OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 24, 2021

 भारतं ५० लक्षं 'बारल्'परिमितं क्रूड्तैलं बहिर्नयन्ति। मूल्यवर्धननियन्त्रणं लक्ष्यः।

मुम्बई> राष्ट्रे तैलेन्धनानाम् अनुस्यूतं मूल्यवर्धनं नियन्त्रयितुं राष्ट्रस्य संभृतसञ्चयात् ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेतुं सर्वकारेण निश्चितम्। उत्पादनं न्यूनीकृत्य कृत्रिमं मूल्यवर्धनं क्रियमाणस्य इन्धनोत्पादकराष्ट्रसंघस्य [ओपेक्] प्रक्रमेभ्यः पूर्वसूचनां दातुमेवायं निर्णयः। 

  अमेरिक्कायाः नेतृत्वे विविधराष्ट्रैः स्वीकृतस्य तन्त्रप्रधाननिर्णयस्य अंशतया एव भारतस्यापि निश्चयः। अमेरिक्का अपि ५० लक्षं दीर्घगोलपात्रपरिमितम् असंस्कृतेन्धनतैलं बहिर्नेष्यति। चीनः, जाप्पानं, ब्रिट्टनम् इत्यादीनि राष्ट्राण्यपि एतादृशरीत्या सहयोगं कुर्वन्ति।