OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 31, 2021

 कोविडस्य द्वितीयतरङ्गे रोगव्यापनमतिशीघ्रम्।

   नवदिल्ली> भारते कतिपयराज्येषु कोविड्-१९ महामारेः द्वितीयतरङ्गः अतिशीघ्रं व्याप्यते। मृत्युमानमपि प्रथममपेक्ष्य वर्धमानमस्ति। 

 गतासु २४ होरासु ६८,०२० जनाः रोगबाधिताः अभवन्। २९१ मरणानि जातानि। महाराष्ट्रे रोगबाधितानां संख्या गतदिने ४०,४०१४ अभवत्।

 म्यान्मरसेनां विरुध्य लोकराष्ट्राणि। नरहत्या समाप्यतामिति निदेशः। 

   याङ्कूण्> ये प्रतिषिध्यन्ति तान् निष्करुणं निहननं कुर्वन्तं म्यान्मरराष्ट्रस्य सैनिकशासनं विरुध्य लोकराष्ट्राणां तीव्रः प्रतिषेधः। सायुधसेनादिने शनिवासरे बालकानभिव्याप्य ११४ जनाः सैन्येन निहताः। इतःपर्यन्तं चतुश्शताधिकाः जनाः निहताः सन्ति।  

  गतदिने सैन्येन हतानामन्त्येष्टिकर्मणि अपि भुषुण्डिप्रयोगः कृतः। सैन्यस्य नरमृगयामपलपन्तः जापान पदक्षिणकोरिय-ब्रिट्टन-अमेरिक्क-आस्ट्रेलिय-कानड-डेन्मार्क- जर्मनि-ग्रीस्-नेतर्लान्ट्-न्यूसिलान्ट् इत्येतेषां राष्ट्राणां रक्षामन्त्रिण‌ संयुक्तप्रस्तावं कृतवन्तः।

Monday, March 29, 2021

 भारत-इंग्लैण्डयोः एकदिवसीया क्रिकेटशृङ्खला भारतेन विजिता

   पुणे नगरस्थे महाराष्ट्र-क्रिकेटसङ्घ-क्रीडाङ्गणे रविवारे भारत-इंग्लैण्डदलयोः मध्ये क्रीडिते तृतीयान्तिमायाम् एकदिवसीयायां स्पर्धायां भारतेन इंग्लैण्डवृन्दं पराजितम्। रोमाञ्चके द्वन्द्वे भारतेन सप्त धावनाङ्कैः विजयश्रीः अधिगता। अनेन सहैव भारतेन एतदिवसीया क्रिकेटशृङ्खला द्वे एकम् स्पर्धान्तरालेन स्वायत्तीकृता। इतः पूर्वं दलद्वयम् अन्तरा क्रीडिता विंशतिः प्रतिविंशतिः क्षेपचक्रीया शृङ्खला अथ च क्रिकेटनिकषशृङ्खला अपि भारतेनैव विजिते। 

    पणकं विजित्य इंग्लैण्डदलेन कन्दुकक्षपणं स्वीकृतम्। प्रथमं भारतेन नवविंशत्युत्तरत्रिशतं धावनाङ्कानां विजयलक्ष्यं स्थापितम्। लक्ष्यमनुसरता इंग्लैण्डदलेन निर्धारितेषु पञ्चाशत् क्षेपचक्रेषु नवक्रीडकाणां हानौ द्वाविंशत्युत्तरत्रिशतं धावनाङ्काः एव समर्जिताः। स्पर्धायां भव्यप्रदर्शनाय सैम-कुर्रन इत्यसौ स्पर्धापुरुषः चितः। शृङ्खलायां सर्वश्रेष्ठ-प्रदर्शनाय च जॉनी बेयरस्टो इत्यसौ श्रेष्ठक्रीडकत्वेन प्रचितः।

Sunday, March 28, 2021

 यू ट्यूब् वाहीन्या करः दातव्यः। 

सर्वकार्येषु यू ट्यूब् वाहिनीनां आरम्भः कुर्वन्तः सन्ति सर्वे। आबालवृद्धं जनाः यू ट्यूब् द्वारा धनसम्पादनाय प्रयत्नं कुर्वन्तः सन्ति। किन्तु विभवोत्पादकानां हस्ततः शुल्कं (करः) स्वीकर्तुं गूगिलेन निश्चितः अस्ति। १४% भवति कररूपेण दातव्यः अस्ति। अमेरिकस्य नियमानुसारं राष्ट्रात् बहिः विद्यमानानाम् उत्पादकानां पार्श्वतः एव शुल्कः स्वीकरिष्यति। विषयमिदम् अणुपैषद्वारा उत्पादकाः संवेदिताः। मार्च् ३१ तः पूर्वं Adsense सुविध्या गूगिलः न्यवेदनीयः नो चेत् करः व्यवस्था २४% इति भविष्यति।

 महाराष्ट्रे अद्य रात्रौ आरभ्य तीव्रनियन्त्रणं विहितम्।

 मुम्बै> कोविड् व्यापनस्य अधिक्यस्य कारणेन महाराष्ट्र राज्ये अद्य (रविवासरः) आरभ्य रात्रिसमय तीव्रनियन्त्रणं भविष्यति इति मुख्यमन्त्रिणः कार्यलयात् ज्ञापितम्। रात्रि ८ वादनात् प्रभाते ७ वादनपर्यन्तं विपणिः मा भवतु इति आदेशः प्रसारितः। एप्रिल् १५ दिनङ्कतः विवाहादिकं मास्तु इत्यपि आदिष्टः। 

