OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 31, 2018

संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत - जगद्गुरु भारतीतीर्थस्वामिनः
शृङ्गगिरिः> महाविद्यालयच्छात्रवर्गस्य समापनसमारोहे अनुग्रहभाषणं विदधानाः जगद्गुरवः भारतीतीर्थमहास्वामिनः। एतैः  आमर्यामेव अर्धघण्टापर्यन्तं अनुग्रहवचांसि वितीर्णानि। संस्कृतभाषा चामरी इव तत्र तत्रैव नयनपथमवतरति चेदपि सर्वान् आनन्दयति। किन्तु सूकरी  तु सर्वत्र दृश्यते चेदपि न कमप्यानन्दयितुं प्रभवति। अतः संस्कृतेन सर्वे न भाषन्ते  इत्येनं  मिथ्यावादं परित्यज्य संस्कृतेन सर्वदा व्यवहर्तुं प्रयतत इति ते अन्वगृह्णन्। संस्कृतभारत्याः अखिलभारतीयाध्यक्षाः भक्तवत्सलमहोदयाः प्रास्ताविकभाषणमकुर्वन्। वरिष्ठकार्यकर्तारः परिसराध्यापकाः उपद्विशतं शिक्षार्थिनश्च अत्र साक्षिणः अभवन्।
भारतमहासमुद्रे  तन्त्रप्रधानं नाविकनिस्थानं भारत-इन्तोनेष्य संयुक्तसाह्यः
   जक्कार्त > भारतमहासमुद्रे  तन्त्रप्रधानं नाविकनिस्थानं निर्मातुं प्रतिरोधसमुद्रान्तरमण्डलेषु साह्यं कर्तुं च भारत-इन्तोनेष्यराष्ट्रयोः संयुक्तनिर्णयः समभवत्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः इन्तोनेष्यराष्ट्रसन्दर्शनसन्दर्भे एव निर्णयः समभवत्। इन्तोनेष्स्य राष्ट्रपतिना जोकोविदोदोवर्येण सह मोदिनः  समुपवेशने सुमात्राद्वीपस्य समीपस्थे सबाङ् द्वीपे  आधारसुविधावर्धनाय निश्चितम्।
राष्ट्रस्य सामाजिकवित्तकोशाः कर्मकरैः कर्मस्थगनेन बन्धिताः। 
   नवदिल्ली> आराष्ट्रं   सामाजिकवित्तकोशकर्मकराः कर्मस्थगनमकरोत्। निष्कृतिवर्धनमेव तेषां अावश्यम्। सङ्गणकीयमण्डलस्य सेवनस्य बाधा न भवति। दिनद्वयं  यावत्  ATM यन्त्रे धनं न पूरयिष्यति। २१ सामाजिकवित्तकोशस्य दशलक्षं कर्मकराः कार्यालयाधिकारिणः च  कर्मस्थगने भागं स्वीकुर्वन्ति।

Wednesday, May 30, 2018

तैलेन्धनानां मूल्यवर्धनम् - अधिककरः केरलं त्यजति। 
    तिरुवनन्तपुरम् > प्रतिदिनं तैलमूल्यं वर्धते। जनानां जीवनं  दुस्सहमभवत्। नित्योपयोगवस्तूनां मूल्यं  भयानकरूपेण वर्धितम्। एतस्य परिहारार्थं केरलसर्वकारेण नूतनं निर्णयं स्वीकृतम्। वर्धितः अधिककरः  त्यक्तुमेव मन्त्रिसभानिर्णयः समभवत्। जूण्मासस्य प्रथमदिनाङ्कादेव निर्णयः प्रबलः भविष्यति।
सि बि एस् इ परीक्षायां श्रीलक्ष्मी  प्रथमस्थाने।
       कोच्ची> सम्प्रतिवार्तयाः छात्रवार्तावतारिका श्रीलक्ष्मी जि दशमकक्ष्यायाः  परीक्षायाम्  प्रथमस्थानं  (अाभारतस्तरे ) प्राप्तवती। सि बि एस् इ बोर्ड् परीक्षायां ४९९ अंकाः तया प्राप्ताः अंगलेये पूर्णाङ्कात् एकः अंकः एव न्यूनः अभवत्। कोच्ची भवन्स् विद्यालयस्य छात्रा भवत्येषा।  क्रमानुगताध्ययनमेव  विजयस्याधारमन्त्रमिति वदति पिता गोपिनाथः। विषयानुसाारम्  उत्तराणि निर्मीय अध्येतुम् एषा प्रयत्नं  कृतवती। विगतानां प्रश्नपत्राणां उत्तरलेखनाभ्यासे एषा सेल्लासं प्रयत्नं कृतवती। कोच्ची देशस्थे  वेण्णलप्रदेशे वसति एषा। अस्याः पिता गोपिनाथः केरलस्य उच्च न्यायालये सर्वकारीय ज्येष्ठन्यायवादी भवति। माता रमा सर्वकारीय कलालये पशु वैज्ञानिक विभागे वरिष्टाध्यापिका च भवति। ज्येष्टसोदरः तु स्नातकोत्तर बिरुदाय अध्ययनं  करोति। 
       सम्प्रतिवार्तायाः छात्र-वार्तावतारकेभ्यः संस्कृत-वार्ताप्रस्तुतीकरणाय जनं दृश्यमाध्यमेन चतस्रः चिताः अासन्। तेषु एका वार्तावतारिका अासीत् एषा श्रीलक्ष्मी। 

Tuesday, May 29, 2018

पत्रालयसेवकानां कर्मन्यासः - पत्राल़यमण्डलं स्तम्भितम्। 
    कोच्ची > पत्रालयकर्मकराणां कर्मन्यासः सप्तमदिनं प्राविशत् इत्यतः राज्ये सर्वत्र पत्रालयप्रवर्तनानि  स्तम्भितानि।  पारपत्राणि, नियुक्त्यादेशाः पञ्जीकृतपत्राणि इत्यादीनि पत्रवाहकवस्तूनि निश्चलानि अभवन्। 'पोस्टल् सेविंग्स् बैंक्, पोस्टल् इन्षुरन्स् इत्यादीनांप्रवर्तनान्यपि निश्चलानि।  ग्रामीण पत्रालयसेवकानां सेवन-वेतनव्यवस्थानां नवीकरणम् अपेक्ष्यैव तेषां कर्मन्यासः आरब्धः।

Monday, May 28, 2018

यूरोप्यन् यूणियन् इति राष्ट्रसंयुक्तसमितेः दत्तांशसंरक्षणनियमः GDPR प्रबलमभवत्।
ब्रसल्स्> नूतनदत्तांशसंरक्षणनियमः इति ज्ञातः General Data Protection Regulation व्यक्ति कवि वर यानि कथम् उपयोक्तव्यानि  इत्यस्य व्यक्ततां  करोति। उपयोक्तृृृणां विवरण यानि तेषाम् अनुज्ञां विना समाहर्तुं न शक्यते अनेन नियमेन।
'सियाल्' सौरोर्जयोजनायै यू एन् अङंगीकारः परिगणनायां - एरिक् सोल् हैम्। 
      कोच्ची। > कोच्ची अन्ताराष्ट्र विमानपत्तनसंस्थया [सियाल्] कृतायै सौरोर्जयोजनायै ऐक्यराष्ट्रसभायाः आधिकारिकाङ्गीकारः परिगण्यते इति यू एन् संस्थायाः पर्यावरणाधिकारी एरिक्सोल् हैम् निगदितवान्। सियाल् संस्थायाः सौरोर्जविन्यासानि सन्दृश्य माध्यमप्रवर्तकान् प्रति भाषमाणः आसीत् सः। 
     विश्वे प्रथमं सम्पूर्णं च विमाननिलयं भवति सियाल्। अधिकतया ऊर्जोपभोगम् अपेक्षितासु संस्थासु पारम्पर्येतरस्रोतांसि आश्रित्य ऊर्जविनियोगं क्रियमाणासु संस्थासु सियाल् आदर्शभूता भवतीति एरिक्वर्येणोक्तम्।

Sunday, May 27, 2018

सि बि एस् इ १२ कक्ष्यायाः परीक्षाफलं  प्रकाशितम्।
    नवदिल्ली> ८३.०१ ℅ इति विजयसूचकेन सि बि एस् इ १२ कक्ष्यायाः परीक्षाफलं  प्रकाशितम् । cbseresults.nic.in, cbse.nic.in, results.nic.in, cbse.examresults.net, results.gov.in. इति  अन्तर्जालपुटेषु परीक्षाफलं प्रकाशितमस्ति। २०१७ संवत्सरापेक्षया १% वर्घनं अस्ति। ११ लक्षं विद्यार्थिनः परीक्षा लिखितवन्तः। गासियाबाद् देशीया मेघना श्रीवास्तव एव प्रथमस्थानं  प्राप्तवती। ५०० अंकात् ४९९ अंकानि प्राप्य श्रीवास्तवा प्रथमपदं प्राप्यवती।

Saturday, May 26, 2018

'मेकुनु' चक्रवातेन त्रयः मृताः बहवः अदृश्याः।
     मस्कट्> येमन् देशात् मकनु नाम चक्रवातः ओमानस्य दक्षिणमण्डले वाति। त्रयः मृताः। बहवः अप्रत्यक्षाः अभवन्। अप्रत्यक्षेषु  १४  भारतीयनाविकाः च सन्ति  इति अल् अरेब्य आवेदयति । इदानीं चक्रवातः दोभार् मण्डलं प्रविष्टः इति उपग्रहचित्राणि सूचयति। समागते ४८ होराभ्यन्तरे अतिशक्ता वर्षा सम्भाव्यते इति वातावरेणविभागेन पूर्वसूचना प्रदत्ता अस्ति।
    होरायां १२६-१५५ कि मी वेगेन एव वातः वाति। ४० जनाः अप्रत्यक्षाः अभवन्। अप्रत्यक्षानां गणे भारतीयाः सुडान् पौराः च भवन्ति। पालिताः पशवः जलोपप्लवेन अप्रत्यक्षाः। विद्युत् वितरणशृंखलापि पूर्णतया भग्ना।

