OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 31, 2021

 भारते कोविड्रोगिणः आकुञ्चन्ति। 

नवदिल्ली> राष्ट्रे कोविड्बाधितानां  प्रतिदिनसंख्या आकुञ्चतीति स्वास्थ्यमन्त्रालयेन निगदितम्। गतदिने समाप्तासु २४ होरासु रोगबाधिताः १,६५,५५३ आसन्। ४६ दिनान्यनन्तरं भूयमाना न्यूनातिन्यूना संख्या एषा। 

   प्रतिदिनरोगस्थिरीकरणमितिस्तु ८.०२ प्रतिशतमिति कुञ्चितम्।अनुस्यूततया पञ्चदिनेषु १०प्रतिशतस्य अधः दृढीकरणमितिः वर्तते। ह्यः ३४६० जनाः मृत्युमुपगताः। आहत्य मृत्युसंख्या ३,२५,९७२ जाता।

 वियन्नाराष्ट्रे अतिविनाशकारी नूतनकोविड्विभेदः आवेदितः।

 एषः वायुद्वारा शीघ्रं प्रसरिष्यति।

 हनोय्> वियन्नाराष्ट्रे अतिविनाशकारी शीघ्रव्यापनकोविड्विभेदः आवेदितः। प्रथमदृष्ट्या द्वयोः विभेदयोः सङ्करविभागः एव आवेदितः। वियन्ना राष्ट्रे अधुना रोगबाधितानां संख्या प्रतिक्षणं वर्धमाना दृश्यते। कोविड्वैराणोः भारतस्य तथा यू .के भेदस्य सङ्करविभागः एव नूतनतया प्रसरति इति वियन्नस्य स्वास्थ्यमन्त्रिणा गुयन् तङ् लोङेन निगदितम्। अतिशीघ्रव्यापनशाली नूतनविभेदः वायुद्वारा शीघ्रं प्रसरिष्यति इति तेन पूर्वसूचना दत्ता।

इतः पर्यन्तं वियन्नाराष्ट्रे केवलं ६८५६ जनाः एव रोगबाधिताः। ४७ जनाः हताः च। गतवर्षापेक्षया नूतनरोगबाधितानां संख्या अनुक्षणं वर्धते।

Sunday, May 30, 2021

 संस्कृताध्यापकसंघटनस्य राज्यसचिवमुख्यः कोविड्बाधया मृतः।

कोल्लम्> 'केरलसंस्कृताध्यापकफेडरेषन्' (KSTF) इति शिक्षकसेवासंघटनस्य राज्यसचिवमुख्यः [General Secretary] पि जि अजित् प्रसादः [४९] कोविड्रोगबाधया मृतः। सप्ताहैकं यावत् कोल्लं नगरस्थे निजीयातुरालये परिचर्यायामासीत्। कोल्लं जनपदे एष़ुकोण् प्रदेशीयः सः कुलत्तूप्पुष़ा सर्वकारीयोच्चतर-विद्यालये अध्यापकः अस्ति। 

संघटनमण्डले विशिष्टतरः व्यक्तिविशेषः

   शिक्षकसेवासंघटनमण्डले श्रेष्ठतरं व्यक्तित्वमासीत् मृत्युमुपगतः अजित्प्रसादः। द्वादशसंवत्सराधिकेन कालेन सः KSTF संघटने अध्यक्ष - सचिवमुख्यरूपेण अध्यापकवृन्दस्य योगक्षेमाय अश्रान्तपरिश्रमं कुर्वन्नासीत्। भारते प्रप्रथमतया केरलराज्ये अस्ति प्रथमकक्ष्यातः संस्कृताध्ययनमारब्धम्। तदर्थम् आयोजितेषु आन्दोलनेषु ऊर्जप्रदाता अग्रगामी वीरयोद्धा आसीत् अजितप्रसादः। केरलस्य संस्कृतशिक्षकाणां सेवासम्बन्धसमस्याः एतस्य पदन्यासेनैव परिहृताः जाताः। केरले प्रवर्तमानस्य भाषा अध्यापक ऐक्यवेदी इत्यस्य संयोजकः अप्यस्त्येषः। 

   अजितप्रसादस्य पुत्री समीक्षा नामिका बालिका 'प्रथमकक्ष्यातः संस्कृताध्ययनम्' इति प्रकरणे बालाधिकारायोगात् अनुकूलविधिं सम्पाद्य जनप्रीतिं लब्धवती च।

 कोविडेन अनाथीकृतेभ्यः बालकेभ्यः १० लक्षम्। प्रधानमन्त्रिणः साहाय्यम् 

  नवदिल्ली> कोविड्महामार्या मातृ-पितृवियुक्तेभ्यः बालकेभ्यः केन्द्रसर्वकारस्य आर्थिकसाहाय्यं प्रख्यापितम्। अनाथानां बालकानां शिक्षासुविधाः , यदा ते अष्टादशवयस्काः भविष्यन्ति तदा १० लक्षं रूप्यकाणां आर्थिकसाहाय्यं च प्रख्यापितम्। केन्द्रसर्वकारस्य तृतीयवार्षिकाघोषाणाम् अंशतया एवेयम् उद्घोषणा। पि एम् केयर् निधिमुपयुज्य एव इदं साहाय्यं प्रवृत्तिपथमागमिष्यति।

Saturday, May 29, 2021

 कोविडौषधस्य मूल्यं निश्चितम् - ९९० ₹। 

   नवदिल्ली> डि आर् डि ओ संस्थया आविष्कृतस्य कोविड् चिकित्सायामुपयुज्यमानस्य २-डि जि नामकौषधस्य मूल्यं भाण्डाय ९९० रूप्यकाणीति निश्चितमस्ति। केन्द्र-राज्यसर्वकारेभ्यः न्यूनितमूल्येन दास्यतीति डि आर् डि ओ संस्थया निगदितम्।

   जले विलय्य सेव्यमानं चूर्णरूपमिदमौषधम् आपत्कालीनोपयोगाय दातुं अस्य मासस्य आरम्भे भारतीय औषथनियन्त्रणाधिकारिणा अनुज्ञा लब्धा आसीत्।

Friday, May 28, 2021

 नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये वाट्स् आप् माध्यमाय भारतसर्वकारेण प्रतिवचनं दत्तम्। 

   नवदिल्ली> नूतनसूचनाप्रौद्योगिकविद्यायाः मार्गनिर्देशपालनविषये जातस्य नियमस्पर्धायां वाट्स् आप् माध्यमाय प्रतिवचनं दत्वा केन्द्रसर्वकारः। पौराणां गोप्यतासंरक्षणाय सर्वकारः शपथबद्धः भवति। अपि च राष्ट्रे नियमव्यवस्थां पालयित्वा देशसुरक्षापालनमपि सर्वकारस्य उत्तरदायित्वमेव इति केन्द्रसूचनाप्रौद्योगिकविद्यायाः मन्त्रिणा रविशङ्करप्रसादेन उक्तम्। राष्ट्रस्य नियमव्यवस्थानुसारं गोप्यतासंरक्षणा धिकारः केवलं कोऽपि मौलिकावकाशः न। तत् न्यायानुसारं नियन्त्रणविधेयः भवति इति सः न्यवेदयत्। राष्ट्रसुरक्षा, सामान्यनियमाः, तथा विदेशराष्ट्रयोः मिथः सौहृदं इत्यादिषु बाधायुक्तान् विषयान् प्रतिरोद्धुं, बहिरानेतुं कृतापराधीन् दण्डयितुं च सन्देशस्य उद्भवस्थानं प्रकाशयितव्यमस्ति। स्त्रीणां बालकानां च सुरक्षा अस्मिन् अन्तर्भवति। तत् गोप्यतायाः उल्लङ्घनं न भवति इति भारतसर्वकारः स्वाभिमतं प्राकाशयत्।

   भारतसर्वकारस्य मार्गनिर्देशः शासननियमविरुद्धम् तथा उपभोक्तृणां गोपनीयताधिकारशलङ्घनं च भवति इति 'वाट्स् आप् ' सूचयति।

 लडाक् मध्ये इस्रयेलीय- उदग्रछायाग्राही-विन्यासाय भारतम् सज्जम् अभवत्।  चीनायाः सरणं निरीक्ष्यते।

   नवदिल्ली> लडाक् मध्ये यथार्थनियन्त्रणरेखायां इस्रयेलीय हेरोन् उदग्रछायाग्राहीविन्यासाय

 भारतं सज्जमभवत्।  भारतीयसेनायाः निरीक्षणक्षमतायाःशक्तीकरणाय एव उदग्रछायाग्राहिणः सेनायै प्रदास्यन्ते। इत्थं लडाक् मध्ये तथा चीनेन सह येषु प्रदेशेषु सीमां सीमां विभजते तेषु मण्डलेषु अपि चीनस्य प्रवर्तनानि कार्यक्षमतया निरीक्षितुम् भारतस्य अवसरोऽपि लभ्यते। कोविड्१९ महामार्याः कारणेन कालविलम्बो जातः तथापि भारतीयतीरसेनायै विलम्बं विना उदग्रछायाग्राह्यः लप्स्यन्ते इति सर्वकारवृन्दैः निगदितम्। नूतनस्य उदग्रछायाग्राहिणः   प्रतिलोमसम्मर्दक्षमता पुरातनापेक्षया अधिकतया अस्ति।

