OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 31, 2023

 अस्माकं बालवार्ताप्रवाचिका स्नातकबिरुते प्रथमस्थानं प्राप्तवती।

   कालटी> सम्प्रतिवार्तावाहिन्यः छात्रवार्ता-प्रवाचिका नम्यालक्ष्मी स्नातकबिरुते प्रथमस्थानं प्राप्तवती। एषा कालटी श्रीशङ्करकलाशालायां वेदान्तविभागस्य छात्रः असीत्। महात्मागान्धी विश्वविद्यालयस्य प्रणाल्याम् एम् ए वेदान्त विषये एषा परीक्षा लिखितवती। इदानीं संस्कृतभाषायां स्नातकोत्तरबिरुदाय गुरुवायूर् केन्द्रीयविद्यापीठे छात्रा अस्ति। नृत्ते गाने च एषा कुशला एव। 

अस्याः पितरौ एस् रविकुमारः माया ए एस् च संस्कृताध्यापक दम्पत्यौ भवतः।

छात्रवार्ताप्रवाचिका नम्यालक्ष्मी -

https://youtu.be/KU5ZjFM0rh0

 २०३० संवत्सरे आकाशदृश्यम् भीतिदं भविष्यति। विक्षिप्तोपग्रहाणाम् आधिक्येन हानिं जनयिष्यति इति वैज्ञानिकाः।

    भूमिं परितः राशीकृतानां कृत्रिमोपग्रहाणां संख्या बाह्याकाश-वैज्ञानिकानुसन्धान् प्रबाधते इति पूर्वसूचना 'नास'या दत्ता। रात्रिकाले आकाशे नक्षत्राणां निरीक्षणं ज्योतिर्विज्ञान विशारदानां श्रमकरं कर्म भविष्यति इति वैज्ञानिकैः पूर्वसूचना प्रदत्ता। ८००० कृत्रिमोपग्रहाः भूमिं भ्रमणं कुर्वन्ति इति गणयति। २०१९ संवत्सरानन्तरं उपग्रहाणां वर्धितसंख्या चतुर्गुणिता अभवत्। आराष्ट्रं ४ लक्षं उपग्रहेभ्यः अधोभूमिपरिमण्डले ( Low earth orbit) अनुमतिः दत्ता अस्ति । एतेषाम् उपग्रहाणां विविधानि गुणफलानि सन्ति चेदपि तत्हेतुना जायमानां भीषामधिकृत्य अधुना वैज्ञानिकाः पूर्वसूचनां ददति॥

 भारतं प्रति गूढलक्ष्येण सुगणितम् आक्रमणं भवति हिन्टन् बर्गेन कृतम् इति अदानि गणः।

नव दिल्ली> अमेरिकस्य आर्थिक निक्षेप अनुसन्धान संस्था इत्यस्य अनुसन्धान-प्रबन्धः भारतं प्रति गूढलक्ष्येण सुगणितम् आक्रमणं भवति इति अदानि गणः अवदत्। प्रबन्धस्य प्रत्युत्तरवत् ४१३ पुटयुतं विशालां टिप्पणीं प्रकाशयत्। हिन्टन् बर्गस्य प्रतिवेदनम् अनृतसंग्रहः भवति। अनृतेन नूतन-विक्रयण-समाजानां सृष्टिः एव हिन्टन् बर्गेण उद्दिश्यते इति प्रत्युत्तरटिप्पप्यां विवृणोति।

Monday, January 30, 2023

 राष्ट्रपितुः महात्मागान्धिनः स्मृतिदिनम् आराष्ट्रं समाचरितम्। 

      नवदिल्ली> भारतस्य राष्ट्रपितुः गान्धिमहात्मनः हुतात्मदिनं स्मृतिदिनत्वेन आभारतं  समाचरितम्। विद्यालयेषु कार्यालयेषु कर्मशालासु च दिनेऽस्मिन् निमेषद्वयं मौनाचरणं कृतम्। 

    राजघट् चत्वरे समायोजिते कर्यक्रमे राष्ट्रपतिः माता द्रौपदी मुर्मू स्मृतिकुटीरे पुष्पचक्रं समर्पितवती। सबर्मती आश्रमे सप्ताहावधिकाः कार्यक्रमाः आयोजनीयाः सन्ति। गान्धिनः ७५ तमं स्मृतिदिनं भवति इदम्।

 जनसंसदः आयव्ययपत्रसम्मेलनं श्वः आरभ्यते; अद्य सर्वदलमेलनम्। 

नवदिल्ली> भारतजनसंसदः आयव्ययपत्रसम्मेलनं मङ्गलवासरे राष्ट्रपतिः द्रौपती मुर्मू इत्यस्यायाः नयख्यापनप्रभाषणेन आरप्स्यते। बुधवासरे वित्तमन्त्रिणी निर्मला सीतारामः आगामिसंवत्सरस्य आयव्ययपत्रम् अवतारयिष्यति।   सोपानद्वयेन विधास्यमाने  अस्मिन् सम्मेलने ६६ दिनेषु २७ उपवेशनानि भविष्यन्ति। प्रथमं सोपानं फेब्रुवरि १३ दिनाङ्कपर्यन्तं भविष्यति। पुनः मार्च् २३ तमदिनाङ्कतः  एप्रिल् ६ पर्यन्तं द्वितीयसोपानात्मकं मेलनं विधास्यति। 

