OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 30, 2024

प्रतियोगीपरीक्षासु सफलतायै तर्कशास्त्रस्य नीतिशास्त्रस्य च कृते दर्शनस्य कुर्यात् अध्ययनम् - "डॉ.कविताभट्टशैलपुत्री"

उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनविषये कार्यशालायाः जातम् आयोजनम्। 

वार्ताहर:-कुलदीपमैन्दोला। टिहरी।

 राजकीयबालिकावरिष्ठमाध्यमिकविद्यालयकिल्किलेश्वरे, त्रिहरीगढ़वाले प्रधानाचार्याया: श्रीमतीमंजूरावतवर्याया: अध्यक्षतायां भविष्यपरामर्श:, सामान्यविश्वविद्यालय: प्रवेशपरीक्षा तथा च उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनम् इत्यस्मिन् विषये कार्यशालायाः आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठा अध्यापिका श्रीमती एस.भुवनेश्वरी नेगी साहित्याकादमीपुरस्कारेण सम्मानिताया: प्रख्यातसाहित्यकारवर्याया: डॉ. कविताभट्ट 'शैलपुत्रीत्र्या:' सहायकप्राध्यापिकाया:, हे.नं.गढ़वालविश्वविद्यालयस्य दर्शनविभागस्य मुख्यवक्तारूपेण स्वागतं कृतवती।

Wednesday, March 27, 2024

 अमेरिक्कादेशे पण्यनौकाघट्टनेन बृहत्सेतुः भग्नः। बहूनि यानानि नद्यां पतितानि।

अपघातदृश्ययम्

   न्यूयोर्क्> अमेरिक्कादेशे बाल्टिमोरस्थे फ्रान्सिस् स्कोट् की नाम सेतुः भग्नः। अद्य प्रातःकाले पण्यनौका सेतौ घट्टयित्वा एव अपघातः दुरापन्नः। अस्मिन्नवसरे सेतोरुपरि धावमानानि बहूनि यानानि नद्यां पतितानि। प्रदेशे रक्षाप्रवर्तनानि प्रचलन्ति सन्ति इति अधिकारिभिः सूचितमस्ति। अपघातेन महानौकायाम् अग्निबाधा दुरापन्ना। सर्वे नौकाकर्मकराः सुरक्षिताः इति अधिकारिभिः संसूचिताः।

Sunday, March 24, 2024

विश्वस्मिन् श्वासकोशार्बुदनिवारणाय इंदप्रथमतया प्रतिरोधवाक्सिनस्य आविष्काराय ब्रिट्टणः सज्जते।

  लण्टन्> श्वासकोशार्बुदनिवारणाय इंदप्रथमतया प्रतिरोधवाक्सिनस्य आविष्काराय ब्रिट्टणस्य वैज्ञानिकाः सज्जन्ते। ओक्स्फट् विश्वविद्यालयः, फ्रान्सिस् क्रिक् इन्स्टिट्यूट्, यूणिवेर्सिट्टि कोलेज् लण्टन् इत्याद्याः संस्थायाः वैज्ञानिकाः एव 'लङ्स्वाक्स्' नाम प्रतिरोधवाक्सिनस्य आविष्कर्तारः।

Thursday, March 21, 2024

 ६१ तमा अखिल भारतीय शास्त्रस्पर्धाः अद्य समाप्यन्ते।

अद्वैतवेदान्तभाषणस्पर्धायां केरलतः स्पर्धालू नम्यालक्ष्मी आर् भाषणं करोति।

अयोध्या> चतुर्दिनानि यावत् अयोध्यानगर्यां  केन्द्रीयसंस्कृतविश्वविद्यालयस्य अधीने प्रचाल्यमाना अखिल भारतीय शास्त्रस्पर्धापरम्परा अद्य परिसमाप्तिं प्राप्नोति। 

  गतदिने विविधशास्त्रदर्शनादिषु भाषणस्पर्धाः अमरकोशादिग्रन्धानां कण्ठपाठाश्च प्रचलन्ति स्म। अन्तिमे दिने समस्यापूर्तेः अन्तिमस्पर्धा भविष्यति।