Wednesday, May 26, 2021

 सुबोधकुमार् जयस्वालः सि बी ऐ अधिकारी।


  नवदिल्ली> सि बि ऐ संस्थायाः मुख्यनिदेशकरूपेण 'महाराष्ट्र केडर्' ऐ पि एस् अधिकारी सुबोधकुमार जयस्वालः नियुक्तः। महाराष्ट्रस्य डि जी पि रूपेण सेवां कृतवान् सः इदानीं सि ऐ एस् एफ् इत्यस्य निदेशकप्रमुखरूपेण कार्यं करोति। 

 प्रधानमन्त्री, सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपः, विपक्षनेता इत्येते निर्णायकाः। तैः अन्तर्भूयमानया समित्या अङ्गीकृतायाम् त्र्यङ्गयुतायां अन्तिमनामावल्यां वरिष्ठः भवति श्रीमान् जयस्वालः।

Tuesday, May 25, 2021

 श्वेतविड्जस्य पश्चात् पीतविड्जम्। प्रथमप्रकरणम् आवेदितम्। तीव्रतरम् इति भिषग्वराः। 


लक्नौ> श्यामविड्जस्य (black fungus) श्वेतविड्जस्य च पश्चात् पीतविड्जम् अपि आवेदितम्। उत्तरप्रदेशे गासियाबादे पञ्चचत्वारिंशत् वयस्कस्य एव प्रथमतया पीतविड्जम् आवेदितम्। सः इदानीं गासियाबादे निजीये आतुरालये परिचर्यायां वर्तते। अपरापेक्षया अतितीव्रतरं भवति पीतविड्जम् इति भिषग्वराः अभिप्रयन्ति। पीतविड्जम् साधारणतया उरगवर्गेषु एव दृश्यते । प्रथमतया एव मनुष्येषु पीतविड्जम् आवेदितम् इति चिकित्सकः ब्रिजिपाल् त्यागी अवदत्। अमितक्लमः,बुभुक्षाराहित्यं,शरीरशोषणम् इत्यादीनि एव रोगलक्षणानि। रोगे मूर्च्छिते आन्तरिकरक्तस्रावःभविष्यति। तदनन्तरफलत्वेन अवयवानि प्रवर्तनरहितानि च भविष्यन्ति।

Monday, May 24, 2021

'यास्' चक्रवातः रूपीकृतः; ओडीषा पश्चिमवंगतीरेषु अतिजागरूकता।

   नवदिल्ली> वंगसमुद्रे सञ्जातः न्यूनमर्दः चक्रवातरूपेण परिवर्तितः। यास् इति कृतनामधेयः चक्रवातः मङ्गलवासरे अतितीव्रतां प्राप्य ओडीषा पश्चिमवंगराज्ययोः तीरं लक्ष्यीकृत्य गमिष्यति। २६ दिनाङ्के पारद्वीप-सागरद्वीपयोर्मध्ये स्थलस्पर्शः भविष्यति।

  चक्रवातस्य प्रभावेन ओडीषा पश्चिमवंगराज्ययोः आन्डमान् निक्कोबारद्वीपेषु केरलस्य मध्यदक्षिणभागेषु च अतिवृष्टिः आरब्धा। प्रधानमन्त्रिणः गृहमंत्रिणः च नेतृत्वे चक्रवातभीषाविधेयानां राज्यानाम्  अधिकारिभिः सह चर्चां कृत्वा रक्षोपायपदक्षेपाः स्वीकृताः।

 

 संस्कृतं किमर्थम् आवश्यकम् ? केन वा सरल-प्रकारेण एतत् शिक्षितुं शक्यते? 

  

 

...    -डॉ.बलदेवानन्द-सागरः
      संस्कृत-विषये कश्चन मां पृच्छति यत् किमर्थं संस्कृतम् आवश्यकम् ? अथवा साम्प्रतम् एकविंशे शताब्दे संस्कृतस्य किं नाम उपयोगित्वम्? तदा अहन्तु इदमेव उत्तरामि यत् यथा जीवनार्थं जलं श्वसनं चावश्यके भवतः तद्वदेव अस्माकं भारतीयानां सनातन-वैदिक-धर्मावलम्बिनां च कृते संस्कृतानुसरणं संस्कृताङ्गीकरणं संस्कृतावलम्बनं चावश्यकम् | Full View

सि बि एस् ई, +२ परीक्षा- अन्तिमनिर्णयाय  प्रधानमन्त्रिणे समर्पितम्।

 नवदिल्ली> सि बि एस् ई, +२ परीक्षायाः प्रचालनम् अधिकृत्य अन्तिमनिर्णयाय उन्नतस्तरसमितियोगेन प्रधानमन्त्रिणे समर्पितम्। छात्राणां भविष्यं गणयित्वा सेप्तम्बर् मासे परीक्षा प्रचालनीया इति उन्नतस्तरयोगेषु विविधराज्यैः अभिप्रैतम्। प्रतिरोध मन्त्रिणः राजनाथसिंहस्य आध्यक्षे एव योगः प्राचलत्।

 परीक्षाप्रचालनाय दिनाङ्कः आगामिवासरे प्रख्यापयिष्यति इति सूचना अस्ति। केवलं प्रधानविषयेषु परीक्षा प्रचालनीया इति निर्देशः अपि योगे अभवत्। छात्राणां वाक्सिनीकरणात् पूर्वं परीक्षा न प्रचालयितव्या इति नवदिल्याः उपमुख्यमन्त्रिणा मनीष् सिसोदिना उक्तम्।

 केरलविधानसभा अद्य आरभते। 

   अनन्तपुरी> केरलविधानसभायाः १५ तमं सम्मेलनम् सोमवासरे आरभते। ५३ सामाजिकाः नूतनाः सन्ति। 

  अद्य सामाजिकानां शपथवाचनं सम्पत्स्यते। कतिपयसदस्याः एकान्तवासं भजन्ति इत्यतः तेषां शपथग्रहणं पश्चात् भविष्यति। परस्परदूरं परिपाल्य परिपाल्य आसनानि सज्जीकृतानि सन्ति। 

  कुजवासरे सभानाथस्य चयनं सम्पत्स्यते। २८ तमे दिनाङ्के राज्यपालः आरिफ् मुहम्मदखानः सर्वकाराय शासननीतिं प्रख्यापयिष्यति। सर्वकारस्य नूतनम् आयव्ययपत्रकं वित्तमन्त्री के एन् बालगोपालः जूण् चतुर्थदिनाङ्के अवतारयिष्यति। जूण् १४ दिनाङ्कपर्यन्तं सभासम्मेलनं निश्चितं तथापि कोविडवस्थां परिचिन्त्य अन्तिमकार्यक्रमेषु निर्णयः भविष्यति।

Sunday, May 23, 2021

 मल्लयुद्धकः सुशील्कुमारः निगृहीतः।

नवदिल्ली> प्रशस्तः मल्लयुद्धक्रीडकः ओलिम्पिक्स् पुरस्कारजेता सुशीलकुमारः अपरस्य मल्लयुद्धक्रीडकस्य हत्याप्रकरणे पञ्चबारक्षकैः निगृहीतः। राष्ट्रिय जूनियर् मल्लयुद्धवीरस्य सागरकूमारस्य हत्याप्रकरणे एव सुशीलकुमारस्य निग्रहणम्। प्रकरणे एतस्य प्रथमदृष्ट्या सम्बन्धः अस्तीति नीतिपीठेन निरीक्षितमासीत्।

  मेय्मासस्य चतुर्थदिनाङ्के आसीत् दिल्लीस्थे छत्रसाल क्रीडाङकणे ताडनेन सागरकुमारस्य अपमृत्युः। दुर्घटनायां अपरौ द्वौ तीव्रेण आहतौ च। एतदनन्तरं सुशीलकुमारः निलीनः आसीत्।

Saturday, May 22, 2021

 गगासायां संग्रामः स्थगितः। इस्रयेल्-हमासयोर्मध्ये युद्धस्थगनं प्रवृत्तिपथम् आगतम्।

 गासानगरम्> इस्रयेल्-पलस्तीन् संधर्षस्य परिसमाप्तिं लक्ष्यीकृत्य  युद्धस्थगनव्यवस्था प्रवृर्तिपथमागता। गतैकादशदिन-संघर्षानन्तरं शुक्रवासरे प्रभाते एव युद्धस्थगननिर्णयः प्रवृत्तिपथमागतः। युद्धस्थगने प्रबलमागते  तत्क्षणमेव गासायां पलस्तीन् नागरिकाः वीथिषु आह्लादप्रकाशनम् अकुर्वन्। वाहनेषु   हॉर्न् नादयित्वा तथा  देवालयात्    'कृतस्य   प्रतिरोधप्रवर्तनस्य  विजयः' इति उद्धोषयित्वा च तैः विजयोत्सवः समारब्धः इति दृश्यते। 'सविशेषविजयो लब्धः' इति इस्रयेल् प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहुना अभिप्रैतम्। हमासस्य आतङ्कप्रवर्तनानि लोकसमक्षं इदानीं सुव्यक्तान्यभवन्  इति तेन आवेदितम्।