Saturday, March 27, 2021

 वङ्गे असमे च विधानसभानिर्वाचनस्य प्रथमचरणं समाप्तम्। 

  कोल्कत्ता> पश्चिमवंगः असमः इत्येतयोः राज्ययोः विधानसभानिर्वाचनस्य प्रथमं चरणमद्य परिसमाप्तम्। वंगे ३० मण्डलेषु असमे ४७ मण्डलेषु च निर्वाचनं सम्पन्नम्। वङ्गे ८० प्रतिशतं , असमे ७० प्रतिशतं मतदानिनः स्वाभिमतं रेखितवन्तः इति सूच्यते।

 चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। सीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः गृहीताः। 

    ताय्पेय्> चीनं विरुद्ध्य प्रक्रमान् अनुवर्तते ताय्वानेन। समुद्रसीमानम् उल्लङ्ख्य आगताः यन्त्रनौकाः तय्वानेन गृहीताः। तय्वानस्य सुरक्षासेनया एव मत्स्यबन्धने निरताः गृहीताः। १३ धीवराः अपि बन्धनस्थाः सन्ति। चीनः बृहत्तमान् यन्त्रनौकान् उपयुज्य सीमानम् उल्लङ्ख्य मत्स्यबन्धनं कुर्वन् आसीत्। अन्ताराष्ट्रनियमान् उल्लङ्ख्य भवति चीनस्य प्रवृत्तिः इति तय्वानेन संसूचितः। तथापि प्रतिनिवर्तितुं चीनः न उद्युक्तः। अत एव रोधनप्रक्रमाय ताय्वानः निर्बधितः अभवत्।

Friday, March 26, 2021

 निसार्' सख्यं  प्रकृतिविभवसंरक्षणाय साहायकम् इति अमेरिकः। 


  अमेरिक्कस्य राज्यविभागेन उक्तं यत् निसार् (NASA+ISRO) सख्यं  प्रकृतिविभवसंरक्षणाय साहायकम् इति। विश्वतले भूमेः विभवानि संद्रष्टुं प्रकृतिदुरन्तसूचना यथाकालं प्रत्यभिज्ञातुं क्षमतायुक्तम् उपग्रहनिर्माणानि  विक्षेपः च लक्ष्यःI अनेन बाह्याकाशानुसन्धानरङ्गेषु उन्नतिः भविष्यति। एतदर्थम् आधुनिकोपकरणानि भारतेन अमेरिकं प्रति प्रेषितानि सन्ति। योजनेयं 'निसार्' इति नाम्नि सूत्रवत् ज्ञायते। भूमेः समग्रतया निरीक्षणमेव अनेन प्रकारेण भविष्यति।

Thursday, March 25, 2021

 भारतराट्रे कोविड् विषाणोः नूतनः ७७१ प्रकारभेदाः दृष्टाः। 

    नवदिल्ली>निखिलं राष्ट्रं कोविड् विषाणोः जनितकपरिणामभूतः नूतनः ७७१ प्रकारभेदः प्रकारभेदाः दृष्टाः इति 'इन्साकोग्' [Indian Sars Covi 2 Consortium of Genomics] इत्यनेन संस्थया निगदितम्। नूतनं रोगव्यापनात्मकः तरङ्गायमानः च 'एन् ४४०के' इति नामकृतः अयं प्रकारभेदः। 

 आभारतं ईदृशः प्रकारभेदः दृष्टः। केरलं आन्ध्रप्रदेशः, तेलङ्कानम् इत्यादिषु १८ राज्येषु दृष्टाः सन्ति।

Wednesday, March 24, 2021

 पुरातनन्निवृत्तिवेतनम्पुनःप्रारम्भार्थं सर्वकारस्य विरोधे आन्दोलनेऽतिष्ठत् डॉ सुशान्तसिंहः।


वार्ताहरः- श्रीवत्स देशराजशर्मा मण्डी हिमाचलप्रदेश:


  हिमाचल समूहस्य प्रदेशाध्यक्ष डॉ राजनसुशांत फतेहपुरे समर्थकैः सह अनुयायिभिःसहानिश्चतकालीनःसर्वकारस्य विरोधेऽतिष्ठत्।डॉ सुशान्तसिंहेन कथितं यद्यावत्प्रदेशस्य सर्वकारोऽस्माकङ्कथनानि नाङ्गीकरिष्यति तावत्तस्य सर्वकारम्प्रति रोषःएवमेव भविष्यति नात्र संशयः। अपि च डॉ महोदयेन कथितं यत् मार्चमासस्य त्रयोदशतारिकायाम्मुख्यमन्त्रिणःफतेहपुरागमनावसरे विभिन्नविषयैः सह पुरातनन्निवृत्तिवेतनस्यापि चर्चाऽभवत् तथा कार्यालये कार्यरतानां कर्मचारिणां वेतनस्यापि चर्चाऽभवत्।अस्यातिरिक्त अन्योऽपि जनहिताय ये ये विषया आसन् तेषामुपर्यपि चर्चाऽभवत्।एतेषां विषयानां पूर्णीकृते सप्ताहरिमाणसमयस्सर्वकारकृतैवासीत्परं मुख्यमन्त्रिण उपरि काऽपि प्रतिक्रिया नाऽभवत्।।

 रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः।

   रोहिन्ग्यजनानां शिबिरे अग्निबाधया १५ जनाः मृताः ४०० जनाः अप्रत्यक्षाः इति यु एन् सङ्घटनस्य अभयार्थि-विभागेन उक्तम्। ५६० जनाः व्रणिताः इत्यपि उक्तम्। ह्यः प्रातः दिक्षिण बङ्गलादेशस्य रोहिङ्ग्यानां अभयार्थिजनानां शिबिरे आसीत् अग्निबाधा। कोक्स् बसार् इत्यस्य बलुखालि शिबिरे आसीत् अग्निबाधयाः आरम्भः। तदनन्तरं समीपस्थेषु गृहेषु अपि अग्निबाधा अनुवर्तिता।

