OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 15, 2021

 वायुमलिनीकरणं तीव्रं- पूर्णपिधानमालक्ष्य राजधानी।

  नवदिल्ली> वायुमलिनीकरणे अतितीव्रे जाते राष्ट्रराजधान्यां विपत्कालीनावस्था। दीपावल्याः अनन्तरं दिल्लीनगरान्तरिक्षस्य अवस्था अतिशोचनीया जाता। शनिवासरस्य प्रभाते वायुमलिनीकरणसूचिका ४७१ अङ्किता। सूचिकाङ्कनं ४०० - ५०० इति प्राप्यते चेत् अतितीव्रमन्तरिक्षमलिनीकरणं कल्प्यते। 

   अन्तरिक्षः धूमावृतः वर्तते। नगरवासिनः जनाः श्वासोच्छ्वासाय अतिक्लेशमनुभवन्ति। कर्कशानि नियन्त्रणानि नगरे दिल्लीमुख्यमन्त्रिणा अरविन्द केज्रिवालेन विहितानि। तदनुसृत्य सर्वकारकार्यालयेषु सप्ताहं यावत्  'गृहतः कर्म' [Work from Home] विहितम्। सोमवासरादारभ्य सप्ताहं यावत् विद्यालयाः पिहिताः भविष्यन्ति। निर्माणप्रवर्तनानि निरुद्धानि।