Friday, May 25, 2018

जनपदेषु सर्वेषुसामूहिकमाध्यमनिरीक्षकाः।
   नवदिल्ली> सामूहिकमाध्यमेषु क्रियमाणव्यवहारः  अन्तर्जालान्तर्गतविवरणानि च सर्वकारेण निरीक्ष्यते । एतदर्थं राष्ट्रस्य ७१६ जनपदेषु निरीक्षकान् नियोक्तुं केन्द्र-वार्तावितरण-मन्त्रालयेन सिद्धतां याति। अनृतवार्ताः प्रचारकाणां अंगीकारः प्रत्याहर्तुम् अादेशः प्रधानमन्त्रिणः कार्यालयेन निवारयित्वानन्तरमेव मन्त्रालयस्य नूतनप्रक्रमः। योजनायै विंशतिकोटि रुप्यकाणि अनुज्ञातानि। सोष्यल् मिडिया कम्यूणिक्केषन् हब् संस्थाप्य एव सामूहिकमाध्यमानां लघुचलनमपि निरीक्षते। अन्तर्जालस्थानेषु सामूहिकमाध्यमेषु च प्रकाश्यमानानाम् अान्तरिकाशयानाम् समालोकनं कृत्वा  यत् अावश्यकं तत् सर्वकारसमक्षं न्यवेदनीयमिति निरीक्षकाणाम्  उत्तरदायित्वम्।
एकस्मिन् वर्षे एकं निर्वाचनम् - निर्वाचनायोगः।
          नवदिल्ली>  एकं राष्ट्रं एकं निर्वाचनम् इति प्रधानमन्त्रिणः नरेन्द्रमोदिनः आशयस्य  स्थाने  एकस्मिन् संवत्सरे एकं निर्वाचनम् इति आशयं प्रकाशनाय  निर्वाचनायोगः आलोचयति इति इन्ट्यन् एक्स्प्रस् पत्रिका आवेदयति। लोकसभा निर्वाचनेन सह राज्यनियमसभानिर्वाचनं संबन्ध्य नियमायोगस्य लेखस्य प्रत्युतरवत् भवति निर्वाचनायोगस्य नूतनाशयस्य प्रकाशनम्। निर्वाचनं युगपत् कर्तुं पञ्च शासन-संविधानसमस्याः तथा १४ सामूहिक राजनैतिकसमस्याः आर्थिकसमस्याः च सन्ति। विषयेऽस्मिन् निर्वाचनायोगस्य अभिमतानि च ज्ञातुम् आसीत् नियमायोगस्य पत्रम्। नियम-साम्पतिक-समस्यानां पारंगन्तुं शक्यते चेत् एकस्मिन् काले निर्वाचनं कर्तुं निर्वाचनायोगस्य सिद्धता अपि प्रकाशिता अस्ति।

Thursday, May 24, 2018

निप्प-सूक्ष्माणुसङ्क्रमणं पुनरपि।
     कोष़िकोट् (केरळम्)> कोष़िकोट् जनपदे निप्प सूक्ष्माणु सङ्क्रमणेन अनुवैद्यविद्यार्थिनी अपि चिकित्सायां वर्तते। १६० आदर्शशेणितेभ्यः शोधनायां एषा अपि रुग्णा इति निर्णीता। एवं १४ जनाः निप्प अणु सङ्क्रमणेन चिकित्सालये वर्तन्ते। दिनानि यावत् चिकित्सायां आसीनः पेराम्प्र देशीयः मूस नामकः अद्य प्रातः मृतः। मेय् मासस्य ३१ दिनाङ्कपर्यन्तं जनपदस्थ सार्वजनिक-कार्यक्रमान् स्थगयितुं जनपदाधिकारी यु वि जोसः निर्देशमदात्। अणुसङ्क्रमणानन्तरं दिनानि गतानि चेदपि रोगस्य प्रभवस्थानं कुत्र इति अवगन्तुं न शक्यते। अतः मेलनादि कर्यक्रमाः मा सन्तु इति रोगनिर्व्यापनमुद्धिश्य निर्दिष्टम्। जनपदेषु सन्दर्शनाय बाधा नास्ति चेदपि सन्दर्शने स्वयमेव नियन्त्रणं शोभनम् इति यु वि जोसः अवदत्।

Wednesday, May 23, 2018

कर्णाटकराज्ये  - मुख्यमन्त्र्युपमुख्यमन्त्रिपदयोः अद्य सत्यवाचनम्
    बङ्गलूरु> राजनैतिकनटनकथायाः अन्ते मुख्यमन्त्रिपदे एच् डि कुमारस्वामी उपमुख्यमन्त्रिपदे जि परमेश्वरः च अद्य सत्यवाचनं करिष्यतः। 'विधानसौधं' नाम मन्दरे आयोजितायां वेदिकायां सार्धचतुर्वादने एव समारोहः भविष्यति। मन्त्रिणां विभागेषु कोण्ग्रस् जे डि एस् दलयोः मध्ये निर्णयः स्वीकृतः चेदपि तेषां सत्यापानम् अद्य न भविष्यति। कोण्ग्रस् दलनेता के आर् रमेश्कुमारः नियमसभाध्यक्षः भविष्यति। ३४ अङ्गयुक्ता मन्त्रिसभा भविष्यति कर्णटकसर्वकारे। कोण्ग्रस् दलात् २२ अङ्गाः सभायां भविष्यन्ति। जनता दलात् मुख्यमन्त्रिणा सह एकादशसभांगाः मन्त्रिसभायां भविष्यति। कोणग्रस् दलस्य राज्याध्यक्षः जि परमेश्वरः एव  उपमुख्यमन्त्रिपदमरोहति। 
Episode 81| Sanskrit News

Tuesday, May 22, 2018

इतिहासं विरच्य भारतवनितागणः प्रत्यागतः
      पनजि> अष्टमासात् पूर्वं ताः गोवानगरात् यात्राम् आरब्धवत्यः। ऐ एस् तारिणी इति नाविकसेनायाः पटनौकायां षट् वनिताः भूमिं प्रदक्षणीकृत्य विगते दिने गोवां प्रत्यागताः। लफ्ट्टनन्ट् कमान्टर् वर्तिका जोषी असीत् नाविक-सागर-परिक्रमस्य नेत्री। लफ्. कमान्टर् प्रतिभा जंवाल् , स्वाती पि, ऐश्वर्या बद्धापतिः, एस् विजयादेवी, पायल् गुप्ता च वृन्दे आसन्। दृढनिश्चयेन प्रतिकूलावस्थायाः पारंगत्वा विजयं प्रावत्यः एताः। षट्शताधिक एकविंशति नोट्टिक्कल्मैल् इति दूरं ताः यात्रां कृतवत्यः। सोमवासरे प्रत्यागता  ताः  प्रतिरोधमन्त्रिण्या निर्माला सीताराममहाभागया नाविक-सेनाध्यक्षेण सुनिल् लाम्बा महोदयेन च स्वीकृताः।

अनुवैद्यानां निष्कृतिवर्धनादेशे आतुरालयस्वामिनां न्यवेदनं तिरस्कृतम्।
    नवदिल्ली> निजीय आतुरालयस्य अनुवैद्यानाम् आधारनिष्कृतिवर्धनविषये आधुरालयस्वामिनः न्यवेदनं सर्वोच्चन्यायालयेन अपि  निरस्थम्।  निष्कृतिं वर्धाप्य केरलसर्वकारेण कृतं विज्ञापनं स्थगयितुं दत्तं न्यवेदनं केरलस्य उच्चन्यायालयेन तिरस्कृतम्। उच्च न्यायालयस्य प्रक्रियां विरुद्घ्य  सप्ताहद्वयं वा विज्ञापनस्य स्थगनं भवितव्यम् इति आतुरालयप्रबन्धकानाम् आवश्यं सर्वोच्य-न्यायालयेनाऽपितिरस्कृम्। एकमासाभ्यन्तरेण विषयेस्मिन् अन्तिमनिर्णयः कार्यः इति सर्वोच्यन्यायालयेन उच्चन्यायालयः आदिष्टः।

Monday, May 21, 2018

पुतिन् मोदी मेलनं सोचिनगरे सम्पन्नम्।
सोचि> प्रधानमन्त्री नरेन्द्रमोदी रष्यस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन सह मिलितवान्। अन्ताराष्ट्र उत्तर दक्षिण मध्यमार्गस्य  साक्षात्काराय उभयोः राष्ट्रयोः श्रमः भविष्यति इति मेलनानन्तरं  मोदी अवदत्। श्याम कृष्णणसागरस्य तीरस्थे सोची नगरे असीत्। इदं अनौद्योगिकमेलनम्। षाङ् हायि कोर्परेषन् ओरगनैसेषन् इति दलस्य स्थिराङ्गत्वरूप-प्रवेशाय भारतस्य साह्यमकरोत् रष्य इति  उक्त्वा मोदी धन्यवादम् अवदत् च।
ज्वरबाधया दश जनाः मृताः, 'निप्पा वैरस्' इति निर्णीतम्। 
     कोष़िक्कोड् > केरले कोष़िक्कोड् जनपदस्थे पेराम्प्र प्रदेशे सांक्रमिकज्वरबाधया दश जनाः मृताः,  एकः आतुरालये चिकित्साविधेयः अस्ति। निप्पा वैरस् नामक सूक्ष्माणुः एव रोगकारकः इति स्वास्थ्यविभागेन निर्णीतम्। 
     मणिप्पालस्थे 'वैरोलजि रिसर्च् सेन्टर्' संस्थायाः विदग्धसंघः ज्वरबाधितप्रदेशं प्राप्य संकलितानाम् आदर्शरक्तानां सूक्ष्मशोधनेनैव निप्पा वैरस् सूक्ष्माणुरिति निर्णीतम्। ज्वरेण मृतस्य सालिह् नामकस्य गृहे संरक्षिताः केचन शशकाः शशकाः समीपकाले युगपद् मृत्युमुपगताः आसन्। अतः मृगेभ्यः वा रोगव्यापनमभवदिति सन्देहात् पालकमृगाणां रक्तशोधना अपि क्रियमाणा अस्ति।

Sunday, May 20, 2018

प्रो.राजारामशुक्ल: सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्नूतनकुलपति: संवृत्त:
पुरुषोतमशर्मा
  नवदिल्ली >प्रो.राजारामशुक्ल: राजभवनद्वारा  सम्पूर्णानन्द - संस्कृतविश्वविद्यालयस्य नूतनकुलपतित्वेन नियुक्त प्रो.शुक्ल: सम्प्रति बनारस् हिन्दूविश्वविद्यालये प्राच्यविद्यासङ्कास्य न्यायदर्शनविभागे आचार्य: वर्तते। सम्पूर्णानन्दसंस्कृतविश्वविद्यालये प्रो.शुक्ल: अनुसन्धान-संस्थानस्य निदेशकपदमपि ऊढवान्  ।
जम्मुकाश्मीरस्य वृद्ध्यर्थं 25,000 कोटि; नरेन्द्रमोदी

    जम्मु> जम्मूकाश्मीरस्य अभिवृद्धिप्रवर्तनाय पञ्चच विंशाति सहस्रं ( 25,000) कोटि रुप्पकाणि दातव्यानि इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। ले नगरतः श्रीनगरं प्रति अष्टशताधिक  षट्सहस्रं (6800) कोटि रुण्यकाणि व्ययीकृत्य निर्मीयमाणस्य सोजिला गुहामार्गस्य कृते शिलान्यासं कुर्वन् भाषमाणः आसीत् सः। अनेन सह अन्येषां निर्माणयोजनानां कृतेऽपि आरम्भं कृतवान् च । नूतन्यः परियोजनाः जनानाम्  अधिकतया उपकारी भविष्यति इति सः उक्तवान्। 14 किलोमीट्टर् दीर्घमितः गुहामार्गः सदाकालं यात्रायै अनुयोग्यः भवति।  इदानीं ले नगरतः श्रीनगरं प्रति सर्धात्रिहोरा: आवश्यकाः। किन्तु गुहामार्गद्वारा १५ निमेषैरेवालम्