  भारतस्य विविधप्रान्तप्रदेशेभ्यः उपसहस्रं संस्कृतप्रतिभाशालिनः स्पर्धालवः भागं परिगृह्णन्ति।

 बुल्लट् ट्रयिन् २०१६ तमे धावनं प्रारप्स्यते - रेल् मन्त्री।

  नवदिल्ली> मुम्बै - अहम्मदाबाद् बुल्लट् ट्रयिन् २०१६ तमे संवत्सरे धाविष्यति इति रेल्यानमन्त्रिणा अश्विनी वैष्णवेन उक्तम्। मङ्गलवासरे नवदिल्याम् अयोजिते रेसिङ् भारत् इति शिखरमेलने भाषमाणः आसीत् सः। मुम्बै अहम्मदाबादयोः मध्ये गमनागमनसौविध्यात् उपरि नगराणाम् आर्थिकव्यवस्थायाः सुदृढं वर्द्धनं च अनेन शक्यते इत्यपि महोदयेनोक्तम्। ५०० कि . मी परियोजनायैः अन्यैः राष्ट्रैः २० वर्षाणि यापयन्ति। तस्मिन् स्थाने भारतं तु १० वर्षाभ्यन्तेरे परियोजनायाः पूर्णत्वम् आप्नोति इति महोदयः अवदत्। सूरत् - बिलिमोरयोः मध्ये एव प्रथमं बुल्लट् रेलयानं धाविष्यति।

Wednesday, March 20, 2024

 तृतीयविश्वमहायुद्धं नातिदूरे इति पुतिनः।

मोस्को> तृतीयविश्वमहायुद्धं नातिदूरे इति रष्यस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। निर्वाचनविजयानन्तरं जनान् अभिसंबुध्य भाषमाणः आसीत् सः। जनाः तस्मिन् विश्वासम् अर्पयित्वा साह्यं  दत्तवन्तः इत्येतदेव विजयस्य निदानम् इति सः अवोचत् । तदर्थं सः जनेभ्यः धन्यवादान् व्याहरत्। रष्यस्य नाट्टो सैनिकसख्यस्य च मिथः विरोधः वर्धते चेत् तृतीयविश्वमहायुद्धं भवेत् इति सः उक्तवान्।

Tuesday, March 19, 2024

 संस्कृतस्य प्रभावः आविश्वं प्रकाशयेदिति अस्माकं लक्ष्यम् - प्रोफ. श्रीनिवास वर्खेडी। 

कुलपतिः श्रीनिवासवर्खेटिः स्पर्धासमायोजनायाः उद्घाटनं करोति।

अयोध्या> संस्कृतभाषायाः प्रभावं प्रौढिञ्च आविश्वं प्रसारयितुं यतमानाः भवन्तु युवकाः शास्त्रप्रतिभावन्तः इति केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः श्रीनिवास वर्खेडिवर्यः उदबोधयत्। केन्द्रीय संस्कृत विश्वविद्यालयानां मध्ये प्रचाल्यमानायाः ६१तम अखिलभारतीयशास्त्रीयस्पर्धायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। भाषण-शलाक-कण्ठपाठादिभिः शास्त्रार्चनाभिः श्रीरामदेवं समभ्यर्चितुमवसरश्चाप्येषः इति तेन संसूचितम्। 

  स्पर्धासमायोजनस्य द्वितीयदिने साहित्य व्याकरण न्याय आयुर्वेदादिषु १२ भारतीयशास्त्रविषयेषु भाषणं शलाका स्पर्धाः अमरकोश सुभाषितकण्ठपाठस्पर्धाश्च अभवन्।

Monday, March 18, 2024

 केन्द्रीयसंस्कृतविश्वविद्यालयानां मध्ये प्रचाल्यमाना ६१ तमा अखिलभारतीयशास्त्रीयस्पर्धा अद्य आरभते। 