 भारते कोविड् - व्यापनं न्यूनं; मृत्युमानं वर्धते। 

   नवदिल्ली> भारते कोविड्व्यापनमानं न्यूनीकरोति। गतदिने २,५९,५९१ जनाः कोविड्बाधिताः अभवन्। किन्तु मृत्युमानम् उच्चस्थं वर्तते। ह्यः ४,२०९ रोगिणः मृत्युमुपगताः। 

  राष्ट्रे अद्यावधि २,६०,३१,९९१ जनाः कोविड्बाधिताः जाताः। एषु २,२७,१२,७३५ रोगमुक्ताः अभवन्। मरणसंख्या आहत्य २,५९,५५१ जाता।

 सुन्दर्लाल् बहुगुणः कोविड्बाधया दिवंगतः।


 नवदिल्ली> विश्वप्रसिद्धः परिस्थितिसंरक्षणप्रवर्तकः तथा 'चिप्को'नामकपरिस्थितिसंरक्षणपरियोजनायाः उपज्ञाता सुन्दर्लाल् बहुगुणा वर्यः [९४]कोविड्बाधया दिवंगतः। ऋषीकेश् एयिंस् आतुरालये परिचर्यायामासीत्। 

  हिमालयाधित्यकायां वृक्षखण्डनं निरोद्धुं आन्दोलनं चिकीर्षन् सः १९७४ मार्च् मासे चिप्को परियोजनामारब्धवान्। वृक्षान् आलिङ्गनं कृत्वा आन्दोलनप्रचारणम् आरब्धवान् सः महिलानां नदीनां च संरक्षणविषये च निमग्नः आसीत्। २००९ तमे वर्षे पद्मविभूषणपुरस्कारेण समादृतः।

Friday, May 21, 2021

 प्राणवायोः पुनरावर्तोत्पादनेन द्विगुणीकृतफलं लभ्यमानया 

नूतनसुविधया सह भारतीयनाविकसेना।

नवदिल्ली>  कोविड्प्रतिरोधप्रवर्तनेषु तथाविधश्रमेषु च नूतन-साङ्केतिकविद्यया सह   भारतीयनाविकसेना। प्राणवायोः दुर्भिक्षपरिहाराय एषा साङ्केतिकविद्या सप्रयोजका भवति। प्राणवायोः पुनरावर्तोत्पादनाय  सहायकः प्राणवायोः पुनरावर्तोत्पादनरीतिः  ( oxigen recycling system) एव वायुसेनया परीक्षणेन सफलीकृता। प्राणवायोः दौर्लभ्यपरिहाराय एषा  योग्या भवति। उपसेनानायकः(lieutenant colonel) मायङ्क् शर्मा एव सुविधायाः  अस्याः आविष्कर्ता।  एषा सुविधा  विगते मार्च् मासे अन्तर्वाहिनी-प्रदर्शनकार्यक्रमे प्रधानमन्त्रिणः पुरतः प्रदर्शिता आसीत् इति मायङ्क् शर्मणा उक्तम्। अस्याः आदर्शभूतनिर्माणाय केवलम्  अयुतं रूप्यकाणि एव  व्ययः। एषा सुविधा प्राणवायुनिभृत-कृशगोलकेषु घटयति चेत् पर्वतारोहकाणां तथा हिमालयप्रान्तीयसैनिकानां च द्विगुणितं प्रयोजनं लप्स्यते इति नाविकसेना व्यजिज्ञपत्।

 वंगसमुद्रे न्यूनमर्दः - चक्रवातसाध्यता वर्तते। 

अनन्तपुरी> वंगसमुद्रे नूतनः न्यूनमर्दः जनयतीति पर्यावरणसंस्थया निगदितम्। तस्य प्रभावेण केरले विविधजनपदेषु महती वृष्टिः भविष्यति। 

  न्यूनमर्दः चक्रवातरूपेण परिवर्तिष्यते। 'यास्' इति नामाङ्कितस्य चक्रवातस्य सञ्चारपथे केरलं न वर्तते, तथापि ओडीषा वंगः इत्यादीनि राज्यानि जागरूकाणि भवेयुः इति पर्यावरणसंस्थया निगदितम्।

 केरले नूतनसर्वकारः शासनपदे - अतिदुर्भिक्षताम् अपाकरिष्यति। 

  अनन्तपुरी> केरलराज्ये पिणरायिविजयस्य नेतृत्वे द्वितीयं मन्त्रिमण्डलं शासनपदं प्राप्तम्। सेन्ट्रल् स्टेडियं क्रीडाङ्कणे कोविड्मार्गनिर्देशान् अनुसृत्य आयोजिते कार्यक्रमे राज्यपालः आरिफ् मुहम्मद खानः मुख्यमन्त्रिणे पिणरायि विजयाय अन्येभ्यः २० मन्त्रिभ्यश्च शपथवाचनम् अकारयत्। 

    सायं सार्धत्रिवादनतः पञ्चवादनपर्यन्तं दीर्घितस्य शपथकार्यक्रमानन्तरं विधानसभायां प्रथमं मन्त्रिमण्डलोपवेशनं सम्पन्नम्। तदनन्तरं कृते वार्ताहरसम्मेलने मुख्यमन्त्रिणा पिणरायिविजयेन सर्वकारस्य राज्यशासननीतिमार्गः विशदीकृतः। तस्य प्रख्यापनेषु कानिचन-

* पञ्चवर्षाभ्यन्तरे अतिदौर्भिक्षम् उन्मूलयिष्यति।

* कार्षिकमण्डले उत्पादनक्षमता, लाभसाध्यता, सुस्थितिः इत्येतेभ्यः प्राधान्यं दास्यति। 

* सामाजिकमण्डलेषु शिक्षा - भवन - स्वास्थ्य मण्डलेषु जातान् अभिवृद्धीन् शक्तीकरिष्यति। 

जनैः सह जनेभ्य एव अयं सर्वकार इति तेन स्पष्टीकृतम्।

Thursday, May 20, 2021

 इस्रयेल्- पलस्तीन् संघर्षः - संधर्षभूमेः दशवयस्कबालिकायाः वीडियोभाषणम् 'अन्तर्जालप्रसृतं' वर्तते।

  इस्रयेल्- पलस्तीनयोः मध्ये जायमाने संघर्षे अतितीव्रे जाते शिशवः एव अत्यन्तं दुरितं अनुभवन्ति। संघर्षे आरब्धे सप्ताहाभ्यन्तरे एकचत्वारिंशत् शिशवः तथा बहवः पलस्तीनजनाः च आहताः। संधर्षभूमेः दशवयस्कबालिकायाः संभाषणम् इदानीं वीडियोद्वारा अन्तर्जाजालमाध्यमेषु 'सविशेषव्याप्तं' (viral) वर्तते।

वयं सर्वे शिशवः किल ?। 'किमर्थम् अस्मान् एवम् आक्रमन्ते? ' इति प्रश्नः एव सा अश्रुणा सह पृच्छति।

'किं करणीयम् इति अहं न जानामि। अहं केवलं दशवयस्का बालिका। यदि अहं भिषग्वरा अथवा अन्यपदवी-युक्ता चेत् सर्वेषां साहाय्यं कर्तुं शक्नुयाम्। किन्तु अहं केवलं बाला एव। मया किमपि कर्तुं न शक्यते। मां परितः सर्वे बालकाः एव। किमर्थम् 'ते' सर्वोपरि अग्निबाणान् पातयति? इति। 'Middle East i' इति ट्वीटर् पुटे एव एषः दृश्यसन्देशः प्रसारितः। दशवयस्का बालिका 'नदीने अब्देले' एव स्वं परितः स्थितान् बालिका -बालकान् संसूच्य लोकान् प्रति एवं पृच्छति।

 केरल संस्कृताध्यापक फेडरेषनस्य नेतृत्वे सम्भाषणवर्गाय शुभारम्भः। 

   कोच्ची> केरल संस्कृताध्यापक फेडरेषन् [KSTF] इति केरलस्य संस्कृताध्यापकानां संघटनेन आकेरलं संस्कृताध्यापकानां कृते आयोज्यमानस्य दशदिनसम्भाषणवर्गस्य समुद्घाटनं सम्पन्नम्। कक्ष्याप्रकोष्ठेषु संस्कृताध्यापनं देववाण्या एव सुकरं ललितं च कर्तुं तथा भाषाप्रयोगे शिक्षकाणां लज्जां सङ्कोचं च अपाकर्तुमेवायं सम्भाषणवर्गः आयोजितः। संघटनेन 'ओण् लैन्' द्वारा आयोजिते सम्मेलने कैरल्याः प्रियकविः प्रोफ. वि मधुसूदनन् नायर् वर्यः वर्गस्य औपचारिकमुद्घाटनमकरोत्। 

