OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 14, 2024

 नवीनशिक्षानीतिः नवीनताभिः परिपूर्णा अस्ति -प्रो.अन्नपूर्णा नौटियाल:।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


   भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशन् -शिक्षकप्रशिक्षणकेन्द्रेण ११ मार्च २०२४ तः प्रारब्धः। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति - उत्तराखण्डः, हिमाचलप्रदेशः, उत्तरप्रदेशः, पञ्जाबः, महाराष्ट्रः, मध्यप्रदेशः, आन्ध्रप्रदेशः च । अस्मिन् अवसरे यूजीसीपोर्टल्मार्गेण ५४ प्रतिभागिनः पञ्जीकरणं कृतवन्तः।


 अस्मिन् अवसरे विश्वविद्यालयस्य

कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण आयोजितेषु एतेषु कार्यक्रमेषु दक्षिणपश्चिमराज्ययोः बहूनां प्रतिभागिनः निरन्तरं भागं गृह्णन्ति। एषः आनन्दस्य विषयः अस्ति। भारतसर्वकारेण कार्यान्विता नूतना शिक्षानीतिः नवीनताभिः परिपूर्णा अस्ति, सर्वतोन्मुखप्रगतेः सहायिका च अस्ति । अस्मात् दृष्ट्या मालवीयकेन्द्रेण नूतनशिक्षानीत्यां केन्द्रीकृताः एते प्रशिक्षणकार्यक्रमाः अतीव उपयोगिनो भवन्ति।


   कुलपतिः प्रो. नौटियालवर्यया कथितमग्रे यत् गढ़वालविश्वविद्यालयस्य मालवीयकेन्द्रात् अनेकराज्येभ्यः शिक्षकप्रतिभागिनः अन्तर्जालीयं लाभं प्राप्नुवन्ति इति शुभसंकेतः। तदर्थं सा केन्द्रस्य सम्पूर्णं आयोजनसमित्याः सर्वेभ्यः सहभागिभ्यः च अभिनन्दनं कृतवती । उल्लेखनीयं यत् मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रद्वारा यूजीसीद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं गढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण उच्चशिक्षायाः विभिन्नविषयेषु प्रशिक्षणकार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।


   अस्य केन्द्रस्य निदेशिका प्रो. इन्दु पाण्डेयखण्डूरी इत्यनया उक्तं यत् अस्माकं केन्द्रं नेप २०२० इत्यस्य विभिन्नपक्षेषु भाषणं दातुं देशस्य सर्वेभ्यः विद्वाश: वक्तारः समाममन्त्र्य शिक्षकाणां कृते प्रशिक्षणस्य नूतनानि आयामानि स्थाप्यन्ते। सा सूचितवती यत् वर्तमानकार्यक्रमस्य आयोजनं 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः' इत्यनेन शीर्षकेण क्रियते। अस्य अन्तर्गतं भारतीयज्ञानव्यवस्था, शैक्षणिकनेतृत्वशासनं तथा प्रबन्धनम्, कौशलविकासः, छात्रविविधता तथा समावेशीशिक्षा, सूचना तथा प्रौद्योगिकीसञ्चारः, अनुसन्धानविकासः, उच्चशिक्षा तथा समाजः तथा समग्रं बहुविषयकशिक्षा इत्यादिषु विविधपक्षेषु शिक्षकान् प्रशिक्षिताः भवन्ति। प्रतिदिनं सायं ३ तः ६ वादनपर्यन्तं द्वौ अन्तर्जालीयसत्रौ भवतः। कार्यक्रमस्य अन्ते शिक्षकाणां बहुविकल्पप्रश्नाः उत्तराणि च दत्त्वा अपि मूल्याङ्कनं भवति। एतेषां सर्वेषां प्रक्रियाणां फलस्वरूपम् अस्य प्रशिक्षणकार्यक्रमस्य प्रमाणपत्रं केन्द्रेण निरन्तरं उपस्थितानां शिक्षकाणां कृते दीयते। एतेन प्रकारेण शिक्षकाः अस्य केन्द्रस्य माध्यमेन नूतनशक्त्या नवीनक्रियाकलापैः च सुपरिचिता: भवन्ति इति सा अवदत्।

 

   सत्रस्य संचालनं सहायकसंचालक: डॉ. राहुलकुंवरसिंह:, डॉ.सोमेशथपलियाल: एवं कार्यक्रमकार्यकारिणी डॉ. कविताभट्टवर्या एवं च सहायकप्राध्यापक: डॉ. अनुराग: कृतवन्त: । समन्वयकार्ये पूनमरावत:, अनिलकठैत: च सक्रियभूमिकायाम् आस्ताम् ।