OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 31, 2018

Sanskrit News | Episode 75
अद्य चन्द्रप्रभावः
152 संवत्सरानन्तरमेव अयं संभवति।
            द्विपञ्चाशतधिक एकशतं संवत्सरानन्तरं सम्भव्यमानं चान्द्रविस्मयं दृष्टुम् उत्सुकाः भुत्वा वाननिरीक्षकाः वैज्ञानिकाः तथा समस्तलोकाः।  चन्द्रस्य मुखत्रयं विविधवर्णयुक्तैः अद्य द्रष्टुं शक्यते। इदम् अद्य न दृश्यते चेत्  अस्मिन् जन्मनि दृष्टुं न शाक्यते। दृश्यमिदं दृष्टवन्तः कोऽपि इदानीं सजीवं नास्ति खलु?।
           ब्लू मूण्,  सूप्पर् मूण् ,  ब्लड् मूण्  इति प्रथिताः चान्द्रदृश्यव्यत्ययानि युगपदेव सायंसन्ध्यायाम् आकाशरङ्गे जनान् तोषयिष्यन्ति। 5.18 वादनतः  8.43  वादन पर्यन्तं भवति असुलभदृश्यानाम्  अनुभवः।  चन्द्रस्य वर्णः कपिशः भविष्यति, आकारः प्रतिशतं सप्त इति क्रमेण,  प्रभापूरः प्रतिशतं त्रिंशत् इति क्रमेण च वर्धिष्येते। इतःपूर्वं षट्षष्ठ्यधिक अष्टादशशततमे (1866) मार्च् मासे आसीत्  इदं दृश्यविस्मयम्। 
महात्मागान्धिने राष्ट्रस्य प्रणामः
          नवदिल्ली> महात्मागांधिनः ७० तम बलिदानदिनस्य स्मृतिषु राजघट् समाधिस्थाने राष्ट्रनेतारः पुष्पार्चनमकुर्वन्। समाधिस्थाने आयोजिते समूहप्रार्थनायामपि राष्ट्रपति रामनाथकोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः प्रधानान्त्री नरेद्रमोदिप्रमुखाः भागं स्वीकृतवन्तः। 'राष्ट्रस्य कृते जीवत्यागं कृतवत्भ्यः बलिदानिभ्यः पुरतः नम्रशिरस्को भवामि' इति ट्विट्टर् माध्यमे नारेद्रमोदिना आलिखितम्।  कोण्ग्रस् अध्यक्षः राहुल् गान्धी भूतपूर्व प्रधानमन्त्री मन्मोहन सिंह प्रमुखाः नेतारः च भागभाजः आसन्।
यमन् देशे कार् यानविस्फोटेन १५ सैनिकाः हताः।
            एदन्> येमन् देशस्थ षाब् वा प्रविश्यायां प्रवृत्ते कार्यान विस्फोटनेन पञ्चदश (१५ ) सैनिकाः हताः। सैनिककाः कार्यानस्य निरीक्षणं कुर्वाणः आसीत्। यू ए ई राष्ट्रस्य  साहाय्येन कृतस्य यमन्‌सैनिकानां विशेषनिरीक्षणद्वारे एव विस्फोटः जातः।