    संस्कृतभाषायाः अध्ययनेन स्वांशीकरणेन च छात्राः धीराः मनीषिणः च भविष्यन्तीति मधुसूदनन् नायर् वर्येण उद्घाटनभाषणे उक्तम्। संस्कृतभाषाप्रयोगे अध्यापकेषु तत्र तत्र विद्यमानाः विद्यमानाः अधमर्णीकृतचित्तगतयः निवारणीयाः इत्यपि तेन उद्बोधितम्। 

  अनन्तपुरं संस्कृतमहाविद्यालयस्य प्राचार्यः डो. के उण्णिक्कृण्णः मुख्यभाषणमकरोत्। संस्कृताध्यापकाः राष्ट्रनिर्मातारः इति तेन प्रस्तुतम्। के. एस्. टि. एफ् संघटनस्य राज्याध्यक्षः टि के सन्तोष्कुमारः अध्यक्षः आसीत्। संघटनस्य सचिवमुख्यः सि पि सनल् चन्द्रः, पि पद्मनाभः, के. राजेषः, नीलमन शङ्करः इत्येते भाषणमकुर्वन्। 

   विश्वसंस्कृतप्रतिष्ठानस्य सहयोगे आयोज्यमाने अस्मिन् कार्यक्रमे को. रणजितस्य नेतृत्वे १५ शिक्षकाः शुक्रवासरादारभ्य दशदिनानि यावत् ओण् लैन् द्वारा एव संस्कृतसम्भाषणवर्गं चालयन्ति।

 'बार्ज्'दुरन्तः - २६ मृतदेहाः लब्धाः। 

  मुम्बई> टौट्टे चक्रवातस्य दुष्प्रभावेन अरबसमुद्रे निमग्ने 'पि ३०५' नामके बार्जे [संघाटः] विद्यमानानां २६ कर्मकराणां  मृतदेहाः नौसेनया समुत्थिताः। १८६ कर्मकराः रक्षां प्रापितवन्तः। अदर्शनं गतेभ्यः ४९ जनेभ्यः अन्वीक्षणमनुवर्तते। 

  मुम्बईतः ३५ नोटिक्कल् मैल् परिमिते दूरे तैलखननकर्मणि व्यापृताः आसन् बार्जिति उच्यमाने समुद्रसंघाटे वर्तिताः २६१ कर्मकराः।

Wednesday, May 19, 2021

 वाक्सिनवितरणं वर्धयितुं परिश्रमः - प्रधानमन्त्री। 

   नवदिल्ली> भारते कोविड्वाक्सिनस्य वितरणं इतोऽपि दृढीकर्तुं संवर्धयितुं च परिश्रमः आरब्धः इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। विविधजनपदेषु जनपदाधिकारिणः अभिव्याप्य उन्नताधिकारिभिः सह भाषमाणः आसीत्सः। 

  कोविड्महामारीं प्रतिरोद्धुं अतिशक्तमायुधं भवति वाक्सिनीकरणम्। अतः सामान्यजनेषु एतदधिकृत्य बोधवत्करणमावश्यकम्। एतदर्थं पदक्षेपाः स्वास्थ्यमन्त्रालयेन आरब्धाः। द्विसाप्ताहिकं  वाक्सिनीकरणसमयक्रमं राज्यानि   प्रागेव सूचयितुं पदक्षेपः कृतः इति प्रधानमन्त्रिणा निगदितम्।

 राष्ट्रे प्रतिशतं चत्वारिंशत् जनेभ्यः नवम्बर्मासाभ्यन्तरे कोविड्प्रतिरोधौषधं लप्स्यते इति आवेदनम्।

नवदिल्ली> भारते अष्टादशवयोपरियुक्तेभ्यः प्रतिशतं चत्वारिंशत् जनेभ्यः नवम्बर् मासाभ्यन्तरे सम्पूर्णतया वाक्सिनं लप्स्यते इति आवेदनम्। आगामिनि संवत्सरे जनुवरि मासाभ्यन्तरे शिष्टेभ्यः प्रतिशतं विंशति जनेभ्यः अपि वाक्सिनं लप्स्यते। एवं प्रकारेण राष्ट्रे प्रतिशतं षष्ठि जनानां वाक्सिनीकरणं पूर्णतया शक्यते इति ' येस् सेक्युरिटीस् ' संस्थया आवेदितम्।

  भारते वाक्सिनस्य उत्पादनाय आवश्यकानां असंस्कृतवस्तूनां दौर्लभ्यम् अस्ति। आगामिनि पञ्चचत्वारिंशत् दिनाभ्यन्तरे अमेरिकादेशे जनसंख्यायाः प्रतिशतं अशीति जनानां वाक्सिनी करणं पूर्णतया भविष्यति। अस्मिन् अवसरे अमेरिकादेशेन वाक्सिनस्य तथा असंस्कृतवस्तूनां च विदेशविक्रयणनियन्त्रणं न्यूनीक्रियते इति येस् सेक्युरिटीस् संस्था सूचयति। अत एव असंस्कृतवस्तूनि सुलभतया लप्स्यन्ते इति मन्यते। अनेन भारते वाक्सिनस्य उत्पादनं तथा वितरणं च सुगमतया भविष्यति इति प्रतीक्षते।

'सिरम् इन्स्टिट्यूट्' तथा भारतबयोटेक् औषधनिर्माणशालायाः च कोविड्प्रतिरोधौषधोत्पादनक्षमता क्रमशः वर्धयिष्यति इति च आवेदने सूच्यते।

 केरले नूतनमन्त्रिमण्डलस्य स्थानारोहणं श्वः। 

पिणरायिविजयस्य नेतृत्वे नूतनसंघः। 

अनन्तपुरी> सि पि एम् नेतुः पिणरायि विजयस्य नेतृत्वे केरलस्य नूतनं मन्त्रिमण्डलं श्वः सायं सार्धत्रिवादने शपथवाचनं करिष्यति। २१ अङ्गयुक्ते मन्त्रिमण्डले पिणरायि विजयः , ए के शशीन्द्रः, के . कृष्णन् कुट्टिः इत्येतेभ्यः ऋते अन्ये सर्वे नूतनाः भवन्ति। 

  अनन्तपुर्यां विधानसभासमीपस्थे सेन्ट्रल् स्टेडियम् क्रीडाङ्कणे सज्जीकृतायां वेदिकायां नियुक्तमन्त्रिणः सर्वे राज्यपालस्य आरिफ्मुहम्मद खानस्य समक्षे शपथवाचनं करिष्यन्ति। कोविड्मार्गनिदेशमनुसृत्य कार्यक्रमेSस्मिन् भागं ग्राह्यमाणानां विशिष्टातिथीनां संख्या ५०० इति नियन्त्रिता। सामान्यजनानां प्रवेशः निषिद्धः। शपथवाचनकार्यक्रमस्य निर्वहणाय त्रिस्तरपिधानेन वर्तमाने अनन्तपुरीनगरे नियन्त्रणलघुत्वमालक्ष्य राज्यस्य कार्यदर्शिमुख्येन आदेशः कृतः।

Tuesday, May 18, 2021

 गासा - मरणानि २०० अतीतानि। 

  गासानगरं> इस्रयेल-पालस्तीनसंघर्षः आरभ्य सप्तदिनेषु अतीतेषु गासानगरे हतानां संख्या २०० अतीता। हतेषु ५९ बालकाः ३५ महिलाश्च अन्तर्भवन्ति। १०३५ जनाः आहताः जाता इति हमास् शासनस्य स्वास्थ्यमन्त्रालयेन निगदितम्। १३० हमास् निहता इति इस्रायलेन उच्यते। 

  गतदिने गासाप्रदेशस्य उदग्रभूमौ वर्तमानानि १५ कि मी परिमितानि भूगर्भगह्वराणि तथा नवानां हमास्  अधिकारिणां भवनानि च इस्रयेलः बोम्बस्फोटकेन विनाशमकरोत्। इस्रयेलं विरुध्य प्रयोज्यमानानि अायुधानि नेतुं निर्मितानि गह्वराण्येव विनाशितानि इति इस्रयलेन उक्तम्।

 भारते ब्रिट्टण् राष्ट्रे च प्रत्यभिज्ञातस्य कोविड्वैराणुविभेदानां प्रतिरोधाय कोवाक्सिन् फलप्रदम् इति कृतानुसन्धानानि सूचयन्ति।  

  नवदिल्ली> भारतेन सम्पुष्टीकृतं स्वदेशीयं कोवाक्सिन् नाम सूच्यौषधं प्रत्याशादायकं भवति। भारते ब्रिट्टण् राष्ट्रे च प्रथमतया प्रत्यभिज्ञातस्य बि १.१६७,बि१.१.७ इत्यादि वैराणुभेदान् अपरान्  भेदान् च प्रतिरोद्घुं  कोवाक्सिन् फलप्रदम् इति तस्य उद्पादकाः अभिप्रयन्ति।

  परीक्षितान् सर्वान् वैराणुभेदान् कोवाक्सिन् निर्वीर्यं करोति इति तस्य उत्पादिकया भारत बयोडेक्  नामिकया औषधनिर्माणशालया  निगदितम्।  इदानीं भारते लभ्ययमानेषु कोविड् सूच्यौषधत्रयेषु अन्यतमं भवति कोवाक्सिन्।