  सम्मेलनस्य अंशतया अद्य समेषां राजनैतिकदलानां मेलनं विधास्यति।

Sunday, January 29, 2023

 भारतस्य औद्योगिकी भाषा संस्कृतभाषा भवितव्या इति पूर्वतनमुख्यन्यायाधीशः।

  नाग्पूरम्> संस्कृतभाषा भारतस्य राजभाषारूपेण प्रख्यापनीया इति सर्वोच्चन्यायालयस्य पूर्वतनमुख्यन्यायाधीशेन एस् बोब्डेवर्येण प्रोक्तम्। न्यायालयेषु आहत्य संस्कृतभाषा राजभाषारूपेण ख्यापितव्यम् इति तेन ज्ञापितम्। विषयमिदं भारतसंविधानसभापतिना बि आर् अम्बेद्कर् वर्येणापि सूचितमासीत् इति तेन उक्तम्। १९४२ संवत्सरादारभ्य माध्यमप्रतिवेदनेषु विषयमिदं प्रतिपादितमस्ति इत्यपि तेन निगदितम्।

 राष्ट्रपतिभवनस्थे 'मुगल् उद्यानं' परम् 'अमृतोद्यानम्'।

नवदिल्ली> 'मुगल् गार्डन्' इति नाम्ना प्रशस्तानि राष्ट्रपतिभवनस्थानि उद्यानानि अमृतोद्यानम् इति पुनर्नाम्नीकृतानि। स्वातन्त्र्यस्य ७५ तम वार्षिकोत्सवस्य - आसादी का अमृतमहोत्सवस्य- अंशतया एव पुनर्नामकरणमिति राष्ट्रपतिभवनेन प्रस्तुतम्। 

  १५ एकर् परिमिते विस्तारे व्यापृतानि एतानि उद्यानानि श्रीनगरस्थैः मुगलुद्यानैः सह सादृश्यत्वात् तथा मुगलप्रशासनकालीयानि  उद्यानानि चेत्यतः  मुगल गार्डनिति प्रथामवाप। 

  उद्यानोत्सवस्य अंशतया प्रतिवर्षं वसन्तर्तौ सामान्यजनेभ्यः सन्दर्शनानुज्ञा देया।

Saturday, January 28, 2023

 राजस्थाने मध्यप्रदेशे च निमिषत्रयाभ्यन्तरे त्रयः व्योमसेनाविमानाः भञ्जिताः। एकः वैमानिकः हतः।

 नवदिल्ली> मध्यप्रदेशे च निमेषत्रयाभ्यन्तरे त्रयः विमानाः भञ्जिताः। राजस्थाने भरतपुरे एकः विमानः तथा मध्यप्रदेशे द्वौ युद्धविमानौ च भञ्जितौ। मध्यप्रदेशे दुरापन्ने अपघाते एकः वैमानिकः मृतिमुपगतः। अन्यौ द्वौ वैमानिकौ व्रणितौ भूत्वा आतुरालये परिचर्यायां स्तः।

 डो. मुत्तलपुरं मोहनदासः दिवंगतः।

कोच्ची> भारतस्य संस्कृतक्षेत्रे विशिष्य केरलस्य संस्कृताध्ययनाध्यपनमण्डले विराजमानः  संस्कृतपण्डितः, कविः, बालसाहित्यकारश्च डो    मुत्तलपुरं मोहनदासः गतदिने आस्ट्रेलियायां दिवंगतः। ६७ वयस्क आसीत्।  बन्धुजनसन्दर्शनार्थं सकुटुम्बम्  आस्ट्रेलियां प्राप्तः सः स्वदेशीयेन सुहृदा सह मेलनावसरे देहास्वास्थ्यमनुभूय आतुरालयस्य तीव्रपरिचरणविभागं प्रविष्ट अपि प्राणरक्षणं न शशाक।

  महात्मागान्धिविश्वविद्यालये दीर्घकालम् अध्यापनवृत्तिं स्वीकृतवान् सः 'डयट्' संस्थायाः अध्यापकछात्रपरिशीलनविभागात् सेवानिवृत्तोSभवत्। 

४० संवत्सराणि यावत् कविताः कथाश्च विरचयन् कैरल्याः संस्कृतस्य बालसाहित्यमण्डले विख्यातः  आसीत्। संस्कृतभाषायां तेन  विरचिताः कविताः गानानि च छात्रेषु सहृदयेषु च आमोदपूरितानि वर्तन्ते। केरलसर्वकारस्य पाठ्यपुस्तकरचनासमित्यौ वरिष्ठांगः आसीत्। तेन विरचितानि लेखनानि बालकविताश्च बहुषु कक्ष्यासु पाठपुस्तकेषु स्थानमावहन्ति स्म। 

  कैरल्यां विख्यातं 'रमणन्' इति खण्डकाव्यं संस्कृभाषाम् अनूद्य सः वेदिकासु अवतारितवान्। 'मधुभाषित'मिति संस्कृतचलच्चित्राय गानरचनां कृतवान्। यात्राविवरणमण्डले अपि सः स्वसामर्थ्यं प्रकटितवान्। यूट्यूब् सङ्केतमुपयुज्य तेन प्रकाशिताः नैकाः सर्गविस्मयाः सहृयहृदयावर्जकाः वर्तन्ते। अधुनापि आस्ट्रेलियासन्दर्शनमधिकृत्य यात्राविशेषान् प्रकाश्य अन्त्यदिनेष्वपि कर्ममण्डले व्यापृतः आसीत्।