Tuesday, January 30, 2018

निर्वाचनानि युगपद् करणीयानि - राष्ट्रपतिः।
               नवदिल्ली> निरन्तरनिर्वाचनानि अभिवृद्धये बाधा भवति अतः युगपदेव निर्वाचनप्रक्रियाः भवितव्याः। एतदर्थं चिन्तनीयं इति राष्ट्रपतिना रामनाथकोविन्देन उक्तम्। विधानसभायाः संयुक्तमेलने भाषमाणः आसीत् सः।  निरन्तरं राष्ट्रस्य विविध भागेषु निर्वाचनप्रक्रियां कर्तुं अधिकः मनुष्यप्रयत्नः आवश्यकः। निर्वाचनस्य नीतिः पालनीया इत्यनेन राष्ट्रस्य विकासप्रक्रिया स्थगिता भवन्ति इति राष्ट्राभिवृद्धेः बाधारूपेण राष्ट्रपतिना संसूचितम्।
वनसंरक्षणाय विशेषसेना
       कुमली > जङ्गिल् टास्क् फोर्स् इति वनसंरक्षण सेना सज्जा अभवत्। वनपालन विभागात् चयिताः एक विंशति (२१) कुशलाः तेषां अभ्यासं पूर्तीकृत्य विशेषसैनिकरूपेण तेषां दायित्वं स्वीकुर्वन्ति। मरयूर् चन्द्रनवने तथा पेरियार् व्याघ्रसङ्केते च एतेषां कर्मभूमित्वेन निश्चितम्। अत्याधुनिक गोलिकाशस्त्रमपि तेषाम् उपयोगाय सन्ति। चन्दनद्रुमतस्करान् तथा वन्यपशुहन्तारमपि निवारयितुं शक्यते अनेन नूतनसामग्र्या।
साम्पतिकोपकक्षा, भारतेन सह चर्चायै सन्नद्धः इति चीनः।
बैजिङ् > पाक्‌ अधीनकाश्मीरेण गम्यमानः भारत चीनराष्ट्रयोः साम्पत्तिकोपकक्षामधिकृत्य भारतेन सः अभिमत-प्रकाशनाय सन्नद्धः इति चीनेन उच्यते। उभययोः राष्ट्रयोः अभिलाषान् परिगणय्य समस्यापरिहारः भवति इति  चीनस्य वैदेशकर्यप्रवक्ता हुव चुनैङ् अवदत्। चैन-पाकिस्थान् साम्पतिकोपकक्षा एका साम्पतिक सहकारितायाः योजना भवति। योजनेयं तृतीयं उद्दिश्य न इत्यपि तेन भणितम्।
संस्कृतस्य प्रभावः आमुखपटले (फेसबुक) मध्ये अपि दृश्यते।
प्रथमवारं फेसबुक मध्ये बाल प्रतिभा सम्मान लघु-चलचित्र-प्रतियोगितायाः प्रारम्भः
        वर्तमान समये अनेकाः जनाः संस्कृत सम्भाषणं उत्साहेन कुर्वन्ति सम्पूर्ण जनसञ्चामाध्यमं मध्ये संस्कृतं संस्कृतं सर्वत्र संस्कृतम् इति लक्ष्यं संस्कृतज्ञः कृतवन्तः।आमुखपटलोपरि (फेसबुक) बहवः संस्कृतज्ञः प्रतिदिनं नूतन कार्यं कृत्वा संस्कृतस्य प्रचारं प्रसारं च कुर्वन्ति। प्रथमम् आदरणीय संस्कृतसमर्पितं संस्कृतसेवकः जगदानन्द झा (लखनऊ) महोदयेन, डा. चन्द्रकान्त दत्त शुक्ल: (वाराणसी) महोदयेन च फेसबुक मध्ये संस्कृतं (लाइव) जीवंतप्रतियोगितायाः प्रारम्भं कृतः प्रथमवारं कालिदास जयन्ती उपलक्ष्ये अनेकाः जनाः तत्र प्रतिभागं कृतवन्तः। अनन्तरं प्रो. मदन मोहन झा (नवदेहली) महोदयेन फेसबुक मध्ये संस्कृत (लाइव) व्याख्यानम् इति कार्यक्रम:  कृतवान् इदानीमपि अस्मिन् कार्यक्रम: प्रचलन् अस्ति । यदा द्वितीयवारं जगदीश डाभी (गुजरात) महोदयेन संस्कृत जनभाषा भवेत् फेसबुक समूहे संस्कृतं ज्ञानर्धकं (लाइव) जीवंत-प्रश्नोत्तरी प्रतियोगिता प्रत्येक-रविवासरे रात्रौ नव वादनतः दश-वादन पर्यन्तम् आरब्धाः। इदानीमपि अस्मिन् प्रतियोगिता प्रचलन् अस्ति । यदा तृतीयवारम् अमित ओली (उत्तराखंड) महोदयेन संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः चर्चा कृत्वा नूतन प्रतियोगितायाः प्रारम्भः कृतः।
         संस्कृत कार्यार्थे वाराणसीत: डा. चन्द्रकान्त दत्त शुक्लमहोदयस्य मार्गदर्शनानुसारं संस्कृतं बाल-प्रतिभा सम्मान नाम्नी प्रतियोगितायाः आयोजनम् अमित: ओली, जगदीश: डाभी, डा. संध्या ठाकुर: (कानपुर) च कृतवन्त: । अस्मिन् संस्कृत बाल प्रतिभा सम्मान प्रतियोगिताया: आयोजनं युवा दिवश स्वामी विवेकानन्द महोदयस्य १५४ पुण्यतिथि:, लोहणी

