OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, November 30, 2021

 राष्ट्रे अद्यावधि ओमिक्रोण् वैराणुः न दृढीकृतः। परिशोधनां वर्धयितुं भारतसर्वकारस्य निर्देशः ।

नवदिल्ली> कोविड्वैराणोः ओमिक्रोण् विभेदः भारते अद्यावधि न दृढीकृतः इति केन्द्रस्वास्थ्यमन्त्रालयेन प्रोक्तम्। राज्यस्तरीय स्वास्थ्यविभागस्य प्रतिनिधिमेलने केन्द्रस्वास्थ्य-कार्य दर्शिना एव कार्यमिदं स्पष्टीकृतम्। राज्यसभायां स्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येनापि कार्यमिदम् आवेदितम्। एतदभ्यन्तरे वाक्सिनीकरणं त्वरणीयम् इत्यपि स्वास्थ्यमन्त्रालयेन राज्यानि प्रति अवोचत्। आन्टिजन् तथा आर् टि पि सि आर् द्वारा ओमिक्रोणस्य सान्निध्यं ज्ञातुं शक्यते इति मन्त्रालयेन प्रोक्तम्। विमानपत्तनेषु निरीक्षणं सुशक्तं कर्तुं तथा स्वास्थ्य मन्त्रालयस्य निर्देशं पालयितुं च केन्द्रसर्वकारेण अनुज्ञा दत्ता ।

 कार्षिकविधेयकं निरस्तम्। 

नवदिल्ली> विवादभूतं कार्षिकविधेयकं निरस्तीकर्तुमुद्दिश्य केन्द्रकृषिमन्त्रिणा नरेन्द्रसिंहतोमरेण अवतारितं नूतनं विधेयकं चर्चां विना संसदद्वयेन अङ्गीकृतम्। नूतनविधेयकस्य उपरि चर्चा न कृता इत्यस्मिन् प्रकरणे विपक्षदलैः प्रतिषेधः कृतः। 

  आकर्षकक्षेममुद्दिश्य आसीत् संवत्सरात्पूर्वं केन्द्रसर्वकारेण विधेयकमानीतम्। किन्तु दिल्लीं केन्द्रीकृत्य प्रवृत्ते कर्षकप्रक्षोभस्य आधारेण विधेयकं निराकर्तुं सर्वकारः निर्बन्धितः अभवत्।

 कुजग्रहात् एकम् समपत्रकम्। मनोहरचित्राणि सम्प्रेष्य क्यूरियोसिट्टि।


कुजग्रहात् नासायाः क्यूरियोसिट्टि रोवरेण मनोहरं चित्रद्वयं सम्प्रेषितम्। कुजग्रहस्थे मौण्ड् षार्प नाम स्थानस्थानि चित्राणि एव प्रेषितानि। लब्धानि चित्राणि एकीकृत्य वर्णानि लिम्पयित्वा एव कुजग्रहस्थं समपत्रं (post card) क्यूरियोसिट्टि संघाङ्गैः सज्जीकृतम्।२०२१ नवंबर् मासे षोडशे दिने कुजग्रहसमये ८.३० वादनतः४.१० वादनाभ्यन्तरे एव क्यूरियोसिट्टिना ३६०° विद्यमानानि परिसरदृश्यानि संगृहीतानि।

Monday, November 29, 2021

 कोविडस्य नूतनप्रभेदः - राष्ट्रे अतिजाग्रता ; अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम्। 

नवदिल्ली> दक्षिणाफ्रिक्कायां प्रत्यभिज्ञातः 'ओमिक्रोण्' नामकः कोविड्प्रभेदः डेल्टा  इत्यस्मात् तीव्रः दुर्घटनाकारकः इति विश्वस्वास्थ्यसंघटनेन पूर्वसूचना दत्ता। भारते एतदनुसृत्य अतिजाग्रता प्रख्यापिता। अन्ताराष्ट्रयात्रिकाणां नियन्त्रणम् विहितम्। 

  प्रधानमन्त्रिणा नरेन्द्रमोदिना समायोजिते अधिकारिप्रमुखाणां समुपवेशने राष्ट्रान्तरविमानानि कोविडनुशासनानि अनुसृत्य परिशोधनां कर्तुं निर्देशः कृतः। विमानयात्रिकाणां कृते यात्रानुशासनानि परिष्कृतानि। डिसम्बर् प्रथमदिनाङ्कादारभ्य नूतनानुशासनानि प्राबल्ये भविष्यन्ति।  

   सर्वेभ्यः राज्येभ्यः एतदुपलक्ष्य आदेशान् प्रदातुं निर्णयः कृतः।

 वेदकालमपि समायोज्य पाठ्य शैक्षिकयोजना परिष्करणीया इति भारतीयविचारमन्त्रणसभा।

वेदकालीनं सामाजिकजीवनं विज्ञानं च शैक्षिकयोजनायां समायोजनीयमिति शैक्षिककार्यमन्त्रणसमित्याः अनुशासनाl चरित्राध्ययनेषु स्वतन्त्रतासंग्रामसेना, तासां योगदानं, विविधदेशात् तासां भागभागित्वम् इत्यादीनां पुनरवलोकनं करणीयमित्येव पाठपुस्तकपरिष्करणचर्चानन्तरं समित्या आयोजितस्य प्रतिवेदनस्य निर्देशः। षष्ठकक्ष्यायाः पाठपुस्तके हारप्पा संस्कृतिमधिकृत्य सूचिते भागे केचन परिष्काराः समित्या निर्दिष्टाः। चतुर्थे अध्याये ऋग्वेदेन सह सामवेदः, यजुर्वेदः, अथर्ववेदः इत्यादीन् ग्रन्थान् अधिकृत्य ज्ञानमपि समायोजनीम्। पुराणानि, जैनधर्मेण बौद्धधर्मेण च साकं सिख् विशुद्धग्रन्थस्य गुरुग्रन्थसाहिबस्य परामर्शोऽपि समायोजितव्यः।तत्वशास्त्रं, गणितशास्त्रं, वैद्यशास्त्रं, आयुर्वेदं, प्रकृतिशास्त्रं, राजनैतिकशास्त्रं, आर्थिकव्यवस्था, भाषा, कला इत्यादिषु मण्डलेषु पौराणिकभारतस्य योगदानं च पाठ्य प्रणाल्यां समायोजनीयम्। परम्परया आगतां भारतीयविज्ञानशाखाम् आधुनिकशास्त्रेण सह संयुज्य समकालिकवातावरणे प्रतिपादनीयम्। एन् सि इ आर् टि, तथा एस् सि इ आर् टि पाठपुस्तकानां कृते मन्त्रणसभया समायोजिता भवति एषा प्रशासना।

नलन्दा तथा तक्षशिला विश्वविद्यालयानां शैक्षिकसम्प्रदायं विशदरीत्या अवगम्य अधुनातनरीत्या परिष्कृत्य अध्यापकानां कृते आदर्शः सज्जीकृत्य दातव्यमित्येव समितेः निर्देशः।

Sunday, November 28, 2021

 केरलेषु संस्कृताध्यापकाः संस्कृत-घिषणावृत्तये संग्रामं करिष्ये।


अनन्तपुरी> केरल-संस्कृताध्यापकसंघस्य (KSTF) नेतृत्वे संग्रामप्रख्यापनसभा श्वः अनन्तपुर्यां प्रस् क्लब् मध्ये भविष्यति। योगस्य उद्घाटनकर्म विपक्षनेता माननीयः वि डि सतीशः करिष्यति। संस्कृताध्ययनस्य प्रोत्साहनार्थं संवत्सराणि यावत् राज्ये आविष्कृतां संस्कृत-घिषणावृत्ति-योजनां उद्ध्वंसयितुं सर्वकारेण प्रयत्नाः। तानि विरुध्य अध्यापकाः संग्रामप्रख्यापनार्थं सम्मिलिष्यन्ति । अयुताधिकानां छात्राणाम् अस्मिन् संवत्सरादारभ्य संस्कृत-धिषणावृत्तिः विनष्टः भविष्यति। विधानसभाङ्गः टि वि इब्राहिं महोदयः मुख्यभाषणं करिष्यति। भा ज दलस्य राज्यस्तरीय उपाध्यक्षः शिवन् कुट्टी, के एस् टि एफ् राज्यस्तरीय अध्यक्षः टि के सन्तोष् कुमारः, के डि एस् टि एफ् अध्यक्षः टि पद्मनाभः, राज्यस्तरीय- सामान्यकार्यदर्शिनौ सि पि सनल् चन्द्रः, अजयकुमारः निर्वाहकसमित्यङ्गः श्रीजू प्रभृतयः भागं स्वीकरिष्यन्ति।

 संसदः शीतकालसम्मेलनं श्वः आरभते। 

नवदिल्ली> भारतसंसदः शैत्यकालसम्मेलनं सोमवासरे आरभते। कार्षिकनियमप्रतिनिवर्तनं समेत्य २६ विधेयकानि सभायाः परिगणनाय अवतारयिष्यन्ते। 

  रविवासरे प्रातः लोकसभाध्यक्षस्य ओं बिर्लामहोदयस्य संसद्कार्यमन्त्रिणः प्रह्लाजोषेः च नेतृत्वे सर्वेषां राजनैतिकदलानां प्रतिनिधीनां उपवेशनं भवति। विपक्षनेतुः मल्लिकार्जुन खार्गेवर्यस्य नेतृत्वे विपक्षदलनेतॄणां मेलनं सोमवासरे भविष्यति।

Saturday, November 27, 2021

 दक्षिणाफ्रिक्कासु कोविड्वैराणोः नूतनविभेदः दृढीकृतः।

विविधराष्ट्रैः यात्रानिरोधनाय निर्देशः दत्तः।

जोहन्नस्बर्गः> आफ्रिक्कासु कोविड् रोगवर्धनाय कारणभूतस्य नूतनवैराणुविभेदस्य स्थिरीकरणस्य पश्चात् दक्षिणाफ्रिक्कातः स्वस्वराष्ट्रं प्रति आगमननिरोधनाय यूयेप्यन् यूनियन् , जर्मनि, इट्टलि, ब्रिट्टन् इत्यादिभिः राष्ट्रैः निर्देशाः दत्ताः। बहुवारं जनितकपरिवर्तनविधेयः नूतनप्रभेदः दक्षिणाफ्रिक्कस्य वैज्ञानिकैः गतदिने दृढीकृतः आसीत्। समीपकाले राष्ट्रे रोगिणां संख्या अधिकतया रेखाङ्किता आसीत्। अस्य हेतुः नूतनवैराणुविभेदः भवेत् इति वैज्ञानिकाः अभिप्रयन्ति।