Tuesday, March 23, 2021

 हिमाचलप्रदेशे चतुर्विंशतिलक्ष-सङ्ख्यकानां कर्मकराणाम् अप्रैलमासस्य प्रथमदिनाङ्कतः पारिश्रमिकस्य वर्धनं भविता।

वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश: 

    हिमाचलप्रदेशे दैनिक-कार्यरतानां चतुर्विंशतिलक्षसङ्ख्यक-कर्मकराणां अप्रैलमासतः वेतने पञ्च-षण्मितानि रूप्यकाणि वर्धयिष्यन्ते। प्रदेशस्थेषु इतरजनजातीयक्षेत्रेषु तेषां दैनिकपारिश्रमिके पञ्चरुप्यकाणि प्रवर्ध्य २०३ रू० तथा जनजातीयक्षेत्रेषु षड्रुप्यकाणि प्रवृध्य च २५४ रु० भवितारः। तत्पारितोषिकवर्धनस्य अधिसूचना उद्घोषणं वा केन्द्रीयसर्वकारस्य राजपत्रे सुस्पष्टं प्रकाशितं वर्तते।

Monday, March 22, 2021

 2050 संवत्सरे समागते 25% जनेभ्यः श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसंघटनम् 

   समागतेषु संवत्सरेषु श्रवणवैकल्यः भविष्यति इति विश्वस्वास्थ्यसङ्घटनस्य पूर्वसूचना।  2050 संवत्सरे समागते 25% जनेभ्यः श्रवणसंबन्ध पीडा भविष्यति इति 'ग्लोबल् रिपोर्ट् ओण् हियरिङ्' इति आवेदने स्पष्टीकरोति। अणुबाधा, रोगाः, जन्म वैकल्यः, शब्दमलिनीकरणं, जीवितशैलीपरिवर्तनं च कारणत्वेन उच्यते। अतिश्रद्धा दीयते चेत् दोषान् परिहर्तुं शक्यते इति आवेद्यते विश्व स्वास्थ्य सङ्घटनेन।

 हिमाचलसेनाप्रवेशार्थम् आगतानां युवकानां एन्.एच्. इत्यस्मिन् यानचक्रम् अवरुद्धम्, ते घण्टात्मकं विवादाक्रोशनं कृतवन्तः । 

वार्ताहरः श्रीवत्स देशराज शर्मा मण्डी हिमाचलप्रदेश:।

  हिमाचलप्रदेशस्य ऊनाजनपदस्थे इन्दिराक्रीडाङ्गणे शनिवासरे सेनाप्रवेशपरीक्षाद्वारतो निष्काशनकारणतो भृशं क्षोभं प्रदर्शितवन्तः। धर्मशाला-दिल्ली-राजमार्गे पञ्चदशनिमेषं यावत् यानानि अवरुद्धानि कृतवन्तः। तद्यानानि पुनः प्रवर्तनाय आरक्षकैः बहुकष्टम् अनुभूतम्। अस्मिन् सन्दर्भे युवकानाम् आरक्षकाणां मध्ये सामान्यः सङ्घर्षोऽपि सङ्घटितः। यानानां प्रवर्तनानन्तरमपि क्षुब्धयुवकाः एन्.एच्. इत्यत्रैव घण्टां यावत् स्थितवन्तः। राजमार्गस्य उभयत्रापि एकिमिपर्यन्तं यानानां पङ्क्तिः अदृश्यत। युवकानाम् आरोपो यत् तेषां प्रत्येकम् युवदलत एक एव छात्रः सैनिकपदव्यर्थं चितः अभवदिति । प्रत्येकं शाखादले प्रायः चतुर्शतं तरुणाः धावनपरीक्षायां भागम् ऊढवन्तः आसन्। अपरत्र, सेनानिदेशकः कर्नल-संजीवकुमारो वदन् आसीत् यत् तरुणाः स्वदलं निर्माय सहैव धावमानाः आसन् चेदपि तत्पूर्णं कर्तुं न शक्तवन्त इति।

Sunday, March 21, 2021

 भारत-यू एस् सैनिकसहयोगः विपुलीक्रियते। 

  नवदिल्ली> फ्लोरिडा मध्ये वर्तमानेन 'यू एस् सेन्ट्रल् कमान्ड्' इत्यनेन, भारत-पसफिक् मण्डले आफ्रिक्कायां च वर्तमानेन यू एस् कमान्ड् इत्यनेन च सह प्रतिरोधसहयोगं बलवत्कर्तुं भारतेन निर्णीतम्। दिनत्रयसन्दर्शनार्थं गतदिने भारतं प्राप्तवता यू एस् राष्ट्रस्य प्रतिरोधसचिवेन लोय्ड् जयिंस् ओस्टिन्  इत्यनेन सह कृतायाः चर्चायाः परं भारतस्य रक्षामन्त्री राजनाथसिंहः एव विषयममुं निगदितवान्। 

  भारतेन सह अमेरिक्कायाः सैनिकसहयोगस्य प्रवर्धनमेव बैडनप्रशासनस्य प्रथमपरिगणनेति ओस्टिन्वर्येण चोक्तम्।

 कोविडस्य विनाशाय उन्नतावृत्तितशब्दतरङ्गेण शक्यते।

 बोस्टण्> उन्नतावृत्तितशब्दतरङ्गेन कोविड् वैराणुं नाशयितुं शक्यते इति अनुसन्धानस्य फलम्। यु एस् मासच्युसेट्स् संस्थायाः अनुसन्धाताः एव नूतनानुसन्धानस्य पृष्टतः। मनुष्याणां श्रवणागोचरान् उन्नतावृत्तिसहितान् शब्दतरङ्गान् प्रति कथं प्रतिकरोति इति अनुसन्धानं कृत्वा आसीत् नूतनं अध्ययनम्। चिकित्सायाम् उपयुज्यमानानाम् उन्नतावृत्ति-शाब्दतरङ्गाणां प्रकम्पनेन कोविडादि वैराणुनां नाशं भवति इति एतैः प्रत्यभिज्ञाताः। Mechanic's And Physics of Solid इति पत्रिकायाम् आवेदनमिदं प्रकाशितम् अस्ति।

