिल्ली>  भ्रष्टाचारान् राजनैतिकनेतॄणां दुश्शासनानि च विरुध्य सधीरं युद्धं कुर्वन् सामाजिकप्रवर्तकः तथा आर्यसमाजस्य नेतृवर्यः स्वामि अग्निवेशः [८०] दिवंगतः। यकृद्रोगबाधया नवदिल्लीस्थे Institute of Lever and Biliary नामके आतुरालये चिकित्सार्थं प्रवेशितः आसीत्। ह्यः सायं षट्वादने मरणमभवत्। 

  १९३९ सेप्टम्बर् २१ तमे आन्ध्रप्रदेशस्थे ब्राह्मणपरिवारे जन्म लेभे। पूर्वीयाश्रमे तस्य नाम वेप श्यामरावु इत्यासीत्। १९६८ तमे वर्षे आर्यसमाजस्य निश्शेषकालप्रवर्तकः अभवत्। 

  भारते सर्वत्र सञ्चरन् भ्रष्टाचारं तथा शासकानां कुशासनं च विरुध्य लोकानुदबोधयत्। अण्णाहसारे वर्यस्य भ्रष्टाचारविरुद्धान्दोलने, प्लाच्चिमटा , कूटंकुलम् इत्यादिषु जनकीयान्दोलनेषु च तस्य योगदानं निस्तुलमासीत्।

Friday, September 11, 2020

 जयपुरप्रान्ते तन्त्रांशमाध्यमेन बालकेन्द्रम् आयोजितम्

    जयपुरम्> राजस्थानस्य जयपुरप्रान्ते गृहसंरोधकाले तंत्रांशमाध्यमेन दशदिवसात्मकं बालकेन्द्रशिबिरम् आयोजितम्। अगस्तमासे ऑनलाइनमाध्यमेन वर्गस्य आयोजनं जातम्। बालकेन्द्रे पञ्चविंशति: बालका: भागं गृहीत्वा संस्कृतभाषायाः रसास्वादनमकुर्वन्। २७ अगस्तत: ५ सितम्बरपर्यन्त संचाल्यमाने बालकेन्द्रे २५ बालकाः बालिका: च भागं गृहीतवन्तः। अस्मिन् वर्गे न केवलं जयपुरस्थ अपितु भारतस्य विभिन्येभ्य: राज्येभ्य: अपि संस्कृतप्रेमिका: बालका: बालिका: चासन्। सर्वे शिविरार्थीनः गृहे उपविश्य संस्कृत-सम्भाषणस्य सम्यक् अभ्यासं कृतवन्तः। पिपिटि द्वारा चित्रफलकानि निर्माय संभाषणबिन्दुनाम् पाठनम् अभ्यासञ्च कृतम्। एतस्य वर्गस्य मार्गदर्शक: प्रांतसह-मंत्री श्रीचन्द्रशेखरदाधीच: शिक्षकश्च दीपकः शास्त्री आसीत्। प्रतिदिनं शिविरस्य अन्तिमेषु ५ निमेषेषु संस्कृतगीतस्य अभ्यासम् अपि कृतवन्त:। वर्गस्य उद्घाटनसमारोहे अतिथिरूपेण जयपुरप्रांतस्य प्रांतमन्त्री: श्रीपवनव्यासमहोदय: आसीत्। महोदयेन कार्यक्रमे बालकेन्द्रस्य उद्देश्यविषये उक्तम् बाला: च कथं संस्कृतस्य प्रचारं-प्रसारं कर्तुं शक्नुवन्ति एतत् सर्वं ज्ञापितम्।