 बहुस्तरदुर्भिक्षसूचिका प्रकाशिता - ददौर्भिक्ष्यमधिकतमं बिहारे; न्यूनतमं केरले। 

नवदिल्ली> भारते दुर्भिक्षकाणां संख्या अधिकतमा बिहारराज्ये, न्यूनतमा केरले च। नीति आयोगेन प्रकाशितायां बहुस्तरदौर्भिक्ष्यसूचिकायां [Multi dimensional Poverty Index] एव ईदृशं मूल्यनिर्णयं विद्यते। स्वास्थ्य-शैक्षिक-जीवनस्तरः इत्यादीनामाधारे भारतस्य सर्वेषु राज्येषु नीति आयोगसंस्थया एवं समीक्षणं कृतम्। 

  सूचिकामनुसृत्य केरले दरिद्राणां प्रतिशतता 0.71 भवति। १०,०० जनेषु ७१जनाः दरिद्राः भवन्ति।  किन्तु बिहारे जनसंख्यायाः 51.91% जनाः दारिद्र्यमनुभवन्ति। झार्खण्डे 42.16%, उत्तरप्रदेशे 37.79% च. जनाः दारिद्र्यमनुभवन्ति इति सूचिकायां दृश्यते।

  केरलमपेक्ष्य निष्किञ्चनाः गोवायां न्यूनतराः भवन्ति। तत्रत्यः दारिद्र्यः 3.76% अस्ति। तमिल् नाट्मध्ये 4.89%, कर्णाटके 13.16% च दरिद्राः अङ्किता सन्ति। ऐक्यराष्ट्रसंघटनस्य दारिद्र्यनिर्माजनप्रमेयमनुसृत्य एव एतादृशी सूचिका कृता।

 भारतीयसेनायाः रहस्यविज्ञानानि चोरयित्वा पाकिस्थानाय प्रदत्तः पुरुषः आरक्षकेण संगृहीतः।

पाकिस्थानस्य कृते सेनारहस्यमि प्रदत्वा गूढकर्म कृतः इति कारणेन जय्साल्मर् देशात् एकस्य आपणस्य स्वामी राजस्थानस्य आरक्षकैः संगृहीतः। जङ्गमदूरवाण्याः सिं पत्राणां विक्रयणापणस्य स्वामी निदाब् खान् नामकः एव संगृहीतः। एषः संवत्सराणि यावत् पाकिस्थानस्य रहस्यान्वेषणसंस्थायाः ऐ एस् ऐ कृते गूढकर्म कुर्वन् आसीत् इति गुप्तान्वेषण विभागस्य निदेशकेन उमेष् मिश्रेण प्रोक्तम्।२०१५ तमे संवत्सरे सः पाकिस्थानराष्ट्रं सन्दर्शितवान्। ऐ एस् ऐ संघस्य नेतृत्वे परिशीलनं लब्धस्यै तस्मै१०००० रुप्यकाण्यपि तैः अदात्। भारतीयसेनासम्बन्धि ज्ञानानि एव तेन पाकिस्थानाय दत्तानि। सामाजिक-माध्यमलेखद्वारा एव सेनारहस्यानां विनिमयः कृतः इत्यपि मिश्रेण सूचितम्।

Friday, November 26, 2021

 जेवार् विमानपत्तनाय ३५००० कोटिरूप्यकाणां निक्षेपः। 

एकलक्षम् उद्योगार्थिनाम् अवसरोऽपि लप्स्यते

नवदिल्ली> सहस्रशः जनानां आह्लादारवाणां मध्ये प्रधानमन्त्रिणा नरेन्द्रमोदिना जोवार् विमानपत्तनस्य शिलान्यासः कृतः। राष्ट्रस्य स्वप्नयोजनायाः विकासमेव प्रधानतया अनेन लक्ष्यीक्रियते। उत्तरप्रदेशराज्यस्य पश्चिमभागात् ऋते  आराष्ट्रं च बृहत् विकासाय मार्गदर्शकं भविष्यति अन्ताराष्ट्रविमानपत्तनम् । पत्तननिर्माणपूर्त्यनन्तरं भारते तथा एष्याभूखण्डे अतिबृहत्तमं विमानपत्तनम् इति ख्यातिःभविष्यति जोवार् अन्ताराष्ट्रविमानपत्तनस्य।

 कैरलीयगानरचयिता बिच्चु तिरुमला दिवङ्गतः।

अनन्तपुरी> कविः गानरचयिता इति प्रथितः बिच्चु तिरुमला(८०) दिवङ्गतः। अद्य प्रभाते अनन्तपुर्यां निजीय आतुरालये आसीत् देहवियोगः। आतुरालये हृद्रोगचिकित्सायां आसीत् । ४०० संख्याधिकेषु चलनचित्रेषु गानानि तथा भक्तिगीतानि च आहत्य ५००० गानानि अनेन विरचितानि। महानुभावोऽयं१९८१ तमे संवत्सरे१९८५ तमे संवत्सरे च उत्तमगानरचनायाः कृते राज्यपुरस्कारेण समादृतः आसीत् च।

 अन्टार्टिक्कायां हिमपटलेषु  बृहत् वाणिज्यविमानं भूस्पर्शमकरोत्।


विश्वचरित्रे इदंप्रथमतया अन्टार्टिक्कायां बृहत् वाणिज्य विमानं अवरोहितम्। ए ३४० वाणिज्यविमानमेव अन्टार्टिक्कायां हिमतलस्योपरि भूस्पर्शं कृतम्। चरित्रनिमेषस्य सप्तनिमेषदीर्घितं चलनचित्रखण्डम् अन्तर्जाले त्वरितप्रसरमभवत्। दक्षिणाफ्रिक्कासु केप्टौण् देशात् पञ्चहोरादीर्घायितयात्रानन्तरम् एव वैमानिकः कार्लोस् मिर्पुरिः संघः च अन्टार्टिक्कायां प्राप्ताः। अपघातसाध्यतां पुरतः दृष्ट्वा सर्वसज्जीकरणानि सज्जयित्वा आसीत् भूस्पर्शः। विमानस्प उड्डयनपथात् (Runway) अपभ्रंशनिवारणार्थं १०,००० पादमितम् आकारयुक्तम् उड्डयनपथम् अपि सज्जीकृतमासीत्।

Thursday, November 25, 2021

भारते कोविडस्य तृतीयतरङ्गः कठिनतरं न भविष्यतीति स्वास्थ्यविचक्षणाः। 

नवदिल्ली> वाक्सिनीकरणेन विषाणुबाधया च भूरिशः जनाः प्रतिरोधशेषिं प्राप्तवन्तः इत्यतः कोविड्रोगस्य तृतीयतरङ्गः भारते द्वितीयमपेक्ष्य न कठिनतरं भविष्यतीति स्वास्थ्यविचक्षणैरुक्तम्। राष्ट्रे मुख्योत्सवेषु अन्यतमस्य दीपावलेः परं सप्ताहत्रये रोगिणां संख्या नावर्धत इति एतस्य सूचनेति व्याख्यायते। 

  गतदिने आराष्ट्रं कोविड्बाधिनानां संख्या ७,५७९ आसीत्। ५४३ दिनेषु न्यूनतमा संख्या एषा। प्रतिशतं ८२ जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। ४३ % द्वियीयमपि स्वीकृतवन्तः।

 २०२४ तमे संवत्सरे भारतेन निर्मितायाः ६ जि  पारिभाषिकविद्यायाः प्रकाशनं भविष्यति। 

नवदिल्ली> विश्वे विविधानि राष्ट्राणि अद्यावधि ५ जि पारिभाषिकविद्यासु प्रविष्टाः तथापि भारतम् इदानीमपि ५ जि तलेषु न प्राप्तम्। तदभ्यन्तरे देशनिर्मितां ३जि सुविधां संबन्ध्य भारतेन चर्चा समारब्धा। २०२३ वा २०२४ संवत्सरे स्वदेशीयरूपेण आविष्कृतां ६जि सुविधां प्रवृत्तिपथमानेष्यति इति भारतस्य वैद्युतक - वार्ताविनिमय-सूचना- प्रौद्योगिकमन्त्रिण्या श्रीमति अश्विनि वैष्णवेन प्रख्यापिता।

Wednesday, November 24, 2021

 भारतं ५० लक्षं 'बारल्'परिमितं क्रूड्तैलं बहिर्नयन्ति। मूल्यवर्धननियन्त्रणं लक्ष्यः।

मुम्बई> राष्ट्रे तैलेन्धनानाम् अनुस्यूतं मूल्यवर्धनं नियन्त्रयितुं राष्ट्रस्य संभृतसञ्चयात् ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेतुं सर्वकारेण निश्चितम्। उत्पादनं न्यूनीकृत्य कृत्रिमं मूल्यवर्धनं क्रियमाणस्य इन्धनोत्पादकराष्ट्रसंघस्य [ओपेक्] प्रक्रमेभ्यः पूर्वसूचनां दातुमेवायं निर्णयः। 

  अमेरिक्कायाः नेतृत्वे विविधराष्ट्रैः स्वीकृतस्य तन्त्रप्रधाननिर्णयस्य अंशतया एव भारतस्यापि निश्चयः। अमेरिक्का अपि ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेष्यति। चीनः, जाप्पानं, ब्रिट्टनम् इत्यादीनि राष्ट्राण्यपि एतादृशरीत्या सहयोगं कुर्वन्ति।

 सेलम् देशे द्रवेन्धनवातकदण्डगोलविस्फोटे त्रीणि गृहाणि भग्नानि। एकः मृतः च। 

चेन्नै> तमिल्नाडुराज्ये सेलं देशे सम्पन्ने द्रवेन्धनवातकदण्डगोलविस्फोटे (LPG cylender ) त्रीणि भवनानि भग्नानि। एकः मृतः च। त्रयः जनाः भग्नावशिष्टानां अन्तर्भागे संविष्टाः इति सूचना अस्ति। पञ्च जनाः रक्षिताः। सेलस्थे करिङ्कल्पेट्टि वीथ्याम् एव घटना एषा सम्पन्ना। भवने भक्षणपचनवेलायामेव दण्डगोलः भग्नः। अपघातं सम्पन्नं भवनं तथा समीपस्थौ द्वौ गृहौ च तत्क्षणे प्रभज्य भूमौ पेततुः। रक्षां प्राप्ताः पञ्चजनाः सेलस्थे सर्वकारीयं आतुरालयं प्रविष्टाः। भानावशिष्टान्तर्भागे एकः शिशुः अपि अस्ति। रक्षाप्रवर्तनानि अनुवर्तते।