Saturday, May 19, 2018

संस्कृताध्यापक फेडरेषन् इति दलस्य नेतृपरिशीलनशिबिरम् समारब्धम्‌ ।

गुरुवायुपुरे शिक्षकसदने गुरुवायूपुरदेवस्वं प्रशासकः शशिधरः द्विदिनात्मकशिबिरस्य उद्घाटनं करोति। फेडरेषन् दलनेतारः सि पि सनलचन्द्रः पि एन् मधुसूदनः राजगोपालः च समीपे वर्तन्ते।

क्यूबाराष्ट्रे विमानापघातेन शताधिकाः मृताः।
       क्यूबाराष्ट्रे १०४ यात्रिकैः ९ विमानकर्मकरैः सह विमानम् अपघाते पतितम्। शताधिकाः मृताः गुरुतरया क्षतेन त्रयः आतुरालयं प्रविष्टाः।  हवान प्रदेशस्थ होसेमार्ति विमाननिलयात् उड्डयनं कृत्वा विलम्बं विना अपघातम् अभवत् ।  क्यूब सर्वकारस्य  बोयिङ् ७३७ विमानम्  एव भग्नम्। पूर्वदेशस्थ होल्ग्विन् नगरं प्रति गच्छत् आसीत् विमानम्। विमाननिलयस्य समीपे क्षेत्रे पतित्वा विस्फोटनम् अभवत्l भूरिजनाः अपघातेन मृताः इति क्यूबस्य राष्ट्रपतिः मिग्वेल डियासः अवदत्। 
तैलस्य मूल्यम् न्यूनीकरणीयम् - सौदिं प्रति भारतम्।
       नवदिल्ली> तैलेन्धनस्य निरन्तरमूल्यवर्धनं नियन्त्रितुं प्रक्रमः स्वीकरणीयः इति केन्द्र पेट्रोलियं मन्त्री धर्मेन्द्रप्रधानः सौदीअरेब्यराष्ट्रं प्रति अवदत्। तैलस्य मूल्यवर्धनं भारतस्य सम्पद् व्यवस्थायां प्रतिकूलताया बाधते इति सौदी अरेब्याराष्ट्रस्य व्यवसाय विभागमन्त्रिणा साकं कृते दूरवाणीभाषणे सूचितम्। प्रेट्रोल् तैलस्य मूल्यं बारल् मितस्य ८० डोलर् समागच्छति इत्यनेन कारणेन  आसीत् दूरवाणी भाषणम् । उभययोः राष्ट्रयोः साह्यकरणे तथा तैल विपण्यः इदानीन्तन अवस्थाम् अधिकृत्य च आसीत् भाषणम् इति औद्योगिकावेदनम्। उत्पादकैः सह भाषणं कृत्वा समस्यापरिहाराय क्रियान्वयः भविष्यति इति सौदीराष्ट्रेण उक्तम्॥

Friday, May 18, 2018

सर्वकारोद्योगिनां जैविकविशेषताम् अनुमीय उपस्थित्यालेखनम्।
      तिरुवनन्तपुरम्> केरलराज्ये सर्वकारोद्योगिनां  कृते उपस्थितिमुद्रणाय विशेषविधानं सज्जीक्रियते इति केरलस्य मुख्यमन्त्री पिणरायिविजयः अवदत्I ओक्टोबर् मासादारभ्य नूतनसंविधानस्य निवेशः भविष्यति। सर्वकारीयसेवनानि शक्तीकर्तुं सर्वकारेण प्रामुख्यं कल्पते। एवं चेत् प्रातः आगत्य हस्ताक्षरंकृत्वा अन्यत्र गतवतां बाधा भविष्यति। जनानां सौविध्यमेव उद्योगिनां लक्ष्यं भवितव्यम् इत्यपि तेनोक्तम्।
राज्यपालस्य यद्यूरप्पनिमन्त्रणं विरुद्घ्य दत्तानां परिदेवनानाम् अवलोकनम् सर्वोच्चन्यायालयेन अद्य क्रियते।
दिल्ली> कर्णाटकसर्वकारायोजनायै यद्यूरप्पः राज्यपालेन आमन्त्रितः इति विषयमधिकृत्य सर्वोच्चन्यायालये न्यायव्यवहारं प्रचलिष्यते। भूरिपक्षम् उक्त्वा तेन राज्यपालस्य समक्षं प्रदत्तौ लेखौ अपि न्यायालयस्य पुरतः समर्पयिष्ये। बि एस् यद्यूरप्प मुख्यमन्त्रित्वेन अनुवर्तिष्यते वा इति सर्वे अवलोकयन्ति।
आर् एस् पुर देशे पाकिस्थानस्य  गोलिकाप्रहरः - सीमासैनिकः मृतः।
           श्रीनगरम्>  गोलिकाप्रहरस्थगनवाचम् उल्लङ्घ्य पाकिस्थानः जम्मु काश्मीरस्थ आर् एस् पुरदेशे पुनरपि गोलिकाप्रहरमकरोत्I प्रवृते अत्याचारे सीमसुरक्षाभटः हतः। प्रदेशवासिषु द्वौ क्षतौ। नियन्त्रणरेखाम् उल्लङ्घ्य पाकिस्थानेन आक्रमणं कृतम् इति अस्ति आवेदनम्। सीमाप्रदेशस्थानां विद्यालयानां कृते सर्वकारेण विरामः ख्यापितः।

Thursday, May 17, 2018

कर्णाटके भा ज पा दलाय आमन्त्रणम्। 
    बेङ्गलुरु > कर्णाटके राजनैतिकाकाङ्क्षायाः तात्कालिकविरामः। १०४ स्थानानि प्राप्तवत् भाजपादलं मन्त्रिसभारूपवत्करणाय राज्यपालेन वाजुभायि वालवर्येण आमन्त्रितम्। दलनेतुः  यदूर्यप्पस्य   मन्त्रिमण्डलरूपवत्करणस्य अधिकारवादः राज्यपालेन अङ्गीकृतः आसीत्। विधानसभायां भूरिपक्षनिर्णयाय १५ दिनात्मकः कालश्च लब्धः।

Wednesday, May 16, 2018

विद्युत् चतुश्चक्रिकाणां द्विलक्षं तथा विद्युत् द्विचक्रिकाणां च कृते त्रिंशत् सहस्ररुप्यकाणां च न्यूनत्वम्।
डॉ अभिलाष् जे
     नवदेहली - राष्ट्रे पेट्रोल् टीसल् यानानि सम्पूर्णतया निष्कास्य परिस्थिति मित्र यानानां व्यापनाय केन्द्रसर्वकारेण ९४०० कोटि रूप्यकाणां योजना आविष्क्रियते। एतेन वायुमलिनीकरणं न्यूनीकर्तुं शक्यते। अतः अस्मिन् क्षेत्रे निक्षेपं प्रोत्साहयितुं बहूनि सौविध्यानि दातुं सर्वकारेण आलोच्यते। पुरातनानां यानानां   नाशं कृत्वा नूतनानां विद्युत् यानानां स्वीकरणाय अधिकाधिकं सार्धद्विलक्षात्मकं रूप्यकाणि न्यूनीकृत्य सर्वकारः दास्यति।
     वेगवतां सार्धैकलक्षोपरि मूल्यवतां द्विचक्रयानानां कृते त्रिंशत् सहस्ररूप्यकाणि तथा एकलक्षात्मकरूप्यकाणां द्विचक्रयानानां कृते विंशतिसहस्ररुप्यकाणां पञ्चलक्षात्मक त्रिचक्रिकाणां पञ्चसप्तति सहस्ररुप्यकाणां पञ्चदशलक्षात्मकस्य चतुस्चक्रिकाणां कृते द्विलक्षपर्यन्तं, दशलक्षवतां लघु व्यवसायिक यानानां कृते सार्धद्विलक्षं त्रिकोटि रूप्यकवतां बस्यानानां कृते पञ्चाशत् लक्षं च सर्वकारेण न्यूनीकरिष्यते। परिष्कारोयं निबन्धनाधिष्ठतं स्यात्।
    आगामिनि पञ्चवर्षेषु एतादृशपरिवर्तनाय १५०० कोट्रूप्यकाणां व्ययः भविष्यति। विद्युत् चार्जिङ् केन्द्राणि स्थापितुं १००० कोटि रूप्यकाणां व्ययः भविष्यति। प्रायः पञ्चलक्षयानानि एवं परिवर्तयन्ति। तेषु भूरिशः अशीतिप्रतिशतं द्विचक्र त्रिचक्रयानानि स्युः। एतादृशपरिवर्तनेन यानक्षेत्रे बहु बृहद् परिवर्तनं भविष्यति।
दिल्याम् अन्तिमे यामे धूलीवातः - व्यापकनाशः 
      नवदिल्ली> भारतराजधान्याम् अतिप्रभाते त्रिवादनात्‌ आरभ्य जातेन वातेन महान् नाशः जातः। ७० कि.मी वेगेन वातः वाति स्म। वाहनानाम् उपरि वृक्षाः  पतिताः। भवनानि भग्नानि। रविवासरात् आरभ्य इतःपर्यन्तं ८० जनाः मृताः । उत्तरप्रदेशे  ५१ जनाः मृताः।
      जम्मुकाश्मीर: हिमाचल प्रदेशः, उत्तरखण्डः, उत्तरप्रदेशस्य दक्षिणभगाः इत्येदेषु देशेषु वज्रपातः वातः च शक्तिं प्राप्स्यतः इति केन्द्रवातावाणविभागेन पूर्व सूचना प्रदत्ता। राजस्थानम् पश्चिमबंगालः बीहारः छत्तीस्घट् इत्येतेषु राज्येषु अपि धूलीवातः भविष्यति इत्यपि पूर्वसूचना अस्ति।

Tuesday, May 15, 2018

डॉ. वाई.एन्. राव् वर्यस्य ‘संस्कृत-पाठान् पठत’ इति पाठ्यक्रमस्य चक्रम्-8 इत्यस्य आरम्भः अभवत्

    हैदराबाद्> डॉ. वाई.एन्. राव्-वर्यः 80-वर्षीयः हैदराबाद्-नगरस्थः (तेलङ्गाणा राज्ये, भारते) लब्धप्रतिष्ठः भाषावैज्ञानिकः अस्ति।  सः षड्भ्यः वर्षेभ्यः देवभाषां – संस्कृतं पाठयन्नस्ति तदर्थम् अन्तर्जालमाध्यमेन ‘संस्कृत-पाठान् पठत’ इति आधारभूत-संस्कृत-पाठ्यक्रमं ई-मेल – द्वारा निश्शुल्कं चालयति च।   डॉ. राव्-वर्यः पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उपर्युक्तपाठ्यक्रमं चालयति।