 पाकिस्थानप्रधामन्त्री इम्रान् खानः कोविड्बाधितः। 

इस्लामबाद्> पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः कोविड्बाधितः अभवदिति सर्वकाराधिकारिभिः निगदितम्। गृहे निरीक्षणे वर्तमाने तस्मिन् ज्वरकासबाधा वर्तते इति स्वास्थ्यविभागस्य अधिकारिप्रमुखेन डो. फैसल् सुल्तान् इत्यनेन ट्वीटीकृतम्। 

   राष्ट्रस्य वाक्सिनीकरणबोधवत्करणस्य अंशतया इम्रान् खानः गुरुवासरे वाक्सिनं स्वीकृतवानासीत्। कोविडस्य तृतीयः तरङ्गः आराष्ट्रं बाधितः इति सर्वकारेण गतसप्ताहे स्पष्टीकृतमासीत्। 

  पाकिस्थाने निखिलं षट् लक्षाधिकाः जनाः कोविड्बाधिताः, १३,७९९ जनाः मृत्युमुपगताः इति जोण् होप्किन्स् विश्वविद्यालयेन प्रकाशिते आवेदने सूचितम्।

Saturday, March 20, 2021

 कोविडस्य तृतीयतरङ्गः - यूरोपीयराज्येषु भागिकं पिधानम्। 

   पारीस्> कोविड् महामारेः तृतीयतरङ्गं नियन्त्रयितुं फ्रान्स् , पोलण्ट् इत्यादिषु राष्ट्रेषु भागिकपिधानं प्रख्यापितम्। पारीस् नगरमभिव्याप्य १६ नगरेषु शुक्रवासरादारभ्य नियन्त्रणानि विधत्तानीति तत्रत्यः प्रधानमन्त्री जीन् कास्टेक्स् इत्यनेन निगदितम्। 

  गतासु २४ होरासु ३५,००० नूतनानि प्रकरणानि आवेदितानि। १२०० रोगिणः राष्ट्रे अतितीव्रविभागे परिचर्यायां वर्तन्ते इति स्वास्थमन्त्रिणा उक्तम्। 

  पोलण्टे कोविडस्य तृतीयतरङ्गः अतितीव्रः जातः। अतः राष्ट्रे कर्कशं पिधानं विधास्यते इति अधिकृतैरुक्तम्। ह्यः २२,९९८ जनाः रोगबाधिताः अभवन्। 

 जर्मनी देशे अपि जनितकपरिवर्तितः कोविड्रोगः शीघ्रं व्याप्यते । तत्र १७,४८२ रोगप्रकरणानि २२६ मरणानि च आवेदितानि।

 जाग्रत्ताविषये अनवधानता - कोविड्बाधितानां संख्या वर्धते। 

    नवदिल्ली> भारते कोविड्रोगबाधितानां प्रतिदिनसंख्या वर्धते। गतदिने ३५,८७१ जनाः रोगबाधिताः अभवन्। डिसम्बर् ६ दिनाङ्कात्परम् उच्चतरा संख्या भवत्येषा। 

    महाराष्ट्रे एव रोगबाधिताः अनुदिनं वर्धते। गतदिने २३,००० अधिकं जनाः रोगबाधिताः जाताः। मरणान्यपि तत्रैव अधिकतरं दृश्यन्ते - १७२। पञ्चाबे ३५ जनाः कोविडेन मृत्युवशं गताः।

Friday, March 19, 2021

 बन्धं बलवत्कर्तुं भारत-कुवैट् आयोगः। 

   नवदिल्ली> विभिन्नमण्डलेषु सहयोगस्य शक्तीकरणाय भारतकुवैट् राष्ट्राभ्यां संयुक्तायोगः रूपीक्रियते। भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः, कुवैट् विदेशकार्यमन्त्री षैख् डो. अहम्मद् नासिर अल् मुहम्मद् अल् सहाब् इत्येतयोः उपवेशने एवायं निर्णयः कृतः। 

  ऊर्जः, आर्थिकः, निक्षेपः, मानवशेषी, उद्योगः, संस्कृतिः, शास्त्रम्, ऐ टि, स्वास्थ्यं, शैक्षिकं, राष्ट्रसुरक्षा इत्यादिषु मण्डलेषु आयोगः प्राधान्यं कल्पते।

Thursday, March 18, 2021

 त्रिंशदधिकेषु सन्न्यासिवर्येषु कोविड् - कुम्भमेला समापिता। 

   हरिद्वारम्> अखिलभारत अखाडपरिषदः नेतारं महान्त् नरेन्द्रगिरिवर्यमभिव्याप्य ३० अधिकेषु सन्न्यासिप्रमुखेषु कोविड्रोगबाधा दृढीकृता। किञ्च गतपञ्चदिनेषु कुम्भमेलायां भागभागं कृतवन्तः २१६७ तीर्थाटकाश्च कोविड्बाधिताः अभवन्। अतः कुम्भमेलां समापयितुं प्रधानमन्त्रिणः नेतृत्वे सम्पन्नायां चर्चायां निर्णीतम्।  

  रोगव्यापनमालक्ष्य कुम्भमेलाकार्यक्रमेभ्यः प्रतिनिवृत्तमाणाः इति अखाडसंस्थया निरञ्जिनि इत्यनया निगदितम्। कुम्भमेलायाः प्रधानकार्यक्रमः 'षाहिस्नानं' समाप्तमित्यतः मेला समाप्तिप्राया अभवदिति निरञ्जिनि अखाडस्य कार्यदर्शिणा रवीन्द्रपुरिणा उक्तम्।