Tuesday, November 23, 2021

 आन्ध्रप्रदेशः प्रलयभीतेः न विमोचिताः ; मरणानि ४२। 

हैदराबादः> आन्ध्रप्रदेशे यद्यपि वृष्टेः शक्तिः न्यूना अभवत्तथापि प्रलयभीतेः न विमोचिताः। चिट्टूर्, कडप्पा, नेल्लूर् जनपदेषु महान्नाशः अभवत्। अतिवृष्टिदुष्प्रभावे मृतानां संख्या ४२ जाता। 

  कडप्पजनपदे पुङ्गनूरस्थः २०० संवत्सरीयः सौधः विशीर्णः। प्राथमिकगणनामनुसृत्य राज्यस्य १,३१६ ग्रामाः  जलभोगेन गक्लेशमनुभूयमानाः वर्तन्ते।

 चलनचित्रेषु नाटकेषु तालिबानेन स्त्रियः निरोधिताः।

काबूल्> स्त्रीकथापात्रयुक्तानां दूरदर्शनकार्यक्रमाणां सम्प्रेषणं स्थगयितुं दूरदर्शनप्रणालिकायै (channel) अफगानिस्थानस्य तालिबानप्रशासनसभया निर्देशो दत्तः। दूरदर्शनप्रणालिकासु शिरोवस्त्रं  धृत्वा चित्र प्रदर्शिन्याः पुरतः आगन्तव्यम्। नूतननिर्देशानुसारं चलनचित्रेषु नाटकेषु च स्त्रीभिः अभिनयः न करणीयः। वक्षस्थलादारभ्य जानुपर्यन्तं वस्त्रं धृत्वा एव पुरुषाः दूरदर्शने आगन्तव्याः। धर्मविकारान् ध्वंसयन्तः हास्यकार्यक्रमाः विनोदकार्यक्रमाः च न करणीयाः इति तालिबानेन निर्दिष्टः अस्ति। संवत्सरेऽस्मिन् आगस्त् मासे एव तालिबानेन अफ्गानिस्थानस्य शासनं संगृहीतम्। शासनपदवीमागतस्य पश्चात् वनिताक्षेमविभागः तालिबानेन स्थगितः आसीत्। विभागस्य मुख्यकार्यालयः नूतनतया रूपीकरणाय सदाचारविभागाय समर्पितः च। स्त्रीस्वातन्त्र्यस्योपरि अतिनियन्त्रणानि एव तैः दापितानि।

Monday, November 22, 2021

 यूरोप्पे कोविड्व्यापनं तीव्रं; कर्कशनियन्त्रणानि विरुध्य प्रतिषेधः।

पारीस्> यूरोप्पीयराष्ट्रेषु कोविड् महामार्याः पञ्चमतरङ्गं तीव्रं वर्तते इति विश्वस्वास्थ्यसंघटनेन निगदितम्। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, फ्रान्स् इत्यादिषु राष्ट्रेषु व्यपनम् आशङ्काजनकमिति सूच्यते। 

     फ्रान्स् राष्ट्रे कोविड्प्रकरणानि गतसप्ताहीयापेक्षया द्विगुणमभवन्निति तद्देशीयसर्वकारेण उक्तम्। 

  परन्तु प्रायेण सर्वेषु राष्ट्रेषु सर्वकारैः विहितानि कर्कशनियन्त्रणानि विरुध्य जनानां प्रतिषेधाः संवृत्ताः। ओस्ट्रिया, क्रोयेष्या, इटली, नेतर्लाट्स्, इत्येतेषु राष्ट्रेषु सहस्रशः  जनाः  स्वयं राजमार्गं प्रविश्य  प्रतिषेधप्रदर्शनं कृतवन्तः। बहुत्र प्रतिषेधः अक्रमासक्तोSभवत्। हेग् नगरे प्रतिषेधकैः आरक्षकान् प्रति स्फोटकादिकं प्रयुक्तम्।

Sunday, November 21, 2021

 विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा।


ओस्लो> विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा। प्रतिसंवत्सरम् आवश्यकानां ४००० तैलेन्धन-पण्यवाहनानां यात्रायाः स्थाने एषा नौका पर्याप्ता भवति। जीवाश्माधार(Fossil) इन्धनं विना प्रवर्तयितुं शक्या 'कार्बण्' वातकबहिर्गमनरहिता परिस्थितिसौहृदरूपा च भवति एषा वैद्युतमहानौका। समुद्रमार्गसञ्चारमण्डले नूतनपदक्षेपः भविष्यति अस्याः निर्मितिः। सामान्यमहानौकासु विद्यमानस्य यन्त्रप्रकोष्ठस्य स्थाने 'यार बिर्क्लान्ड' नाम महानौकायां विद्युत्कोषकक्षाः एव सन्ति। प्रवर्तनाय जलवैद्युतिम् आश्रयमाणस्य महानौकायाः विद्युत्कोषस्य ६.८ 'मेगा वोल्ट्' क्षमता अस्ति।

 आन्ध्रप्रदेशे जलोपप्लवः - २९ मरणानि; उपशतं जनाः अप्रत्यक्षाः। 

तिरुप्पति> आन्ध्रप्रदेशे अतिवृष्टिरनुवर्तते। अतिवृष्टिदुष्प्रभावेण २९ जनाः मृत्युमुपगताः। उपशतं जनाः अदृष्टाः इति सूच्यते। कडप्पा जनपदे १२, चिट्टूरे ८, अनन्तपुरे ७, कुर्नूल् जनपदे २ च जनाः मृत्युमुपगताः। राष्ट्रियदुरन्तनिवारणसेनायाः अन्यासां संस्थानां च नेतृत्वे रक्षाप्रवर्तनानि अनुवर्तन्ते। 

  वंगदेशीयान्तरालमुद्रे जातं न्यूनमर्द्दमेव प्रकृतिक्षोभस्य कारणम्। राज्यस्य सुप्रधानं तीर्थाटनस्थानं तिरुप्पतिमन्दिरं जलेनाप्लावितम्। रायलसीमा मण्डले प्रलयः तीव्रः वर्तते।

Saturday, November 20, 2021

 गोवा अन्ताराष्ट्रिय-चलनचित्र-मेलायाः  प्रारम्भः अद्य भविष्यति।

पनाजि> ५२ तमायाः अन्ताराष्ट्रियचलनचित्रमेलायाः प्रारम्भः अद्य भविष्यति। सायाह्ने सप्तवादने श्यामप्रसाद् मुखर्जी सभागारे उद्घाटनसमारोहः समारप्स्यते। ७३ राष्ट्रात् १४८ चलनचित्राणि अन्ताराष्ट्रियविभागात् प्रदर्शनाय भविष्यन्ति। सुवर्ण मयूर पुरस्कारस्पर्धाविभागे १५ चलनचित्राणि सन्ति। इन्ड्यन् पनोरमा विभागे २५ चलनचित्राणि प्रदर्शयिष्यन्ति।  कार्लोस् सोरेण निदेशनं कृतं 'द किङ् ओफ् ओल् द वेल्ड्' उद्घाटनचलनचित्रं भविष्यति।

 ओस्ट्रेलियेषु कुलीराणां कृते पिधानम्।

मेल्बण्> पञ्चकोटि अरुणभीमकुलीराः प्रतिसंवत्सरं नवंबर् मासे वर्षानन्तरं यूथीभूय वनात् बहिरागच्छन्ति। यानमार्गाणि तरणं कृत्वा प्रजननाय समुद्रं प्रति यात्राम् अनुवर्तन्ते। एतेषां कुलिराणां सुरक्षितयात्रां दृढीकर्तुं पश्चिमओस्ट्रेलियस्य क्रिस्मस् द्विपः कुलीराणां सुरक्षितयात्रायै कृते पिधानं प्रख्यापितम्। एते अरुणवर्णविशेषकुलीराः भारतमहासमुद्रस्थे अस्मिन् लघुद्वीपे एव द्रष्टुं शक्यते। प्रजननार्थं पुरुषकुलीराः एव प्रथमं समुद्रतीरं प्राप्स्यन्ति। ततः पश्चात् स्त्रीकुलीराः अपि समुद्रतीरं प्राप्नुवन्ति। जीविनां मध्ये अतिबृहत्तमं देशान्तरगमनं भवति एतत् इति विशेषज्ञाः वदन्ति।

 विद्यालयस्य अध्यापकेभ्यः क्षमतानुसारं निष्कृतिः स्थानोन्नतिश्च ।

नवदिल्ली> केवलं छात्रेभ्यः न विद्यालयाध्यापकेभ्यः अपि अङ्कः भविष्यति। राष्ट्रस्य विद्यालयाध्यापकेभ्यः अपि तेषां प्रवर्तनक्षमताम् अनुसृत्य मूल्यनिर्णयाय सुविधा सज्जायते। एतस्याः कृते राष्ट्रिय शिक्षकशिक्षापरिषदेन (NCTE) राष्ट्रिय शिक्षानयस्य अधारेण राष्ट्रिय उद्योगमानकस्य (NPST) प्राथमिक रूपं सङ्कल्पितम्। अध्यापकानां निष्कृतिवर्धनं स्थानोन्नतिः च नूतनमानकस्य आधारेण भविष्यति। इदानीम् अध्यापकेषु केचन शैक्षिकक्षमतायुक्ताः न इति प्रत्यभिज्ञाय भवति नूतनं विचिन्तनम्।