भारते कोविड्मरणानि भूरिशः पञ्चसु राज्येषु; बाधा तु नवसु राज्येषु।

      नवदिल्ली>  राष्ट्रे सम्प्रति वर्तमानेषु कोविड्बाधितेषु ७४% नवसु राज्येषु विद्यते इति केन्द्रस्वास्थ्यमन्त्रालयः। संभाव्यमानेषु मरणेषु ६८% महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, दिल्ली, आन्ध्रप्रदेशः इत्येतेषु पञ्चसु राज्येषु विद्यते च। रोगव्यापः महाराष्ट्रं, तमिल्नाट्, कर्णाटकं, आन्ध्रप्रदेशः, तेलुङ्कानं, असमः, ओडीष, छत्तीसगढः उत्तरप्रदेशः इत्येतेषु नवसु राज्येषु इति मन्त्रालयस्य आवेदने सूचितम्। 

  भारते कोविड्बाधितानां संख्या सार्धपञ्चचत्वारिंशल्लक्षमुपगच्छति। मरणानि ७६,११५ जातानि।

Thursday, September 10, 2020

 सङ्घर्षभरिता चीनभारतसीमा।


   नवदिल्ली> षि चूल् मण्डले चीनस्य  निवेशः उपषट्सहस्रं  सैनिकाः सीमनि निविष्टाः। चीनभारतयोर्मध्ये सन्धिचर्चायां प्रचाल्यमानायां सन्दर्भे भवति अयं दुर्निवेशः इति श्रद्धेयः अंशः। पूर्वकालीनचरिते अपि चीनः एतावत् कुकर्मणा वञ्चितवान्।  इदानीं फिङ्कर् चत्वारि इति प्रदेशे उभयोः सेने समीपे तिष्टन्तौ स्थः।

Wednesday, September 9, 2020

 चीनसीमायां सङ्घर्षः रूक्षः।

४५ संवत्सराभ्यन्तरे प्रथमतया भुशुण्डिप्रयोगः।

     नवदिल्ली>  पूर्वलडाके चीनभारतयोर्मध्ये सीमनि यथातथनियन्त्रणरेखायां सर्वत्र सङ्घर्षः मूर्च्छति। सेप्तम्बरमासस्य सप्तमे दिने भारतस्य अग्रिम-सैनिकशिबिरेषु अन्यतमम् उल्लङ्घितुम् उद्युक्तः चीनासैनिकसङ्घः आकाशं प्रति भुषुण्डिप्रयोगमकरोदिति भारतसैन्येन पत्रलेखद्वारा निगदितम्। १९७५ तमसंवत्सरात्परं प्रथममेव सीमायां भुशुण्डिप्रयोगः कृतः। 

    स्थितिः रूक्ष इति भारतस्य विदेशकार्यमन्त्रिणा जयशङ्करेणोक्तम्। सीमायां शान्तिं सुखं च दृढीकर्तुं न शक्यते चेत् अन्येषु प्रकरणेषु च राष्ट्रस्य प्रतिकरणं तादृशरीत्या भवेदिति तेन निगदितम्।

Tuesday, September 8, 2020

 केरलतीरे समुद्रे प्रचण्डवातः - तिस्रः नौकाः भग्नाः। 

     कोष़िक्कोट्>  रविवासरे रात्रौ प्रचण्डवातेन दुरापन्नेन समुद्रविक्षोभेन केरलतटे तिस्रः मत्स्यबन्धननौकाः भग्नाः जाताः। कस्यापि जीवहानिः नाभवत्। १६ होराः यावत् समुद्रे निपतिताः १३ धीवराः साहसिकतया रक्षिताः। 

  पोन्नानी, आलप्पुष़ा कन्याकुमारी प्रदेशेभ्यः अरबसमुद्रे मत्स्यबन्धनार्थं प्राप्ताः यन्त्रनौकाः  केरलतीरात् ६ 'नोटिकल् मैल्' दूरपरिमिते स्थाने दुर्घटनापतिताः आसन्। समुद्रविक्षोभेन नोकाः विशीर्णाः। धीवराः विशीर्णान् नौकावशिष्टानाश्रित्य १६ होराः यावत् अलक्ष्यतया समुद्रे अटन्तः आसन्। 

