OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 15, 2018

डॉ. वाई.एन्. राव् वर्यस्य ‘संस्कृत-पाठान् पठत’ इति पाठ्यक्रमस्य चक्रम्-8 इत्यस्य आरम्भः अभवत्

    हैदराबाद्> डॉ. वाई.एन्. राव्-वर्यः 80-वर्षीयः हैदराबाद्-नगरस्थः (तेलङ्गाणा राज्ये, भारते) लब्धप्रतिष्ठः भाषावैज्ञानिकः अस्ति।  सः षड्भ्यः वर्षेभ्यः देवभाषां – संस्कृतं पाठयन्नस्ति तदर्थम् अन्तर्जालमाध्यमेन ‘संस्कृत-पाठान् पठत’ इति आधारभूत-संस्कृत-पाठ्यक्रमं ई-मेल – द्वारा निश्शुल्कं चालयति च।   डॉ. राव्-वर्यः पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उपर्युक्तपाठ्यक्रमं चालयति।

     उपर्युक्तपाठ्यक्रमस्य सप्तचक्राणि सफलतया समाप्य सः 8-मस्य चक्रस्य     18-02-2018-दिनाङ्के प्रारम्भं कृतवान् अस्ति। अस्मिन् पाठ्यक्रमे 52 साप्ताहिकाः पाठाः भवन्ति।  अस्मिन् पाठ्यक्रमे 2,500 छात्राः प्रवेशं प्राप्तवन्तः।   तेषु 85 छात्राः आस्ट्रेलिया, दुबाई, जर्मनी,  ओमन्, सौदीअरेबिया, स्विट्जर्लैण्ड्, यू.के., यू.एस्.ए., इत्यादि-विभिन्न-अन्य-देशेभ्यश्च सन्ति। अतीव रुचिकरविषयः  तु  विविधदेशेभ्यः, मातृभाषाभ्यः, धर्मेभ्यः, विश्वासेभ्यः च, 7-तः 87-पर्यन्त-वयस्काः च सन्ति अस्मिन् पाठ्यक्रमे।

     यदा एषः 52-साप्ताहिक-पाठानां पाठ्यक्रमः समाप्तः भवति तदा अन्तर्जाल-माध्यमेन आन्-लाइन् वेब्-आधारित-परीक्षा भविष्यति।  तस्यां परीक्षायाम् उत्तीर्णानां छात्राणां प्रतिभापाटवानुसारं श्रेण्यः दीयन्ते। श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य (साफिक्) पक्षतः उत्तीर्णच्छात्राणां प्रमाणपत्राणि दीयन्ते।

    श्रीमान् जे.एस्. शास्त्री-वर्यः 62-वर्षीयः महाराष्ट्र वित्तकोशतः सेवानिवृत्तः सहायक-महानिदेशकः अस्मिन् पवित्रकार्ये डॉ. वाई.एन्. राव् महोदयेन साकं मिलित्वा निरन्तरं सहकारं कुर्वन् अस्ति।