केन्द्रस्वास्थ्यमन्त्रालयस्य  गणनामनुसृत्य राष्ट्रे सर्वत्र  इतःपर्यन्तं १८,२२,२०,१५४ मात्रामितं कोविड्सूच्यौषधम्  वितीर्णम् अस्ति।

Monday, May 17, 2021

 टौटे चक्रवातः - महाराष्ट्रे षट् मरणानि। १८८६ भवनानि भग्नानि।


  मुम्बै> महाराष्ट्र राज्ये विनाशं वितीर्य टौटे चक्रवातः अतिशक्तेन वाति। कोङ्कणप्रदेशेषु षट् जनाः मृताः। नौकापघातेन त्रयः मृताः। राय्गड् जनपदे त्रयः नवीमुम्बैमध्ये द्वौ सिन्धुदुर्गे एकः च मृताः। अनेके व्रणिताश्च। शक्तेन वातेन राय्गड् प्रदेशे १८८६ भवनानि भग्नानि। वैद्युतिबन्धः विनष्टः। द्रुतकर्मसेनायाः नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते।
 - - - 

 श्री शङ्कराचार्य विश्वविद्यालये श्रीशङ्करमहोत्सवस्य शुभारम्भः। 

  कालटी> श्री शङ्कराचार्य संस्कृतविश्वविद्यालयस्य नेतृत्वे श्रीशङ्करजन्मदिनमहोत्सवः मेय्मासस्य १७, १८, २५ दिनाङ्केषु 'गूगिल् मीट्' द्वारा आयोज्यते। १७ तमदिनाङ्के अपराह्ने त्रिवादने यूट्यूब् श्रेणी द्वारा शङ्करकृतीनां सङ्गीतालपनेन समारम्भः भविष्यति। ( https://youtube.com/c/SreeSankaracharyaUniversityofSanskritKalady/ ) अष्टादशदिनाङ्के प्रातः दशवादने अन्तर्जालसङ्गोष्ठी। 'तत्र को मोहः कः शोकः एकत्वमनुपश्यतः' इति विषये महाराष्ट्स्थस्य कविकुलगुरु कालिदास संस्कृतविश्वविद्यालयस्य कुलपतिः डा. श्रीनिवास वर्खेटिवर्यः भाषणं करिष्यति। 

  २५तमे दिनाङ्के 10 वादने आयोक्ष्यमाणे अनुस्मरणसम्मेलने विश्वविद्यालयस्य 'डीन्' पदमलङ्कृतवतोः दिवंगतयोः महाचार्यस्य प्रो. आर् वासुदेवन् पोट्टी वर्यस्य तथा डो. टि आर्यादेव्याः च योगदानमधिकृत्य प्रभाषणद्वयं भविष्यति। 

कोविड्कालीन सुरक्षापालनाय एव शङ्करजन्मदिनमहोत्सवः ईदृशरीत्या अन्तर्जालसुविधाम् उपयुज्य क्रियते इति विश्वविद्यालयस्य कुलपतिना डा. धर्मराज् अटाट् वर्येण सम्प्रतिवार्तां प्रति उक्तम्।

Sunday, May 16, 2021

 'सैकोव् डि'- स्वदेशीयं नूतनं कोविङ्सूच्यौषधम् आयाति।


  नवदिल्ली>  राष्ट्रे कोविङ्प्रतिरोधाय  स्वदेशीयं नूतनं   सूच्यौषधम् आयाति।  ' सैकोव् डि ' इत्येव तस्य नाम। अहम्मदाबाद् केन्द्रीकृत्य  प्रवर्तमाना ' सैडस् काडिला ' नाम औषधनिर्माणशालीयाः एव अस्य नूतनसूच्यौषधस्य निर्मातारः। मेय् मासस्य अन्तिमे चरणे  एतस्य सूच्यौषधस्य आपत्कालीनोपयोगाय अनुमत्यै  प्रार्थयिष्यते ।  भारत बयोटेक् नाम औषधनिर्माणशालया कोवाक्सिन् इति कोविड् सूच्यौषधस्य निर्माणानन्तरं  स्वदेशे निर्मितं द्वितीयं सूच्यौषधं भवति इदम्। जून् मासस्य आरम्भे सूच्यौषधस्य उपयोगाय अनुमतिः लप्स्यते इति सैडस् काडिलया प्रतीक्ष्यते। अङ्गीकारं लप्स्यते चेत् भारतस्य अनुमतिं लभ्यमानं चतुर्थं कोविड्सूच्यौषधं भविष्यति सैकोव्।

कोविड्महामारी अस्मिन्संवत्सरे अधिकदुर्घटकारी भविष्यति - विश्वस्वास्थ्यसंघटनम्। 

  जनीवा> २०२० अपेक्ष्य कोविड्महामारी अस्मिन् संवत्सरे आविश्वं इतोSप्यधिकं दुर्घटनकारी भविष्यतीति विश्वस्वास्थ्यसंघटनस्य [WHO] जाग्रतासूचना। रोगिणां संख्या मृत्युसंख्या च २०२१ तमे अनियन्त्रितरीत्या वर्धिष्यते इति WHO संस्थायाः निदेशकप्रमुखः टेड्रोस् अथनों गब्रियेसूसः न्यगादीत्। 

  भारतस्य अवस्था आशङ्काजनका भवत्यपि आपत्कालीनसमानावस्था केवलं भारताय न लघूकर्तुं शक्यते इति तेनोक्तम्। नेप्पालं, श्रीलङ्का, वियट्नामः, कम्बोडिया, ताय्लान्ट्, ईजिप्त् इत्यादिषु राष्ट्रेषु कोविड्बाधा वर्धमाना अस्ति।

Saturday, May 15, 2021

 इस्रयेलराष्ट्रेण गासा सीमायां सैनिकविन्यासं शक्तम् अकरोत्। हतानां संख्या शताधिका जाता।

 गासा/जरूसलें>  इस्रयेल् - पालस्तीनयोर्मध्ये जायमाने संघर्षे  गासायां हतानां संख्या शताधिका जाता। इस्रयेल् प्रतिरोधमन्त्रालयात् उपलब्धे आवेदने नवाधिकशतं जनाः हताः इति औद्योगिकस्थिरीकरणमपि अस्ति। तेषु अष्टाविंशति बालकाः, सप्त इस्रयेली नागरिकाः च मृतिमुपगताः, अष्टाशीतिः जनाः व्रणिताश्च अभवन् इति गासा स्वास्थ्यमन्त्रालयेन निगदितम्। संघर्षस्य प्रथमदिनादारभ्य चतुर्थदिनपर्यन्तं जाता गणनेयम्।

 इदानीम् इस्रयेल् राष्ट्रम् आक्रमणं सुशक्तं कर्तुं गासा सीमायां अधिकतया सैन्यानि व्यन्यसत्। व्योमाक्रमणं स्थलाक्रमणं च आरब्धम् इति इस्रयेल् सैन्येन निगदितम्। तदभ्यन्तरे उभयोरपि सैन्ययोः झटिति युद्धस्थगनाय ऐक्यराष्ट्रसंस्थया निर्देशः दत्तः। ईजिप्त् कुवैत् आदिभिः देशैः उभयोर्मध्ये शान्तिं पुनस्थापयितुम् आह्वानं दत्तम्।

 केरले सम्पूर्णपिधानं २३तमं यावद्दीर्घितम्। 

   अनन्तपुरी> कोविड्व्यापने अतितीव्रे अनुवर्तिते केरले पिधानं मेय्मासस्य २३ तमदिनाङ्कं यावत् दीर्घितमिति मूख्यमन्त्री पिणरायि विजयः न्यगादीत्। तत्र तिरुवनन्तपुरं, तृश्शूर्, एरनाकुलं, मलप्पुरं जनपदेषु त्रिस्तरीयं पिधानं विहितम्। 

  केरले रोगस्थिरीकरणमानम् अधुनापि उपत्रिंशत्प्रतिशतमिति अनुवर्तमाने पिधानं साप्ताहिकत्रयं यावत् दीर्घीकरणीयमिति स्वास्थ्यविभागेन तथा आरक्षकविभागेन च निर्दिष्टमासीत्। किन्तु साप्ताहिकस्य दीर्घीकरणमेव सर्वकारेण निश्चितम्। 

  ह्यः केरले ३४,६९४ जनाः कोविड्बाधिताः जाताः। ९३ मरणान्यपि आवेदितानि। रोगस्थिरीकरणमानं २६.४१ आसीत्।


Friday, May 14, 2021

 केरले अतिवृष्टिः, समुद्रविक्षोभः।

   कोच्ची> लक्षद्वीपसमुद्रे आविर्भूतस्य न्यूनमर्दस्य प्रभावात् केरले अतिवृष्टिरारब्धा। समुद्रतीरजनपदेषु समुद्रविक्षोभेन शतशः गृहाणि जलोपप्लावितानि भूतानि। तिरुवनंतपुरं, कोल्लम्, आलप्पुष़ा, पत्तनंतिट्टा इत्येतेषु  दक्षिणजनपदेषु अद्य रक्तजागरूकता प्रख्यापिता। 

  श्व आरभ्य न्यूनमर्दः ट्वट्टै नामकचक्रवातरूपेण भविष्यतीति पर्यावरणविभागेन निगदितमस्ति।