  नाविकसेना, तटसंरक्षणसेना, मत्स्यबन्धनविभागः, तीरारक्षकविभागः इत्याद्यः संस्थाः धीवराणां साह्येन अतिप्रयत्नं कृत्वा एव दुर्घटनापन्नानां रक्षामकुर्वन्।

Monday, September 7, 2020

 भारतराष्ट्रे मेट्रो रेल्यानसेवाम् अद्य आरभते। 

कोच्ची मेट्रोयानस्य नूतनवीथी अद्यैव उद्घाट्यते। 

   कोच्ची>  पिधाननिवर्तनस्य चतुर्थसोपानस्य अंशतया भारतस्य मेट्रो रेल् यानसेवाम् अद्य आरभते। दिल्ली चेन्नै कोच्ची इत्याद्यः सेवाः कोविड्नियमान् परिपाल्य एव आरभ्यन्ते। 

  केरले कोच्ची मेट्रो तस्य नूतनयात्रायै सिद्धमस्ति। इतःपर्यन्तं 'तैक्कूटं' निस्थाने सेवां समाप्तवत् मेट्रो यानं अद्य आरभ्य 'पेट्टा' निस्थानपर्यन्तं सेवां करोति। आलुवातः पेट्टा पर्यन्तमिति कोच्ची मेट्रो रेल्यानसंस्थायाः प्रथमसोपानस्य सम्पूर्तीकरणमेव अद्य साक्षात्क्रियते। 

  अद्य मध्याह्ने १२.३० वादने केरलस्य मुख्यमन्त्री पिणरायि विजयः नूतनं मेट्रोवीथिम् उद्घाटयिष्यति। कोविड्भीत्या सर्वे कार्यक्रमाः वीडियोसम्मेलनद्वारा एव भविष्यति। केन्द्रमन्त्री हर्दीपसिंह पुरी समारोहे अध्ययनक्षपदमलंकरिष्यति च।

  कोविड्नियमाननुसृत्य एव कोच्ची मेट्रोयानस्य सेवा पुनरारभ्यते। आलुवातः पेट्टापर्यन्तं २५.१६ कि मी दूरमस्ति। अस्याः सेवायाः अनुबन्धरूपेण निश्चितस्य तृप्पूणित्तुरापर्यन्तस्य मेट्रोमार्गस्य निर्माणस्य उद्घाटनमपि अद्य सम्पत्स्यते।

Sunday, September 6, 2020

 डा. एस् राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः अनुष्ठेयानि - कटन्नप्पल्लि रामचन्द्रः। 

कटन्नप्पल्लि राम चन्द्रः (केरल मन्त्री )

       कोच्ची>  भारतस्य प्रथमोपराष्ट्रपतेः डो. सर्वेप्पल्लि राधाकृष्णस्य जीवनमूल्यानि शिक्षकैः सर्वदा सर्वथा अनुष्ठेयानीति केरलस्य नौकाशय-पुराणवस्तुविभागमन्त्री कटन्नप्पल्लि रामचन्द्रः उक्तवान्। केरल संस्कृताध्यापकफेडरेशन् नामकेन संघटनेन आयोजिते राज्यस्तरीयाध्यापकदिनोत्सवस्य उद्घाटनं ओण् लेन् द्वारा कुर्वन् भाषमाणः आसीत् मन्त्रिवर्यः। कस्याश्चनापि भाषायाः जाति घर्मादि भेदचिन्ताः न सन्ति। संस्कृतभाषायास्तु सार्वलौकिकत्वं वक्तुमर्हति। अत एव संस्कृतशिक्षकाः संस्कृतपण्डितस्य डो. राधाकृष्णस्य जीवनमूल्यानि स्वजीवने अध्यापने च अनुष्ठेतुमर्हन्ति - मन्त्रिणा प्रस्तुतम्। 

  समारोहे संघटनस्य राज्यस्तरीयाध्यक्षः पि पद्मनाभः अध्यक्षतामवहत्। टि के सन्तोष्कुमारः शिक्षकदिनसन्देशं दत्तवान्। मुख्यकार्यदर्शी सि पि सनल् चन्द्रः , पि जि अजित्प्रसादः, एस् रविकुमारः इत्यादयः भाषणम् कृतवन्तः।