     उपर्युक्तपाठ्यक्रमस्य सप्तचक्राणि सफलतया समाप्य सः 8-मस्य चक्रस्य     18-02-2018-दिनाङ्के प्रारम्भं कृतवान् अस्ति। अस्मिन् पाठ्यक्रमे 52 साप्ताहिकाः पाठाः भवन्ति।  अस्मिन् पाठ्यक्रमे 2,500 छात्राः प्रवेशं प्राप्तवन्तः।   तेषु 85 छात्राः आस्ट्रेलिया, दुबाई, जर्मनी,  ओमन्, सौदीअरेबिया, स्विट्जर्लैण्ड्, यू.के., यू.एस्.ए., इत्यादि-विभिन्न-अन्य-देशेभ्यश्च सन्ति। अतीव रुचिकरविषयः  तु  विविधदेशेभ्यः, मातृभाषाभ्यः, धर्मेभ्यः, विश्वासेभ्यः च, 7-तः 87-पर्यन्त-वयस्काः च सन्ति अस्मिन् पाठ्यक्रमे।

     यदा एषः 52-साप्ताहिक-पाठानां पाठ्यक्रमः समाप्तः भवति तदा अन्तर्जाल-माध्यमेन आन्-लाइन् वेब्-आधारित-परीक्षा भविष्यति।  तस्यां परीक्षायाम् उत्तीर्णानां छात्राणां प्रतिभापाटवानुसारं श्रेण्यः दीयन्ते। श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उत्तीर्णच्छात्राणां प्रमाणपत्राणि दीयन्ते।

    श्रीमान् जे.एस्. शास्त्री-वर्यः 62-वर्षीयः महाराष्ट्र वित्तकोशतः सेवानिवृत्तः सहायक-महानिदेशकः अस्मिन् पवित्रकार्ये डॉ. वाई.एन्. राव् महोदयेन साकं मिलित्वा निरन्तरं सहकारं कुर्वन् अस्ति।
'नास' संस्थायाः विमानछायाग्राही कुजग्रहं परितः भ्रमणं करिष्यति।
     वाषिङ्टण्> कुजस्य आकाशे विमानछायाग्राही डाययितुं  नासया नूतनी योजना आविष्क्रियते। योजनार्थं 'मार्स् हेलिकाप्टर्' इति नामनि नूतनविशेषयन्त्रः निर्मितः। 2020 संवत्सरस्य रोवर् योजनायाम् अयं विशेष विमानछायाग्राही अन्तर्भवति। कुजस्य आकाशदृश्यानां चित्रमुद्रणं कर्तुमुद्दिश्य भवति अस्य निवेशनम्। 1.8 किलो भारमिता भवति एषः। 
      सौरोर्जे प्रवर्तमानस्य रोवर् यन्त्रस्य निर्देशानुसारमेव भवति विमानछायाग्राह्यः प्रवर्तनम् I एकवारं 90 क्षणपर्यन्तं प्रवर्तनं करिष्यति अयं छायाग्राही।
जूण् प्रथमदिनाङ्कात् विद्यालयेषु अध्ययनारम्भः।
     तृश्शिवपेरूर् > ग्रीष्मकालविरामानन्तरं केरलानां सामान्यविद्यालयाः जूण् प्रथमदिनाङ्के शुक्रवासरे एव  नवीनाध्ययनाय उद्घाट्यन्ते। द्वितीयदिनं प्रवृत्तिदिनत्वेन च सर्वकारेण निर्णीतम्।  २२० प्रवृत्तिदिनानि आगामिनि अध्ययनसंवत्सरे भवितव्यानि इत्यत एव एतादृशः निर्णयः। विद्यालयेषु मध्याह्नभोजनपरियोजनायै केन्द्रसर्वकारस्य धनादेशं लब्धुं २२० प्रवृत्तिदिनानि आवश्यकानि।

Monday, May 14, 2018

भीत्याम् उत्तरभारतम् - पूर्वसूचना प्रदत्ता - मृतानां सङ्ख्या वर्धते|
       नवदिल्ली> आराष्ट्रम् अनुभूयमानेन वज्रपातेन धूलीवातेन च मृतानां सङ्ख्या 40 अधिगता। उत्तरप्रदेशे 18 आन्ध्राप्रदेशे 8 तेलङ्कानादेशे 3 बङ्गाले 9 दिल्यां 5 इति क्रमेण जनाः रविवासरात् आरभ्य सोमवासरस्य (अद्य)प्रभातपर्यन्तं  मृताः। मृतानां सङ्ख्या इतोऽप्यधिकं स्यात् इति आशङ्कायते। अधिके जनाः क्षताः सन्ति। आगामिनि 48 तः 72  होरापर्यन्तम् उत्तरभारते महावातः वज्रपातः च भविष्यतः इति वातावरणनिरीक्षणविभागेन पूर्व सूचना प्रदत्ता।
      अतिशक्तेन धूलीवातेन वृष्ट्या च दिल्यां नागरजीवनं दुष्करमभवत्।  70 किलोमीट्टर् वेगेन सञ्जातेन वातेन सह वृष्टिः अपि आसीत् इत्यनेन मेट्रोरेल् व्योम-स्थलमार्ग-गतागतानि स्थगितानि। विद्युत् अपि स्थगिता। दिल्लीनगरस्य प्रान्तनगरेषु अपि अवस्था भिन्ना नासीत् ।
वयोधिकानां राक्षाकर्तृणां  परित्यागः - षण्मासं कारावासः।
     नवदिल्ली > वयोधिकाः राक्षाकर्तारः अपत्यैः रक्षितव्याः। नो चेत् अपत्यानि षण्मासं कारावास दण्डार्हानि भवेयुः इति नियमभेदं कर्तुं केन्द्रसर्वकारेण निश्चितम्। इदानीं दण्डनकालः मासत्रयं वर्तते। किन्तु वृद्धाः पितरः  अपत्यैः बहिष्कृताः इति वार्ताः राष्ट्रस्य विविध भागेभ्यः प्रतिदिनम्  अधिकतया आगच्छन्ति। अनेन कारणेन एव अयं निश्चयः इति सामूह्यनीति-मन्त्रालयेन उक्तम्। नूतननियमस्य परिधौ अधिके बान्धवाः अन्तर्भविष्यन्ति। पोष्यपुत्रकः / पुत्रिका, द्वितीये विवाहे जाताः , पुत्रवधू , पुत्र्याः पतिः च वृद्धानां संरक्षणस्य उत्तरदायिनः भवन्ति।  पौत्रः पौत्री वा भवतु अल्पवयस्काः  चेदपि वृद्धपीडनं क्रियते चेत् दण्डार्हाः भविष्यन्ति। 
मुम्बय्याम् आक्रमणं कृतवन्तः पाक् भीकराः - नवास् शरीफः। 
      लाहोर् > २००८ नवम्बर् २६ दिनाङ्के मुम्बय्यां कृतस्य भीकराक्रमणस्य आसूत्रकाः पाकिस्थानीयाः भीकराः , ते अधुनापि तत्र स्वैरं विहरन्तः इति पाकिस्थानस्य भूतपूर्वः प्रधानमन्त्री नवास् षरीफः उक्तवान्। पाकिस्थानस्थानीयां 'डोण्' नामिकां दिनपत्रिकां प्रति कृते अभिमुखे एव सः तद्देशस्य देशविरुद्धताम् 
 अङ्गीकृतवान्।

Sunday, May 13, 2018

नेपालदेशेन भारतं विरुद्ध्य उपयोजियितुम् अनुज्ञा न दीयते- ओली 
    काठ्मण्डुः> भारतस्य अभिलाषान् प्रति अनुभावपूर्णतया तिष्ठति नेपालः इति नेपालस्य प्रधानमन्त्री के पि शर्म ओली अवदत्। नेपालस्य प्रदेशाः भारतविरुद्धप्रवर्तनाय कदापि न दीयते  इति शर्मा  ओली नरेन्द्र मोदिने वाक् दत्तवान्। भारतविदेशकार्य सचिवः विजय् गोखले एवम् आवेदितवान्। भारतस्य प्रधानमन्त्रिणः दिनद्वयात्मकनेपालसन्दर्शनम् अधिकृत्य पत्र-दृश्यमाध्यमान् प्रति भाषमाणः आसीत् सः। ओलीमहोदयस्य वाक् अतिप्राधान्यम् आवहति। उभययोः राष्ट्रयोः प्रधानमन्त्रिणोः चर्चायां भारतस्य तृप्तिः अस्ति इत्यपि सः अवदत्।
    भारतेन सह 1850 किलोमीट्टर् दूरं सीमां पालयति नेपालः। सदा उद्घाटिता सीमा इत्यनेन द्वयोः राष्ट्रयोः नयतन्त्रबन्धस्य शक्तीकरणे सीम्नः अद्वितीयं स्थानमस्ति इति संयुक्तवार्तामेलने मोदिना उक्तम्।
कोल्कत्ताबङ्गलुरुदलयोः विजयः 
-रजीष्‌ नम्पीशः
      बङ्‌गलुरु > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः कोल्कत्ताबङ्गलुरुदलयोः विजयः। कोल्कत्तादलं ३१ धावनाङ्कैः पञ्जाबदलं पराजयत्। प्रथमक्रीडनवेलायां कोल्कत्ता ६ क्रीडकानां नष्टेन २४५ इति अस्याः सपर्यायाः बृहदङ्कान् समपादयत्। कोल्कत्तादलाय सुनिल् नरैन् ३६ कन्दुकेभ्यः ७५ धावनाङ्कान्, नायकः कार्तिक् २३ कन्दुकेभ्यः ५० धावनाङ्कान् च प्राप्तवन्तौ। प्रतिक्रीडनावसरे पन्जाबदलाय राहुलः अश्विन्  च उत्तमरीत्या  क्रीडितवन्तौ। किन्तु अन्यैः कैरपि सामर्थ्यं न प्रकटितम्। अङ्कस्थितिः- कोल्कत्ता नैट् रैडेर्स् २४५/६ किङ्स् इलवन् पञ्जाब् २१४/८. अन्यस्यां क्रीडायां बङ्गलुरुदलं ५ क्रीडकैः दल्हीदलं पराजयत्। ऋषभपन्तस्य प्रकटनेन दल्हीदलं ४ क्रीडकानां नष्टेन १८१ धावनाङ्काः समपादयत्। पन्त् ६१ धावनाङ्कान् प्राप्तवान्। प्रतिक्रीडनावसरे बङ्गलुरुदलं कोहलि-डिविलेर्स् सख्ययोः प्रकटनेन ५ क्रीडकानां नष्टेन विजयं प्रापयत्। कोह्लिः७० ,डिविलेर्स् ७२ च धावनाङ्कान् प्राप्तवन्तौ। अङ्कस्थितिः- दल्ही डेर्डेविल्स् १८१/४ रोयल् चलञ्चेर्स् बङ्गलुरु-१८७/५.