Monday, January 29, 2018

वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारः।
      अगलि> वनगजानाम् उपद्रवः रूक्षः अभवत् केरेलेषु। किन्तु समीपस्थे  राज्ये तमिल् नाटे वन्यपशवः शान्तः भवन्ति। वन्यपशूनां कृते पानजलं वनं नीत्वा तमिल् नाट् सर्वकारेण आदर्शत्मक-योजना कृता वर्तते। अनया योजनया प्रयोजनद्वयं स्तः।  पानजलेन  वन्यपशूनां संरक्षणं, गामीणानां संरक्षणं च। वनान्तर्गत जलस्रोतानां शोषणावसरे पशवः वनात् अवतीर्य ग्रामं आगच्छन्ति। ग्रामीणानां कृषि आदिकं नाशयन्ति। ग्रामकुटीरेषु अतिक्रम्य नाशं कुर्वन्ति च। हिम्स्र जन्तवः अपि एवं गृहपशून्  हत्वा भक्षयन्ति।
       इमां अवस्तां परिहर्तुं वनान्तभागस्थ जलाशयस्य समीपे जलसम्पूरिणी निर्मीय आदर्शभूताः अभवत् तमिल् नाट् सर्वकारः।  ११५ जलसम्पूरण्यः  जनानां तथा वन्यपशुनां सुरक्षा युगपदेव कुर्वन्ति। एकस्मिन् जलसम्पूरप्यां ५००० लिट्टर् जलसंवहनक्षमता अस्ति।
राष्ट्रपुरोगत्यर्थं स्त्रीशक्तीकरणम् अनिवार्यम् - प्रथानमन्त्री।
        नवदिल्ली> राष्ट्रस्य अभिवृद्घये स्त्रीणां भागभागित्वम् अनिवार्यम् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अकाशवाण्याः मन् की बात् इति प्रतिमास-कार्यक्रमे अवोचत्। वृद्धिरित्यस्य सीमा नास्तीति सन्देशः एव कल्पना चौला नाम गगन सञ्चारिण्या विश्वाय प्रदत्तः इति च नरेन्द्रमोदिना उक्तम्। विविध मण्डलेषु स्त्रियः पुरतो गम्यमानाः भवन्ति।  युद्धविमानानि डयितुमपि ताः सज्जाः इति प्रधानमन्त्रिणा मन् की बात् कार्यक्रमे उक्तम्। पद्मपुरस्कारं प्राप्तवन्तं सः अभिनन्दितवान्।  संवत्सरत्रयाणि यावत् पद्मपुरस्काराः अर्हाणां हस्ते एव गच्छन्ति।
पद्मपुरस्काराः संस्तुतीः विनैव लभ्यन्ते - मोदी
डा. अभिलाष् जे
          नवदेहली> अस्य वर्षस्य पद्मपुरस्कार जेतॄन् अभिनद्य प्रधानमन्त्री नरेन्द्रमोदी। यस्य कस्यापि संस्तुतीः विनैव पुरस्काराः प्राप्ताः इति पद्मपुरस्कार जेतृभिः उक्ताः इति मोदी स्वप्रतिमासीये आकाशवाणीकार्यक्रमे मन की बात मध्ये उक्तवान्।  ग्रामीणवैद्यायाः मलयालवनितायै लक्ष्मिक्कुट्टि अम्मा नामिकायै कृते दत्तपद्मपुरस्कारं भाषणमध्ये सूचितवान्। अस्माभिः परितः अवलोक्यते चेत् बहूनि महत्तराणि कार्याणि कुर्वतः अनेकान् द्रष्टुं शक्यते। यत् किमपि वा भवतु विना एव प्रतिफलं स्वप्रयत्नेन समाजे ते स्वयमुद्धृताः इत्यतः सम्माननार्हाः ते।