Saturday, September 5, 2020

 कोविड् प्रतिरोधौषधं - २०२१तमस्य अर्धकालं यावत् प्रतीक्षा करणीया। 

जनीवा >  विश्वस्मिन् सर्वत्र कोविडं विरुध्य प्रत्यौषधं प्रावर्तिकं करणीयं चेत् आगामिसंवत्सरस्य अर्धकालं यावत् प्रतीक्ष्यमाणाः वर्तनीयाः इति विश्वस्वास्थ्यसंघटनेन सूचितम्। ततः पूर्वं सम्पूर्णा प्रत्यौषधव्यवस्था असम्भव्या। परीक्षणनिरीक्षणानि कर्कशानि करणीयानीति WHO संस्थया जाग्रतासूचना दीयते। 

  रूस् राष्ट्रे द्विमासाभ्यन्तरे साक्षात्कृताय प्रतिरोधौषधाय सर्वकारेण अङ्गीकारः दत्त आसीत्। यू एस् राष्ट्रे अपि नवम्बरमासे प्रत्यौषधव्यवस्थामारब्धुं राज्यानि निर्दिष्टानि च आसन्। अस्यां भूमिकायामेव जनीवायामायोजिते अवलोकनोपवेशने WHO वक्त्री मार्गरट् हारिस् इत्यनया पूर्वोक्तं प्रस्तुतम्।

 भारत-चीनरक्षामन्त्रिणोः अभिमुखं सम्पन्नम्। 

   मोस्को>  पूर्वलडाके भारतचीनयोः संघर्षे वर्तिते, उभयोरपि राष्ट्रयोः रक्षामन्त्रिणौ रूस् राजनगर्यां मोस्कोमध्ये अभिमुखं कृतवन्तौ। भारतस्य रक्षामन्त्री राजनाथसिंहः चीनस्य रक्षामन्त्री वेयी फेन्गे इत्येतयोः उपवेशने भारतस्य रक्षासचिवः अजयकुमारः , रूसे भारतस्य स्थानपतिः डि बी वेङ्कटेशवर्मा इत्येते अपि सन्निहिताः आसन्। 

  मेय् मासे पूर्वलडाके संघर्षानन्तरं इदंप्रथममेव उभयोरपि राष्ट्रयोः मन्त्रितलमेलनं सम्पन्नम्।

Friday, September 4, 2020

शिक्षकदिनम् NEP च

संस्कृतप्रेमिणां पुरतः पत्रमिदं प्रकाश्यते। 

पत्रं पठामः -

संस्कृतस्य प्रसाराय नैजं सर्वं ददाम्यहम्।

प्रणमामि,

 सप्टेम्बरमासस्य ५ दिनाङ्के शनिवासरे 'शिक्षकदिनम्' इति आचर्यते। सः दिवसः प्रचाराभियानदिनम् इति वयम् आचरामः इति निश्चितम् अस्ति।

 संस्कृतसंवर्धने शिक्षकस्य महत्त्वम् अत्यधिकमस्ति। किञ्च संस्कृतं शिक्षकाधीनमेव अस्ति। बहूनां शिक्षकाणां तपसा एतावन्ति सङ्कटानि सम्मुखीकृत्य संस्कृतविद्या वर्तमानकाले अपि प्रासङ्गिकी अस्ति।

 नूतनशिक्षणनीत्यां संस्कृतविद्यायाः न केवलं समर्थनम् अपि तु तस्याः संवर्धनार्थं बलं प्रदत्तमस्ति। 

संस्कृतस्य उल्लेखः आधुनिकभाषा (N.E.P. - 4.17) इति तत्र कृतः अस्ति। भारतीयज्ञानविज्ञानपरम्परायाः उल्लेखः Sanskrit Knowledge System (N.E.P. - 4.17) इति कृतः अस्ति।