Friday, January 27, 2023

 ओस्ट्रेलियायां हिन्दुमन्दिराणामुपरि आक्रमणम्। भारतेन प्रतिषेधः आवेदितः।

मेल्बण्> आस्ट्रेलियायां हिन्दुमन्दिराणि नाशीकृतान् विरुध्य भारतेन प्रतिषेधः आवेदितः। मन्दिराणामुपरि आक्रमणं तु परस्परविवेचनं शान्तिभञ्जनं च लक्ष्यीकृत्य एव इति भारतस्य मुख्यायुक्तेन प्रज्ञापितम्। पूर्वं मेल्बणस्थं स्वामिनारायणमन्दिरं, इस्कोण् श्रीकृष्णमन्दिरं कारंडौणस्थं शिवविष्णुमन्दिरं च भारतविरुद्धभित्तिलेखनेन मलीमसं कृतमासीत्। एतादृशप्रवर्तनानि स्थगयितुं नियमप्रक्रमाः स्वीकरणीयाः इति मुख्यायुक्तेन आवेदितम्।

Thursday, January 26, 2023

 अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता।

क्वला-लम्बूरम्> संस्कृतभाषायाः सुप्रचाराय क्वला-लम्बूरस्थेन इन्ट्यन् इन्टर् नाषणल् विद्यालयेन अन्तर्विद्यालयीया श्लोकोच्चारण-प्रतियोगिता सामायोक्ष्यते। अन्तर्जालमाध्यमेन भवति प्रतियोगिता। २०२३ फेब्रुवरी मासस्य ९ दिनाङ्के भवति स्पर्धा। समयः - अपराह्ने १२:३० वादने (मलेष्यस्य समयः) भविष्यति (भारतस्य समयानुसारं प्रातः १०:०० वादने)

 ६,७ कक्ष्यातः एकः छात्रः। ८,९ कक्ष्यातः एकः छात्रः इति प्रकारेण एकस्मात् विद्यालयात् भागं स्वीकर्तुं शक्यते।

 पञ्जीकरणाय अस्मिन् नुदतु - https://forms.gle/GtdQXjchnBybmnAaA

नियमावलिः अधः -

  भारते सैनिकपदकाः ख्यापिताः।

  नवदिल्ली> भारतसैनिकेभ्यः पदकाः ख्यापिताः। ४१२ जनाः पुरस्कारार्हाः। तेषु षट्जनेभ्यः कीर्तिचक्रपुरस्कारः लब्धः। मरणानन्तरबहुमानमाहत्य१५ जनाः शौर्यचक्रापुरस्काराय अर्हाः अभवन्। २९ जनाः परंविशिष्टासेवापुरस्काराय अर्हाः। ५२ जनाः अतिविशिष्टसेवापदकाय अर्हाः अभवन्।५९ जनाः विशिष्टसेवा पदकाय तथा एकः नाविक सेनापदकाय दश जनाः युद्धसेवा पदकाय च अर्हाः अभवन्।

Wednesday, January 25, 2023

 ईजिप्तस्य राष्ट्रपतिः भारतं प्राप्तवान्। 

गणतन्त्रदिनोत्सवे मुख्यातिथिः। 

नवदिल्ली> भारतस्य इदानींतनगणतन्त्रदिनोत्सवस्य मुख्यातिथिः ईजिप्तराष्ट्रस्य राष्ट्रपतिः अब्देल् फत्ता अल्- सि सि वर्यः गतदिने सायं भारतं प्राप्तवान्। बुधवासरे दशवादने राष्ट्रपतिभवने तस्मै समुचितं स्वीकरणं विधास्यति। तदनन्तरं प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलिष्यति। 

  भारतेन सह विविधमण्डलेषु परस्परसहयोगाय षट्सु  सन्धिषु ईजिप्तराष्ट्रपतिः हस्ताक्षरं विधास्यति च।

Tuesday, January 24, 2023

 विश्वचषकयष्टिक्रीडा - भारतं बहिर्गतम्।

न्यूसिलान्टं प्रति 'सडन् डत्' प्रकारेण  पराजयः। 

भुवनेश्वरम्>  यष्टिक्रीडायां भारतस्य विश्वचषकाभिलाषः अस्तंगतः। 'सडन् डत्' नामकं क्रीडाविशेषपर्यन्तं दीर्घितायां प्रतियोगितायां न्यूसिलान्टं प्रति पराजित्य भारतं क्रीडापरम्परातः बहिर्गतम्। निश्चितसमये ३ - ३ इति लक्ष्यकन्दुकरीत्या समस्थितिं प्राप्ता प्रतियोगिता 'षूटौट्' ततः 'सडन् डत्' इत्येतं दीर्घिता। तत्र ४ - ५ इतिरीत्या भारतं पराजितमभवत्। 

  अनेन न्यूसिलान्टः चतुर्थांशं प्राविशत्। चतुर्थांशे न्यूसिलान्टः बल्जियं प्रति स्पर्धिष्यते।

 नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् । गणतन्त्रदिने भारतेन प्रयोगः समारप्स्यते।

नवदिल्ली> नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधं प्रथमतया भारतेन वितीर्यते। औषधमिदं भारतेन सम्पुष्टीकृतम् भवति। विश्वस्मिन् प्रथमतया भवति नासिका द्वारा दीयमानं कोविड् वैराणुप्रतिरोधौषधम् इति भारताय अभिमानास्पदं भवति। गणतन्त्रदिने भारतेन औषधप्रयोगः समारप्स्यते।