Friday, November 19, 2021

 अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि।


नवदिल्ली> अरुणाचले पुनरपि चीनेन भवनानि निर्मितानि। ५० संख्याकानि भवनानि निर्मितानि इति नूतनोपग्रहचित्राणि संसूचयन्ति। २०१९ तमे संवत्सरे एतादृशानि भवनानि न आसन्। किन्तु नूतनतया प्रकाशितेषु उपग्रहचित्रेषु  चीनेन  निर्मितानां भवनानां चित्राणि द्रष्टुं शक्यन्ते।  चीनेन निर्मितानि इमानि भवनानि अधिकृत्य जनुवरि मासे एन् डि टि वि प्रतिवेदितमासीत्। पश्चात् पेन्टगणेन घटना एषा दृढीकृता च। तदनन्तरमेव पुनरपि चीनेन ६० अधिकानि भवनानि अपि अरुणाचले एवं निर्मितानि इति प्रतिवेदनमपि बहिरागतम् ।

अपरराष्ट्रस्य भूमेः स्वायत्तीकरणं भारतस्य स्वभावः न। येन केनापि राष्ट्रेण वा भवतु भारतं नाशयितुं विरुद्धतया सीमातिक्रमो वा गूढतन्त्रेण अन्येन वा प्रवर्त्येत तेषां उचितां प्रतिक्रियां लभ्येत, नैवात्र संशयः।  भारतभूमिं संरक्षितुं अस्माकं धीराः सैनिकाःशक्ताः सज्जाः च इति प्रतिरोधमन्त्रिणा राजनाथसिंहेन निगदितम्।

Thursday, November 18, 2021

 निजीय आतुरालयेषु संभृताः २.४० लक्षं मात्रामितस्य कोविड् वाक्सिनस्य  नाशः भविष्यति ?।

अनन्तपुरी> राज्ये निजीयआतुरालयेषु संभृताः२.४० लक्षं कोविड् वाक्सिनमात्राः  उपयोगशून्याः भविष्यन्ति इति आशङ्क्यते। केरलराज्य-सर्वकारेण मेडिक्कल् सर्वीसस् संस्था द्वारा वितीरितः वाक्सिनः अपि अस्मिन् अन्तर्भवति। वाक्सिनं प्रत्याहर्तुं संप्रार्थितोऽपि राज्यसर्वकारेण तथा सीरम् इन्स्टिट् ट्यूट् ओफ् इन्ड्यया च प्रक्रमाः न स्वीकृताः। षण्मासपर्यन्तमेव भवति कोविषील्डस्य क्षीयकालपरिधिः इत्यतः नाशसाध्यता अस्ति। कोवाक्सिनः अपि आतुरालये संभृतः वर्तते। राज्यसर्वकारस्य सकाशे अपि पर्याप्तं वाक्सिनसञ्जयम् अस्ति।

 अधिजालकक्रीडाद्वारा द्वयोः बालकयोः प्राणाः विनष्टाः। 

कोच्ची> कौमारवयस्कानाम् अधिजालकदास्यं द्वयोः प्राणानपाहरत्। केरले इरिङ्ङालक्कुटा प्रदेशे आकाशनामकः कश्चन १४ वयस्कः ओण्लैन् क्रीडया नष्टद्रव्यः इति पितृभ्यां ज्ञातमिति प्रत्यभिज्ञाने समीपस्थां वापीमुत्प्लुत्य प्राणानत्यजत्। इरिङ्ङालक्कुटा नाषणल् विद्यालये नवमकक्ष्याछात्रः आसीत्। 

    तिरुवनन्तपुरं जनपदस्थे चिरयिन्कीष़् निवासी साबित् मुहम्मदनामकः अन्यः १४ वयस्कोSपि एतादृशकारणेन नष्टप्राणः अभवत्। कून्तल्लूर् प्रेम्नसीर् स्मारकसर्वकारीयविद्यालये नवमीकक्ष्याछात्रः नवम्बर् ८तमदिनाङ्के उद्बन्धनेन मृतः आसीत्। तस्य अधिजालकपठनार्थं दत्तायां चलद्दूरवाण्यां निगूढसंख्यामुपयुज्य संरक्षितानि बहूनि क्रीडानिवेशनानि [Game Apps] दृष्टानि। अतः तस्य मरणमपि ओण् लैन् क्रीडायाः कारणेनेति सूच्यते।

 पोच्चम्पल्लि ग्रामाय ऐक्यराष्ट्र सभायाः अङ्गीकारः लब्धः।


 तेलङ्काना> तेलङ्कानस्थः पोच्चम्पल्लि ग्रामः उत्तम पर्यटनयोग्य-ग्रामत्वेन यु एन् डब्लियु टि  संस्थया (united nations World tourism Organization) अङ्गीकृतः। दिसंबर् मासस्य द्वितीये दिनाङ्के स्पेयिन् राष्ट्रे माड्रिडिल् जनपदे प्रचाल्यमाने २४ तम पर्यटनसङ्घटनस्य सामान्य जनसभायां (tourism organization general assembly) पुरस्कारः दास्यति। पश्चिमोत्तरमण्डलस्य केन्द्र-सांस्कृतिक-पर्यटनविभागस्य मन्त्री जि किषन् रेड्डी पोच्चम्पल्ली देशजनान् अभ्यनन्तयत्। भारतस्य प्रधानमन्त्रिणः आत्मनिर्भरभारतस्य  'वोक्कल् फोर् लोक्कल्' योजना द्वारा पोच्चम्पल्लि ग्रामस्य  स्वकीय-पट्टाम्बर-वयनरीतये सविशेषपरिगणना लब्धा इति सः अवदत्।

Wednesday, November 17, 2021

 विश्वस्मिन् धनिकराष्ट्रं चीनः। 

बीजिंग्> विश्वस्मिन् धनिकतमं राष्ट्रमिति पदम् अमेरिक्कामतिक्रम्य चीनेन स्वायत्तीकृतम्। सूरिच् आस्थानत्वेन वर्तमानस्य Makkincy Global Institute इत्यस्य आवेदनपत्रे एव एतद्वृत्तान्तः प्रकाशितः। आगोलार्थिकद्रव्यं गतदशकद्वये त्रियुगलं वर्धितमिति सूच्यते। 

   २०२० तमे आविश्वं समग्रं आर्थिकद्रव्यं ५१४ लक्षं कोटि डोलर् इति गणना कृता। तत्र १२० लक्षं कोटि डोलर् चीनस्य अधीशत्वे अस्ति। अमेरिक्कायाः अधीशत्वं ९० लक्षं कोटि डोलर् परिमितं भवति।

Tuesday, November 16, 2021

 शबरिगिरितीर्थाटनाय अद्य शुभारम्भः - अतिवृष्टिहेतुना तीर्थाटकानां नियन्त्रणम्। 

पत्तनंतिट्टा> 'तत्त्वमसी'ति उपनिषद्वाक्यस्य आशयं स्वांशीकृत्य दक्षिणभारतस्य शबरिगिरितीर्थाटनमद्य आरभते। शबरिगिरि श्रीधर्मशास्तृमन्दिरं आचारक्रममनुसृत्य ह्यः उद्घाटितम्। भक्तानाम् अद्य आरभ्य दर्शनं साध्यं भवति। कोविडनुशासनानि परिपाल्य ये  'वेर्च्वल् क्यू' द्वारा  दर्शनाय अनुज्ञापत्रं प्राप्तवन्तः तेभ्यः एव प्रवेशानुमतिः विहिता। 

  केरले गतदिनत्रयेण अनुवर्तमानया अतिवृष्ट्या भक्तानां संख्या नियन्त्रिता भवेत्। पम्पानद्यां जलोपप्लवः जातः इत्यतः  पम्पास्नानं निरुद्धं वर्तते। 

  अय्यप्पभक्तानां सुखतीर्थाटनाय अपेक्षिताः पदक्षेपाः सर्वे पूर्तीकृताः इति सर्वकार-देवस्वं बोर्ड् अधिकारिभिः निगदितम्।

Monday, November 15, 2021

 वायुमलिनीकरणं तीव्रं- पूर्णपिधानमालक्ष्य राजधानी।

  नवदिल्ली> वायुमलिनीकरणे अतितीव्रे जाते राष्ट्रराजधान्यां विपत्कालीनावस्था। दीपावल्याः अनन्तरं दिल्लीनगरान्तरिक्षस्य अवस्था अतिशोचनीया जाता। शनिवासरस्य प्रभाते वायुमलिनीकरणसूचिका ४७१ अङ्किता। सूचिकाङ्कनं ४०० - ५०० इति प्राप्यते चेत् अतितीव्रमन्तरिक्षमलिनीकरणं कल्प्यते। 

   अन्तरिक्षः धूमावृतः वर्तते। नगरवासिनः जनाः श्वासोच्छ्वासाय अतिक्लेशमनुभवन्ति। कर्कशानि नियन्त्रणानि नगरे दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवालेन विहितानि। तदनुसृत्य सर्वकारकार्यालयेषु सप्ताहं यावत्  'गृहतः कर्म' [Work from Home] विहितम्। सोमवासरादारभ्य सप्ताहं यावत् विद्यालयाः पिहिताः भविष्यन्ति। निर्माणप्रवर्तनानि निरुद्धानि।

Sunday, November 14, 2021

 संस्कृतभाषायाः प्रथम ज्ञानपीठजेता डा. सत्यव्रतशास्त्री दिवङ्गतः।


संस्कृतभाषायाः प्रथम ज्ञानपीठ पुरस्कारजेता डा. सत्यव्रतशास्त्री दिवङगतः। कविः पण्डितश्च अयं त्रयः महाकाव्याः त्रयः खण्डकाव्याः एकः प्रबन्धकाव्याश्च रचिताः। 


 क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति राज्ञी अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी


कालटी> केरलसंस्कृताध्यापकफेडरेषन् संघटनस्य दायित्वे राज्यस्तरीयवनितासङ्गमं मातृकम् 2021 इति नाम्ना अतिविपुलया रीत्या प्राचलत्। सर्वासां भाषाणां जननी क्षररहिता संस्कृतभाषा, सा मातृवत् छात्राणाम् उन्नमनाय भवतीति, तया भाषया मातृशक्तिरपि प्रचोदिता इति अस्य कार्यक्रमस्य उद्घाटिका श्रीमती अश्वति तिरुनाल् गौरी लक्ष्मी भाई तम्पुराट्टी अवदत्। केरलस्य तिरुवनन्तपुरं राजवंशस्य राज्ञी भवति एषा| अधुनातनकाले सङ्घटना नेतृत्वक्षेत्रेषु कार्यं कृतवतः सर्वान् प्रचोदयित्वा, स्वीयानुभवेन शैक्षणिकक्षेत्रं समूलम् आवाहयित्वा, तत्र विशिष्य संस्कृतशिक्षकाणां योगदानं कथं भवेदिति स्वीयवाग्चातुर्येण प्रकाशितवती गुरुवायूर् श्रीकृष्णा- कलालयस्य संस्कृतविभागस्य सहाचार्या डा.लक्ष्मी शङ्कर् महाभागा। केरलसंस्कृताध्यापक-फेडरेषन् संस्थायाः पूर्वतनसारथिरासीत् स्वर्गीयः श्रीमान् पी.जि अजित्प्रसाद् महाशयः। तस्य चरणपङ्कजेषु श्रद्धाञ्जलिं समर्प्य तस्यानुस्मरणं कृतवान्, केरलसंस्कृताध्यापकफेडरेषन् संस्थायाः राज्यस्तरीयकार्यदर्शी श्री. सी. पि. सनल्चन्द्रन् महाशयः। के.एस्.टि.एफ् संस्थायाः राज्यस्तरीयाध्यक्षः श्री टि के सन्तोष् कुमार् महाशयः, के.डी.एस्.टि.एफ् संघटनस्य राज्यस्तरीयाध्यक्षः श्री पि पद्मनाभन् महाशयः, के.एस्.टि.एफ् संघटनस्य भूतपूर्व उपाध्यक्षा श्रीमती रतिमहाभागा च आशंसाभाषणं कृतवन्तः। मातृकस्य मुख्यकार्यदर्शिनः श्रीमती षैलजा, श्रीमती विजयलक्ष्मी, श्रीमती कृष्णप्रिया, श्रीमती रेवती, श्रीमती सुगिषा, श्रीमती  स्मृति च स्वाभिमतान् प्रकटितवत्यः। अन्तर्जालद्वारा आसीत् राज्यस्थरीयम् इदं मेलनम्।

 महाराष्ट्रे २६ मावोवादिनः प्रतिद्वन्द्वे निहताः। 


मुम्बई> महाराष्ट्रस्य गड्चिरोलि जनपदस्थे वनमण्डले आरक्षकसेनया सह प्रवृत्ते भुशुण्डिप्रयोगे २६ मावोवादिनः निहताः। नागपुरात् २०० कि मी दूरे छत्तीसगढ सीम्नि वर्तमाने वनान्तर्भागे शनिवासरे प्रभाते आसीत् भुशुण्डिप्रयोगः प्रवृत्तः। सायं चतुर्वादनपर्यन्तं प्रतिद्वन्द्वः अभवत्। २६ मृतशरीराणि अधिगतानीति महाराष्ट्रस्य आरक्षकाधिकारिणा उक्तम्। 

  मावोवादिसंघं प्रतिरोद्धुं सविशेषपरिशीलनं लब्धवन्तः ४०० आरक्षकभटाः सेनायाः जनपदीयसहाधीशस्य सौम्य मुण्टे इत्यस्य नेतृत्वे प्रतिद्वन्द्वे भागं कृतवन्तः। दशाधिकाः मावोवादिनः चत्वार‌ः आरक्षकाश्च व्रणिताः।

 नवम्बर् मासस्य नवदशदिनाङ्के दृष्टिपथमायाति अपूर्वं चन्द्रग्रहणम्।


कोलकत्ता> ५४० संवत्सराभ्यन्तरे अतिदैर्घ्ययुक्तं भागिकं चन्द्रग्रहणं नवम्बर् मासे नवदश दिनाङ्के द्रक्ष्यति। पूर्वोत्तरराज्यस्य अरुणाचलप्रदेशस्य असमस्य च केषुचित् भागेषु एतत् अपूर्वं चन्द्रगहणं द्रष्टुं शक्यते इति एम् पि बिर्ल  प्लानिट्टोरियं रिसर्च आन्ट् अक्कादमिक संस्थायाः आयुक्तेन देबिप्रोसाद् दुरै महाभागेन प्रोक्तम्। नवम्बर् मासे नवदश दिनाङ्के मध्याह्ने १२.४८ वादने आरभ्य सायाह्ने ४.१७ वादने चन्द्रग्रहणमिदं परिसमाप्स्यते।

Saturday, November 13, 2021

अतिवृष्टिः - केरले २१६ कोटिरूप्यकाणां कृषिनाशः। 

कोच्ची> गतमासस्य १६,१७,१८ दिनाङ्केषु प्रवृत्तायाः अतिवृष्ट्याः दुष्प्रभावेण आराज्यं २१,९४१ हेक्टर् परिमितानां क्षेत्राणां कृषयः विनाशिताः। मानदण्डमनुसृत्य २१६.३कोटिरूप्यकाणां नाशः अभवदिति कृषिविभागस्य गणनेन सूच्यते। नष्टपरिहाराय अद्यावधि ६६,३२२ कृषकाः अर्थनापत्राणि समर्पितवन्तः।अर्थनापत्राणां समर्पणीयदिनाङ्कः नवंबर १५पर्यन्तं दीर्घितः अस्ति। 

  तृश्शिवपेरूर् जनपदे अधिकतरः कृषिनाशः अभवदिति सूच्यते। तत्र ६७७९ कृषकाणां ११,९६७ हेक्टरपरिमितस्य नाशः अभवत्। ततः कोट्टयं, आलप्पुष़ा, पालक्काट्, एरणाकुलं जनपदेषु एव अधिकाधिकः कृषिनाशः जातः। अन्येषु जनपदेषु अपि व्यापकरीत्या कृषिनाशः अभवत्।

 द्रुमकन्दपत्रेषु अर्बुदौषधम् अस्ति। संयुक्तगवेषणाय इस्रयेलः।

केरलम्> द्रुमकन्दपत्रेषु (Tapioca) अर्बुदरोगप्रतिरोधांशाः सन्ति इति सूचना। अनन्तपुरस्थे सि टि सि आर् ऐ (Central Tuber Cropes Research Institute) मुख्यवैज्ञानिकस्य सि ए जयप्रकाशस्य नेतृत्वे संपन्ने अनुसन्धाने भवति इदं प्रत्यभिज्ञानम्। द्रुमकन्दपत्रे विद्यमानः सयनोजन् नाम अंशः एव अर्बुदरोगप्रतिरोधकः। टोक्सिकोलजि नाम अन्ताराष्ट्रियगवेषणपत्रिकायां विषयमिदं प्रकाशितम् अस्ति।

Friday, November 12, 2021

 वंगसमुद्रे न्यूनमर्दावकाशः। केरलेषु आगामिनि पञ्चदिनपर्यन्तम् अतिवृष्टिः भविष्यति।

अनन्तपुरी> वंगसममुद्रे दक्षिण आन्ड्मान् समुद्रे शनिवासरे नूतनन्यूनमर्दस्य आविर्भावाय अवकाशः अस्ति इति केन्द्र-वातावरणमन्त्रालयेन आवेदितम्। ४८ होराभ्यन्तरे न्यूनमर्दः प्रबलः भविष्यति इत्यपि पूर्वसूचना दत्ता। केरलेषु आगामिनि पञ्चदिनं यावत् अतिवृष्टेः अवकाशः अस्ति इत्यपि पूर्वसूचना  प्रदत्ता।  पश्चिमवातस्य गतिः अपि शक्ता भविष्यति चेत् आगामिनि होरासु गिरिप्रदेशेषु अपि वृष्टेः अवकाशः अस्ति। अतः तीरप्रदेशेषु गिरिप्रदेशेषु च जाग्रता पालनीया।

 शीतीकरणसुविधां विना संरक्षितुं योग्यं  कोविड् वाक्सिनः आयाति। 

कोविडस्य नूतनप्रभेदान् च प्रतिरोद्धुं शक्तः नूतनः वाक्सिनः आयाति। उत्पादनं ललितं भवति। शीतीकरणसुविधा न आवश्यकी इति तस्य सविशेषता। प्रथिनम् (protein) आधारीकृत्य एव वाक्सिनः निर्मितः। यु एस् राष्ट्रे बोस्टने शिशूनाम् आतुरालयस्थाः गवेषणसङ्घाङ्गाः एव वाक्सिनस्याऽस्य निर्मातारः।

 एम् वि नटेशः रेल् विकास निगमस्य निदेशकरूपेण नियुक्तः। 


 कालटी> श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य व्याकरणविभागे प्राचार्यः डो एम् वि नटेशः केन्द्रसर्वकारस्य रेल् विकास् निगम लिमिटड् संस्थायाः निदेशकरूपेण नियुक्तः। प्रशस्तः प्रभाषकोऽयम् अमृतभारत्याः राज्याध्यक्षः संस्कृतभारत्याः उपाध्यक्षश्चास्ति। कालटी विश्वविद्यालयस्य अन्तर्देशीयाध्ययनकेन्द्रस्य सहनिदेशकश्चासीत्।

  तृश्शिवपेरूरस्थे कोलष़िनिवासी अयम् उपविंशतिसंख्याकान् ग्रन्थान् शताधिकान् गवेषणप्रबन्धान् च विरचितवान्।

Thursday, November 11, 2021

 मुल्लप्पेरियार् - वृक्षखण्डनादेशः निरस्तः; उन्नताधिकारिणे वृत्तिनिरोधः।

अनन्तपुरी> केरले मुल्लप्पेरियार् सेतोः 'बेबी डाम्' नामकबालसेतुं शक्तीकर्तुमुद्दिश्य तस्य समीपे वर्तमानान् १५ वृक्षान् खण्डयितुं तमिल्नाट् सर्वकाराय अनुज्ञां दीयमानः केरलवनंविभागस्य आदेशः केरलमन्त्रिमण्डलेन निरस्तः। 

   घोषणापत्रप्रख्यापकः वनविभागस्य मुख्यवनपालकः बेन्निच्चन् तोमस् इत्याख्यः सर्वकारेण वृत्तिनिरोधाय कल्पितः। केरलस्य राजनैतिकमण्डले साप्ताहिकं यावत् निरन्तरवादप्रतिवादाय कारणभूतस्यास्य प्रकरणस्य अन्तिममयं क्रियाविधिः अधिकारिणं बलिदानं कृत्वा सर्वकारस्य रक्षाप्रप्तिरिति आक्षेपः जातः अस्ति। 