Saturday, May 12, 2018

बालभारती -विद्यालयेऽद्वितीया संस्कृतसमूहगानस्पर्धानुष्ठिता
-पुरुषोत्तमशर्मा
    करोल्-भाग् नवदिल्ली>नवदिल्ल्यां राजेंद्रनगर-सर गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक्-विद्यालये हिन्दी चलच्चित्र-गीतानां संस्कृतानूदित-रूपस्य अन्तर्विद्यालयीया समूहगान-प्रतिस्पर्धा समनुष्ठिता। अस्यां प्रतिस्पर्धायां दिल्लीस्थानां दश-निजीयविद्यालयानां  षष्टिमिता: छात्रा: भागमभजन्त।


    प्रतिसप्ताहं डी. डी. न्यूज़ वाहिन्याम् प्रसार्यमाणे लोकप्रिये संस्कृतपत्रिकाकार्यक्रमे 'वार्तावली' इत्येतस्मिन् प्रस्तूयमानां 'संस्कृतचलचित्रगीतानुवादप्रतियोगितामनुसृत्य एव  बालभारती पब्लिक्-विद्यालयेन  सर्वप्रथमतया एषा सामूहिक-संस्कृत-चलचित्र-गीत-गान-प्रतिस्पर्धा' समनुष्ठिता।

    अस्यां प्रतिस्पर्धायां  दिल्लीस्थानां निजीयविद्यालयानां छात्रै: प्रतिभागिता  विहिता 'ज्योति कलश छलके','ये तो सच है की भगवान है', 'ना कजरे की धार, ना मोतियों के हार', 'है प्रीत जहाँ की रीत सदा, मैं गीत वहाँ के गाता हूँ','तुझे सब है पता, मेरी माँ','स्वॅग से स्वागत','धीरे धीरे से मेरी ज़िन्दगी में आना' सनम रे, सनम रे , सन्निभानि हिन्दी बॉलीवुड गीतानि  छात्रै: अत्यंत समुत्साहपूर्वकम् आत्मविश्वासेन सह संस्कृतभाषायां प्रस्तुतानि |

   बालभारती पब्लिक्-विद्यालयस्य प्रधानाचार्यस्य श्रीलक्ष्यवीरसहगल-वर्यस्य तत्वावधाने संस्कृतविभागेन  समायोजितायाम् अस्यां प्रतिस्पर्धायां समागतै: प्रतिस्पर्धकै: छात्रदलै: एतदतिरिच्यापि विभिन्न-अधुनातनानि पुरातनानि च हिन्दी चलच्चित्रीय-गीतानि स्वर-लय-ताल-पूर्वकं संस्कृतभाषायां सम्प्रस्तूय श्रोतृ-समवायस्य मनांसि भृशं रंजितानि। प्रतिस्पर्धाया: मध्ये मध्ये अस्यैव विद्यालयस्य-छात्रै: विभिन्न-भारतीय-शास्त्रीय-नृत्यानि अपि प्रस्तूय जनमनांसि प्रह्लादितानि।  प्रतियोगितायां विभिन्न विद्यालयानां षष्टिकक्षात: दशमीकक्षा पर्यन्तमधीयानै: छात्रै: प्रतिभागिता विहिता।  कार्यक्रमस्य शुभारम्भ: कनिष्ठवर्गीय-छात्राणां सरस्वतीवन्दनापूर्वकम् अभवत्। प्रतिस्पर्धायां एन.सी.ज़िन्दल पब्लिक् विद्यालययेन प्रथमस्थानमधिगतम्, पंजाबी बागस्थ: हंसराजमॉडल् विद्यालय: द्वितीयस्थानभाजनीभूत:। तृतीये स्थाने च पीतमपुरास्थ: बालभारती पब्लिक् विद्यालय: व्यराजत।  अन्तर्विद्यालयीये संस्कृत-समूहगान-प्रतिस्पर्धा-कार्यक्रमे विशिष्टातिथित्वेन समुपस्थितया बालभारती विद्यालयस्य पूसारोड़मार्गस्थस्य परिसरस्य प्रमुखया डॉक्टर सुनीतागेहानी वर्यया कार्यक्रमस्य अवसान-समये प्रोदितं यत्
  संस्कृतं सर्वभाषाणां  जननी वर्तते। अत: संस्कृतस्य  संरक्षणाय प्रसाराय च विद्यालयीय-स्तरे  एतादृशानां विशिष्ट-कार्यक्रमाणामायोजनमत्यावश्यकमस्ति येन लघु-बालकेषु संस्कृतस्य सांगीतिक-पक्ष:, शृंगारिक-पक्षश्चापि बुद्धिपथे सम्प्रविशेताम् छात्राश्च संस्कृतं प्रति समाकृष्टा: स्यु: ।

     प्रतियोगितायां *निर्णायकरूपेण संस्कृतसेवक:, संस्कृतप्रचारक:, संस्कृतानुसन्धाता च  श्रीसुनील जोशी महोदय: , बालभारती विद्यालयस्य च संगीतशिक्षक: श्रीसुमनकुमारझा महोदय:* उपस्थितौ आस्ताम्। निज  निर्णायकीय-वक्तव्ये सुनीलजोशीवर्येण प्रोक्तं यदेतादृशम् अद्वितीयम् अद्भुतं च नूतनं समूहगान-स्पर्धायोजनं   दिल्लीस्थेषु विद्यालयेषु न कुत्रापि मया व्यलोकि। वस्तुतः एतादृशायोजनेन बाल-भारती-पब्लिक्-विद्यालय: अन्येभ्यो विद्यालयेभ्योSपि प्रेरणाप्रद: सिध्यति। अस्मिन्नवसरे अनेन विजेतृदलेभ्य: सम्मानपत्रकमपि वितरितम्। कार्यक्रमस्य अन्ते कार्यक्रमस्य संयोजिका तत्रत्या संस्कृत-शिक्षिका  डॉक्टर ज्योत्स्ना श्रीवास्तव वर्या न्यगादीत् यत् अस्माभि: प्रतिवर्षम् बालेषु संस्कृताभिरूचि-संवर्धनाय अन्तर्विद्यालयीया: संस्कृत-नाटकम्, कब्बाली, भाषणम्, संस्कृतवाद-विवाद:, श्लोकोच्चारणम्, स्तोत्रगानं, एकलसंगीतं, समाचारवाचनं,  चेत्यादि-भूरि प्रतियोगिता: अनुष्ठीयन्ते। यासु प्रतियोगितासु  विविध-विद्यालयानां छात्र-छात्रा: अहमहमिकया प्रतिभागं निर्वहन्ति। अस्य कार्यक्रमस्य आयोजन-समन्वये श्रीयुवराजभट्टराईवर्यस्य, श्रीदीपकशर्मणश्च महद्योगदानमवर्तत।
कर्णाटके विधानसभानिर्वाचनं समारब्धम्। 
    बङ्गुलुरु > कर्णाटकं केन दलेन  शासितव्यम् इति निश्चेतुं  राज्यविधानसभानिर्वाचनं समारब्धम्। राज्ये ५.१२ कोटि सम्मतिदायकाः जनाधिपत्यविधिनिर्णयाय मतदानकेन्द्राणि अभिगच्छन्ति। २६५५ स्थानाशिनः जनविधिमपेक्षन्ते।  मुख्यमन्त्रिणः सिद्धरामय्यस्य नेतृत्वे कोण्ग्रस् दलं, यदूर्यप्पावर्यस्य नेतृत्वे भाजपादलं, एछ् डि देवगौडावर्यस्य नेतृत्वे जनतादल् - एस् दलं च मुख्यतया त्रिकोणप्रतियोगिताम् आवहन्ति।
नेपालं विहाय भारतस्य पूर्णता नास्ति - भरतस्य प्रधानमन्त्री
       जनकपुरम्> नेपालं विहाय भारतस्य विश्वासः इतिहासः च सम्पूर्णं मा भविष्यति इति भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत्। दिनद्वयस्य नेपालसन्दर्शनस्य भागतया अयोध्यां जनकपुरं च बन्धितुं बस् यानस्य सेवां ध्वजवीजनं कृत्वा भाषमाणः आसीत् सः।  हिन्दुमतविश्वासानुसारं रामस्य जन्मदेशः भवति अयोध्या नेपालस्य जनकपुरं सीतायाः च । एतौ परोक्षतया उक्त्वा आसीत् मोदिनः भाषणम् । 
         'रामायण सर्क्यूट्' इति नाम्ना अविष्कृता आध्यात्मिक विनोदयात्रा-योजनायाः भागतया भवति अयोध्या जनकपुरम् बस् सेवा। शताब्दानां बन्धः एव अयोध्याजनकपुरयोः मध्ये अस्ति एषः  बन्धः भग्नं कर्तुं न शक्यते।   225 किलोमीट्टर् दूरमितं बस्यान सेवा मोदी तथा नेपालस्य प्रधानमन्त्री के पि शर्म ओली च मिलित्वा ध्वजवीजनं कृतवन्तौ। प्रातिवेशिक राष्ट्रनयेषु  प्रथमगणना नेपालस्य एव इति   सः अवदत् ॥

Friday, May 11, 2018

किलुवेय्य अग्निपर्वतस्फोटनेन महान् लावा प्रवाहः
     होणलूलु > हवायि द्वीपस्थ किलुवेय्य अग्निपर्वत स्फोटनेन महान्  द्रावकाग्निप्रवाहः ('लावा') अजायत। विस्फोटनेन सह भूभ्रंशः अपि अभवत्। किलुवेय्यपर्वतस्य पूर्वदक्षिणभागे जातस्य भूकम्पस्य शक्तिः  भूकम्पमापिन्यां ६.९ इति मापिता अस्ति।
सार्वजनिककर्मविभागे  अलीकः - केजरिवालस्य बन्धुः गृहीतः।
       नवदिल्ली> अलीकारोपणानुबन्धतया दिल्लीमुख्यमन्त्रिणः अरविन्द केजरिवालस्य बन्धुः बन्धितः। सार्वजनिक कर्मविभागस्य  मार्गमालिन्य कूल्यानिर्माणे व्यतिलोमः कृतः इति कारणेन विनय बन्सालि नामकः दिल्लीस्थ भ्रष्टाचारविरुद्धविभागेन बन्धितः ।
     बन्सालस्य अड्गत्वेन विराजमानायाः  निर्माणसंस्थायाः आसीत् निर्माणस्य उत्तरदायित्वम् ।  बन्सालस्य निर्माणसंस्थायाः  नियमान् उल्लङ्ख्य  निर्माणानुज्ञा दत्ता इत्यस्य २०१७ मेय् मासस्य अष्टमदिनाङ्के सार्वजनिक कर्मविभागेन अरविन्द् केजरिवालं विरुद्ध्य विकल्पनियामकविधानं पञ्जीकृतम् आसीत्॥
ऋषभ् पन्तस्य शतकं निष्फलम्
-रजीष् नम्पीशः
      दल्ही > विवो ऐ पि एल् २०१८ सपर्यायाः तृतीयं शतकम्‌ दल्हीदलस्य ऋषभपन्तस्य वल्लकात् जातायां क्रीडायां विजयस्तु हैदराबाददलेन प्राप्तः। ह्यः रात्रौ सम्पन्नकीडायां हैदराबाददलं ९ क्रीडकैः दल्हीदलं पराजयत्। प्रथमक्रीडनावसरे दल्हीदलं ऋषभपन्तस्य एकाङ्गप्रकटनेन ५ क्रीडकानां नष्टेन १८७ धावनाङ्‌कान् समपादयत्। ऋषभपन्तेन केवलं ६३ कन्दुकेभ्यः १२८ धावनाङ्काः प्राप्ताः। किन्तु प्रतिक्रीडनवेलायां हैदराबाददलं नायकस्य केन् विल्यंसस्य शिखर्धवानस्य च क्षमापूर्णप्रकटनेन १ क्रीडकनष्टेन विजयं समपादयत्। धवान् ९२(५०), विल्यंसः ८३(५३) च धावनाङ्कान् प्राप्तवन्तौ। हैदराबाददलं अङ्कपट्टिकायां प्रथमं वर्तते। पराजयेनानेन दल्हीदलस्य प्रतीक्षाः अस्तंगताः। अङ्कस्थितिः दल्ही डेर् डेविल्स्- १८७/५ सण् रैसेर्स् हैदराबाद्‌- १९१/१(१८.५).