अक्षरश्लोकीस्पर्धायां भागं कुर्वन्तः।

  अयोध्या> नवदिल्ली आस्थानितस्य केन्द्रीय-संस्कृतविश्वविद्यालयस्य नेतृत्वे आयोजोज्यमाना ६१ तमा अखिलभारतीय-शास्त्रीयस्पर्धा अयोध्यायां श्रीरामसत्सङ्गभवने अद्य समारभते। अद्य आरभ्य मार्च् २१ पर्यन्तम् आभारतं विद्यमानेभ्यः  कलालयपरिसरेभ्यः आगताः प्रतिभाशालिनः संस्कृतछात्राः विविधभारतीय-शास्त्रविषयेषु स्पर्धिष्यन्ते। 

  अक्षरश्लोकी, समस्यापूर्तिः, शलाका, कण्ठपाठः, भाषणमित्यादिषु स्पर्धाः प्रचलिष्यन्ति। उपर्युक्तासु  राज्यस्तरीयस्पर्धासु प्रथमस्थानेन चिताः एवात्र अन्तिमस्पर्धां कुर्वन्ति। स्पर्धायै षट् मण्डपानि सज्जीकृतानि। आभारतं उपसहस्रं छात्राः स्पर्धासु भागं कुर्वन्ति।

Sunday, March 17, 2024

 शास्त्रार्थमाध्यमेनैव भारतीयज्ञानपरम्परा संरक्षिताऽस्ति - आचार्य: हरेराम: त्रिपाठी।

-डॉ.दिनेश चौबे, उज्जयिनी ।

   उज्जयिनीस्थे महर्षिपाणिनि संस्कृत -वैदिकविश्वविद्यालये नवदेहलीस्थस्य केन्द्रीय -संस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतायाः राष्ट्रियशास्त्रार्थ-कौशलप्रशिक्षण-विषयिकायाः कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत्। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय: मुख्यातिथिरूपेण समागत्य स्वकीय सम्बोधने उक्तवान् यत् एवमेवातिप्राचीनकालतः प्रश्नोत्तरमाध्यमेन शास्त्रविधिना शास्त्रसंरक्षण भारते संरक्षितं वर्तते। येनाद्य अस्माकं ज्ञानपरम्परा समृद्धा विद्यते । सभाध्यक्षीयोद्वोधने कुलपतिः आचार्य: विजयकुमारसीजी महोद‌य: कथितवान् महाराज्ञ: विक्रमस्य नवरत्नरूपेण नानाशास्त्रपण्डिताः अत्रैव अभूवन् एते विश्वप्रसिद्धा: आसन्। सारस्वतातिथिः आचार्य: श्यामदेवमिश्रमहाभागः न्यायवेदव्याकरण-ज्योतिषादि शास्त्राणां महत्त्वं प्रतिपादितवान् ।

  संयोजकः परियोजनान्वेषक: डॉ. तुलसीदासपरोहा वाचिकस्वागतं कृत्वा प्रस्तावना प्रस्तुतीकरणपूर्वकं सविस्तरेण शास्त्रार्थपरम्परा तथा संप्रति एतस्यावश्यकताऽपि प्रतिपादितवान्। संचालनञ्च प्राध्यापक: डॉ. गंगाशरणव्यासः कृतवान् । कुलसचिवः डॉ.दिलीप सोनीमहोदयेन धन्यवादज्ञापनं कृतम्।

 तृतीयतममोदीसर्वकारस्य प्रथमशतदिनपरियोजनायाः आविष्काराय प्रधानमन्त्रिणा नरेन्द्रमोदिना मन्त्रिभ्यः निर्देशो दत्तः।

नवदिल्ली> २०२४ संवत्सरे अनुशासनम् अनुवर्तिष्यते इति दृढविश्वासः नरेन्द्रमोदिना प्रकटितः। तदर्थं प्रथमशतदिनानि यावत् कर्मपरियोजनायाः रूपरेखां सज्जीकर्तुं मन्त्रिभ्यः निर्देशः अदात्। अद्य प्रातःकाले समायोजिते मन्त्रिणां सभाकार्यक्रमे  कार्यमिदं सूचितमिति प्रतिवेदनमस्ति।