Sunday, January 22, 2023

विवाहावसरे कन्यायै पारितोषिकरूपेण दीयमानं धनम् एकलक्षाधिकं मा भवेत्। स्त्रीधननिरोधन नियमः समागच्छति।

  तिरुवनन्तपुरम्> वनिता आयोगस्य स्त्रीसंरक्षणसंघटनस्य च प्रतिषेधानन्तरं स्त्रीधननिरोधनियमं परिष्कर्तुम् अनिवार्याय प्रक्रमाय केरलसर्वकारेण निश्चितम्। वधोः रक्षितारः तस्यै विवाह पारितोषिकत्वेन  दीयमानं धनं  एकलक्षाधिकं न भवेत् तथा दीयमानं सुवर्णमपि अशीति ग्राम् परिमाणं अधिकं न भवेत् इति नियमः अचिरेण प्रबलो भविष्यति। विवाहपूर्वोपदेशमपि दातुं व्यवस्था अस्ति ।

 जम्मु मध्ये स्फोटनयुगलं - नव व्रणिताः। 

जम्मू> जम्मुनगरसमीपे स्थानद्वये  गतदिने दुरापन्नेन विस्फोटनेन नव नागरिकाः व्रणिताः। भीकराक्रमणमिति सूच्यते। 

  नार्वालनामकस्थाने कस्यचन आपणस्य पुरतः स्थितं स्फोटकवस्तुसम्पूर्णं यानं ह्यः प्रभाते ११. ३० वादने विस्फोटितमभवत्। अर्धहोरानन्तरं ५० मीटर् दूरे द्वितीयं स्फोटनमभवत्। गणतन्त्रदिनोत्सवकार्यक्रमस्य  राहुलगान्धिनः भारत जोडोयात्रायाः जम्मुप्रवेशस्य च आधारे अस्मादाक्रमणात् जनाः भीताः वर्तन्ते।

Tuesday, January 17, 2023

 यु एस् राष्ट्रे तीव्रव्यापनाय कारणभूतः कोविड् विभेदः भारते अपि वर्धते। भारते २६ प्रकरणानि।

    नवदिल्ली> अमेरिक्काराष्ट्रे तीव्रव्यापनाय हेतुभूतः कोविडस्य एक्स् बि बि.१.५ विभेदः भारते अपि वर्धते। ११ राज्येषु नूतन विभेदः संक्रमितः अस्ति इति इन्सागोग् संस्थया बहिः प्रकाशिते दत्तांशे सूचितमस्ति। अमेरिक्काराष्ट्रे ४४% कोविड् प्रकरणानां हेतुः एक्स् .१.५ भवति। चीनेषु कोविड् व्यापनाय हेतुभूतस्य बि एफ्.७ विभेदस्य  १४ प्रकरणानि  राष्ट्रे प्रतिवेदितानि। कोविड् विभेदेषु अतिव्यापनक्षमः एषः विभेदः प्रथमं सिङ्गपूरे एव  प्रतिवेदितः।

Monday, January 16, 2023

 तृतीयम् एकदिनं - श्रीलङ्कां प्रति भारतस्य उज्वलविजयः; परम्परालाभश्च। 

विराट् कोहली शुभमान गिल् इत्येतयोः शतकप्राप्तिः। 

अनन्तपुरी>  भारतश्रीलङ्कयोः तृतीये अन्तिमे च एकदिनक्रिक्कट् प्रतिद्वन्द्वे  भारतस्य ३१७ धावनाङ्कानाम् अत्युज्वलविजयः। अनेन परम्परा च ३ - ० इति रीत्या भारतेन स्वायत्तीकृता। 

  केरलस्य अनन्तपुर्यां ग्रीन् फील्ड् क्रीडाङ्कणे सम्पन्ने प्रतिद्वन्दे प्रथमं भारतेन पञ्च ताडकानां विनष्टेन ३९० धावनाङ्काः समाहृताः। विराट कोहली १६६* धावनाङ्काः शुभमान गिलः ११६ धावनाङ्काश्च प्राप्तवन्तौ।  प्रत्युत्तरक्रीडायां श्रीलङ्का २२ क्षेपणचक्राभ्यन्तरे सर्वे क्रीडकाः बहिर्नीताः। एकदिनस्पर्धायां धावनाङ्कानाम्  आधारेण भारतस्य बृहत्तमः विजय एष इति सूच्यते।

 चीनस्य समवायेन निर्मितःपोखारा विमाननिलयः। उद्घाटनानन्तरं १५ तमे दिने अपघातभूमिः अभवत्।

  काठ्मण्डु> उद्घाटनानन्तरं द्विसप्ताहामभ्यन्तरे दुरन्तभूमिरभवत् पोखारा विमाननिलयः। चीनस्य सहकारेण निर्मितमासीत् विमान-निलयोऽयम्। अस्य उद्घाटनं जनुवरि मासस्य प्रथमे दिने सम्पन्नम्। विमाननिलयस्य निर्माणपूर्तीकरणात् पूर्वम् उद्घाटितमिति आक्षेपः सर्वत्र प्रसरति।

 कोविड् मरणमानं बहिः प्रकाशिताय चीनाय विश्वस्वास्थ्यसंघटनेन प्रशंसा आवेदिता।

  जनीवा> कोविड् अनुबन्धमरणमानं बहिः प्रकाशितस्य चीनस्य प्रक्रमाय विश्वस्वास्थ्यसंघटनेन स्वागतं व्याजहार। कोविड् अनुबन्ध-मरणमानमधिकृत्य चीनेन दत्तं विशदं विवरणम् निरीक्षयन् अस्मि इति विश्वस्वास्थ्यसंघटनस्य निदेशकेन टेड्रोस् अथनों गब्रियेससेन निगदितम्।