  वृक्षखण्डनाय केन्द्रपरिस्थितिविभागस्य अनुज्ञा तथा अस्मिन् विषये केरलमन्त्रिमण्डलस्य च अनुज्ञा नाभवदिति कारणेनैव मुख्यवनपालकस्य घोषणापत्रं निरस्तम्।

 नौसेनायाः नूतनः अधिकारी।

नवदिल्ली> केरलीयः वैस् अड्मिरल् आर् हरिकुमारः भारतीयनौसेनाया‌ः नूतनः नायकः भविष्यति। अनन्तपुरं प्रदेशीयः अयं इदं स्थानं प्राप्यमाणः प्रथमो केरलीयो भवति। अद्यतनाधिकारी अड्मिरल् करंबीरसिंहः नवम्बर् ३० तमे विरम्यते। 

  पश्चिम 'नेवल् कमान्ड्'मध्ये फ्लाग् ओफीसर् कमान्डिंग् इति स्थानमलङंकुर्वन्नस्ति सः। प्रशंसार्हसेवायै विशिष्टसेवापुरस्कारः, अतिविशिष्ट - परमविशिष्ट सेवा पुरस्कारौ च अस्मै लब्धा‌ः सन्ति।

Wednesday, November 10, 2021

 चीनेन अत्याधुनिकयुद्धनौका पाकिस्थानाय प्रदत्ता।

बेय्जिंङ्> भारतमहासमुद्रे प्रतिरोधम् आलक्ष्य पाकिस्थानाय अत्याधुनिकयुद्धनौका चीनेन प्रदत्ता। "एन् एस् तुग्रिल्' नामिका नौका चीनस्य सर्वकारीय नौकानिर्माणायोगेन एव निर्मिता। चीनस्थे षाङ्हाय् देशे सोमवासरे प्रचलिते कार्यक्रमे नौका पाकिस्थानस्य नाविकसेनायै प्रदत्ता। स्थलात् स्थलेषु, स्थलात् आकाशेषु, जलान्तर्भागात् च आक्रमणं कर्तुं सक्षमा भवति नौका एषा।

 भारतमालक्ष्य चीनस्य नूतनकार्यक्षेपः - पाकिस्थानाय अत्याधुनिकी युद्धमहानौका दत्ता।

 बीजिङ्ग्> भारतमहासमुद्रे प्रतिरोधपदक्षेपं लक्ष्यीकृत्य पाकिस्थानाय अत्याधुनिकी युद्धमहानौका चीनेन दत्ता। 'पि एन् एस् तुग्रिल्' इति कृतनानधेया महानौका चीनसर्वकारस्य महानौकानिर्माणसंस्थया एव निर्मिता। 

  चीने षाङ्हायि स्थाने आयोजिते कार्यक्रमे आसीदियं दानक्रिया प्रवृत्ता। तिस्रः महानौकाः अपि देयाः इति सूच्यते।

 चिलिदेशे वस्त्राचलः। परिस्थितिमलिनीकरणस्य अपरं रूपम्।

चिलिदेशे अट्टक्काम मरुप्रदेशे परित्यक्तानि वस्त्राणि शैलाकारं प्राप्नोति। उपयोगरहितानि तथा विक्रयणरहितानि वस्त्राणि एव परित्यक्तानि। उपयोगरहितानां विक्रयणरहितानां वस्त्राणाम् आकारेण सम्पन्नः भवति चिलिदेशः। एतेषां वस्त्राणाम् अत्र उपभोक्तारः सन्ति। चीनेषु तथा बंग्लादेशेषु च निर्माय यूरोप्पेषु अमेरिक्केषु च भ्रमणं कृत्वा अन्ते चिलिदेशे आयाति। लाट्टिनमेरिक्कादेशेषु पुनः विक्रीयते। किन्तु विक्रयणरहितानि शिष्टानि ३९,००० टण् वस्त्राणि मरुप्रदेशे निक्षिपन्ते। एतानि वस्त्राणि भूमौ न लीयन्ते। वस्त्रेषु अन्तर्गतानि रासवस्तूनि अपि पारिस्थितिकां समस्यां जनयन्ति ।

 भारतीयवाक्सिनप्रमाणपत्रं ९६ राष्ट्रैः अङ्गीकृतम् इति स्वास्थ्यमन्त्रालयः।  

नवदिल्ली> कोविडस्य कारणेन यात्रानियन्त्रणान् अतिक्रमितुं ९६ राष्ट्रैः साकं परस्परावगमनं संप्राप्तम् इति केन्द्रस्वास्थ्यमन्त्रिणा मन्सुख् माण्डव्येन प्रोक्तम्। एतत् अन्यराष्ट्रेषु भारतीयानां यात्राः सुगमं कर्तुं प्रभवति  इति मन्त्रिणा निगदितम्। कोवि षील्ड् वाक्सिनः अपि विश्वस्वास्थ्यसंघटनेन अङ्गीकृताः अन्यवाक्सिनः च स्वीकृतानां प्रमाणपत्राणि च भारतेन अङ्गीकृताः इत्यपि केन्द्रस्वास्थ्यमन्त्रालयेन आवेदितम्। एतस्मात् राष्ट्रात् भारतम् आगतेगभ्यः जनेभ्यः कोविड्  मानकनियमेषु समाश्वासः वर्तते। कोविड् पोर्टल् द्वारा स्वीकृतस्य कोविड् प्रमाणपत्रमुपयुज्य एतेषु राष्ट्रेषु यात्रां कर्तुं शक्यते।

Tuesday, November 9, 2021

 हिमो नास्ति, हिमसंहतिः नास्ति। विषफेनेन प्लाविता यमुनानदी।

नवदिल्ली> मलिनीकरणकारणेन नवदिल्ल्यां कालिन्दीकुञ्जस्य समीपे यमुनानद्यां विषफेनः रूपीकृतः। यमुनानद्याः विविधभागाः विषफेनेन आवृताः भवन्।  'चाट्' पूजायां भागं स्वीकर्तुं बहवः भक्ताः  अत्र आगतवन्तः आसन्। नद्याम् अमोणियायाः तथा फोस्फेट् मिश्रितस्य च आधिक्यमेव विषफेनरूपीकरणस्य कारणम्। यन्त्राकारात् नद्यां रासमालिन्यानां  क्षेपणमेव जले अमोणियायाः तथा फोस्फरस् मिश्रितस्य च आधिक्यस्य कारणम् ।

दिनचतुष्टयं यावत् दीर्घितायां चाट्ट् पूजायां प्रधानतया सूर्यदेवमेव आराधयन्ति। बीहार् तथा जार्खण्डदेशीयाः एव मुख्यतया पूजायां भागं स्वीकुर्वन्ति। आराधना वेलायां भक्ताः नद्यां स्नानं कुर्वन्ति। नदी तु मालिन्यानाम् आधि क्येन उपयोक्तुं न शक्यते च।

 आर्थिकसमावेशने भारतं चीनादग्रे। 

मुम्बई> आर्थिकसमावेशनमिति प्रक्रियायां ‌(Financial Inclusion) भारतं चीनराष्ट्रात् अग्रे वर्तते इति एस् बि ऐ वित्तकोशसंस्थायाः गवेषणावेदनम्। प्रधानमन्त्री जनधनयोजना, वित्तकोशशाखानां पुनर्विन्यासः, 'डिजिटल्' व्यवहारेभ्यः कृतः आधारसुविधाविकासः, वित्तकोशीयसंवादकानां (Banking Correspondents) नियुक्तिः इत्यादिभिः आयोजनाभिः राष्ट्रस्य आर्थिकसमावेशनप्रवर्तनानि शीघ्रमायातानीति आवेदने सूचितमस्ति। 

  देशकालभेदं विना आर्थिकसेवाः लघुव्ययेन समावसरेण च सर्वेभ्यः लभ्याः भवेयुः इत्येतदेव आर्थिकसमावेशनमित्युच्यते।

 न्यूसिलान्टे प्रतिदिनकोविड्रोगिणः अधिकायन्ते। 

ओक्लान्ट्> विश्वस्य प्रथमं कोविड्मुक्तराष्ट्रमिति प्रसिद्धीभूते न्यूसिलान्टे कोविड्रोगिणः प्रतिदिनं वर्धन्ते। मासत्रयात्पूर्वं  डेल्टा प्रभेदे दृष्टे कर्कशनियन्त्रणानि राष्ट्रे विहितान्यासन्। किन्तुओक्लान्ट् नगरे एव २०० प्रकरणानि आवेदितानि। राष्ट्रे समग्रं गतदिने २०६ जनाः रोगबाधिताः जाताः। 

   राष्ट्रे १२ उपरि वयस्केषु ७८% जनाः वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्तः। ८९ % जनाः प्रथममात्रां स्वीकृतवन्तः वर्तन्ते। वाक्सिनवितरणे प्रगतिरस्ति चेदपि रोगव्यापनं वर्धते इत्यस्मिन् सर्वकारः आशङ्काकुलः अस्ति।

   उल्कायाः सञ्चारपथं परिवर्तयितुं सक्षमा प्रतिरोधसुविधा नासया सज्जीकृता। 

बहिराकाशस्थः उल्काश्मानः भूमये भीषां जनयितुं समर्थाः भवन्ति। शून्याकाशात् भूमिम् अभिमुखीकृत्य  आगतानां बहूनाम् उल्काश्मनां भग्नोपग्रहांशानां सञ्चारपथं  गगननिरीक्षकाः गवेषकाः ससूक्ष्मं निरीक्षयन्तः सन्ति। अन्तरिक्षम् अतिक्रम्य भूमिं प्रति शरवेगेन आगतानाम् उल्काशिलानां सहस्राणां परमाणुविस्फोटकैः समा शक्तिः अस्ति इति गण्यते। विश्वविनाशाय पर्याप्ता भवन्ति एते। एवं भूमिं आलक्ष्य आगतानां लघुग्रहाणां सञ्चारपथं परिवर्तयितुं मार्गमन्वेषयन्नस्ति वैज्ञानिकलोकः। अस्य साक्षात्काराय नासया संस्फुटीकृता प्रतिरोधसुविधा प्रथमपरीक्षणाय सुसज्जा।

लघुग्रहे पेटकं बलात्कारेण आविश्य तस्य सञ्चारपथस्य परिवर्तनं करिष्यति एषा प्रतिरोध सुविधा। नवम्बर् मासस्य २३ तमे दिनाङ्के 'डबिल् आस्ट्रोयिड् रीडयरक्षन् टेस्ट्' नाम सुविधायाः परीक्षणं भविष्यति।