           पद्मपुरस्काराणां कृते योग्यान् चयितुं गत त्रिवर्षेषु बहूनि परिवर्त्तनानि आगतानि। इदानीं यः कश्चित् जनः यं कमपि पुरस्काराय नामनिर्द्शं दातुं प्रभवति। तेषां कीर्तिः न तेषां कर्माणि सन्ति परिगणनीयानि।

Sunday, January 28, 2018

विस्फोटकेन  निभृतस्य रोगीयानस्य स्फोटनेन ९५ जनाः मृताः 
            काबूलः > अफ्गानिस्थानस्य राजधानित्वेन विराजमाने काकबूल देशे रोगीयानस्य प्रस्फोटनेन पञ्चनवति जनाः (९५ ) मृताः अष्टपञ्चाशतधिक एकशतं जनाः क्षताः च। शनिवासरे पथि सम्मर्दमनुभूयमाने समये एव विस्फोटः अभवत्। स्फोटनस्य उत्तरदायित्वं तालिबानेन स्वीकृतम्। बहवः सर्वकार कार्यालयाः दूतकार्यालयाः च वर्तमानाः सादरात् चत्वरे एव विस्फोटः अभवत् । आरक्षकनिरीक्षणद्वारं प्राप्य यानं झटित्येव विस्फोटनेन भग्नंमभवत्। पञ्चनवति (९५)  जनाः विस्फोटनेन मृताः। बहवः क्षताः च इति आवेदितं वार्तासंस्थया।
ब्लास्टेर्स् दलस्य विजयः। 
             कोच्ची > ऐ एस् एल् पादकन्दुकस्पर्धापरम्परायां दिल्ली डैनामोस् दलस्य उपरि एकं विरुध्य  लक्ष्यकन्दुकद्वयेन केरला ब्लास्टेर्स् दलस्य विजयः। इयान् ह्यूमः विजयलक्ष्यं प्राप्तवान्। अनेन विजयेन ब्लास्टेर्स् दलं पञ्चमं स्थानं प्राप्तम्।

Saturday, January 27, 2018

सैनिकबहुमतयः प्रख्यापिताः ; ज्योतिप्रकाश् निरालाय अशोकचक्रम्।
        नवदिल्ली > राष्ट्रगणतन्त्रदिनाघोषम् अनुबन्ध्य सैनिकबहुमतयः प्रख्यापिताः। शान्तिकालीयः परमोन्नतबहुमतिः 'अशोकचक्रम्' व्योमसेनायाः 'कोर्परल्' पदस्थः ज्योतिप्रकाशनिरालः लभते। काश्मीरे भीकरान् प्रतियोद्धुमाने सति वीरमृत्युं प्राप्तवते तस्मै मरणानन्तरबहुमतिरूपेणैव अयं बहुमतिः समर्प्यते।  एकम् अशोकचक्रं, एकं कीर्तिचक्रं, १४ शौर्यचक्राणि चसहितानि राष्ट्रपतेः ३९० सैनिकपतकानि उद्घोषितानि।
'पत्मावत्' प्रकाशितम् ; प्रतिषेधः व्याप्यते।
      नवदिल्ली > विवादात्मकं 'बोलिवुड्' चलच्चित्रं पत्मावन्नामकं न्यायालस्य आदेशानुसारं गतदिने प्रदर्नशनाय प्राप्तं तथापि विविधेषु राज्येषु महान् प्रतिषेधः सम्पन्नः इत्यतः प्रदर्शनं नाभवत्। । मध्यप्रदेश् , राजस्थान् ,गुजरात् , गोवा इत्येतेषु राज्येषु चित्रप्रदर्शनम् असाध्यमिति भूरिशः रङ्गमण्डपस्वामिभिः उक्तम्। सुरक्षाविषय एव कारणम्।