 नेप्पाले दुरापन्नायां विमानदुर्घटनायाम् अष्टषष्टिजनाः मृत्युमुपगताः। 

  काठ्मण्डु> ७२ यात्रिकैः साकम् आकाशे डयमानं विमानं प्रभज्य भस्मावशेषम् अभवत्। अष्टषष्टिजनाः मृत्युमुपगताः। विमानमिदं प्रातः काले दशवादने काठ्मण्डु त्रिभुवन अन्ताराष्ट्रिय-विमाननिलयात् पोखारा


विमाननिलयं प्रति प्रस्थितः आसीत् । पोखारा विमाननिलयस्य समीपे एव दुर्घटनेयं दुरापन्ना। विमाने चत्वारः भारतीयाः अपि आसन् इति आवेदनमस्ति। अतिवृष्ट्या जातं प्रतिकूलवातावरणमेव दुर्घटनायाः कारणमिति प्रतिवेदनमस्ति।

Sunday, January 15, 2023

 २०२२ संवत्सरः अतितापसंवत्सरः आसीत् इति नासा।

 विश्वस्मिन् अतितापमानः संवत्सरः आसीत् २०२२ इति नासा। १८८० संवत्सरादारभ्य तापमानरेखाङ्कनं समारब्धम्। तस्मात् संवत्सरात् आरभ्य इतःपर्यन्तम् अतितापमानं रेखाङकितम्। एवम् अधिकतापानां नवसंवत्सराः विगताः इति नासायाः प्रतिवेदने सूचयति। हरित-गृहवातकानां कार्बण्डयोक्सैड् इत्यादीनां बहिर्गमनं गतवर्षे अभिलेखोन्नतिं प्राप। १९०१ संवत्सरादारभ्यैव भारते तापमानरेखाङ्कनं समारब्धम्। तत्पश्चात् रेखाङ्कितम् उन्नततापसहितः पञ्चमतमः आसीत्  २०२२ संवत्सरः।

 जम्मूकश्मीरे हिमपातः।

श्रीनगरम्> जम्मूकश्मीरे गान्दर्बलेषु सर्बल् मण्डलेषु हिमपातः। हैद्राबादं केन्द्रीकृत्य प्रवर्तमाने मेघा एन्जिनीयरिङ् आन्ट् इन्फ्रास्ट्रक्चर् लिमिट्टड् नाम कर्मशालायाः समीपे एव हिमपातः दुरापन्नः। घटनायाः अस्याः चलनचित्रखण्डः बहिरागतः। जनापायः नास्ति।

Saturday, January 14, 2023

 जयपुरे साहित्योत्सवः जनुवरि१९ दिनाङ्कादारभ्य प्रचलिष्यति। 

 जयपुरम्> राजस्थानदेशः प्रसिद्धाय जयपूर् साहित्योत्सवाय सुसज्जः अभवत्। अस्मिन् मासस्य १९ दिनाङ्कादारभ्य २३ दिनाङ्कपर्यन्तं क्लार्क्स् अमीर् भोजनालये १६ तमः उत्सवः प्रचलिष्यति। नोबल् पुरस्कारजेता अब्दुल् रसाक् गुर्णा, अन्तर्राष्ट्रिय बुक्कर् पुरस्कारजेत्री गीताञ्जली श्री, चरित्रकारः काट्टि हिक्मान्, अमेरिक्का - कनेडिया लेखकः रुत् ओसेक्कि प्रभृतानां सान्निध्येन सम्पन्नः भविष्यति सहित्योत्सवः। ४०० संख्याधिकाः लेखकाः, चिन्तकाः राष्ट्रिय- सांस्कृतिकमण्डलेषु प्रथिताः च अस्मिन् उत्सवे भागं स्वीकरिष्यन्ति। बालकान् युवकान् च ग्रन्थानां लोकान् प्रति आनयनमेव उत्सवस्यास्य लक्ष्यमिति अधिकारिभिः प्रोक्तम्।

भक्तजनसहस्राणां हृदयेषु आनन्दं जनयन् पोन्नम्बलमेट्टे मकरज्योतिः ज्वलितः।

शबरिमला> शास्तारं द्रष्टुं शबरिगिरिमारुह्य आगतेषु  भक्तजनहृदयेषु परमसायुज्यं प्रददन् पोन्नम्बलमेट् गिरौ मकरज्योतिः ज्वलितः। श्यामायमानानि शबरिमलकाननानि शरणमन्त्रैः मुखरितानि। सायं सन्ध्यायां सार्धषट्वादने मन्दिरस्य श्रीकवाटं उद्घाटितम्। तदनन्तरं भक्तजनाः शरणमन्त्रैः साकं पोन्नम्बलमेट् गिरौ त्रिवारं मकरज्योतिं दृष्टवन्तः।

 चीनेषु ३५ दिनाभ्यन्तरे ६००० मरणानि। अन्ते चीनेन कोविड् अनुबन्धमरणानां संख्या विज्ञापिता।