संस्कृतस्य शिक्षणम् आकर्षकं मनोरञ्जकं च भवेत्, संस्कृतमाध्यमेन भवेत्, (N.E.P. - 4.17) सरलमानकसंस्कृतस्य आधारेण भवेत् (N.E.P. - 4.17) इति महत्त्वपूर्णाः सूचनाः तत्र विद्यन्ते।

 संस्कृतपाठशालाः, संस्कृतविश्वविद्यालयाः च शिक्षणस्य मुख्यधारायां भवेयुः (N.E.P. - 22.15)  इति अपि कश्चन महत्त्वपूर्णः बिन्दुः।

अधुना interdisciplinary  (N.E.P. - 22.15)शिक्षणं भविष्यति। अतः विज्ञानच्छात्राः, अर्थशास्त्रच्छात्राः, ललितकलाच्छात्राः अपि संस्कृतं पठितुम् अर्हन्ति। संस्कृतग्रन्थानाम् अध्ययनेन  शास्त्रग्रन्थानाम् आधुनिके सन्दर्भे गवेषणं भविष्यति।

 हस्तलिखितानां संरक्षणम् अध्ययनं (N.E.P. - 22.16) चेति विषये अपि नूतनशिक्षणनीत्याम् आग्रहः दृश्यते।

 भारतीयसंस्कृतेः मूल्यसमुच्चयबोधस्य च  परिचयार्थं संस्कृतभाषा आधारभूता एव।

 भारतीयभाषाणां संवर्धनार्थं (N.E.P. - 22.20)संस्कृतभाषायाः साहाय्यं भविष्यति इति तु सर्वे जानन्ति एव।

अतः संस्कृतशिक्षकाणां भूमिका आगामिकाले महत्त्वपूर्णा भविष्यति। एतं विषयम् अधिकृत्य शिक्षकदिने सर्वे कार्यकर्तारः प्रचारं कुर्युः। अन्यान् प्राध्यापकशिक्षकान् संस्कृतप्रेमीः च प्रेरयन्तु। सर्वे वृत्तपत्रेषु, समाजमाध्यमेषु च लिखन्तु। 

 इति शम्। 

 भवदीयः,

 शिरीषः भेडसगावकरः (अ. भा. प्रचारप्रमुखः संस्कृतभारती)

From WhatsApp

 भारते कोविड्रोगिणः ३९लक्षमतीताः ; आशङ्का न विनिवर्तते। 

    नवदिल्ली >  कोविडवलोकने भारतस्य स्थितिः आशङ्काजनका वर्तते। अद्यावधि ३९ लक्षं जनेषु कोविड्रोगः दृढीकृत इति केन्द्रीय स्वास्थ्यमन्त्रालयस्य अवलोकने स्पष्टीक्रियते। 

  गतासु २४ होरासु ८३,३४१ नूतनानि कोविड्प्रकरणानि आवेदितानि। मरणानि तु १०९६ च। आगामिदिनेषु एषा संख्या वर्धिष्यते इति सूचितं वर्तते। 

  महाराष्ट्रे एव विषाणुबाधिताः अधिकतमाः वर्तन्ते| कोविड्स्थिरीकरणप्रतिशतता अपि अत्रैव दृश्यते - १९.२५%। राष्ट्रियप्रतिशतता तु ८.४७ भवति। चण्डीगढ़ [१४.९] , कर्णाटकं [११.८४] दिल्ली [१०.९७] इत्येतेषु राज्येषु दृढीकरणप्रतिशतता देशीयमानमपेक्ष्य अधिकतया वर्तते। 

  महाराष्ट्रं , तमिळनाट् ,आन्ध्रप्रदेश, कर्णाटकम्, उत्तरप्रदेशः इत्येषु पञ्चसु राज्येषु रोगव्यापनमतिरूक्षं वर्तते इति स्वास्थ्यमन्त्रालयस्य विशकलनरेखायां सूचितमस्ति।