 धार्मिक-राजनैतिक-कार्यक्रमाः भारते कोविड् अतिव्यापनस्य हेतवःअभवन् - विश्वस्वास्थ्यसंस्था।

- रमा टी. के 

  धार्मिक-राजनैतिक-कार्यक्रमाः भारते कोविड् अतिव्यापनस्य हेतुरभवत् इति विश्वस्वास्थ्यसंस्थया उच्यते।  Weekly epidemiological update इति सप्ताहिकपत्रिकायाः अन्तिमसम्पुटे एव एतत् कार्यं स्पष्टीकृतम्। विगते बुधवासरे आसीत् पत्रिकायाः प्रकाशनम्। 

रोगाणुव्यापनवर्धनाय बहूनि कारणानि सन्ति। धार्मिक-राजनैतिक-मेलनानि एव तेषु प्राधान्यत्वेन प्रतिपादितानि। सामूहिकदूरपालनं विना जनानां परस्परसम्पर्कः तथा स्वास्थ्य सुविधायाः उचितोपयोगाभावः च कारणानि  इति update मध्ये सूचितमस्ति।

कोविडस्य भारतीयविभेदः 'विश्वस्य उत्कण्ठा'  इति विश्वस्वास्थ्यसंस्थया प्रख्यापितम्। प्रथमतया     प्रत्यभिज्ञातः      बि.१.१६७ विभेदः एव 'varient of concern ' इति विभागे आयोजितम्। भारतीयविभेदस्य अतिव्यापनक्षमता अस्ति इत्यतः एव संक्रमः।

किन्तु विश्वस्वास्थ्यसंस्थायाः प्रमाणेषु  Indian varient   इति विभेदः नास्ति इति केन्द्रसर्वकारविभागेन  उक्तम्।  बि.१.१६७ इति प्रथमतया प्रत्यभिज्ञातस्य अणुविभेदस्य 'भारतीयविभेदः' इति केचन वार्तामाध्यमैः आवेदितम्। किन्तु एतत् सत्यविरुद्धम् एव। विश्वस्वास्थ्य संस्थया' अयं  भारतीयविभेदः' इति कुत्रापि न सूचितः इति औद्योगिकवृन्दैः ज्ञापितम्। भारतस्य कोविड् प्रतिरोधप्रवर्तनानां यशसि कलङ्कं प्रसारयितुम् एव 'भारतीयविभेदः'  प्रयोगः क्रियते इत्येवं केन्द्रसर्वकारविभागेन  उक्तम्। ।

 इस्रयेल् - पालस्तीनसंघर्षे हतायाः भारतीयायाः शरीरं स्वेदेशमानयति। 

नवदिल्ली> दिनानि यावत् अनुवर्तमाने इस्रयेल् - पालस्तीनयोर्मध्ये जाते व्योमाक्रमणे उपशतं जनाः मृत्युमुपगताः। तेषु एका भारतीया अप्यस्ति। केरलस्थे इटुक्कीजनपदे कीरित्तोट् प्रदेशीया सौम्या नामिका कुजवासरे 'हमास्' संघटनेन इस्रयेलं विरुध्य कृते अग्निबाणाक्रमणे हता आसीत्।  इस्रयेलस्थे 'अष्कलोण'नगरे कस्मिंश्चन गृहे परिपालिकारूपेण [Caretaker] प्रवृत्तमाणा आसीत् सौम्या। 

  सौम्यायाः मृतशरीरं इस्रयेलस्थे भारतस्थानपतिकार्यालयेन स्वीकृतम्। सविशेषेण विमानेन शनिवासरे एव स्वदेशमानेतुं पदक्षेपाः स्वीकृताः इति विदेशकार्यसहमन्त्रिणा वि. मुरलीधरेण प्रोक्तम्।

Thursday, May 13, 2021

 आरबसमुद्रे चक्रवातः; केरले अतिजाग्रता आवश्यकी। 

   अनन्तपुरी> आरबसमुद्रे लक्षद्वीपसमीपं शुक्रवासरे  न्यूनमर्दः रूपीक्रियमाणः अस्तीति पर्यावरणविभागेन निगदितम्। शनिवासरे अयं अतितीव्रः भविष्यति। रविवासरे अयं  चक्रवातरूपेण रूपान्तरं प्राप्य उत्तर-उत्तरपश्चिमदिशं प्रति गमिष्यति। 

  टौट्टे इति कृतनामधेयस्य अस्य चक्रवातस्य प्रभावेण केरलतीरे ८० कि मी परिमितशीघ्रेण झंझावातः अतिवृष्टिश्च भविष्यति। टौट्टेप्रभावं प्रतिरोद्धुं जाग्रतानिर्देशाः कृताः इति केरलस्य मुख्यमन्त्रिणा पिणरायिविजयेन प्रोक्तम्। मेय्मासस्य १४,१५, १६ दिनाङ्केषु विविधजनपदेभ्यः तीव्र - अतितीव्रजाग्रतासूचनाः प्रदत्ताः। केरलतटे अद्य आरभ्य मत्स्यबन्धनं निरुद्धम्।

 राष्टस्य भूरिजनपदेभ्यः षट् तः अष्टसप्ताहपर्यन्तं पिधानम् आवश्यकम्।

यदि नवदिल्ली उद्घाट्यते चेत् दुरन्तस्य आघातः द्विगुणीभविष्यति। 

कोविड् तीव्रव्यापनं - कर्णाटकेषु आगामिनि चतुर्दशदिनानि यावत् सम्पूर्णं पिधानं     प्रख्यापितम्।

लेखिका- रमा टि. के.

  नवदिल्ली> राष्ट्रे यत्र यत्र  जनपदेषु कोविड्  अतिव्यापनम् अभवत् तत्र तत्र षष्ठ सप्ताहात् आरभ्य अष्टसप्ताहपर्यन्तं  सम्पूर्णपिधानम् आवश्यकम् इति Indian council of medical research इत्यस्य अधिपेन डो. बलरामभार्गवेण उक्तम्। अनया रीत्या एव रोगव्यापनं प्रतिरोद्धुं शक्यते इति तेन उक्तम्। रोगव्यापन क्रमः प्रतिशतं दश  (१०% ) इत्यतः अधिकं चेत् नियन्त्रणानि अनुवर्तनीयानि। व्यापनं ५ -१० % इति न्यूनं भविष्यति चेत् उद्घाटनं करणीयम् इति तेन अभिप्रेतम्। इदानीं राष्ट्रस्य ७१८ जनपदेषु ७५ % जनपदेषु  रोगपरीक्षामानः १०% तः अधिकं वर्तते।

Wednesday, May 12, 2021

 इस्रयेल-पलस्तीनयोः सङ्घर्षे यू एस् राष्ट्रेण आशङ्का प्रकाशिता।

 गासा आक्रमणस्य पश्चात् इस्रयेलेन व्योमाक्रमणम् अनुवर्तते। पलस्तीनं प्रति इस्रयेलस्य आक्रमणे यू एस् राष्ट्रेण आशङ्का प्रकाशिता। सङ्घर्षे अनुवर्तिते सति द्वयोः राष्ट्रयोः मध्ये समस्यापरिहाराय साहाय्यं दास्यते इति वैट् हऊस् पत्रकार्यसचिवेन (press secretary) जेन् साकिमहाभागया वार्तामेलने उक्तम्। इस्रयेल-पलस्तीनाः स्वतन्त्रतायै अर्हाः भवन्ति इत्यपि तया उक्तम्। अन्यराष्ट्राणां नेतारः आक्रमणे अनिष्टं प्रकाशितवन्तः। आक्रमणे मृतानां संख्या वर्धते। इतः पर्यन्तं सप्तशताधिकाः ( ७०० ) जनाः व्रणिताश्च।

Tuesday, May 11, 2021

 चीनस्य अग्निबाणावशिष्टः भारतीयमहासमुद्रे पतितः। 

   बेय्जिङ्> दिनानि यावत् अनुवर्तितं भीतिं  समाप्य चीनेन विक्षिप्तस्य 'लोङ् मार्च् बी' नामकस्य अग्निबाणस्य अवशिष्टः भारतीयमहासमुद्रे गतदिने न्यपतत्। १८ टण् परिमितभारयुक्तः इत्यूह्यमानः अग्निबाणावशिष्टः भूमौ कुत्र पतित्वा नाशनष्टकारणं भवेदिति आशङ्कायामासीत् लोकः। 

  एप्रिल् २९ दिनाङ्के आसीत् चीनस्य टियाङोङ् निलयात् पूर्वोक्ताग्निबाणः भ्रमणपथं प्राप्तः। तस्य प्रत्यागमनवेलायां अग्निबाणस्य नियन्त्रणं विनष्टमिति मेय्मासस्य चतुर्थदिनाङ्के दृढीकरणमलभत। विनष्टनियन्त्रणः क्षेपणी प्रतिहोरं  २५,४९० कि मी शीघ्रतया क्ष्मां प्रति समागत्य समुद्रे अपतत्। भूरिशः अंशः भस्मीकृतः इति चीनस्य ज्ञापनम्। अन्ते, गते रविवासरे मालिद्वीपसमीपे समुद्रे विनष्टनियन्त्रणः क्षिप्तांशः पतितः।