 निर्वाचनप्रचारणं संस्कृतभाषायामपि 


 त्रिश्शिवपेरूर् - केरलम्> संस्कृतभाषायां भित्तिविज्ञप्तिं कृत्वा मतदानाभ्यर्थनां करोति केरले। तृश्शूर् जनपदे गुरुवायूर् नियोजकमण्डले एन् डि ए दलस्य स्थानाशिन्यै न्याय. निवेदितायै एव भारतस्य सांस्कृतिकभाषायां मतदानाभ्यर्थना क्रियते। 
  इदानीं विविधेषु अन्तर्जालीयमाध्यमेषु वार्तेयं तरङ्गायमाना वर्तते। (https://www.facebook.com/story.php?story_fbid=4125030650864288&id=100000721814441&scmts=scwspsd) संस्कृतस्य प्रचरणक्षेत्रे प्रसिद्धः प. नन्दकुमारः वार्तामिमां स्वस्य मुखपुटद्वारा प्रथमतया प्राकाशयत्। इदानीं ट्विटर् वाट्साप् आदि सामूहिकमाध्यमेषु इमां 'संस्कृतभित्ति-विज्ञप्तिम्' अधिकृत्य संवादाः प्रचलन्तः सन्ति।

Wednesday, March 17, 2021

 कोविड् रोगवर्धनं, प्रधानमन्त्रिणा मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः।

     नवदिल्ली> राष्ट्रस्य विविधराज्येषु कोविड् रोगिणां संख्या वर्धिता इत्यनेन प्रधानमन्त्रिणा नरेन्द्रमोदिना मुख्यमन्त्रिणः उपवेशनाय निमन्त्रिताः। अद्य ओण् लैन् द्वारा आसीत् उपवेशनम्।

अस्मिन् संवत्सरारंभे कोविड् व्यपने न्यूनताभवत्। चेत् अपि अधुना पुनरपि व्यापनम् अनियन्त्रितं भवति। प्रतिरोधप्रवर्तनषु जनानां वैमुख्यम् एव रोगव्यापनवर्धनस्य कारणम् इति केन्द्रस्वास्थ्यमन्त्री हर्षवर्धनः अवदत्।

Monday, March 15, 2021

 युद्धेन भार्यायाः तथा १३ पुत्राणां जीवाः  संग्रहीताः। १२ पवित्रैः सह खातून् पितामहः। 

खातून् पितामहः पवित्रैः सह स्वस्य हर्बनूष् ग्रामे। (चित्रं-AFP)  


 इद्लिब्> सरियस्य आभ्यन्तर संग्रामेण अब्दुल् रसाख्  अल् खातून् इत्यस्य कृषकस्य भार्यायाः तथा १३ पुत्राणां जीवाः  संग्रहीताः। अवशिष्टानां १२ पवित्राणां रक्षाकर्तृत्वं ८४ वसस्कस्य पितामहस्य दायित्वमभवत्। एषः खातून् पितामहः हमयदेशस्य सम्पन्नः कृषकः आसीत्। किन्तु दशवर्षाणि यावत् अनुवर्तमानं युद्धं तस्य कुटुम्बं सम्पदं च अपाहरत्। युद्धे भागं स्वीकृत्य सुताः मृताः। गृहस्योपरि अग्निबाणपतनेन भार्या च मृताः। आभ्यन्तरयुद्धेन सिरियस्य सामान्यस्थितिः अधुना एवम् अनुवर्तते।

 सुन्दरनगरमहाविद्यालयसाप्ताहिकमेला अभवत्।

वार्ताहरः श्रीवत्स देशराज शर्मा हिमाचलप्रदेशः मण्डी।

संस्कृतभारती-सुन्दरनगरमहाविद्यालयस्य साप्ताहिकमेलनमभूत्सा प्ताहिकमेलनेस्मिन् मुख्यातिथित्वेन संस्कृतमहाविद्यालयसुन्दरनगरस्य दर्शनाचार्यः डॉ. तिलकराजमहोदयः आसीत्, संस्कृतमहाविद्यालयसुन्दरनगरस्य आचार्यः संस्कृतभारती-हिमाचलप्रदेशस्य च प्रान्त सह मन्त्री डॉ. ज्ञानेश्वरमहोदयोsपि अस्मिन् साप्ताहिकमेलने आसीत्। अन्यकार्यकर्तृषु विवेकानन्दमहोदयः सञ्चालनं अकरोत् चान्दनी महोदया ज्योतिषांशान् अपाठयत्, हिमांशुमहोदयः सम्भाषणबिन्दूनपाठयत्, कविता भगिनिः प्रश्नमञ्चं चालितवती। छात्राः सोत्साहेन साप्ताहिकमेलने भागं अगृह्णन्।

Sunday, March 14, 2021

 कोरोण वैराणोः नूतन भेदेषु वाक्सिनः न फलप्रदः। 

 यु के. दक्षिणाफ्रिक्क ब्रसीलल् देशेषु दृष्टमानेषु कोरोण वैराणोः नूतनभेदेषु वाक्सिनः न फलप्रदः इति अध्ययनफलम्। फैसर् मोडेण वाक्सिनस्य प्रयोगात् सञ्जातम् 'आन्टि बोडि' कोरोण वैराणोः नूतनभेदेषु न फलप्रदः इति जेर्णल्  सेल् मध्ये प्रकाशिते अध्यने उच्यते।