 पांगोङ् गिरिषु भारतस्य अधीशत्वम्। 

    नवदिल्ली>  चीनसीमायां पांगोङ् तटाकस्य दक्षिणपार्श्वस्थानि गिरिनिकराणि उल्लङ्घितुं चीनराष्ट्रस्य उद्यमः भारतेन प्रतिरुद्धः।  चीनसेनाम् अपाकृत्य षट् सप्त वा तन्त्रप्रधानेषु गिरिनिकरेषु भारतेन अधीशत्वं प्राप्तम्। 

  सीमासङ्घर्षं लघूकर्तुं ह्य अपि अनुस्यूततया चतुर्थदिनचर्चा प्रवृत्ता अपि चीनस्य कार्कश्येन सफलता नाप्ता। 

  सीमायां अवस्थाविशकलनाय स्थलसेनाध्यक्षः जन. एम् एम् नर्वाणे गुरुवासरे 'ले' प्राप्तः। व्योमसेनामुख्यः आर् के एस् भदौरियः अपि पूर्व 'एयर् कमान्ड्' स्थानस्य विविधप्रदेशेशानां सैनिकसंविधानस्य विशकलनं कृतवान्।

Thursday, September 3, 2020

 भारत-चीनसीमायां युद्धसमाना जाग्रता। 

भारतीयसैनिकाः मृता इति अस्थिरीकृतसूचना। 

   नवदिल्ली>  पूर्वलडाके पांगोङ् तटाकस्य दक्षिणभागे वर्तमानानि तन्त्रप्रधानानि पर्वतस्थानानि सङ्ग्रहीतुं चीनराष्ट्रस्य उत्साहमभिज्ञाय भारत-चीनसीमायां युद्धसमाना जाग्रता। गतदिने संवृत्ता उभयोः राष्ट्रयोः ब्रिगेड कमान्डर्स्तरचर्चा सफलातां  नाप। अनुस्यूततया तृतीयवारमेव चर्चा विफलतां प्राप्ता। 

  शनि रवि वासरद्वये पांगोङ् चुषूलप्रान्तेषु चीनसैन्येन कृते प्रकोपनपदक्षेपे निरुद्धे भारतस्य सविशेषसेनान्तर्भूताः टिबट्टीयसैनिकाः मृता इति अन्ताराष्ट्रवार्ताप्रणालिकया ए एफ् पि इत्यनया सूचितमासीत्। किन्तु एतस्य आधिकारिकं स्थिरीकरणं न लब्धम्। 

  सीमासु सर्वत्र सेनाबलं संवर्धयितुं रक्षामन्त्रिणः राजनाथसिंहस्य अध्यक्षतायां सम्पन्ने उन्नततलोपवेशने निर्णयः कृतः।

 "पब्जिम्" अभिव्याप्य ११८ चीनीय विधानानि भारतेन निरुद्धानि। 

    नवदिल्ली>  भारत-चीनासीम्नि युद्धसमानजाग्रतायां वर्तमानायां ११८ चीनीयानि विधानानि (Apps) केन्द्रसर्वकारेण निरुद्धानि। निरुद्धेषु पब्जी, कां कार्ड, बेय्डु, कट् कट्, ट्रान्सेन्ड् इत्यादीनि  जनप्रियानि क्रीडापिधानानि च अन्तर्भवन्ति। 

  भारत चीनासीमायां संघर्षः पूर्वाधिकं वर्तते। अतः 'भारतीय ऐ टि नियमस्य' ६९-ए अनुच्छेदानुसारं राष्ट्रसुरक्षामालक्ष्य एवायं पदक्षेपः। राष्ट्रस्य परमाधिकारस्य ऐक्यस्य सुरक्षायाः च विरोधे एतानि विधानानि प्रवर्तितानीति सर्वकारेण बहिर्नीतायां वार्तासूचनायां प्रस्तुतमस्ति।