 अफ्गानिस्थाने स्फोटनम् - १५ मरणानि। 

  काबूल्> अफ्गानिस्थाने रविवासरे रात्रौ सोमवासरे प्रभाते च दुरापन्ने विभिन्ने स्फोटनद्वये १५ जनाः हताः ; ४६ आहताश्च। काबूलस्थे पर्वान् प्रविश्यायां साबूलनामकस्थाने रविवासरे रात्रौ वीथीपार्श्वे स्थापितः बोम्ब् इति स्फोटकः स्फोटितः आसीत् । तत्र १३ जनाः मृताः,३७ व्रणिताश्च।

Monday, May 10, 2021

 भारते द्वितीयदिनेSपि कोविड्मरणानि चतुस्सहस्राधिकानि।

   नवदिल्ली> गतदिने भारते ४०९२ जनाः कोविड्बाधया मृत्युमुपगताः। अनुस्यूततया द्वितीयदिनमेव मरणसंख्या चतुस्सहस्रमतीयते।  रोगबाधितानां संख्या ह्यः ४,०३,७३८ अभवत्। अनुस्यूततया चतूर्थदिनं भवति प्रतिदिनरोगबाधा लक्षचतुष्कमतीयते। 

  ३७,३६,६४८ रोगिणः परिचर्यायां वर्तन्ते। ह्यस्तनमृत्युसंख्या अधिकतया वर्तमानानि राज्यानि- महाराष्ट्रं [८६४], कर्णाटकं [४८२], दिल्ली [३३२], यू पि [२९७], तमिलनाट् [२४१], छत्तीसगढं [२२३] । इतःपर्यन्तं १६, ९४, ३९,६६३ जनाः वाक्सिनीकृताः इति स्वास्थ्यमन्त्रालयेन सूच्यते।

 हिमन्द बिश्वशर्मा असममुख्यमन्त्री - अद्य शपथारोहणम्। 


    नवदिल्ली> असमराज्यस्य नूतनमुख्यमन्त्रिरूपेण भा ज पा नेता हिमन्द बिश्वशर्मा अद्य सत्यशपथं करोति। गतदिने गुहावत्यामायोजिते भा ज पा दलस्य विधानसभासदस्यानामुपवेशने सः नेतृरूपेण चितः। 

  इदानींतनमुख्यमन्त्री सर्बानन्दसोनोवालः उपवेशने हिमन्दस्य नाम निरदिशत्।

Sunday, May 9, 2021

 डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय अनुज्ञा लब्धा। 

   नवदिल्ली> भारतस्य प्रतिरोध गवेषणकेन्द्रेण डि आर् डि ओ संस्थया आविष्कृताय कोविडौषधाय 2-डि जि [2 de Oxi -D- Glucose] नामकाय आकस्मिकवेलायाम् उपयोक्तुम् 'ड्रग्स् कण्ट्रोलर् ओफ् इन्डिया' संस्थया  अनुज्ञा लब्धा। 

  ग्लूकोस् अस्त्यस्यौषधस्य प्रधानांशः। अतः इदमौषधं राष्ट्रे भूरिशः निर्मातुं वितरीतुं च शक्यत इति डि आर् डि ओ संस्थया निगदितम्। कोविड्रोगिषु कृते परीक्षणे अनुकूलं फलमजायत इत्यनेनैव अनुज्ञा लब्धा। डि आर् डि ओ संस्थायाः Institute of Nuclear Medicine and Allied Science lab तथा हैदराबादस्था Dr. Reddi's Laboratory इति संस्थया च सहयौगिकतया आविष्कृतमौषधं भवत्येतत्।

Saturday, May 8, 2021

 तमिलनाडे एम् के स्टालिनः शपथं कृतवान्। पुतुश्शेर्यां रङ्गस्वामी च। 


 चेन्नै>तमिलनाट् राज्ये डि एम् के दलस्याध्यक्षः एम् के स्टालिनः मुख्यमन्त्रिरूपेण शपथारोहणं कृतवान्। १५ नूतनमुखाः अभिव्याप्य ३३ मन्त्रिणश्च स्टालिनेन सह शपथवाचनमकुर्वन्। राजभवने सम्पन्ने कार्यक्रमे राज्यपालः बन्वारिलाल् पुरोहितः शपथवाक्यं कारितवान्। 

  पुतुश्शेरी केन्द्रशासनप्रदेशे मुख्यमन्त्रिरूपेण एन् अर् कोण्ग्रस् नेता एन् रङ्गस्वामी शपथारोहणमकरोत्। राजनिवासे सम्पन्ने ललितकार्यक्रमे लफ्. राज्यपालः तमिष़िसै सौन्दर्यराजः शपथवाक्यं कारितवान्। मन्त्रिणः विषये निर्णयः नाभवत्।

 केरले सम्पूर्णं पिधानम् आरब्धम्। 

   अनन्तपुरी> कोविड्महामार्याः नियन्त्रणस्य अंशतया केरलराज्ये अद्य आरभ्य मेय् १६ दिनाङ्कपर्यन्तं सम्पूर्णं पिधानं विहितम्। नव दिनानि सर्वे स्वस्वगृहे एव भवन्तु इति मुख्यमन्त्रिणा पिणरायि विजयेन निर्दिष्टम्। 

  तीक्ष्णानि नियन्त्रणानि विहितानि। पथगमनागमनं निरुद्धम्। सर्वकार-कार्यालयाः पिहिताः। सर्वविधसंघीकरणानि निरुद्धानि। नित्योपयोगवस्तुलभ्यानि आपणानि सायं सार्धसप्तदशवादनपर्यन्तं प्रवर्तयितुं शक्यन्ते। 

  केरले गतासु २४ होरासु ३८,४६० जनाः कोविड्बाधिताः अभवन्। रोगस्थिरीकरणमानं २६.६४ प्रतिशतमभवत्।

Friday, May 7, 2021

 नियन्त्रणातीतः चीनस्य अकाशबाणः शनिवासरे भूमौ पतिष्यति। 

चीनस्य नियन्त्रणातीतः  आकाशबाणः भूमौ पतिष्यति इति अमेरिक्केन पूर्वसूचना प्रदत्ता। शनिवासरे पतनं भविष्यति इति ज्ञात्वा विश्वराष्ट्रणि  आशङ्कायां वर्तन्ति। लोङ्ग् मार्च् ५ बि इति आकाशबाणः एव पतितुमारब्धःI एप्रिल्मासस्य २९ दिनाङ्कतः नियन्त्रकः नष्टः अभवत्।

Thursday, May 6, 2021

 भारते कोरोणवैराणोः तृतीया लहरी अपि भविष्यति। 'एयिंस्' अध्यक्षः।

    नवदिली> भारतेकोरोण वैराणोः तृतीया लहरी अपि भविष्यति इति 'एयिंस्' अध्यक्षेण रणदीप गुलेरिय इत्याख्येन पूर्वसूचना प्रदत्ता। राष्ट्रे कोरोणायाः अतिव्यापनम् एवम् अनुवर्तते चेत् भारतं तृतीयं कोरोणा लहरीं सम्मुखीकर्तुं वयं निर्बन्धिताः भवेयुः। किन्तु वाक्सिनीकरणं स्यात् तर्हि तृतीयां कोरोणालहरीं नियन्त्रणविधेया भविष्यति इति तेनोक्तम्।

Wednesday, May 5, 2021

 न्यायालय-व्यवहारप्रकाशनं निरोद्धुं न शक्यते- सर्वोच्चन्यायालयः। 

नवदिल्ली> न्यायालयान्तर्गतव्यवहाराणां बहिः प्रकाशनात् वार्तामाध्यमान् निरोद्धुं न शक्यते इति भारतस्य सर्वोच्चनीतिपीठेन उक्तम्। स्वतन्त्रचर्चाभ्यः प्रश्नप्रतिवचनेभ्यः च उच्चन्यायालयान् नियन्त्रयित्वा तेषामात्मधैर्यं शमयितुमुद्देश्यः नास्तीति न्याय. डि वै चन्द्रचूडस्य नेतृत्वे विद्यमानः नीतिपीठः स्पष्टीचकार। 

  मद्रास् उच्चन्यायालयेन राष्ट्रिय निर्वाचनायोगं विरुध्य कृतं 'हत्यापराध'निरीक्षणे निर्वाचनायोगेन समर्पितायाः अभियाचिकायाः परिगणनावेलायामासीत् सर्वोच्चनीतिपीठस्यायं परामर्शः।

Tuesday, May 4, 2021

 प्राणवायुदुर्भिक्षः - कर्णाटके २४ कोविड्रोगिणः मृताः। 

  मैसुरु> कर्णाटकराज्ये चामराजनगरस्थे 'चामराजनगर् इन्स्टिट्यूट् ओफ् मेडिकल् सयन्स्' नामके सर्वकारातुरालये प्राणवायोः दौर्लभ्यतया २३ कोविड्रोगिणः अन्यस्मिन् निजीयातुरालये एकः रोगी अपि गतदिने मृत्युमुपगताः। कृत्रिमश्वसनसहाय्यां [Ventilator] प्रवेशिताः रोगिणः एव मृताः। 