Friday, January 26, 2018

अत्यधिकसुरक्षायां  भारतगणतन्त्रदिनम् आघुष्टम्। दशराष्ट्रतः राष्ट्राधिपाः उपस्थिताः आसन्।

            नवदिल्ली > एकोनसप्ततितमं गणतन्त्रदिनं सामोदम् आधुष्टम् । राजपथे विविधराष्ट्रेभ्यः दशराष्ट्राधिपाः समागताः आसन्। प्रभाते दशवादने राष्ट्रपतिना रामनाथ कोविन्देन भारतध्वजारोपणं  कृतम्। इन्द्यागेट् स्थानस्य अमरज्योति इति मान्यस्थाने प्रधानमन्त्रिणा नरेन्द्रमोदिना पुष्पचक्रं समर्पितम्। अशोक चक्रादयः सेनापुरस्काराः राष्ट्रपतिना सम्मानिताः। राजपथेषु स्थल - नाविक- व्योम सेनयोः पथातिसञ्चलनं सेनयोः शक्तिप्रकाशनानि अभवन्।
            भारतेतिहासे ऐदं प्राथम्येन आसन्  राष्ट्रान्तर अधिपानाम् उपस्थितिः। उपस्थिताः राष्ट्राधिपाः ब्रूणेय्, कम्बोडिया, सिंगपुर्, लावोस्, इन्दोनेष्या, मलेष्या, म्यान्मर्, फिलिप्पीन्स्, ताय् लान्ट्, वियट्नाम् राष्ट्रस्थाः एव। अति शाक्तया सुरक्षया आसीत् गणतन्त्रदिनाघोषः।
आत्मविश्वासयुक्त-राष्ट्रनिर्माणं यूनामेव शाक्यते - राष्ट्रपतिः रामनाथ कोविन्दः।
          नवदिल्ली> आत्मविश्वासेन भविष्यत्कालं मनसिनिधाय प्रतीक्षानिर्भरं राष्ट्रनिर्माणं यूनामेव शक्यते इति राष्ट्रपतिना रामनाथ कोविन्देन उक्तम्। गणतन्त्रदिनात् पूर्वं राष्ट्रं प्रति भाषमाणः आसीत् राष्ट्रपतिः। राष्ट्रपौरेषु ६०% जनाः ऊन पञ्चत्रिंशत् ३५ वयस्काः एव। अस्माकं भविष्यः प्रतीक्षा च तेषां हस्तेषु एव।

