OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, November 21, 2021

 विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा।


ओस्लो> विश्वस्मिन् प्रथमा वैद्युतमहानौका नोर्वे देशात् यात्रा समारब्धा। प्रतिसंवत्सरम् आवश्यकानां ४००० तैलेन्धन-पण्यवाहनानां यात्रायाः स्थाने एषा नौका पर्याप्ता भवति। जीवाश्माधार(Fossil) इन्धनं विना प्रवर्तयितुं शक्या 'कार्बण्' वातकबहिर्गमनरहिता परिस्थितिसौहृदरूपा च भवति एषा वैद्युतमहानौका। समुद्रमार्गसञ्चारमण्डले नूतनपदक्षेपः भविष्यति अस्याः निर्मितिः। सामान्यमहानौकासु विद्यमानस्य यन्त्रप्रकोष्ठस्य स्थाने 'यार बिर्क्लान्ड' नाम महानौकायां विद्युत्कोषकक्षाः एव सन्ति। प्रवर्तनाय जलवैद्युतिम् आश्रयमाणस्य महानौकायाः विद्युत्कोषस्य ६.८ 'मेगा वोल्ट्' क्षमता अस्ति।