   सर्वकारातुरालये सोमवासरे उषस्येव प्राणवायोरभावः स्यादिति वार्ता बहिरागता आसीत्। अतः मैसुरु वैद्यककलालयात् ५० गोलकानि प्रेषितानि। किन्तु तानि अपर्याप्तानि जातानि।

Monday, May 3, 2021

 केरले 'विजयतरङ्गः'।


    कोच्ची> केरले विधानसभानिर्वाचने मुख्यमन्त्रिणः पिणरायि विजयस्य व्यक्तिप्रभावेण सि पि एम् नेतृत्वे वामपक्षजनाधिपत्यसख्यः तस्य शासनस्यानुवर्तनं दृढीचकार। १४० स्थानेषु ९९ स्थानानि वामसख्येन प्राप्तानि। मुख्यविपक्षदलं कोण्ग्रस् नेतृत्वे विद्यमानः ऐक्यजनाधिपत्यसख्यः अवशिष्टानि ४१ स्थानानि प्राप। स्वप्रभावं प्रकाशयितुम् भाजपानेतृत्वे विद्यमानेन एन् डि ए सख्येन अत्युत्साहेन कृतः भगीरथप्रयत्नः विफलः जातः। किञ्च हस्तागतं स्थानमेकं विनष्टं जातं च।

 तमिल्नाडे डि एम् के सख्यः विजयीभूतः। 


  चेन्नै> संवत्सरदशकस्यानन्तरं तमिलनाट् राज्ये एं के स्टालिनेन नीयमानस्य डि एम् के दलस्यनेतृत्वे विद्यमानाय सख्याय राज्यशासनं प्रत्यागच्छति। २३४ स्थानेषु १५६ अधिकानि स्थानानि डि एम् के सख्याय लब्धानि। विद्यमानशासनपक्षेण ए ऐ ए डि एम् के सख्येन ७८ स्थानानि प्राप्तानि। 

   नूतनराजनैतिकदलं रूपीकृत्य १८० अधिकेषु स्थानेषु स्पर्धितवते चलच्चित्राभिनेतुः कमलहासस्य 'मक्कल् नीतिमय्यं' दलाय च शून्यं स्थानमलभत। कमलहासः अपि कोयम्पत्तूर् मण्डले पराजितः।

Sunday, May 2, 2021

 संस्कृतपण्डितश्रेष्ठः प्रोफ. आर् वासुदेवन् पोट्टिः दिवंगतः। 


   अनन्तपुरी> भारतस्य संस्कृतपण्डितेषु अग्रगण्यः राष्ट्रपतिपुरस्कारजेता महामहोपाध्यायः आर्. वासुदेवन् पोट्टिवर्यः [९२] अद्य अनन्तपुर्यां दिवं प्राप्तः। 

  संस्कृतव्याकरण-वेदान्त-साहित्यादिविषयेषु लब्धावगाहः 'पोट्टिवर्यः' हिन्दीमलयालभाषयोरपि पण्डित आसीत्। कर्णाटकराज्यस्य दक्षिणकन्नडजनपदे लब्धजन्मनः तस्य विद्याभ्यासादिकं केरले एव सम्पन्नम्। अनन्तपुर्यामुषित्वा शिक्षामण्डले उन्नतबिरुदान् सम्पादितवान्। संस्कृतव्याकरणे महोपाध्याया इति बिरुदं, न केवलं तत्, ततःपरं वेदन्ते साहित्ये च आचार्यः इति बिरुदे, ततः मलयालभाषायां साहित्यविशारदं हिन्दीभाषायामाचार्यपदं च सः सम्पादितवान्। 

  केरलस्य विविधकलालयेषु वेदान्तविभागे प्राचार्यः, श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालये वेदान्तविभागस्य 'डीन्', 'केरल भाषा इन्स्टिट्यूट्' मध्ये मलयालशब्दकोशस्य सहसम्पादकः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठं नामकमानितविश्वविद्यालये प्रयुक्तिपुरुषमुख्यः इत्यादिरूपेण सः स्वस्य कर्ममण्डले व्यराजत। सेवानिवृत्यनन्तरं दीर्घकालं सः केरलसर्वकारस्य संस्कृतपाठपुस्तकसमित्याः अध्यक्षो भूत्वा संस्कृतशैक्षिकक्षेत्रं सम्पन्नं कारितवान्। तथाच केन्द्रसाहित्य-अक्कादम्यां संस्कृतोपदेशसमित्यङ्गः , एन् सि ई आर् टि संस्थायाः पाठपुस्तकसमित्यङ्गः , केरलस्य विभिन्नकलाशालासु परीक्षा-प्रश्नपत्रसमित्यङ्गः, सुकृतीन्द्र ओरियन्टल् रिसर्च् इन्स्टिट्यूट् मध्ये 'ओणररि प्रोफसर्' इत्यादिरूपेण स्वस्य वैज्ञानिकधिषणां बहुधा प्रकाशितवान्। 

 वरदराजाचार्यस्य लघुसिद्धान्तकौमुदी, केरलवर्मणः गुरुपुरेशस्तवं, बल्लालसेनस्य भोजप्रबन्धः, शङ्कराचार्यस्य आत्मानात्मविवेकः इत्यादीनां शास्त्रग्रन्थानां कैरल्यां संस्कृते च अनुवादव्याख्यानानि तस्य मुख्यकृतिषु अन्यतमाः विराजन्ते। 

   बहुविधैः पुरस्कारैः वासुदेवन् पोट्टिमहोदयः बहुवारं पुरस्कृतः आसीत्। तृप्पूणित्तुरा विद्वत्सभातः वेदान्तसुवर्णमुद्रा, पट्टाम्पी श्रीनीलकण्ठविद्वत्सभायाः शास्त्ररत्नसुवर्णमुद्रा, विश्वसंस्कृतप्रतिष्ठानस्य पण्डितरत्न-एम् एछ् शास्रीपुरस्कारौ, उडुप्पी तुलु ब्राह्मणसमाजात् श्रीराघवेन्द्रसाहित्यपुरस्कारः, तिरुप्पति राष्ट्रियसंस्कृतविद्यापीठात् महामहोपाध्यायपदं, राष्ट्रपतेः बहुमतिपत्रं च तेन लब्धेषु पुरस्कारेषु कतिपयाः भवन्ति। 

  संस्कृतमातुः प्रियपुत्रस्य देहवियोगः संस्कृतवाङ्मये महतीं शून्यतां जनयति इति तदीयाः सहस्रशः शिष्याः गणयन्ति। पोट्टिमहोदयस्य अन्त्येष्टिः पुत्तन्कोट्टा रुद्रभूमौ सम्पन्ना।

 निर्वाचनफलम् अद्य। 

   नवदिल्ली> असमः, केरलं, तमिल् नाड् , पश्चिमवंगः इत्येतेषु राज्येषु तथा पोण्टिच्चेरि केन्द्रशासनप्रदेशे च सम्पन्नानां विधानसभानिर्वाचनानां मतगणना अद्य प्रातः अष्टवादने समारभ्यते। नववादनादारभ्य प्रथमफलसूचनाः लप्स्यन्ते। सायं सम्पूर्णं फलं प्रतीक्षते। 

   कोविड्मार्गनिर्देशान् कर्कशं परिपाल्य एव मतगणनाकार्यक्रमाः प्रचलन्ति। संघीभूय आह्लादप्रकाशनानि निर्वाचनायोगेन निरुद्धानि सन्ति।

 ओक्टोबर् मासे तृतीयतरङ्गमिति जाग्रतासूचना। 

   बङ्गलुरु> ओक्टोबर् नवम्बर् मासद्वये कोविड्महामार्याः तृतीयः तरङ्गः भविष्यतीति कर्णाटकस्य साङ्केतिकोपदेशसमित्या जाग्रतासूचना दत्ता। कर्णाटकराज्यं भवेदस्य प्रभवकेन्द्रः। अलब्धवाक्सिनेषु बालकेषु रोगव्यापनं तीव्रं भविष्यति इति सर्वकारेण नियुक्तायाः समित्याः पर्यवेक्षणम्।

Saturday, May 1, 2021

भारते कोविड्बाधा प्रतिदिनं चतुर्लक्षमुपगच्छति। 

   नवदिल्ली> गतदिने भारते कोविड्बाधितानां संख्या ३,८६,४५२ जाता। इतःपर्यन्तम् अत्युन्नता गणना। अनेन राष्ट्रे आहत्य १,८७,६२,९७६ जनाः कोविड्बाधिताः अभवन्। 

    विविधराज्येषु ३१,७०,२२८ रोगिणः परिचर्यायां वर्तन्ते। केन्द्रस्वास्थ्यमन्त्रालयस्य गणनामनुसृत्य गत२४होरासु ३,४९८ जनाः कोविड्बाधया मृत्युमुपगताः। आहत्य मृत्युसंख्या २,०८,३३० अभवत्। इतःपर्यन्तं १,५३,८४,४१८ जनाः स्वस्थीभूताः जाताः।