Saturday, March 16, 2024

 पत्रिकापारायणप्रोत्साहनाय केरल सामान्यशैक्षिकविभागस्य परियोजना।

विशिष्टाङ्कदानं परिगण्यते। 

पत्रिकाणां सम्पादकप्रतिनिधिभिः सह चर्चा कृता।

 अनन्तपुरी> विद्यालयछात्राणां दिनपत्रिकापारायणं प्रोत्साहयितुं केरलस्य सामान्यशैक्षिकविभागेन नूतनी परियोजना आविष्क्रियते। सामान्यपरीक्षासु विशिष्टाङ्कदानमपि परिगण्यते। तदर्थं प्रवर्तनानि आविष्कृत्य प्रवृत्तिपथमानेतुं विद्यालयस्तरे वाचनोत्सवं समायोजितुमपि उद्दिश्यते। गतदिने केरलस्य दिनपत्रिकाणां सम्पादकप्रतिनिधिभिः सह कृतायाः चर्चायाः अनन्तरं शिक्षामन्त्री वि शिवन्कुट्टिः स्पष्टीकृतवान् यत् पत्रिकावाचनप्रोत्साहनाय अध्यापकानां रक्षाकर्तॄणां च भागभागित्वं कथमिति तेषां कृते प्रकाश्यमाने हस्तपुस्तके निर्दिक्ष्यति।

Friday, March 15, 2024

 लोकसभा-निर्वाचन-प्रख्यापनं - शनिवासरे।

   नवदिली> २०२४ संवत्सरस्य लोकसभानिर्वाचन प्रख्यापनं-शनिवासरे सायं त्रिवदने भविष्यति इति निर्वाचनायोगेन उक्तम्। सिक्किम् आन्ध्रा ओडीषा राज्याणां नियमसभा निर्वचनतिथिरपि श्वः प्रकाशयिष्यति। १७ -तमस्य लोकसभायाः कालपरिधिः जूण् मासे पर्यवस्यते। एप्रिल् मासात् आरभ्य मेयमसपर्यन्तं मतदानप्रक्रिया प्रचलिष्यते।

Thursday, March 14, 2024

 नवीनशिक्षानीतिः नवीनताभिः परिपूर्णा अस्ति -प्रो.अन्नपूर्णा नौटियाल:।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


   भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशन् -शिक्षकप्रशिक्षणकेन्द्रेण ११ मार्च २०२४ तः प्रारब्धः। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति - उत्तराखण्डः, हिमाचलप्रदेशः, उत्तरप्रदेशः, पञ्जाबः, महाराष्ट्रः, मध्यप्रदेशः, आन्ध्रप्रदेशः च । अस्मिन् अवसरे यूजीसीपोर्टल्मार्गेण ५४ प्रतिभागिनः पञ्जीकरणं कृतवन्तः।


 अस्मिन् अवसरे विश्वविद्यालयस्य

Wednesday, March 13, 2024

 उत्तराखण्डे समान-नीतिन्याय-संहितायै राष्ट्रपतेः अङ्‌गीकारः।

नवदिल्ली> उत्तराखण्ड राज्यसर्वकारेण समान-नीतिन्याय-संहितायै कृतं विधेयकं राष्ट्रपतिना मात्रा द्रौपदी मुर्मुवर्यया हस्ताक्षरीकृतम्।  अनेन राष्ट्रे नागरिकसंहिता प्रवृत्तिपथमारूढं प्रथमं राज्यं भवति  उत्तराघण्ड:।

Sunday, March 10, 2024

 ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री इदानीं व्यवसाये मग्नः।

ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री स्कोट् मोरिसण् महोदयः राजनैतिकप्रवर्तनानि परित्यज्य व्यवसाये मग्नः अभवत्। २००७ तमे संवत्सरे विधान सभायां प्राप्तवानयं लिबरल् दलाङ्गः अस्ति। २०१८ - २२ संवत्सरेषु प्रधानमन्त्रिपदे नियुक्तः आसीत्।