Thursday, May 10, 2018

प्रधानमन्त्रिणं प्रतीक्ष्य स्थातुं न शक्यते। अतिवेग मार्गः विलम्बं विना उद्घाटनीयः - सर्वोच्चन्यायालयः। 
     नवदिल्ली> दिल्लीनगरस्य अतिरूक्षवाहनसम्मर्दं मलिनीकरण समस्यां च परिहर्तुम् उद्दिश्य निर्मितस्य अतिवेगमार्गस्य उद्घाटनं विलम्बायते इत्यस्य  विप्रतिपत्तिं विज्ञापयन् सर्वोच्यन्यायालयः ।  उद्घाटनाय प्रधानमन्त्रिणं प्रतिपाल्य किमर्थं स्थास्यते इति न्यायालयः अपृच्छत्। जूण् मासस्य प्रथमदिनाङ्के जनेभ्यः मार्गः उद्घाट्य दातव्यः इति न्यायालयः निरदिशत्। 
    राष्ट्रियमार्ग आयोगस्य अधीनतायां निर्मितस्य 'ईस्टेण् पेरिफरल् एक्स्प्रस् वे' इत्यस्य उद्घाटनानुबन्धतया एव उच्चन्यायालयस्य आदेशः। न्यायाधीशौ मदन् बि लोकूर् दीपक् गुप्तः च पीठे उपस्थितौ अस्ताम् I

Wednesday, May 9, 2018

राजस्थानदलस्य विजयः
रजीष् नम्पीशः
      जयपुरम् > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडायां राजास्थानदलेन १५ धावनाङ्कैः पञ्जाबदलं पराजितम्। राजस्थानदलं जोस् बट्लरस्य सामर्थ्येन १५८ धावनाङ्कान् समपादयत्। बट्लरः ८२ धावनाङ्‌कान् प्रापयत्। प्रतिक्रीडनवेलायां पञ्जाबदलेन ७ क्रीडकानां नष्टेन १४३ धावनाङ्काः एव सम्पादिताः। पञ्जाबदले के एल् राहुलं विना अन्यः यः कोऽपि सम्यक् कीडितुं समर्थ: नाभवत्। राहुलः ७० कन्दुकेभ्यः ९५ धावनाङ्कान् सम्पाद्य क्रीडान्तं यावत् स्थितः अभवत्। जयेनानेन राजस्थानदलम् अन्तिमस्थानात् षष्ठं स्थानं प्रति उन्नीतम्। पञ्जाबदलं तृतीयस्थाने वर्तते। अङ्कस्थितिः- राजस्थान् रोयल्स् १५८/८ किङ्स् इलवन् पञ्जाब् १४३/७.

Tuesday, May 8, 2018

पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे डेराप्रमुखं रामरहीमं विरुध्य वादश्रवणमद्य 
-पुरुषोत्तमशर्मा
      पञ्चकूला> पञ्चकूलायां केन्द्रीयान्वेषणाभिकरणस्य  विशेषन्यायालये अद्य पत्रकारस्य रामचन्द्रस्य हत्याप्रकरणे वादश्रवणं भविष्यति। विगतवादश्रवणावधौ प्रकरणस्य मुख्यसाक्ष्येन रामरहीमस्य पूर्ववाहनचालकेन खट्टासिंहेन समं परिपृच्छा अभवत्। अद्य खट्टासिंहस्य वक्तव्ये प्रश्नोत्तरं विधीयते। डेराप्रमुख: रामरहीम: वीडियोकॉन्फ्रेंसिंग इति दृश्यश्रव्याङ्नद्वारा न्यायालयम् उपस्थास्यति। पूर्णप्रतिवादप्रक्रियानन्तरं निर्णय: भविष्यति। उल्लेखनीयमस्ति यत् साध्वी यौनशोषणप्रकरणे सुनारिया कारावासे निगडितस्य गुरमीतरामरहीमस्य समस्या: प्रकरणेनानेन विवर्धन्ते। 
व्‍लादिमीरपुतिन: चतुर्थवारं राष्‍ट्रपतित्वेन शपथं स्वीकृतवान्
-पुरुषोत्तमशर्मा

    नवदिल्ली> व्लादिमीरपुतिन: भूयोsपि षड्सप्तति प्रतिशतं मतदानमधिगम्य राष्ट्रपतित्वेन प्रचित:। 65 वर्षीय: पुतिन: दशकद्वयं तावत् स्थानारूढ: अवर्तत। पुतिनेन जोज़फ-स्‍टालिनस्य अनन्तरं सर्वाधिकवर्षाणि यावत् राष्टपतित्वेन कार्यं कर्तुम् अवसर: प्राप्त:। २०२४ तमे ईशवीयाब्दे पुतिनस्य कार्यकाल: समाप्‍तिं यास्यति। २०२४ ईशवीयाब्दानन्तरं रष्याया: संविधानानुसारेण राष्ट्रपतिपदाय तस्मै अवसर: नैव प्रदास्यति। श्रीपुतिनेन समाश्वासितं यत् स्वीये कार्यकाले देशस्य आर्थिकस्थितिं पुनरितोऽप्यधिकतया सुदृढीकरिष्यामि अन्ताराष्‍ट्रियविवादानां समाधनामपि करिष्यामि इति॥
कत्वा उपधा जम्मोः बहिः। 
        नवदिल्ली > जम्मु काश्मीरस्य कत्वा प्रदेशे अष्टवयस्का बालिका बलात्कारेण मृत्युमुपगता इत्यस्य विषयस्य उपधां पञ्चाबस्थं पठान्कोट्ट् न्यायालयं प्रति परिवर्त्य सर्वोच्चन्यायालयस्य आदेशः। हत्याभीषा अस्तीति बालिकायाः परिवारस्य तेषां न्यायवादिन्यः च अभियाचिकायाः आधारेणैव अयं निर्णयः।
मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनायै - कोण्ग्रस् दलं सर्वोच्चन्यायालये।
      नवदिल्ली> मुख्यन्यायाधीशं   दीपकमिश्रं विरुद्ध्य दोषशोधनापत्रं तिरस्कृतवान् उपराष्ट्रपतिः इति कारणेन द्वौ कोण्ग्रस् सामाजिकौ उच्चन्यायालये व्यवहारं पञ्जीकृतौ।  राज्यसभा सामाजिकौ प्रतापसिंहबज्व, अमीहर्षाद्रि यजनिकश्च एतौ। उपराष्ट्रपतेः प्रक्रमः पक्षपातसहितः राजनैतिकप्रभावेन च इति दोषारोपम् उन्नीतवन्तौ। अन्वेषणाय न्यायाधीशानां समितिः आवश्यकी इति सामाजिकौ न्यवेदितवन्तौ। राज्यसभानियमानि उल्लंघितानि इत्युक्त्वा आसीत्  सभाध्यक्षस्य  वेङ्कय्यनायिड्डुवर्यस्य  दोषशोधनापत्रतिरस्कारः। मुख्यन्यायाधीशं विरुद्ध्य दोषशोधनापत्रप्रदानाय दोषप्रकाशनाय  यानि प्रमाणानि आवश्यकानि तानि नास्तीति वेङ्कय्यनायिडुवर्यः असूचयत्।

Monday, May 7, 2018

काबूले षड् भारतीयाः बन्धिताः 
       काबूल्   >  अफ्गानिस्थानस्य 'बघ्लान्' प्रविश्यायां षट् भारतीयान् यन्त्रकुशलान् [engineers] तद्देशवासिनं चालकं च केचन आयुधधारिणः अपहृतवन्तः। अफ्गान् सर्वकारस्य स्वामित्वे वर्तमाने विद्युन्निलये कर्मकराः एते, ते एव रविवासरे अपहृताः बन्धिताश्च।
       घटनायाः उत्तरदायित्वं केनापि न स्वीकृतं तथापि तालिबान् भीकरैरेव आक्रमणं कृतमिति बघ्लान् प्रविश्यायाः राज्यपालः अब्दुल्ला नेमाती अवदत्। तत्रस्थानां गोत्रमुख्यानां साहाय्येन भारतीयान् मोचयितुं चर्चाः पुरोगच्छछन्ति इति नमेतिवर्येण उक्तम्।
काश्मीरे संघट्टनेन पञ्च भीकराः व्यापादिताः। 
      श्रीनगरम् > गतदिने जम्मु-काश्मीरे षोपियान् जनपदे सुरक्षासैन्यं भीकराश्च मिथः संवृत्ते नालिकाशस्त्रसंघट्टने पञ्च भीकराः व्यापादिताः। तेषु एकः काश्मीर् विश्वविद्यालयस्य अध्यापकः अस्ति। संघट्टनानन्तरम् अक्रमासक्तान् जनसञ्चयान् विरुध्य  रक्षिपुरुषैः कृते भुषुण्डिप्रयोगे ५ प्रदेशवासिनश्च निहताः।
शतंरुप्यकपत्राणां दौर्लभ्यम् अचिरादेव भविष्यति- वित्तकोशाः।
       मुम्बै> २०००, २०० रुप्यकपत्राणाम् इव शतानाम् (१००) अपि दौर्लभ्यं भविष्यति इति सूचना लब्धा। शतानां रुप्यकपत्राणां पूरणं धनस्वीकरणयन्त्रे आवश्यकानुसारं न प्रवर्तते। इदानीं विपण्यां प्रचार्यमाणेषु रुप्यकपत्रेषु भूयिष्ठानि अपि मालिन्येन आक्षिप्तानि भवन्ति। एतानि धनस्वीकरणयन्त्रे पूरयितुं न शक्यते इति कारणत्वेन वदन्ति वित्तकोशाधिकारिणः। शतानां रुप्यकपत्राणां वितरणं न्यूनीभवति इति वित्तकोशेन संरक्षितवित्तकोशान् प्रति आवेदितम् अस्ति। नूतनानां रुप्यकपत्राणाम् अभावेन पञ्चाशत् रुप्यकपत्राणां लघ्व्यः विनिमयः असाध्यः भवति इत्यपि आवेदितः अस्ति।
मुम्बैपञ्चाबदलयोः विजयः
रजीष्‌ नम्पीशः
         दल्ही > विवो ऐ पि एल् २०१८ सपर्यायां ह्यः सम्पन्नक्रीडयोः मुम्बैदलेन कोल्कत्ता दलं १३ धावनाङ्कैः, पञ्चाबदलेन राजस्थानदलं षट्भिः क्रीडकैः च  पराजितम्। आरम्भक्रीडकः सूर्यकुमारयादवः मुम्बैदलाय ५९ धावनाङ्कान् समपादयत्। हर्दिक् पाण्डयः ३५ धावनाङ्कैः क्रीडान्तं यावत् स्थितः अभवत्। कोल्कत्तादलाय रोबिन् उत्तप्पा ५४ धावनाङ्कान् समपादयत्। अङ्कस्थितिः- मुम्बै इन्ड्यन्स् १८१/४ कोल्कत्ता नैट् रेडेर्स् १६८/६. ह्यः रात्राववसितक्रीडायां पञ्चाबदलेन राजस्थानदलं षट्भिः क्रीडकैः पराजितम्। प्रथमावसरे राजस्थानदलं ९ क्रीडकानां नष्टेन १५२ धावनाङ्कान् प्रापयत्। राजस्थानाय जोस् बट्लर् ५१ धावनाङ्कान् प्रापयत्। प्रतिक्रीडनावसरे पञ्चाबदलं के एल् राहुलस्य एकाङ्गप्रकटनेन ४ क्रीडकानां नष्टेन विजयं प्रापयत्। के एल् राहुलः ८४ धावनाङ्कैः सह अनिष्कासितः अभवत्। अङ्कस्थितिः- राजस्थान् रोयल्स् १५२/९ किङ्स् इलवन् पञ्चाब् १५५/४(१८.४).