  बीजिङ्> चीनाराष्ट्रे तथा अन्येषु विदेशराष्ट्रेषु च कोविड् प्रकरणानि वर्धन्ते। रोगिणां संख्या तथा मरणमानं च अधिकृत्य यथार्थं प्रतिवेदनं चीनेन न दीयते इति विश्वस्वास्थ्यसंघटनेन अन्यैः च उक्तमासीत्। अधुना मरणमानमधिकृत्य यथार्थं प्रतिवेदनं चीनेन बहिः प्रकाशितम् । एकमासाभ्यन्तरे ६००० कोविड् अनुबन्धमरणानि प्रतिवेदितानि इति अधिकारिभिः आवेदितम् ।

चित्रं  - AFP



Friday, January 13, 2023

 विश्वचषकयष्टिक्रीडास्पर्धायै अद्य शुभारम्भः। 

रूर्कला> यष्टिक्रीडायाः [होक्की] लोकवीराः अद्य आरभ्य भारते ओडीशायां सङ्गमन्ते। लक्ष्यमेक एव -  विश्वकिरीटम्। भारतमभिव्याप्य १६ राष्ट्राणि विश्वचषककिरीटाय स्पर्धन्ते। 

  पञ्चभ्यः भूखण्डेभ्यः १६ दलाः चतुर्षु संघेषु अन्तर्भवन्ति। संघजेतारः साक्षादेव चतुर्थांशं प्रवेष्टुमर्हन्ति। रूर्कला भुवनेश्वरं इत्येतयोः क्रीडाङ्कणेषु सर्वाः स्पर्धाः सम्पत्स्यन्ते। 

  भारतं डि संघे अन्तर्भवति। इङ्लाण्ट् स्पेयिन् वेय्ल्से इत्येतानि अन्ये दलाः। क्रीडापरम्परायाः प्रथमस्पर्धा मध्याह्ने एकवादने कलिंग क्रीडाङ्कणे अर्जन्टीना-दक्षिणाफ्रिक्कयोर्मध्ये प्रचलिष्यति। भारतस्य प्रथमस्पर्धा अद्यैव रात्रौ सप्तवादने रूर्कलायां स्पेयिनेन सह भविष्यति।

Thursday, January 12, 2023

 प्रशस्तः अनुवादकः आर् ई आषरः दिवंगतः। 


लण्टनं > विश्वप्रशस्तः  बहुभाषापण्डितः भाषाशास्त्रज्ञः तथा अनुवादकः डो रोणाल्ड् ई आषरः [९६] दिवंगतः। स्कोट्लान्टे एडिन् बरो मध्ये आसीत् तस्यान्त्यम्। 

    १९२६ तमे वर्षे इङ्लण्टे नोट्टिंहामस्थे 'ग्रिंग्लि ओण् द हिल्' नामके ग्रामे लब्धजन्मा अयं यदा लण्टन् विश्वविद्यालये गवेषणछात्रः विद्यमानः तदा भारतस्य वि के कृष्णमेनोन् इत्यस्य कैरलीप्रभाषणमश्रुणोत्। तदैव द्राविडभाषासु कुतुकी भूत्वा भारतं प्राप्य मलयालं, तमिलादिषु द्राविडभाषासु प्रावीण्यं सम्प्राप्तवान्। 

  कैरलीग्रन्थान् अनूद्य  आषरवर्यः मलयाले श्रद्धेयः अभवत्। वैक्कं मुहम्मद बषीरस्य, तकष़ि शिवशङ्करप्पिल्ला वर्यस्य च प्रसिद्धान् ग्रन्थान् आङ्गलं प्रति विवर्तनं कृत्वा मलयालस्य साहित्यप्रपञ्चं विश्वाय परिचायनं कृतवान्। एष्याटिक् सोसैटी संस्थायाः फेलोषिप्, केन्द्रसाहित्य अक्कादम्याः विशिष्टाङ्गत्वं, केरल साहित्य अक्कादम्याः सुवर्णपदकम् इत्यादिभिः बहुभिः पुरस्कारैः सः समादृतः आसीत्।

Tuesday, January 10, 2023

 येशुदासस्य ८३ तमः जन्मदिनोत्सवः अद्य कोच्चीनगरे। 


कोच्ची> गानगन्धर्वस्य डो के जे  येशुदासवर्यस्य ८३तमं जन्मदिनमद्य कोच्चीनगरे सुहृद्भिः आराधकैः च आघुष्यते। येशुदास् अक्कादमी संस्थया आयोजिते अस्मिन्नुत्सवे श्रेष्ठः चलच्चित्रनटः मम्मूट्टी मुख्यातिथिः भविष्यति। इदानीम् अमेरिक्कायां डालस् मध्ये वसन् येशुदासः पत्न्या प्रभया सह ओण् लैन् द्वारा भागभागं करिष्यति। 

    प्रभाते दशवादनतः आरभ्यमाणेषु कार्यक्रमेषु संगीत-साहित्य-चलच्चित्र-राजनैतिकादिक्षेत्रेभ्यः प्रमुखाः येशुदासस्य सतीर्थ्याश्च भागं करिष्यन्ति। आघोषकार्यक्रमाः येशुदास् अक्कादम्याः 'डिजिटल् वेदिका'द्वारा सर्वैरपि तत्समये द्रष्टुं शक्यन्ते।