Monday, November 8, 2021

 ग्रीन्लान्ड् मध्ये न्यूयोर्क् नगरं प्लावयितुं सक्षमा हिमसंहतिः (Glacier) द्रवीभूता।

न्यूयोर्क्> अन्टार्ट्टिक्कां विहाय विश्वस्मिन् आकारे द्वितीयं स्थानम् आवहतां ग्रीन्लान्ड् मध्ये स्थितां हिमसंहत्यां गतदशाब्दाभ्यन्तरे हिमद्रवणं पूर्वाधिकं शक्तमभवत् इति पठनानि सूचयन्ति। अतिद्रवणहेतुना विश्वमिन् सर्वत्र समुद्रजलसमता (sea level) एकसेन्टीमीट्टर् मितम् अवर्धत। एवम् अनुवर्तते चेत् अस्मिन् शतकस्य अन्ते समुद्रजलसमता एकपादमितं विवर्धितुम् अवकाशः अस्ति इति अध्ययनानि सूचयन्ति। नाच्वरल् कम्युणिक्केषन्स् जेणल् मध्ये प्रकाशिते प्रतिवेदने एव घटनेयं संसूचिता ।

 पाक्किस्थानस्य नाविकसेनया भारतीयधीवरं गोलिकाप्रहरेण व्यापादितः। षट् धीवराः बलात् अपाहृताश्च।

नवदिल्ली> पाकिस्थानस्य नाविकसेनया भारतस्य धीवरं गोलिकाप्रहरेण व्यापादितः इति प्रतिवेदनम्। षट् धीवराः पाकिस्थानेन बन्धिताः। भुशुण्डिप्रयोगे एकः व्रणितः इत्यपि गुजरात्तस्य प्रादेशिकवार्तामाध्यमैः प्रतिवेदितमस्ति। गुजरात्ते द्वारकायाः तीरे अन्ताराष्ट्रियसीमायामेव पाकिस्थानस्य नाविकसेनया घीवराणाम् उपरि भुशुण्डिप्रयोगः कृतः। मृतः धीवरः श्रीधरः इत्याख्यः इति ऊह्यते।

 जम्मुकाश्मीरस्थे श्रीनगरे भीकराक्रमणम् - आरक्षकः वीरमृत्युं प्राप्तवान्।

भीकराक्रमणेन जम्मुकाश्मीरस्थे श्रीनगरे  अरक्षकः मृतः। तौफीख् अहम्मद् (२९) एव मृतः। घटनेयं श्रीनगरस्य बट्टमालू मण्डले एव प्रवृत्ता। आरक्षकैः अन्वेषणं शक्तमकरोत्। रविवासरे रात्रौ अष्टवादने एस् डि कोलनि प्रदेशस्य गृहसमीपे भीकराः निरायुधस्य आरक्षकस्योपरि गोलिकाप्रहरम् अकुर्वन्। आरक्षकम् आतुरालयं प्राविशत् चेदपि ततः पूर्वं मृत्युं प्राप्तवान्। 

Sunday, November 7, 2021

 युवगायिका मरीलिया मेन्तोन्सा विमानापघाते मृतिमुपगता।


रियोडि जनीरा> ब्रसीलस्य युवगायिका मरीलिया मेन्तोन्सा विमानापघाते दिवङ्गता। षड्विंशति वयस्कायाः मरीलियायाः विश्वस्मिन् सर्वत्र आराधकाः सन्ति। लाट्टिन् ग्रामी पुरस्कारजेत्री भवति एषा। शुक्रवासरे आसीत् अपघातः इति मरीलियायाः मरणवार्तां दृढीकृत्य अधिकृतैः निगदितम्। लघुविमाने मरीलियायाः साकं यात्रां कृतवन्तः कार्यक्रमस्य निर्माता तस्याः मातुलः, तथा द्वौ वैमानिकौ च अपघाते मृताः इति प्राथमिकसूचना अस्ति।

 पलायनसन्दर्भे शिशुः संरक्षणाय सैनिकानां पार्श्वे  दत्तः। किन्तु पश्चात् शिशुः न प्रतिलब्धः।


न्यूयोर्क्> काबूल् विमानपत्तनद्वारा प्राणरक्षार्थं पलायनावसरे सैनिकस्य हस्ते प्रदत्तवन्तौ।  स्वशिशुं प्रतिलब्धुं शिशुमन्विष्य अफगानिस्थानीयौ दम्पत्यौ विचरन्तौ। आगस्त् मासे१९ तमे दिने काबूल् विमानपत्तने जनसम्मर्दाभ्यन्तरे 'मिर्सा अलि'  तस्य पत्नी सुरय्या च द्विमासीयं सोहेल् नामकं स्वपुत्रं भित्तेरुपरिस्थात् अमेरिक्कस्य सैनिकस्य हस्ते प्रदत्तौ। अस्य घटनायाः चित्राणि वीडियोचित्राणि च अन्ताराष्ट्रियेषु वार्तामाध्यमेषु  सामाजिकमाध्यमेषु च प्रसारितानि आसन्। विमानेषु प्रवेशनव्यग्रतया एव दम्पतिः शिशुं भित्ते उपरिस्थात् सैनिकं प्रति दत्तवन्तौ। प्रधान कवाटमागत्य प्रतिगृहीतुं शक्नोति इति चिन्तया एव एवं कृतवन्तौ। किन्तु त्रिमासानन्तरमपि शिशुः कुत्र अस्ति इति विषये कापि सूचना न लब्धा।

 महाराष्ट्रस्थे आतुरालये अग्निबाधा- ११ कोविड्रोगिण‌ः मृताः। 

मुम्बई> महाराष्ट्रे अहम्मदनगरस्थे सर्वकारातुरालये दुरापन्नया अग्निबाधया ११ कोविड्रोगिणः मृताः।  तीव्रपरिचर्याविभागे प्रभाते ११ वादने  अग्निबाधा जाता।  

  कोविड्बाधया १७ आतुराः तीव्रपरिचर्यायामासन्। शिष्टानामवस्था तृप्तिकरीति अहम्मदनगरजनपदाधिकारिणा राजेन्द्र भोसले इत्यनेन निगदितम्। 'ऐ सि यू' विभागस्थेषु इलक्ट्रोणिक् उपकरणेषु अन्यतमे जाते 'षोर्ट् सर्क्यूट्' कारणेनैव इयं दुर्घटनेति प्राथमिकं निगमनम्। उन्नतस्तरान्वेषणाय आदिष्टमिति मुख्यमन्त्री उद्धवताक्करे निगदितवान्। प्रधानमन्त्रिप्रभृतयः प्रमुखाः दुरन्ते अनुशोचनानि प्रकटितवन्तः।

Saturday, November 6, 2021

 हिमालये चीनया मृणालमयूखतन्तुश्रृङ्खला (optic fibre ) स्थापिता इति प्रतिवेदनम्।

वाषिङ्टण्>२०२० संवत्सरे भारतेन सह सीमाविषये संघर्षे अनुवर्तमाने सन्दर्भे पश्चिमहिमालयस्य केचन प्रदेशेषु चीनया मृणालमयूखतन्तुशृङ्खला स्थापिता इति पेन्टगण् प्रतिवेदयति। अतिशीघ्र  -lआशयविनिमयाय तथा विदेशशक्तीनां हस्तक्षेपात् सुरक्षितत्वं दृढीकर्तुं पीपिल्स् लिबरेषन् आर्मी एव मृणालमयूखतन्तुश्रृङ्गला स्थापिता इति प्रतिवेदनं सूचयति।

 प्रधानमन्त्रिणा नरेन्द्रमोदिना केदारनाथे शङ्करप्रतिमा अनाच्छादिता। १५० कोटि रूप्यकाणां अभियोजनाः प्रख्यापिताः।

केदारनाथः> भारतस्प अध्यात्मिकं पारम्पर्यं महत्तमं भवति। तदेव केदारनाथे दृश्यते इति प्रधानमन्त्री नरेन्द्रमोदी न्यवेदयत्। केदारनाथस्थां द्वादशपादमितोन्नतां शङ्कराचार्यप्रतिमाम् उद्घाटयन् भाषमाणः आसीत् सः। केदारनाथमन्दिरदर्शनानन्तरमेव प्रधानमन्त्रिणा कृष्णशिलानिर्मिता प्रतिमा अनाच्छादिता। प्रतिकूलवातावरणानि अतिजेतुं पर्याप्ता निर्माणरीतिरेव अत्र अवलम्बिता। प्रलयं तथा भूकम्पादयः न बाधते। मैसूरे एव प्रतिमा निर्मिता।

Friday, November 5, 2021

 "वाचाटोपं प्रशमयन्तु , प्रयत्नं कुर्वन्तु" - विश्वनेतॄः प्रति चतुर्दशवयस्कायाः आवेदनम्। 

ग्लास्गो > सारशून्यानि वाग्दानानि वाग्धोरणिं च समाप्य कार्यारम्भं कुर्वन्तु इति विश्वनेतृजनान् समुद्बोधयन्ती भारतीयछात्रा काचन चकुर्दशवयस्का। परिस्थिति ओस्कार्  इत्याख्यातस्य 'एर्त् षोट्' पुरस्कारस्य अन्तिमपट्टिकायामन्तर्भूता तमिल्नाट् निवासिनी विनिषा उमाशङ्करः भवति ग्लास्को शिखरमेलने कृतेन  उज्वलप्रभाषणेन सर्वेषामभिमानभाजनं सम्पन्नम्। 

  प्रधानमन्त्री नरेन्द्रमोदी, ब्रिट्टनस्य प्रधानमन्त्री बोरिस् येत्सनः, यू एस् राष्ट्रपतिः जो बैडनः इत्यादीनां प्रमुखानां सान्निध्ये आसीत् विनिषायाः प्रभाषणम्। भूमिं संरक्षितुं  प्रयत्न एव कार्यः न प्रभाषणमिति सा स्पष्टीकृतवती।