Sunday, May 6, 2018

स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलयः ॥ 
          मुम्बै> स्थगितानां न्याय-व्यवहाराणां निर्णयाय प्रभातपर्यन्तं न्यायलये उषित्वा  न्यायाधीशः इतिहासं रचितवान्। मुम्बै उच्चन्यायालयस्य न्यायाधीशः एस् जे कताव् ला वर्यः एव नूतनाम्  इमां सरणिं समारब्धवान्। मेय् मासस्य पञ्चमदिनाङ्कात् आरभ्य न्यायालयस्य विरामकालः भविष्यति इत्यनेन विधिनिर्णयाय यामान्तं यावत् न्यायाधीशः नीतिपीठे उपविष्टवान् आसीत्।  एवं १३५ न्यायव्यवहारेषु निर्णयं स्वीकृतवान्। विगतैकसप्ताहं यावत् अर्धरात्रपर्यन्तं न्यायावाद-विधिप्रस्तावौ अनुवर्तितौ च आस्ताम्।  एषु  व्यवहारेषु ७० सङ्ख्यामिताः  व्यवहाराः अधिकप्राधान्यं आवहन्तः सन्ति।
चलच्चित्रपुरस्कारकार्यक्रमः - राष्ट्रपतौ अतृप्तिः।
      नवदिल्ली > राष्ट्रियचलच्चित्रपुरस्कारवितरणं वार्तावितरणमन्त्रालयेन आयोजितम् आसीत्। तन्निर्वहणविषयये  कार्यकुशलता नासीत् इत्यतः राष्ट्रपतिभवनस्य अतृप्तिः। वितरणकार्यक्रमः अपक्वेन आयोजितः इत्यनेन राष्ट्रपतिः विचारितः   अभवदिति कार्यालयस्य मूल्यनिर्णयः। अस्मिन् विषये असन्तुष्टिं  प्रधानमन्त्रिकार्यालयं प्रति लेखद्वारा प्राकाशयत् च।
         कार्यान्तरबाहुल्येन राष्ट्रपतिः एकहोरापर्यन्तं पुरस्कारवितरणकार्यक्रमे सन्निहितः भवेदिति  मार्चमासे एव निगदितमासीत्। तदनुसारं राष्ट्रपतिहस्तात् पुरस्कारं स्वीक्रियमाणानां एकादश प्रतिभानां नामान्यपि निश्चित्य वार्तावितरणमन्त्रालयं निगदति स्म। किन्तु कार्यक्रमे अन्येषां कृते पुरस्कारं दातुं राष्ट्रपतिः असन्नद्धः आसीदिति  प्रतीतिः अजायत। राष्ट्रपतिः पुरस्कारदानं न करिष्यति इत्यतः ५५ जेतारः कार्यक्रमं बहिष्कृतवन्तः आसन्।
आधारपत्रस्य सुरक्षाभीषा नास्ति- बिल् गेट्स्
     वाषिङ्टण् >  भारतस्य अधारपत्रसुविधायाः साङ्केतिकत्रुटयः न सन्ति इति मैक्रोसोफ्ट् स्थापकः बिल्गेट्स् महोदयः वदति। विश्ववित्तकोशस्य साह्येन  आविश्वम् आधारपत्र सुविधा व्यापयितुं प्रयतते बिल् आन्ट् मेलिन्ड   गेट्स् फौन्टेषन् इति संस्थया आरब्धा इत्यपि तेन उच्यते।
     आधारपत्र-संस्थायाः‍ प्रथमाध्यक्षः इन्फोसिस् संस्थायाः सहस्थापकः इति च सुज्ञातः नन्दन् निलेकनि एव अस्यै परियोजनायैः विश्ववित्तकोशस्य कृते साहाय्यं क्रियते इति च तेनोक्तम्।
राष्ट्रान्तरेषु अपि व्यापनं कर्तुं योग्या वा भारतस्य इयं योजना इति प्रश्नस्य योग्या इति सः अवदत्। अधारपत्रस्य बहुमूल्यगुणानि सन्ति  राष्ट्रस्य त्वरितविकासाय जनानां शक्तीकरणाय च सुविधेयं अत्यन्तम् उपकरी इति बिल्गेट्स् महोदयेन उक्तम्॥

Saturday, May 5, 2018

विद्यार्थिनः न सन्ति- स्वाश्रययन्त्रवैज्ञानिक-कलाशालायाः  पिधानं क्रियते।
     तिरुवनन्तपुरम्> छात्राणां न्यूनसंख्यात्वात् स्वाश्रययन्त्र वैज्ञानिक कलाशालाः पिधानं कर्तुं अनुज्ञां निवेद्य  कलाशालायाः प्रबन्धकाः साङ्केतिक-वैज्ञानिक विश्वविश्वविद्यालयस्य पुरतः  अनुज्ञां प्रार्थितवन्तः। तिसृभिः  कलाशालाभिः  पोलिटेक्निक्‌ रूपेण परिवर्तयितुं न्यवेदनमपि प्रदत्तम्।
 स्वाश्रयमण्डलेषु 120 कलाशालाः  सन्ति। सर्वकारेण नियन्त्रिता द्वात्रिंशत् च । एतेषु अष्टाविंशति  कलाशालासु एव छात्राः संपूर्णतया प्रवेशिताः। अन्यासु प्रतिशतं पञ्चविंशति (२५%) छात्राः एव आगच्छन्ति। शेषस्थानानि शून्यायानि वर्तन्ते|
अन्ते मुम्बै दलेन विजयपथं प्राप्तम् 
   मोहाली > पराजयपरम्परायाः अन्ते मुम्बै दलाय समाश्वासविजयः। विवो ऐ पि एल् २०१८ सपर्यायाम् ह्यः सम्पन्नक्रीडायां मुम्बै दलेन पञ्जाबदलम् पराजितम्। क्रुनालपाण्ड्यस्य अतिवेगक्रीडनं मुम्बै दलाय सहायकम् अभवत्। सः १२ कन्दुकेभ्यः ३१ धावनाङ्कान् सम्पाद्य नायकेन रोहित् शर्मणा सह क्रीडान्तं यावत् स्थितः। मुम्बै दलाय सूर्यकुमारयादवः ५७ धावनाङ्कान् समपादयत्। अनेन विजयेन ऐ पि एल् २०१८ सपर्यायां मुम्बै दलस्य विजयप्रतीक्षाः उत्तेजिताः। अङ्कस्थितिः - किङ्स् इलवन् पञ्जाब् - १७४/६ मुम्बै इन्ड्यन्स् -१७६/४(१९).

Friday, May 4, 2018

उत्तरप्रदेशे राजस्थाने च कणिकासङ्घातवातप्रवाहेन १०८ मरणानि।
    नवदिल्ली > उत्तरभारते गतदिने संवृत्तेन अतिशक्तेन कणिकायुक्तवातप्रवाहेन तदनन्तरं सञ्जातेन मेघजर्जनेन वर्षेण च अष्टोत्तरशतं जनाः मृत्युमुपगताः। द्विशताधिकाः आहताः। उत्तरप्रदेशे राजस्थाने च मरणानि सम्भूतानि।
   नवदिल्ल्यामपि शतकिलोमीटर् परिमितया शीघ्रतया झंझावातः वाति स्म।
  विविधेषु राज्येषु बहूनि गृहाणि भवनानि च विशीर्णानि। वृक्षाः विद्युत्स्तम्भाश्च पतिताः।

Thursday, May 3, 2018

आधारपत्रं विना वित्तकोशे वित्तलेखं समारब्धुं न शक्यते ।
      नवदिल्ली> वित्तकोशेषु वित्तलेखेस्य समारम्भाय आधारपत्रसंख्यां निर्बन्धितं  कृत्वा  रिज़र्व् बाङ्क्  द्वारा एप्रिल् मासस्य विंशति दिनाङ्के ( 20) बहिरागते निर्देशोषु एव आधारपत्रं निर्बन्धितम् इति लिखितम् अस्ति। पान् पत्रम् अपि वित्तलेखाय आवश्यकं भवति। पान् पत्रं नास्ति चेत् फोर्म् ६० दातव्यम्।
के वै सि निर्देशपालनाय भवति अयम्।
     विविधसेवनानां कृते आधारपत्रम् अधिकृत्य आदेशः इतःपर्यन्तं सर्वोच्चन्यायालयेन न आदिष्टम्। तथापि अलीकधनसम्पादन- निवारणय आधारपत्रम् आवश्यकम् इति रिज़र्व् बाङ्क् संस्थायाः चाक्रिकादेशे उच्यते।
2022 तमे सर्वेषां ब्रोड्बान्ट् 5 जि च । 
   नवदिल्ली> दूरसञ्चारवार्ताविनिमय-मण्डले समग्रपरिवर्तनोन्मुख-नयस्य कृते केन्द्रसर्वकारेण प्राथमिकयत्नः   समारब्धः।   2022 तमे 40 लक्षं कर्मसन्दर्भाणि, 5 जि अन्तर्जालोपलब्धिः, सर्वेषां ब्रोड्बान्ड्, 50 एम् बि पि एस् वेगयुक्तम् अन्तर्जालबन्धं च भवन्ति प्रधाननिर्देशाः।  राष्ट्रिय-साङ्ख्यवार्ताविनिमय नयः  2018 इति नाम्ना एव नवीननयः आनयिष्यति। 
      राष्ट्रे प्रतिशतं पञ्चाशत्   (50%) गृहेषु ब्रोड्बान्ड् सैविध्यं तथा स्थावर-दूरवाणीबन्धः च  स्यातां इति भविष्यत्प्रवर्तनरेखाद्वारा उद्घोषयति। सर्वेष्वपि  पञ्चायत्तेषु 1 जि बि वेगमितम् अन्तर्जालबन्धं लभते। 2022 तमे  वेगः  10 जि बि  इति परिवर्त्यते । सांख्यकवार्ताविनिमय मण्डले ‍ 2022 तमे  10,000 कोटि डोलर् धनस्य आयः एव लक्ष्यी क्रियते इत्यपि नयरेखायां व्यक्तीक्रियते।

