पारिस् -  सिरियायां विद्यमानायाम् इस्लामिक् स्टेट् केन्द्रान् प्रति व्योमाक्रमणम्  आरब्धम् इति फ़्रञ्च् प्रसिडन्ट् फ़्रान्स्व ओलाद: फ़्रान्स् राज्यं प्रति I S आक्रमणं कर्तुं निश्चितः इति विज्ञाय आक्रमणं आरब्धं इति ओलाद् अवदत् संवत्सरं यावत् सिरियायाः इराक् राज्यस्यापि I S शिबिरेषु अमेरिक्काराज्येन  सख्यासेनया सह आक्रमणं करोति स्म । सिरियायाः देयर अल् सोर् नगरस्य आतङ्गवाद परिशीलन शिबिरान् उद्दिश्य आसीत् आक्रमणम् 
IS मध्ये भागं कर्तुं 30,000 वैदेशिकाःयुवानः सिरियां प्रति प्रस्थिताः इति सूचना अस्ति


केरलेषु शौचालयेभ्यः अम्बायाः १०० कोटिः

15-kerala-sanitationकोची  - केरलेषु सर्वेषुभवनेषु शौचालयः इति पद्धतेः उपस्थापनाय माता अमृतानन्दमयी १००कोटिरूप्यकाणां चेक् मुख्यमन्त्रिणे उम्मन् चाण्टये अदात् अम्बायाः जन्मदिनाघो षमद्ध्ये एवायं कार्यक्रमः।  नमामि गङ्गे इति केन्द्रसर्व- कारस्य शौचालयनिर्माणपद्धतेः कृते अपि मात्रा धनं दत्तम्। तस्य अनुवर्तनं भवत्ययं संरंभः।