 लोके अतिदीर्घः युग्मश्रेणियुक्तः अन्तर्भौममार्गः अरुणाचलप्रदेशे प्रधानमन्त्रिणा उद्घाटितः।

   इट्टानगर्> लोके अतिदीर्घः सेला नाम युग्मश्रेणियुक्तः अन्तर्भौममार्गः प्रधानमन्त्रिणा उद्घाटितः। हिमपातेन तथा भूस्खलनेन च बालिपार चारिदौर् तवाङ् मार्गस्य पिधानं अनस्यूतं प्रचलिते सन्दर्भे एव नूतनाय अन्तर्भौम मार्गनिर्माणाय निश्चितः। तदर्थं २०१९ तमे संवत्सरे फेब्रुवरि मासस्य नवमे दिनाङ्के शिलान्यासः कृतः। तस्मिन् संवत्सरे एप्रिल् मासस्य प्रथमे दिने मार्गस्य निर्माणप्रवर्तनानि च प्रारभत।ഒരു

Saturday, March 9, 2024

 निर्वाचनायोगाध्यक्षः त्यागपत्रं दत्तवान्

  नवदिल्ली>निर्वाचनायोगाध्यक्षः अरुण् गोयल: त्यागपत्रं दत्तवान्। राष्ट्रपति माता द्रौपदी मुर्मू त्यागपत्रम् अङ्गीकृतवती च। महोदयः तस्य वैयक्तिककारणेन एव त्यागपत्रं दत्तवान् इति प्रमुखेन अधिकारिणा निगदितम्। अङ्गत्रययुक्त आयोगात् अनुप् पाण्डेय् नामकः पूर्वं निवृत्तः असीत्। तस्य स्थाने अन्यस्य नियुक्तिः इतःपर्यन्तं नासीत्। शिष्टयोः एकः एव इदानी अवशिष्यते। निर्वाचनकाले समारब्धे सन्दर्भे भवति अयं स्थानत्यागः इत्यनेन विषयोऽयंम् अन्तर्जालपटलेषु चर्चायाः सन्दर्भः प्रदत्तः।

 सुधामूर्तिः राज्यसभासदस्या अभवत्। 


नवदिल्ली> 'इन्फोसिस् फौण्टेषन्' इत्यस्य अध्यक्षा तथा विख्याता लेखिका च सुधामूर्तिः राज्यसभासदस्यरूपेण राष्ट्रपतिना द्रौपदी मुर्मुणा नामनिर्दिष्टा।ह्यः वनितादिने आसीत् सुधामूर्तेः नूतनः नियुक्तिः। 

कन्नटम् आङ्गलभाषयोः ४० अधिकानां ग्रन्थानां कर्त्री सुधामूर्तिः इन्फोसिस् फौण्टेषन्' इत्यस्य सहस्थापकस्य एन् आर् नारायणमूर्तेः सहधर्मिणी, ब्रिटनस्य प्रधानमन्त्रिणः ऋषि सुनकस्य पत्नीमाता च भवति। स्वास्थ्य-शैक्षिकमण्डलेषु तस्याः योगदानं पुरस्कृत्य २००६ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण गतवर्षे पद्मभूषणपुरस्कारेण च सा समादृता।

Thursday, March 7, 2024

 भारतीय नौसेनायाः नूतनं निवेशस्थानं - जटायुः - उद्घाटितम्। 

मिनिकोय् > लक्षद्वीपस्य मिनिकोय् मध्ये भारतीय नौसेनायाः नूतनः  सेनानिवासः ऐ एन् एस्  जटायुनामकः बुधवासरे केन्द्र रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। मिनिकोयद्वीपे वर्तमानः नाविकसेनाविभाग एव सेनानिवासस्थानरूपेण विकसितः। राष्ट्रस्य नौसेनायाः शक्तिवर्धकं भवत्येतत्। 