Saturday, March 13, 2021

 पाकिस्थानस्य सेनट् हाल् मध्ये चीनस्य गुप्तचलनचित्रग्राही 

   इस्लामबादः> पाकिस्थानस्य उपरिसभायाम् अध्यक्षनिर्वाचनसन्दर्भे सङ्घर्षः। प्रक्रमाणां मध्ये चीनेन निर्मिता गुप्त-चलनचित्रग्राही दृष्टा इति भवति सङ्घर्षस्य कारणम् इति आवेद्यते। अन्तरं निर्वाचनं स्थगितम् इति लघुविवरणानि आगच्छति।

 सौद्यां यात्रानिरोधः पुनरपि दीर्घीकृतः। 

    रियादः> सौदी अरेबियाराष्ट्रे अन्ताराष्ट्रीयविमानसेवामुपरि विहितः यात्रानिरोधः मेय् १७तमपर्यन्तं दीर्घीकृतः। येषु राष्ट्रेषु कोविड्व्यापनस्य मानं न्यूनमस्ति तेभ्यः राष्ट्रेभ्यः आगतानां विमानानां यात्रानुमतिः दास्यति। 

  भारते रोगव्यापनम् अधिकतरं वर्तते इत्यतः यात्रानिरोधः अनुवर्तते। अधुनातनकाले सौदीपौराणां देशात् बहिः, विदेशीयानां देशान्तश्च सञ्चारनिरोधः विद्यते।

 विद्यालयानां निकटे तैलेन्धनोत्क्षेपणयन्त्राणि मा सन्त्विति बालाधिकारायोगः।

   अनन्तपुरी> केरले विद्यालयानां समीपे ५० मीटर् परिमितावधौ पेट्रोल्-डीसलादितैलेन्धनानाम् उत्क्षेपणयन्त्रेभ्यः प्रवर्तनानुज्ञा न दातव्या इति राज्यस्थेन बालकाधिकारायोगेन आदिष्टम्। छात्राणां सुरक्षामालक्ष्य एवायं प्रक्रमः। अनुज्ञादानात्पूर्वं तद्देशशासनसंस्थाभिः दूरसम्बन्धाः मानदण्डाः पालिताः इति दृढीकरणीयम्।

Friday, March 12, 2021

 एस् एस् एल् सि, प्लस् २ परीक्षाः परिवर्तिताः। 

   अनन्तपुरी> केरले एस् एस् एल् सि, प्लस् २, वि एछ् एस् ई कक्ष्याणां  वार्षिकपरीक्षाः परिवर्तिताः। मार्च् १७ तमदिनाङ्कतः ३० तमदिनाङ्कपर्यन्तं प्रचालयितुं निश्चिताः इमाः परीक्षाः निर्वाचनविज्ञप्तेः आधारत्वेन  परिवर्तयितव्याः इति सर्वकारेण केन्द्रनिर्वाचनायोगः अपेक्षितः आसीत्। सर्वकारस्य आवेदनं निर्वाचनायोगेन अङ्गीकृतमित्यतः  एप्रिल् मासस्य ८ दिनाङ्कात् ३० दिनाङ्कपर्यन्तं प्रचालयितुं सर्वकारेण पुनर्निश्चितम्।

Thursday, March 11, 2021

 कोविडं प्रति नासिक्यवाक्सिनस्य परीक्षणम् आरब्धम्। 

   हैदराबादः> भारत बयोटेक् संस्थया पोषितस्य नासिकाद्वारा दीयमानस्य कोविड्वाक्सिनस्य  प्रारम्भप्रयोगपरीक्षणं [Clinical Experiment] हैदराबादे समारब्धम्। ह्यः दश सन्नद्धसेवकाः वाक्सिनं स्वीकृतवन्तः। 

  पट्न, चेन्नै, नागपुरम् इत्येतेषु नगरेष्वपि नासिक्यवाक्सिनस्य परीक्षणम् अचिरादारभ्यते। प्रथमतया आराष्ट्रं १७५ जनेषु वाक्सिनमिदं परीक्ष्यते। 'वाषिङ्टण् यूणिवेर्सिटि स्कूल् ओफ् मेडिसिन्' नामकसंस्थया सहयुज्य एव 'भारतबयोट्क्' इत्यनेन नासिक्यवाक्सिनं परिपोषितम्। सूचीप्रयोगं विना नासिकाद्वारा वाक्सिनमात्राः स्वीकर्तुं शक्यते इति विशेषता।

 न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते - वाक्सिनीकरणाय प्राथम्यं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। 

  मुम्बै> न्यायाधिपेभ्यः न्यायवादिभ्यः च प्रथमगणनया वक्सिनीकरणं दातव्यम् इति न्यायवादिनां याचिका न्यायालयेन तिरस्कृता। न्यायालयाय स्वार्थे प्रवर्तयितुं न शक्यते इत्यपि न्यायालयेन उक्तम्। मुम्बै नगरस्थाः न्यायवादिनः एव याचिकां प्रदत्तवन्तः। समाजे न्ययविभागभिन्नाः कर्मकराः अपि कोविड् नियन्त्रण-प्रवर्तने निरताः आसन्, शुचीकरण-कर्मकराः अपि श्लाघनीयकर्मसु व्यापृताः आसन्। तानपेक्षया न्यायालय-संबन्धप्रवर्तकेभ्यः अधिकार्हता नास्ति इति न्यायालयेन उक्तम्। टैट्टानिक् इति चलनचित्रे नौकाधिपः स्वरक्षां विगणय्य सर्वेषां सुरक्षायैः प्रयत्नं कृतवान् इतिआदर्शात्मकी घटना मनसि निधाय वर्तव्याः इत्यपि न्यायालयेन न्यायवादिनः उपदिष्टाः।

