OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 21, 2021

 पाकिस्थानप्रधामन्त्री इम्रान् खानः कोविड्बाधितः। 

इस्लामबाद्> पाकिस्थानस्य प्रधानमन्त्री इम्रान् खानः कोविड्बाधितः अभवदिति सर्वकाराधिकारिभिः निगदितम्। गृहे निरीक्षणे वर्तमाने तस्मिन् ज्वरकासबाधा वर्तते इति स्वास्थ्यविभागस्य अधिकारिप्रमुखेन डो. फैसल् सुल्तान् इत्यनेन ट्वीटीकृतम्। 

   राष्ट्रस्य वाक्सिनीकरणबोधवत्करणस्य अंशतया इम्रान् खानः गुरुवासरे वाक्सिनं स्वीकृतवानासीत्। कोविडस्य तृतीयः तरङ्गः आराष्ट्रं बाधितः इति सर्वकारेण गतसप्ताहे स्पष्टीकृतमासीत्। 

  पाकिस्थाने निखिलं षट् लक्षाधिकाः जनाः कोविड्बाधिताः, १३,७९९ जनाः मृत्युमुपगताः इति जोण् होप्किन्स् विश्वविद्यालयेन प्रकाशिते आवेदने सूचितम्।