 केरलेषु विद्यालयछात्रेभ्यः संस्कृत-धिषणावृत्तिपरीक्षा समारब्धा।

 आलप्पुष़ा> केरल-संस्कृताध्यापक फेडरेषन् (KSTF) इति दलस्य नेतृत्वे विद्यालयछात्रेभ्यः आदर्श-संस्कृत-धिषणावृत्तिपरीक्षा समारब्धा। ह्यः पूर्वाह्ने एकादश वादनादारभ्यः आसीत् इयम् विद्यालयस्तरीया परीक्षा। केरल-सर्वकारेण आयोक्ष्यमाणायाः परीक्षायाः आदर्शरूपेण भवति इयं परीक्षा इत्यनेन छात्रेभ्यः बहु उपकारी भवति इयम् इति के एस् टि ए फ्  सङ्घटनस्य नेतृभिः उक्तम्। प्रतिवर्षम् अयोक्ष्यमाणे अस्मिन् स्पर्धा-परीक्षायां प्रथमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्राः भागं स्वीकुर्वन्ति। (आदर्श-प्रश्नपत्रप्राप्तत्यर्थं - www.kstfedu.org)

 उत्तरभारते अतिशैत्यं पारम्ये। 

८८ रेल् यानानि निरस्तानि। ३१ यानानि मार्गपरिवर्तितानि। २५ विमानानि विलम्बितानि।

नवदिल्ली> दिल्या समं उत्तरभारते सर्वत्र हिमानिः तुषारावरणं च। दिल्याम् अवरतः तापमानं १. ९ डिग्री जातम्। यात्रासुविधाः शिथिलाः भूताः। 

  पञ्चाब् भटिन्डा, आग्रा, इत्यादिषु स्थानेषु दृश्यपरिमितिः शून्यमासीत्। स्पर्शनीयवस्त्वपि अदर्शनीयमासीत्। पाट्यालः, चण्डीगढः, हिसारं, लक्नौ इत्यादिषु स्थानेषु दर्शनीयपरिधिः २५ मीटर् आसीत्।

 जापानराष्ट्रे कोविड्वैराणुः व्याप्यते अतिद्रुतया

  टोकियो> चीन- अमेरिका-जापान-राष्ट्रेषु कोविड् वैराणुव्यापनं भीदितं वर्धते इत्यस्ति प्रतिवेदनम्। नूतनविभेदाः एव त्वरितव्यापनस्य कारणम् इति अनुमीयते। जनुवरिमासस्य मध्ये पूर्वसंवत्सरापेक्षया अधिकं व्यापनं भविष्यति इति स्वास्थ्यविशारदाः अभिप्रयन्ति। रोगप्रसारणं रोद्धुं न शक्यते चेत् मरणानि वर्धिष्यन्ते अतुरालयाः रोगिभ्यः उद्गमितपूर्णाः स्युः इति  टट्टेडा कहुसिरो नामकः प्रमुखस्वास्थ्य-वैज्ञानिकः अवदत्॥

Monday, January 9, 2023

 जोषिमठे मृत्प्रपातः अनुवर्तते; जनाः पलायनं कुर्वन्ति। 

जोषिमठे विघटितं वासस्थानं स्थलं च।

नवदिल्ली> उत्तराखण्डराज्यस्य तीर्थाटननगरे जोषिमठे वासगृहाणां भवनानां च विश्लेषणम् इति प्रतिभासात्  जनाः भीत्यां वर्तन्ते। अधिष्ठानभूम्यां मृत्प्रपातः एव कारणमिति अभिज्ञमतम्। सप्ताहद्वयं यावत् अनुवर्तमानोSयम् आलोकः। 

  राष्ट्रियदुरन्तनिवारणसेना तथा राज्यदुरन्तनिवारणसेना च दुरापन्नस्थाने निवेश्य ६०० परिवाराणां स्थानपरिवर्तनाय प्रयत्नं करोति। 

  समुद्रतलात् ६००० पादपरिमितायामुन्नत्यां भूकम्पसाध्यतायुक्ते अस्मिन् हिमालयक्षेत्रे नियमान् तिरस्कृत्य कृतानि निर्माणप्रवर्तनानि एव दुरन्तकारणमिति तद्प्रदेशीयाः आरोपयन्ति।

 जोशीमठे भूविच्छेदः - उपग्रहसर्वेक्षणं कृतम्।

 जोशीमठात् ४००० जनाः सुरक्षितस्थानं नीताः। गृहेषु विदारणं तथा भूमिः विदार्य अधः पतनं च दुरापन्ने उत्तरखण्डे जोशीमठात् ६०० गृहाणि विजनमकरोत्। ४००० जनाः सुरक्षितस्थानेषु नीताः। प्रदेशे उपग्रह सर्वेक्षणानन्तरमेव जनाः सुरक्षितस्थानं नीताः। जोशीमठे समीपप्रदशेषु च अन्यानि  निर्माणप्रवर्तनानि स्थगयितुं निर्देशो दत्तः। उदग्रयानानि अन्यानि वाहनानि च सुरक्षायै सज्जीकृतानि च॥

Sunday, January 8, 2023

 केरलराज्यस्तरीय-कौमारकलोत्सवः समाप्तः। 

कोष़िक्कोट् जनपदाय कलाकिरीटम्।

 कोष़िक्कोट्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति प्रसिद्धिमाप्तः केरलराज्ये प्रतिवर्षं सम्पद्यमानः राज्यस्तरीयः विद्यालयीयकलोत्सवः कोष़िक्कोट् नगरे समाप्तिमाप्तः। कोविड्महामारिकारणेन वर्षद्वयं यावत् स्थगितः उच्चोच्चतरीयछात्राणां पञ्चदिनात्मकोSयं कलोत्सवः जनुवरि तृतीयदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं पूर्वाधिकं सम्यक् रीत्या सामान्यजनसहयोगेन च प्रचलितः। १४ जनपदेषु परमतः प्राप्ताङ्काय जनपदाय दीयमानः सुवर्णचषकः आतिथेयजनपदेन कोष़िक्कोटेन प्राप्तः। पालक्काट् कण्णूर् जनपदौ द्वितीयस्थानं प्राप्तवन्तौ।