Wednesday, September 2, 2020

 प्रणबाय विश्वनेतॄणां समादरः। 

    नवदिल्ली>  भारतस्य भूतपूर्वराष्ट्रपतेः प्रणबमुखर्जेः निर्याणे बहवः राष्ट्रनेतारः समादरं समर्पितवन्तः। १९७१ तमवर्षे बङ्लादेशविमोचनयुद्धे प्रणबस्य अविस्मरणीयं सुधीरं च भागभागित्वं सुस्मृत्वा देशस्य राष्ट्रपतिः अब्दुल् हमीदः प्रधानमन्त्रिणी षेख् हसीना च प्रणबस्य वियोगे अनुशोचितवन्तौ। राष्ट्रे एकदिवसीयदुःखाचरणं प्रख्यापितम्।  बङ्लादेशस्य राष्ट्रपताकां दिनैकं विनम्रं करिष्यति च। 

  नेप्पालाय यथाथमित्रस्य नष्ट एवाभवदिति राष्ट्रपतिः बिदिया देविभण्डारिः 'ट्विटर'द्वारा स्वीयादरं प्रकाशितवान्। प्रधानमन्त्री के पि शर्मा ओली, नेप्पालस्य कम्यूणिस्ट् राजनैतिकदलस्य अध्यक्षः पुष्पकमल दहल प्रचण्डः च स्वकीयानुशोचनं प्राकाशयत्। 

 तथा श्रीलङ्का, इस्रयेलः, रूस्, यू एस् अफ्खानिस्थानं, मालिद्वीपः इत्यादीनां राष्ट्राणां नेतारश्च प्रणब मुखर्जी वर्यस्य देहवियोगे दुःखं प्रकाश्य आदरं समर्पितवन्तः।

 प्रणबस्य अन्त्येष्टिः संवृत्ता। 

     नवदिल्ली>  गतदिने दिवंगतस्य भूतपूर्वस्य राष्ट्रपतेः प्रणब् मुखर्जी वर्यस्य अन्येष्टिः कुजवासरे मध्याह्नात्परं द्विवादने दिल्ल्यां लोधिमार्गे विद्युत्श्मशाने सम्पूर्णौद्योगिकबहुमतिभिः सम्वृत्ता। 

  कोविड्नियमाननुसृत्य आसीत् कार्यक्रमाः। 'पि पि ई' आवरणं धृत्वा पुत्रः अभिजितः अन्त्यकर्माणि निरवहत्। अन्ये अपत्ये इन्द्रजितः शर्मिष्ठा इत्येते च  कर्मसु भागं अग्रहीताम्। 

 कोविड्बाधया दिल्लीस्थे सैनिकातुरालये चिकित्सायां वर्तितः प्रणब मुखर्जी  सोमवासरे ५.३० वादने  इहलोकवासं त्यक्तवान्। ह्यः प्रभाते १० वादने तस्य भौतिकशरीरं  राजाजिमार्गस्थं स्ववासगृहं प्राप्तम्। सामाजिकदर्शनं नासीत्। तत्स्थाने प्रकोष्ठान्तरे स्थापितस्य तस्य छायाचित्रस्य पुरतः राष्ट्रपतिः , उपराष्ट्रपतिः, प्रधानमन्त्री, राहुल गान्धी इत्यादयः अन्याञ्जलिं समर्पितवन्तः।

 नियन्त्रणानां निष्कासनेन गुरुतरः प्रत्याघातः भविष्यति -WHO

      जनीव> कोविड्१९ व्यापनं रोद्धुं प्रचाल्यमानात् सुरक्षाबन्धनात् विमुक्तिमुद्दिश्य राष्ट्रैः क्रियमाणानि प्रवर्तनानि आपत्कराणि इति विश्वस्वास्थ्य-संस्थया पूर्वसूचना दत्ता। वैराणुः इतः पर्यन्तं नियन्त्रणातीतः भवति। अत एव नियन्त्रण निवारणं अवश्यकं वा इति सम्यक् पर्यालोचयतु इति संस्थायाः निर्देशकेन टेड्रोस्  अथनो गब्रियेसूस् इत्याख्येन निर्दिष्टानि।