  दिवारात्रभेदं विना युद्धविमानानाम् अवतारणाय अत्र सुविधा अस्ति। युद्धमहानौकेभ्यश्च सविशेषं निवासस्थानमपि आयोजितम्। भारत-पसफिकक्षेत्रस्य सुरक्षाविषये भारतस्य स्थानं निर्णायकं भविष्यति।

Sunday, March 3, 2024

 विंशतिः वयसः आरभ्य त्रिंशत् वयः पर्यन्तं विद्यमानानां मध्ये वृक्काश्मरी रोगिणां संख्या वर्धते। जीवितशैली एव रोगकारणम्। 

शरीरस्य मालिन्यनिर्माजनचालनी भवतः वृक्कौ। शरीरे रक्तशुद्धीकरणं तथा जलांशस्य धातुलवणानां च परिमाणस्य क्रमीकरणं वृक्कयोः कर्म भवति। भारते वृक्करोगिणां संख्या वर्धते इति समीपकाले बहिरागते अध्ययने सूचयति। वृक्करोगिणां संख्या तथा वृक्करोगहेतुना मृतिमुपगतानां संख्या च वर्धते इति अध्ययनेषु सूचयन्ति।

Saturday, March 2, 2024

 आणवयोजनायै उपयुज्यमानानि वस्तूनि महानौकाद्वारा चीनतः पाकिस्थानं प्रति। 

   मुम्बै> आणवयोजनायै उपयुज्यमानानि वस्तूनि निभृता महानौका मुम्बै सागरतीरे भारतस्य सुरक्षासेनया प्रतिरुद्धा। चीनतः पाकिस्थानं प्रति गतवती आसीत् इयं पण्यनौका। पाकिस्थानेन तेषाम् आणवयोजनायै वस्तूनि अनयन्ति इति संशयेन मुम्बेः नवाषेव महानौकानिस्थाने भारतस्य सुरक्षासेनया प्रतिरुद्धा। जनुवरीमासस्य २३ दिनाङ्के आसीत् घटना। किन्तु अद्य एव वार्तेयं प्रतिवेदिता। इट्टलीस्थया कर्मसंस्थया निर्मितं सङ्गणकीयं साख्यकीय-नियन्त्रणयन्त्रम् (computer numerical control mechine) आसीत् विद्यमानेषु प्रमुखवस्तु। आणवयोजनायै उपयुज्यमाननि वस्तुनि भवन्ति महानौकायाम् इति सुरक्षासेनया प्रत्यभिज्ञातम्।

Friday, March 1, 2024

 महात्मागान्धिनः वल्लभायि पटेलस्य जनिप्रदेशौ महानगरे कारिते। 

अहम्मदाबादः> महात्मागान्धिनः जन्मग्रामः पोर्बन्दर नामकः, तथा च सर्दार् वल्लभायिपटेलस्य जन्मग्रामः नडियादश्च महानगररूपेण [Corporation] उद्धर्तुं गुजरालसर्वकारेण निश्चितम्। इदानीम् एते नगररूपेणैव [Municipality] वर्तेते। 

  पोर्बन्दरं, समीपस्थां  छायानगरसभां च संयोज्य महानगरं रूपवत्करिष्यति। २०११ जनसंख्यागणनामनुसृत्य ६. ३२लक्षं जनाः तत्र वसन्ति। खेडजनपदस्य नडियादः समीप्रदेशैः सह संयोज्य महानगररूपेण परिवर्त्यमाने ४. ७५ लक्षं भविष्यति जनसंख्या।

  अनेन गुजराते महानगराणां संख्या १७ भविष्यति। इदानीं ८ महानगराणि सन्ति।  राज्ये सप्त नगराणि महानगराणि कारयितुं आयव्ययपत्रे प्रख्यापितमासीत्। पोर्बन्तरं नदियादं च अभिव्याप्य ९ नूतनानि महानगराणि भविष्यन्ति।