 । कृवान्  C.। आदर्शात्मकी - - - । वर्तते - आत्मनेपदी। लोटि किमिति विचिन्त्यताम्।

 हिमाचले बस् यानं गर्तं निपत्य अष्ट मरणानि। 

  षिम्ला> हिमाचलप्रदेशस्य चम्पा जनपदे निजीयं किञ्चन यात्राबस्यानं २०० मीटर् यावत् निम्नपरिमितं गर्तं प्रति प्रपत्य अष्ट जनाः मृत्युमुपगताः। ११ जनाः व्रणिताश्च। चम्पातः टीसां प्रति गतं यानमेव दुर्घटनाविधेयमभवत्।

 केरले निर्वाचनविज्ञप्तिः श्वः। 

  अनन्तपुरी> केरले विधानसभानिर्वाचनार्थं शुक्रवासरे विज्ञप्तिः भविष्यति। श्व आरभ्य १९तमदिनाङ्कपर्यन्तं नामनिर्देशपत्रिकासमर्पणाय अवसरः अस्ति। २० दिनाङ्के पत्रिकाणां सूक्ष्मशोधना विधास्यति। पत्रिकायाः प्रतिनिवर्तनाय २२ दिनाङ्कं यावत् अवकाशः अस्ति। कोविडनुशासनानि कर्कशेण परिपाल्य एव निर्वाचनप्रक्रियाः विधास्यन्ते। तदर्थं मार्गदर्शकानुशासनानि प्रख्यापितानि सन्ति।

 महाशिवरात्रिव्रतः-

    फाल्गुणमासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ आचर्यते महाशिवरात्रिव्रतः। अस्मिन् व्रते परिलक्ष्यते हिन्दु-शैवसम्प्रदायानां समीपे एकं गुरुत्वपूर्णं धर्मानुष्ठानम्। अस्मिन् व्रते वहवः भक्ताः शिवलिङ्गस्योपरि गङ्गाजल-दुग्ध-विल्वपत्रेण पूजार्चनादि कुर्वन्ति। परन्तु उपवासीनः रात्रौ शिवलिङ्गं दुग्ध-घृत-दधि-मधु-गङ्गाजलेन स्नानकार्यादि सम्पन्नं कृत्वा विल्वपत्र-शिवपूजोपयोगीपुष्पैः सह "ॐ नमः शिवाय" इति महामन्त्रजपेन पूजार्चनादि सुसम्पन्नं कुर्वन्ति। एवञ्च तान्त्रिकाः सिद्धिलाभाय साधनां कुर्वन्ति। अतः सर्वेषु व्रतेषु सर्वश्रेष्ठः महाशिवरात्रिव्रतः इति कथ्यते। अस्मिन् व्रते यः उपवासं जागरणञ्च ज्ञात्वा अज्ञात्वा आचरति सः स्वर्गं गच्छतीति वदन्ति शास्त्राणि। दिवसे अस्मिन् भारतवर्षस्य द्वादश (12) ज्योतिर्लिङ्गे तथा सर्वत्रे शिवमन्दिरे पूजार्चनादि प्रचलति।

लेखकः-
साहित्याचार्यः तापसबायेनःवैदिकगणसदस्य:।

Tuesday, March 9, 2021

 भूमेः अन्तर्भागे नूतनम् आवरणम् - वैज्ञानिकाः विस्मिताः।

  इतः पर्यन्तं लभ्यमानं विवरणानुसारं भूमेः चत्वारः भागाः सन्ति। एते भूवल्कं मान्टिल् बाह्यावरणम् , आन्तरिकावरणम् इति। किन्तु इदानीम् आन्तरिकावरणस्य अन्तर्भागे नूतनः भागः वैज्ञानिकैः प्रत्यभिज्ञातः। ओस्ट्रेलियायाः राष्ट्रिय विश्वविद्यालयस्य भौमवैज्ञानिका जोवान् स्टेफान्सस् भवति अस्य अनुसन्धानस्य अध्यक्षा| जियो फिसिकल् पत्रिकायाम् अनुसन्धानस्य फलं प्रकाशितम् अस्ति। 

Monday, March 8, 2021

 ७५ तम स्वतन्त्रतादिन-महोत्सवाय  भारतसर्वकारः।

  नवदिल्ली> ७५ तम स्वतन्त्रतादिन-महोत्सवाय  भारतसर्वकारेण समालोच्य ते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये २५९ अङ्ग समितिः रूपीकृता।  एक संवत्सरपर्यन्तं दीर्घितः महोत्सवः एव सर्वकारेण उद्दिश्यते। केन्द्रमन्त्रिणः सहमन्त्रिणश्च समित्याम् अन्तर्भवन्ति। विपक्षदलनेतारः भूतपूर्व राष्ट्रपतयः प्रधानमन्त्रिणः च समित्याम् अङ्गत्वेन सन्ति। 

Sunday, March 7, 2021

 कोविड् पुनः वर्धते - ६ राज्येभ्यः दिल्ली-चण्डिगडाभ्यां च जाग्रतासूचना दत्ता। 

    नवदिल्ली> भारते कोविड्रोगिणां संख्या पुनरपि वर्धते। गत२४होराभ्यन्तरे १८,३२७ जनाः रोगबाधिताः अभवन्। जनु. २०दिनाङ्कानन्तरं प्रथममेव दिनैकस्य रोगिणां संख्या एतावत्पर्यन्तं प्राप्नोति। 

   हरियाणा आन्ध्रप्रदेशः ओडिशा गोवा हिमाचलप्रदेशः उत्तराखण्डः दिल्ली चण्डीगढः इत्येषां सर्वकाराणां कृते जाग्रत्तासूचना दत्ता अस्ति। उपर्युक्तस्थानानां ६३ जनपदेषु स्थितिः आशङ्काजनका वर्तते। एतेभ्यः जनपदेभ्यः प्रातिवेशिकराज्येषु रोगसंक्रमणसम्भाव्यता अस्तीति जाग्रत्तासूचना दत्ता ।