Wednesday, May 2, 2018

चलदूरवाणी लब्ध्यर्थम् आधारपत्रं नावश्यकम्।
         नवआधारपत्रं नास्तीति कारणेन सिम् पत्रं न लभते इति आक्षेपेण विषयेऽस्मिन् पुनरवलोकनं कृत्वा एव अयं निर्णयः स्वीकृतः इति केन्द्र दूरसञ्चार-विभाग-सचिवः अरुणा सुन्दरराजः अवदत्।
      वाहनचालक अनुज्ञापत्रम् पारपत्रम् मतदानप्रत्यभिज्ञापत्रम् च प्रमाणत्वेन स्वीकर्तुं मन्त्रालयः निर्देशः दूरवाणी संस्थाभ्यः अदात्। दूरवाणीसन्ध्यर्थं आधारपत्रं नावश्यकं इति सर्वोच्चन्यायालयेन निरीक्षितम् आसीत्।

Tuesday, May 1, 2018

इन्धनमूल्यम्  अधिकं मास्तु - केन्द्रनिर्देशः 
नवदिल्ली > कर्णाटकस्य नियमसभा-निर्वाचनभावनया इन्धनमूल्यवर्धनं केन्द्रसर्वकारेण निवारितम् इति आवेदनम्। विश्वविपण्याः मूल्यव्यत्ययानुसारं प्रतिदिनमूल्यनिर्णयम् निवारितम् इति मन्यते। लोकेसर्वत्र तैलेन्धनमूल्यम् वर्धितम् तथापि भारते न वर्धितम्। एक सप्ताहं यावत् मूल्यं निश्चलं भवति। मूल्यवर्धनं मास्तु इति सर्वकारेण तैलसंस्थाः निर्दिष्टाः इति भवति आवेदनम्। कर्णाटकनियमसभा निर्वाचने तैलेन्धनस्य मूल्यवर्धम्  प्रहराय भवति इति मत्वा एव अयं निर्देशः।    एप्रिल् मासस्य चतुर्विंशति दिनाङ्के एव अन्तिमतया मूल्यवर्धनमभवत्। मेय् मासस्य द्वादश दिनाङ्के भवति कर्णाटकस्य निर्वाचनम्।  

अफ्गानिस्थाने  त्रिषु स्थानेषु  आत्मघात्याक्रमणं - ४१ मरणानि। 
         काबूल् > अफ्गानिस्थानस्य राजधान्यां काबूल् नगरे तथा काण्डहारे च सम्पन्नेषु त्रिषु आत्मघात्याक्रमणेषु एकादश शिशवः अष्ट माध्यमप्रवर्तकाश्च अभिव्याप्य एकचत्वारिंशत् जनाः हताः। उपषष्ठिजनाः व्रणिताश्च। 
   काबूल् नगरे प्रवृत्तयोः आक्रमणयोः उत्तदायित्वं विश्वभीकरसंस्थया इस्लामिक् स्टेट् नामिकया स्वीकृतम्।  प्रथममाक्रमणम् आवेदयितुं  प्राप्तान् माध्यमप्रवर्तकान् लक्ष्यीकृत्य आसीत् द्वितीयमाक्रमणम्। अन्ताराष्ट्र वार्ताकरसंस्थायाः [ए एफ् पि] सुप्रसिद्धः वार्ताहरः 'षा मरायि' नामकः मृतेषु अन्तर्भवति।
 'मनोगतम्-४३’ ‘मन की बात’ नरेन्द्रमोदी
प्रसारण-तिथि: - 29.04.2018
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]
 संस्कृत-भाषान्तर-कर्ता    -  डॉ.बलदेवानन्द-सागरः  

             मम प्रियाः देशवासिनः! नमस्कारः |  नातिचिरं एप्रिल-मासे चतुर्थतः पञ्चदश-दिनाङ्कं यावत् ऑस्ट्रेलिया-देशे एकविंशति-तमाः राष्ट्र-मण्डलीयाः क्रीडा-स्पर्धाः आयोजिताः| भारत-सहिताः विश्वस्य एकसप्ततिः देशाः आसु क्रीडा-स्पर्धासु सहभागित्वम् आवहन्| यदा एतावत् बृहत् आयोजनं भवेत्, अशेष-विश्वस्मात् समागताः सहस्रशो हि क्रीडकाः अत्र सहभागित्वम् आवहन्तः सन्ति, कल्पयितुं शक्नुमः यत् कीदृशो नु परिवेशः भवेत् ? ऊर्जा, शक्तिः, उत्साहः, आवेगः आशाः, आकाङ्क्षाः, किञ्चित् विशिष्टं प्रदर्शयितुं शिव-सङ्कल्पः – यदा एतादृशः परिवेशो भवेत्, तदा को नाम अस्मात् आत्मानं पृथक् स्थापयितुं शक्नुयात्| अयं हि एतादृशः कालः आसीत् यदा प्रतिदिनं अशेष-देशस्य नागरिकाः विचारयन्ति स्म यदद्य कः कः क्रीडकः क्रीडिष्यति ? भारतस्य प्रदर्शनं कीदृशं भविष्यति? वयं कति पदकानि जेष्यामः? एतत् सर्वं सुतरां स्वाभाविकमपि आसीत्| अस्माकं क्रीडकाः अपि देशवासिनाम् आकाङ्क्षानुसारं भद्रतरं प्रदर्शनं कृतवन्तः, तथा च, अनुक्रमं पदकानि विजितवन्तः | भवतु नाम  लक्ष्यवेधो वा मल्ल-युद्धम्, भवतु तत् भारोत्तोलनम् वा  table tennis-स्पर्धा, आहोस्वित् badminton-स्पर्धा; भारतेन आभिलेख्यं प्रदर्शनं विहितम् | पदकानां षड्-विंशतिः सौवर्णानि [ 26 Gold], विंशतिः राजतानि [ 20 Silver], विंशतिश्च कांस्यमयानि [ 20 Bronze] – आहत्य भारतेन षट्-षष्टिः [66] पदकानि विजितानि |  
    प्रत्येकमपि भारतीयः अस्याः सफलतायाः विषये गौरवम् अनुभवति | पदक-विजयो हि क्रीडकानां कृते गौरवस्य प्रसन्नतायाश्च विषयो भवति| इदं हि अशेष-देशस्य कृते, सर्वेषामपि देशवासिनां कृते अत्यन्तं गौरवपर्व भवति| क्रीडा-स्पर्धायाः अन्ते यदा पदकैः साकं भारतस्य प्रतिनिधित्वं कुर्वन्तः क्रीडकाः तत्र सन्तिष्ठन्ते, त्रिवार्णिकेन ध्वजेन परिवेष्टिताः, राष्ट्रगानस्य स्वर-लहर्यश्च गुञ्जायमानाः भवन्ति तदा या नाम भावानुभूतिः भवति, यो हि सन्तोषो जा
दशदिनाभ्यन्तरे भारते बहुत्र अग्निबाधता। चित्रं संप्रेष्य नासा संस्था
डा अभिलाष् जे
         नवदेहली>गतदशदिनेषु भारते बहुत्र क्षेत्रेषु अग्निः बाधिता इति चित्राणि बहिः संप्रेष्य नासा संस्थया व्यक्तीकृता।उत्तरप्रदेशे मध्यप्रदेशे महाराष्ट्रायां, झत्तिस्गड् राज्ये एवं दक्षिणभारते केषुचित् क्षेत्रेषु अग्निः बाधिता इति चित्राणि व्यक्तीकुर्वन्ति। ग्रीष्मे संजातया अग्निबाधया उष्णाधिक्यं अन्तरीक्षमलिनीकरणं  च अभवताम्।
           नासया प्रेषितेषु चित्रेषु अग्निबाधितानि क्षेत्राणि रक्तवर्णे अङ्कितानि सन्ति।वनक्षेत्राणां अपेक्ष्य कृषिक्षेत्रेषु अधिकतया अग्निबाधा जाता इति नासा वदति।
राष्ट्रस्य सांस्कृतिकपरम्पर्ये अभिमानिनः भवेम - भारतस्य उपराष्ट्रपतिः
कासरगोड् > अध्ययनमस्माकं धर्मः, तथा वयं भारतीयाः इति चिन्ता अस्मासु सदा भवितव्या इत्याह्वयन् केन्द्रविश्वविद्यालयस्य एकीकृतं निवेशनस्थानम् उपराष्ट्रपतिः वेङ्कय्य नायिडुः  राष्ट्राय समार्पयत्। 
   जाति-धर्म-लिङ्ग-प्रादेशिक विवेचनेभ्यः अतीतो भवेत् शिक्षाक्रमः इति उपराष्ट्रपतिना उक्तम्। पुरा विश्वगुरुरासीत् भारतम्। नालन्दा तक्षशिला च अस्य प्रमाणे  आस्ताम्। वैदेशिकाक्रमणैः ब्रिट्टीष् शासनेन च एषः पारम्पर्यः विनष्टः - उपराष्ट्रपतिना उक्तम्। 
   कासर्गोड् प्रविश्यायां विविधेषु चतुर्षु  स्थानेषु विप्रकीर्णाः अध्ययनविभागाः इतःपरं 'पेरिय' प्रदेशे निर्मिते एकमात्रे भवनसमुच्चये प्रवर्तिष्यते। भवनानां नामान्यपि भारतस्य सांस्कृतिकपैतृकम् उद्घोषयन्ति - गङ्गोत्री, ब्रह्मपुत्रा, सिन्धू, कावेरी, कृष्णा, गोदावरी, नर्मदा, सबर्मती इति अष्ट नदीनां नामानि।
जयेन चेन्नै प्रथमस्थाने
-रजीष् नम्पीशः
         पूने > विवो ऐ पि ऐल् २०१८ सपर्यायां अष्ट स्पर्धासु षष्ठं जयं सम्पाद्य चेन्नै दलेन प्रथमस्थानं प्रतिगृहीतम्।ह्यः सम्पन्नक्रीडायां दल्ही दलस्योपरि चेन्नै दलं १३ धावनाङ्कानां विजयं सम्पादयत्।चेन्नै दलाय षैन् वाट्सन् ७८ धावनाङ्कान् सम्पादयत्।नायकः धोनिः ५१ धावनाङ्कैः क्रीडान्तः स्थितः अभवत्।क्रीडापुरुषपुरस्कारः वाट्सनाय लब्धः।अङ्कस्थितिः-चेनै सूपर् किङ्स् २११/४ डेल्ही डेर् डेविर्स् १९८/५.