   अरबी - संस्कृतकलोत्सवाभ्यां समं सम्पद्यमाने  कलोत्सवे अस्मिन् वारे २४ वेदिकासु आहत्य १५ सहस्रं कुमारकाः विविध-साहित्यकलास्पर्धासु स्ववैभवं प्रकटीकृत्य स्पर्धितवन्तः।

Wednesday, January 4, 2023

 केन्द्रप्रशासनस्य मुद्रानिरासः सर्वोच्चनीतिपीठेन अनुमोदितः। 

नवदिल्ली> षड्भ्यः संवत्सरेभ्यः पूर्वं सहस्र-पञ्चशतमुद्रापत्रकाणि निरस्तुं केन्द्रप्रशासनेन निर्णीतः प्रक्रमः सर्वोच्चनीतिपीठेन अनुमोदितः। न्यायमूर्तिः एस् अब्दुल् नसीर् वर्यस्य नेतृत्वे विद्यमानस्य  पञ्चाङ्गयुक्तस्य शासनसंविधाननीतिपीठस्य चत्वारः न्यायमूर्तिनः केन्द्रप्रशासनस्य प्रक्रमं अनुमोदितवन्तः। अवश्याः प्रक्रमाः मुद्रानिरसनात्पूर्वं सर्वकारेण पालिता इति तैः निरीक्षितम्।  किन्तु न्यायमूर्तिः बि वि नागरत्नः मुद्रानिरासप्रक्रमाः न नियमानुसारिणः इति स्वस्य अप्रीतिं प्रकाशितवान्।

Sunday, January 1, 2023

 बनडिक्ट् मार् पाप्पः दिवं गतः। 


वत्तिक्कान्> आगोलकत्तोलिक्का क्रैस्तवसभायाः भूतपूर्वः परमाध्यक्षः बनडिक्ट् षोडशः  [९५] गतदिने प्रादेशिकसमयः प्रभाते सार्धनववादने [भारतसमयः मध्याह्नानन्तरं द्विवादनं] कालयवनिकां प्राप्तवान्। 

  २००५ एप्रिल् १९ तमे दिनाङ्के जोण् पोल् द्वितीयस्य अनुगामिरूपेण मार्पाप्पपदं प्राप्तः बनडिक्ट् वर्यः अनारोग्यहेतुतया २०१३ फ्ब्रुवरिमासस्य २८ तमे स्थानत्यागं कृत्वा विश्रान्तिजीवनं नयन्नासीत्। 

  श्वः आरभ्य गुरुवासरपर्यन्तं सेन्ट् पीटेर्स् चत्वरे सामान्यजनेभ्यः भौतिकशरीरदर्शनाय व्यवस्था कृता। अन्त्येष्टिकर्माणि फ्रान्सिस् मार्पाप्पावर्यस्य कार्मिकत्वे सेन्ट् पीटेर्स् बसलिक्का मध्ये गुरुवासरे भविष्यति।

 पञ्चराष्ट्रेभ्यः आगतानां RTPCR पत्रम् अत्यावश्यकम्। 

नवदिल्ली> कोविड्व्यापितेभ्यः  पञ्चभ्यः राष्ट्रेभ्यः ये भारतमागन्तुमिच्छन्ति तेषां RTPCR परिशोधितपत्रम् अत्यावश्यकमिति भारतसर्वकारेण आदिष्टम्।  चीनः, जप्पानं, दक्षिणकोरिया, होङ्कोङः, ताय्लान्टः इत्येतेभ्यः राष्टेभ्यः आगन्तुकानाम् अद्य आरभ्य एवेयं व्यवस्था।

 अमेरिक्कायां हिमपातः शाम्यति; एतावत्पर्यन्तं ५४०कोटि डोलर् परिमितस्य नष्टानि। 

वाषिङ्टणः> यू एस् राष्ट्रे साप्ताहिकाधिकतया अनुवर्तमानस्य हिमपातस्य शीतप्रचण्डवातस्य च अल्पेन शमनमनुभूयते। हिमशिलाः द्रवीकर्तुमारभन्त इत्यतः तिरोभूतानां पौराणां  कृते अन्वेषणमूर्जितं कारितम्। ४२ राज्येषु ५४० कोटि डोलर् परिमितस्य नष्टानि अभवन्निति अधिकारिणां गणना। 

  बहुषु प्रदेशेषु गमनागमनसुविधां पुनःस्थापयितुं प्रयत्नः आरब्धः। जनसंख्याधिकयुक्तेषु नगरेषु यानचालननिरोधः अपाकृतः।  सुरक्षासैनिकाः प्रतिगृहं सन्दर्शयन्तः पानजल-विद्युदादीनां लभ्यतां दृढीकुर्वन्तः सन्ति। 

  केवलं न्यूयोर्के ४० मरणानि आवेदितानि। १९७७ तमे वर्षे अमेरिक्कायां दुरापन्नात् हिमपात-शीतप्रचण्डवातात् तीव्रमासीत् ऐषमः इति सूच्यते।