Saturday, March 6, 2021

 भूमौ प्राणवायोः परिमाणं न्यूनीभवति- प्राणवायोः स्थाने नूतनः निवेशनीयः।   

 वाषिङ्टण्>  ओक्सिजन् प्राणवायोः परिमाणं भूमौ न्यूनीभवति इत्यस्ति अध्ययनफलम्। Nature Geo Science इति पत्रिकायां भूमेः अन्तरिक्षप्राणवायोः भविष्यकालः इति उपन्यासे एव एवं अशङ्कां प्रकाशयति। २०० कोटि संवत्सरानन्तरं एवं त्वरितवेगेन भविष्यति इति उपन्यासे उच्यते।

Friday, March 5, 2021

 केरल संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् मेलनं चेर्त्तल देशे

      आलप्पुष़> केरल-संस्कृताध्यापक सङ्घटनस्य राज्यस्तरीयम् उपवेशनम् मार्च् ५, ६ दिनाङ्कयोः  प्रचलिष्यति। चेर्त्तल एन् एस् एस् सभागृहे अद्य प्रतिनिधिसम्मेलनेन  समारभ्यमणस्य  उपवेशनस्य  कार्यक्रमाः अनुशासित  कोविड्  मानदण्डपालनेन भविष्यन्ति इति मुख्यकार्यकर्त्र्याकृष्णप्रियया उक्तम्  । ६ दिनङ्के आयोक्ष्यमाणं मेलनं चलनचित्रनटः देवः उद्घाटयिष्यति। प्रमुखः संस्कृतप्रचारकः आचार्यश्री विशाखं तिरुनाल् महोदयः समादरिष्यते च। 


Thursday, March 4, 2021

   2021- संवत्सरान्ते कोविड्19 वैराणुः नाशं यति इति विचिन्तनं बुद्धिहीनम् - विश्व स्वास्थ्य सङ्घटनम्। 

 जनीव> २०२१ संवत्सरान्ते केविड् वैराणुः नाशं याति इति विचिन्तनं मौढ्यम् अपक्वं च भवति इति विश्व स्वास्थ्य सङ्घटनेन उक्तम्। किन्तु कोविडं विरुद्ध्य वाक्सिनौषधानां प्रयोगः रोगव्यापनत्वं मरणसंख्या च न्यूनं कुरुतः इति त्वरितयोजनायाः निदेशकः मौकल् रयानः अवदत्। अणुसङ्क्रमणस्य न्यूनीकरणे अतीव श्रद्धालवः भवामः इति भवामः इत्यपि तेनोक्तम्।

Tuesday, March 2, 2021

 चीना राष्ट्रे दरिद्रा निर्माजनं सम्पूणम् अभवत् - षि जिन् पिङ्

 बेय्जिङ्> तीव्रदारिद्र्यं निर्माजनं कृतम् इति चीनस्य राष्ट्रपतिः षि जिन् पिङ्ः अवदत्। अल्पकालेन कोटिशान् जनान् दारिद्र्यात् निर्मुक्तं कर्तुम् अन्यराष्ट्राणि अशक्तानि इति तेन उक्तम्। बेय्जिङ् मध्ये कृते विशिष्टकार्यक्रमे भवति षी जिन्पिङ्स्य ख्यापनम्। इतिहासे लेख्यमानं आदर्शभूतं मनुष्याद्भुतं भवति इदम् इति तेनोक्तम्।

 कोविड् वाक्सिनीकरणं - द्वितीयसोपानं प्रधानमन्त्रिणा उद्घाटितम्। 

 नवदिल्ली> दिल्ल्याम् 'एयिम्स्' आतुरालये प्रधानमन्त्रिणः 'कोवाक्सिन'स्वीकरणेन भारते कोविड्प्रतिरोधसूचीप्रयोगस्य द्वितीयं सोपानं समारब्धम्। 

  षष्ट्यधिकवयस्कानां तथा ४५ अधिकवयस्कानां कठिनरोगिणां कृते च द्वितीयसोपाने वाक्सिनीकरणं विधत्तम्। चेन्नै मध्ये सर्वकारीयवैद्यशास्त्रकलालये   उपराष्ट्रपतिः वेङ्कय्यनायिडुः वाक्सिनं स्वीकृतवान्। केन्द्रगृहमन्त्री अमित् शाहः , विदेशकार्यमन्त्री एस् जयशङ्करः,केन्द्रसहमन्त्रिणः बिहारस्य मुख्यमन्त्री नितीष्कुमारः इत्यादयः प्रमुखाः गतदिने वाक्सिनं स्वीकृतवन्तः।

Monday, March 1, 2021

 भूमेः तापः नियन्त्रितः भविष्यति। सूर्यं भागिकतया अच्छादयिष्यति। नूतना योजना बिल् गेट्सेन अवतारिता। 

   भूमेः पर्यावरणक्रमानपि परिवर्तयितुं क्षमतायुक्तेन अशयेन मैक्रोसोफ्ट् स्थापकः बिल्गेट्सः समागच्छति। भूगोलस्य अतितापनं न्यूनीकर्तुं सूर्यप्रकाशस्य प्रसरणमानस्य न्यूनीकरणमेव अनेन उद्दिश्यते। एतदर्थं हार्वार्ड् विश्वविद्यालयाय धनराशिरपि अर्पितवान्। भूमिं प्रति समागतान् सूर्यप्रकाशान् रोधित्वा शक्तिं न्यूनीकर्तुमेव अनया योजनया उद्दिश्यते। अमुं विषयमधिकृत्य इतः पर्यन्तं यत्रकुत्रापि विचिन्तनं नासीत् इति भवति समस्या। (भारतीयाः प्राक्तनकाले एवं चिन्तितवन्तः आसन् इति कोऽपि न जानन्ति वा ? सज्ञा सूर्ययोः कथा वैज्ञानिकी भवति इति इदानीम् अवगच्छामः)