 कोविड् औषधगोलिका ब्रिट्टणेन अङ्गीकृता 

विश्वस्मिन् प्रथमतया कोविड् चिकित्सायै औषधगोलिकायाः उपयोगः। 'मोल्नुपिराविर्' इत्यस्ति गोलिकायाः नाम। ब्रिट्टणस्य औषधायोगेन गोलिका अङ्गीकृता। कोविडेन गुरुतरावस्थां प्राप्तवतां महते उपकाराय भवति इयं गोलिका। इदम् औषधं परीक्षण-निरीक्षणेन क्षमतायुक्तम् इति प्रमाणीकृतमस्ति। धनिकराष्ट्राणि औषध गोलिका लब्ध्यर्थं प्रयत्नं कुर्वन्तः सन्ति।

Thursday, November 4, 2021

 चीनः अण्वस्त्रसन्धानाय भूगर्भकेन्द्राणि सज्जीकरोति इति प्रतिवेदनम्।

वाषिङ्टण्> अण्वस्त्राणि अनुसन्धातुं क्षमतायुक्ते सैलोस् अग्निबाणसुविधासज्जीकरणे चीनः अतिशीघ्रप्रगतिं प्राप्नोति इति प्रतिवेदनम्। एफ्  ए एस् (Federation of American scientists) एव प्रतिवेदनम् प्रकाशितम्। बालिस्टिक् अग्निबाणानां सञ्चयनाय अनुसन्धानाय च भूमेः अन्तर्भागे लम्बायमानः नलिकारूपेण निर्मितः अनिबाणप्रेषणाय निर्मिता सुविधा भवति सैलोस्। षिन्जियाङ् मण्डलस्य पूर्वभागस्थे हामिदेशात् सैलोकेन्द्राणां निर्माणस्य उपग्रहचित्राणि बहिरागतानि।  युमेन्, ओर्डोस् इत्यत्रापि सैलो केन्द्राणि निर्माति इति प्रतिवेदनमस्ति। युमने१२० सैलोकेन्द्राणि निर्मान्ति इत्येव ज्ञातुं शक्यते।

 आधारपत्रदुरुपयोगाय एककोटिपर्यन्तं धनदण्डः। विज्ञापनं प्रकाशितम्।

नवदिल्ली> आधारपत्रस्य दुरुपयोगः क्रियते चेत् एककोटिपर्यन्तं धनदण्डं दापयितुम् आधारपत्र निगमाय अधिकारं प्रदाय केन्द्रसर्वकारेण विज्ञापनं प्रकाशितम्। आधारसूचनाविज्ञानानां भञ्जनाय तथा अपरस्य बयोमेट्रिक् सूचनानां चोरणाय च त्रिवत्सरीयं कारागारबन्धम्, अयुतं रूप्यकाणां धनदण्डः च दापयिष्यति। दण्डधनं न दास्यति चेत् तेषां परिसम्पत्तिं (property) प्रतिबन्धयितुम् आधारनिगमाय अधिकारः च प्रदत्तः।

Wednesday, November 3, 2021

 उपनिर्वाचनानि - कोण्ग्रस तृणमूलदलाभ्यां लाभः। 

नवदिल्ली> १४ राज्येषु सम्पन्नानामुपनिर्वाचनानां मतगणनाफलं बहिरागतम्। त्रिषु लोकसभामण्डलेषु २९ विधानसभामण्डलेषु च संवृत्तस्य उपनिर्वाचनस्य फले विज्ञापिते कोण्ग्रस् - ८, भा ज पा- ७, तृणमूल कोण्ग्रस् - ४, जे डि यू - २, एन् पि पि - २, वै आर् एस् कोण्ग्रस् इत्यादयः प्रादेशिकदलाः आहत्य - ६ इति क्रमेण स्थानानि लब्धवन्तः। लोकसभाफलेषु एकैकं स्थानं कोण्ग्रस्, भाजपा, शिवसेनादलेभ्यः लब्धम्। 

   बहुषु मण्डलेषु भाजपादलेन अलङ्क्रियमाणानि स्थानानि कोण्ग्रसदलेन निगृहीतानि। किन्तु राष्ट्रस्य उत्तरपूर्वराज्येषु भाजपादलस्य आधिपत्यं दृश्यते।

 अवश्यवस्तुसञ्चयनाय जनेभ्यः निरदिशत्। चीनः तीव्रनियन्त्रणेषु इति सूचना।

बेय्जिङ्> अवश्यवस्तुसञ्चयनाय चीनस्य सर्वकारेण जनेभ्यः निर्देशः दत्तः। अवश्यवस्तूनां वितरणं दृढीकर्तुमपि अधिकारिभ्यः अपि निर्देशो दत्तः। राष्ट्रे पुनः कोविडस्य व्यापनं विवर्धमाने अवसरे एव अवश्यवस्तुसञ्चयनाय निर्देशः दत्तः। सर्वकारस्य वाणिज्यविभागस्य जालपुटे एतत्संबन्धि विज्ञापनं प्रकाशितमस्ति। नित्यजीवने आपत्कालीनोपयोगाय च अवश्यवस्तूनां सञ्चयनाय भवति निर्देशः। चीनेषु पुनः कोविडस्य अतिव्यापन-सन्दर्भे अस्मिन् सर्वकारः तीव्रनियन्त्रणेषु गच्छन्ति इति एतत् विषयसंबन्धीनि वृत्तानि वदन्ति।

Tuesday, November 2, 2021

 पर्यावरणमण्डलसहकारिता - मोदी बोरिस् जोण्सणयोः चर्चा सम्पन्ना।

ग्लासगो> पर्यावरणव्यत्ययं नियन्त्रयितुमुद्दिश्य उभयपक्षसहयोगितां दृढीकर्तुं भारतस्य प्रधानमन्त्री नरेन्द्रमोदी ब्रिट्टनस्य प्रधानमन्त्री बोरिस् जोण्सणश्च गतदिने चर्चां कृतवन्तौ। स्कोट्लान्टस्थे ग्लासगोनगरे  सम्पद्यमाने आगोलपर्यावरणशिखरसम्मेनस्य मध्ये आसीत् एतयोः मेलनं संवृत्तम्। उभयोरपि नेत्रोः प्रथमं मुखामुखं मेलनं आसीत् इदम्। 

  'फोसिल्' इन्धनादतिरिक्तम् उद्पाद्यमानानि हरितहैड्रजनं पुनरुपयोज्यमानमूर्जम्, कार्बणरहिता ऊर्जसाङ्केतिकविद्या, आर्थिक- देशसुरक्षामण्डलेषु सहकारित्वमित्यादिविषयाः चर्चायामभवन्।

 पि वत्सला एष़ुत्तच्छन् पुरस्कारेण समादृता। 

 अनन्तपुरी> पार्श्ववत्कृतानाम् अधःकृतजनानां जीवितं वाङ्मयेन साहित्यास्वादकानां पुरतः समर्पितवती पि वत्सला एषुत्तच्छन् पुरस्कारेण समादृता अस्ति। पञ्चलक्षरूप्यकात्मकः प्रशस्तिपत्रेण फलकेन च सहितोSयं पुरस्कारः केरलसर्वकारस्य परमोन्नतः पुरस्कारः भवति। 

  अर्धशतकाधिककालं यावत् आख्यायिका, लघुकथामण्डले स्वकीयां पादमुद्रामालेखितवती पि वत्सला प्रादेशिकं वंशीयं स्वत्वपरं च केरलीयपारम्पर्यं अतिमनोहारितया आविष्कृतवती साहित्यकारी भवतीति पुरस्कारसमित्या निरीक्षितम्।

 पुष्टीकरणं प्रकृतिचूषणेन माऽभूत् इति डो. माधव् गाड्गिल्।

अनन्तपुरी> अनियन्त्रितेण प्रकृतिचूषणेन क्रियमाणः पुष्टीकरणसुविधाः  कस्यापि समाजस्य नोचितमिति डो. माधव् गाड्गिलेन प्रोक्तम्। केरलस्य सुस्थिर-सम्पुष्टीकरणसमितिः राष्ट्रिय सूचनाधिकारसंघः च संभूय  'अतिशीघ्रमार्गः अतिशीघ्रदुरन्ताय वा' इति विषये समायोजितां चर्चाम् उद्घाट्य भाषमाणः आसीत् सः। पुष्टीकरणस्य नाम्नि अमितविभवचूषणम् आपत्करं भवति। पश्चिमपर्वतमण्डले आपन्नः अपघातः प्रत्यभिज्ञातव्यः अस्ति। अनियन्त्रितं प्रकृतिचूषणं भवति राज्ये अद्य अनुभूयमानानां प्रकृतिदुरन्तानां हेतुः  इत्यपि तेनोक्तम्।

Monday, November 1, 2021

 कोवाक्सिनस्य आस्ट्रेलियासर्वकारस्य अङ्गीकारः।

भारत्  बयोटेक्संस्थया संस्फुटीकृतं भारतीयं कोवाक्सिननामकं कोविडौषधम् ओस्ट्रेलियस्य सर्वकारेण अङ्गीकृतम्। यात्रिकाणां वाक्सिनः इत्येवं रूपेण ओस्ट्रेलियस्य चिकित्सावस्तु प्रशासनसंस्थया (Therapeutic goods administration ) कोवाक्सिनस्य अङ्गीकारो दत्तः।

ओस्ट्रेलियस्प भारतीयमुख्यायुक्तेन (high commissioner) बारि ओ फारल् इत्यनेन एव कार्यमिदं ट्वीट् कृतम्।अङ्गीकृतवाक्सिनानां पाट्टिकासु कोवाक्सिनं अन्तर्योजितम्। पूर्वं भारते निर्मितं कोविषील्ड् नामकस्य वाक्सिनस्यापि तैः अङ्गीकारं दत्तमासीत्।

 कोविडस्य आविश्वगणना वर्धते। विश्वस्वास्थ्यसंघटनस्य पूर्वसूचना।

नवदिल्ली>कोविडस्प आविश्वगणना वर्धते इति विश्वस्वास्थ्यसंघटनस्य पूर्वसूचना। मासद्वयानन्तरमेव आविश्वगणनायां संवर्धनं रेखाङ्कितमिति विश्वस्वास्थ्यसंघटनस्य सामान्यनिदेशकेन टेड्रोस् अथनों गब्रियेससेन वार्तासम्मेलने आवेदितम्। विश्वे सर्वत्र कोविड्वैराणुं नियन्त्रितुं न शक्यते चेत् वैराणोः जनितकपरिणामः भविष्यति। एवम् आविश्वं व्याप्स्यते इति सः पूर्वसूचनामपि दत्तवान्।