OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 25, 2015

रविवासरे सोमस्य आकार: 'गुरुः' भविष्यति।

"चन्दिर मातुल हे !तावक पद्मपुटे किमस्ति
नम्रमुखेन तिष्ठन् अम्बर कुम्भिराजोपरि किम्"।।

वाशिङ्टण् - चन्द्रबिंब स्य आकार: प्रकाशः च वर्धमानः सूप्पर् मूण्‌ प्रतिभासः रविवासरे रात्रौदृष्टुंशक्यते । ३३ वत्सरात्‌ पूर्वमासीत् एतादृश दृश्य विस्मयः। भूमी चन्द्रयोः स्थिति: तस्मिन् दिने नातिदूरे वर्तते। (भूमातुः चन्दिरमातुलयोः मिथः दर्शनम् )

 

 

 

स्वामी दयानन्दसरस्वती समाधिस्थः

नवदेहली - वेदान्तपण्डितः तथा आर्षविद्यागुरुकुलं स्थापकः स्वामी दयानन्दसरस्वती (85) समाधिस्थः जातः ।
उत्तराखण्डे ऋषीकेशे चिन्मयतपोवने बुधवासरे रात्रौ १० वादने आसीत् समाधि: । वृक्करोगबाधया बहुकालेभ्यः चिकित्सायाम् आसीत् । प्रधानमन्त्रिण: नरेन्द्रमोदीवर्यस्य गुरुः भवति दयानन्दसरस्वती । तमिलुनाड् राज्ये कुम्भकोणे मञ्चक्कुटि ग्रामे गोपालय्यर् बालाम्बाल् दम्पत्यो: पुत्रत्वेन 1930 आगस्त 15 दिनाङ्के जातोऽयं महात्मा । पूर्वाश्रमे नटराज इत्यासीत् नाम । 1962 तमे वर्षे स्वामिन: चिन्मयानन्दात् अयं सन्यासं स्वीकृतवान् । ततः चिन्मयानन्दस्वामिनः कार्यदर्शीरूपेण तथा "तपोवन प्रसाद "मासिकायाः सम्पादकत्‍वेन च कार्यं कृतवान्‌  । ब्रह्मसूत्रं , न्यायशास्त्रं , पाणिनीयव्याकरणम्‌ इत्यादिषु अगाध पाण्डित्यम् अस्य आसीत् ।1965 तमे चिन्मयानन्द स्वामिनः देहास्वास्थ्ये सति अयं "चिन्मय सान्दीपनी "इत्यस्य आचार्यस्थानम् ऊढवान् । ततः अमेरिकायां सैलोस् बर्ग् मध्ये तथा ऋशीकेशे आनक्कट्टी इत्यादिषु स्थानेषु वेदान्तपठनार्थम् आर्षविद्यागुरुकुलानि स्थापितवान्‌ । सप्तम्बर्‌ 11 दिनाङ्के उत्तराखण्डं प्राप्तः प्रधानमन्त्री गुरूं सन्दर्शितवान्‌ आसीत्। गुरोः देहवियोगः व्यक्तिगतं नष्टमिति श्रीमता मोदिना ट्विट्टर् मध्ये लिखितम्‌।

उत्तराखण्ड् संस्कृत अक्कादमी इत्यनया समायोजिता विविधाः संस्कृत प्रतियोगिताः

 

 हज्ज् अनुष्ठानमध्ये महान् दुरन्तः-७१७ मरणानि।

मिना-  हज्ज् अनुष्ठानमध्ये सञ्जाते महत्सम्मर्द्दे ८१७ हाजिनः मृताः।तेषु १३ भारतीयाः अन्तर्भूताः इति सूचना। ८०० परं व्रणिताः। सर्वसन्नाहेन रक्षाप्रवर्तनम् अारब्धमिति गृहमन्त्रालयेन सूचितम्। हज्ज् दुरन्ते मृतेषु  द्वौ केरलीयौ; तलश्शेरी निवासी अबूबक्कर् हाजी, कोषिक्कोट् निवासी अब्दुरह्मान् च।


वि.एम्.सि.नम्पूतिरिप्पाट् निर्यातः।

पालक्काट्- प्रमुखःआयुर्वेदाचार्यः,विषवैद्यः,तथा प्रशस्तः बालचिकित्सकः कुण्टळश्शेरि वळ्ळूर् मनयिल् वि.एम् .सि. नम्पूतिरिप्पाट् दिवंगत गतः। अन्तिमश्वासपर्यन्तं दंष्ट्रचिकित्सोपासकः अयं विषचिकित्सायै प्रतिफलं न स्वीकृतवान् । कुलधर्ममनुसृत्य वेदाध्यनं कृत्वा संस्कृतभाषायां पाण्डित्यमवाप्य आयुर्वेदं पठितवान्। रैक्वऋषिपुरस्कारः, केरलीय आयुर्वेदसमाज-पुरस्करः इत्यादिभिः  समादृतः आसीत्।