OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, March 19, 2024

 संस्कृतस्य प्रभावः आविश्वं प्रकाशयेदिति अस्माकं लक्ष्यम् - प्रोफ. श्रीनिवास वर्खेडी। 

कुलपतिः श्रीनिवासवर्खेटिः स्पर्धासमायोजनायाः उद्घाटनं करोति।

अयोध्या> संस्कृतभाषायाः प्रभावं प्रौढिञ्च आविश्वं प्रसारयितुं यतमानाः भवन्तु युवकाः शास्त्रप्रतिभावन्तः इति केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः श्रीनिवास वर्खेडिवर्यः उदबोधयत्। केन्द्रीय संस्कृत विश्वविद्यालयानां मध्ये प्रचाल्यमानायाः ६१तम अखिलभारतीयशास्त्रीयस्पर्धायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। भाषण-शलाक-कण्ठपाठादिभिः शास्त्रार्चनाभिः श्रीरामदेवं समभ्यर्चितुमवसरश्चाप्येषः इति तेन संसूचितम्। 

  स्पर्धासमायोजनस्य द्वितीयदिने साहित्य व्याकरण न्याय आयुर्वेदादिषु १२ भारतीयशास्त्रविषयेषु भाषणं शलाका स्पर्धाः अमरकोश सुभाषितकण्ठपाठस्पर्धाश्च अभवन्।