          अस्माकं शिक्षासम्प्रदायः परिष्करणीयः आधुनिक समस्या परिहाराय समर्था भवतु सा। केवलं कण्ठस्थीकरणं पुनरवतारणं च इति मा भवतु शिक्षया। चिन्तावर्धनाय नैपुणी वर्धनाय च उपकारकाः भवतु शिक्षा। युवजनान् स्पर्धाक्षमयुक्तान् कर्तुं  योग्याः योजनाः इदानीम् आरब्धाः सन्ति।  प्रतिभायुक्ताः सन्दर्भः उपयोक्तव्यः इति च राष्ट्रपतिना यूनः उपदिष्टाः।
 जी. एस. टी. उपरि एकदिवसीय कार्यशालाया: आयोजनम्
वार्ताहर: - दीपक शास्त्री
     जयपुरम् > २४/०१/२०८ तमे दिनाङ्के जगद्गुरूरामानन्दाचार्यराजस्थानसंस्कृतविश्वविद्यालये "वस्तु: एवं सेवाकर:( GST)" उपरि एकदिवसीयकार्यशालाया: आयोजनम् अभवत्।  कार्यशाला-संयोजकेन कैलाशचन्द्रशर्मणा सूचितं यत् कार्यक्रमस्य उद्घाटने अध्यक्षता विश्वविद्यालयस्य कुलपति: डॉ. विनोदशास्त्री तथा कार्यक्रमस्य निर्देशनं कुलसचिव: डॉ. के. साम्बशिवमुर्तिमहोदयेन कृतम्।  उद्घाटने ICAI अध्यक्ष: क्षेत्रीय GST परामर्शसमित्या: सदस्य: अभिषेकशर्मणा विशिष्टं उद्बोधनं प्रदत्तं। कार्यशालायां तकनीकसत्राणां आयोजनमपि अभवत्। तत्र क्रमश: राकेश: काबरा, अक्षयकुमार जैन: इत्यादय: विषयविशेषज्ञा: स्व विस्तृतव्याख्यानै: कार्यशालायां समुपस्थितान् शिक्षकान् छात्रान् शोधार्थिन जनसामान्यं च लाभान्वितं कुर्वाण:। जी.एस.टी सम्बन्धिन: तेषां जिज्ञासाया: समाधानं अकरोत् तथा जी. एस. टी इति  नियमं पालयितुं प्रेरित:।                        
                कार्यक्रमस्य प्रमुख प्रतिपाद्य "एक: देश: एक: कर:" भवतु इति अस्य पुर्ण प्रारूपोपरि तथा अस्यां समायोजित कर विभेद ( त्रिणी प्रकाराणि )उपरि समीक्षा: कृता। मुख्यत्वेन  भिन्न भिन्न श्रेणीषु कर स्लेब (5-28 ) नि:शुल्कसेवादि विषये विस्तृतं ज्ञानं दत्तं। विशेषज्ञै: कथितं यत् जनसामान्य: कर ज्ञानस्य अभावात् ग्राहक: अनावश्यकहान्या: भारं वहति। अत: जनसामान्यस्य कृते अस्य विषयस्य  ज्ञानं स्यात् स्वस्य समाजस्य देशस्य लाभाय सहैव कृष्णव्यापार: सदृशी सामाजिक अभद्रतात् देशस्य: रक्षणार्थं अग्रेसर: भवितव्य:। सहैव लक्ष्यप्राप्त्यर्थं डिजिटल इण्डिया एवं नूतन भारतस्य निर्माणार्थं सहयोगं दातव्यम्।
गोखाद्यकुम्भकोणं - लालुप्रसाद यादवः पुनरपि दण्डितः। 
          राञ्ची > गोखाद्यकुम्भकोणमनुबद्ध्य तृतीये व्यवहारे आर् जे डि दलस्य देशीयाध्यक्षः लालुप्रसादयादवः पञ्चसंवत्सराणां कारागारवासाय दण्डितः। बीहारस्य भूतपूर्वमुख्यमन्त्री तथा कोण्ग्रस् दलस्य भूतपूर्वनेता जगन्नाथमिश्रः च ५ वर्षाणां कारागृहदण्डनाय विहितः।  १९९२-९३ काले सर्वकारवित्तकोशेभ्यः ३३.६७ कोटिरूप्यकाणि व्याजरेखाः समर्प्य स्वायत्तीकृतानीति व्यवहारे एवायं विधिः।

Thursday, January 25, 2018

राष्ट्रपतिना धनं दत्तम्, चतुर्दशवयस्केन चत्वारः कराबद्धाः बहिरानीयन्ते|

         भोपाल् > अध्ययने कुशलः इत्यनेन भारतस्य राष्ट्रपतेः हस्तात् लब्धानि दशसहस्रं रुण्यकाणि उपयुज्य आयुष् किशोरः नामकः चतुर्दशवयस्कः चत्वारान् काराबन्धितान् बहिरानयति। लघुदोषेण द्वि सहस्रं रुप्पकाणि वा दण्डनं लब्ध्वा  तनि प्रत्यर्पणाय नास्ति इत्यनेन कारायां बन्धितानां चतुर्णमेव  एवं बहिरागन्तुं भाग्यः सिद्ध्यते। श्वस्तन-गणतन्त्रदिने चत्वारः कारागृहात् मोचिताः भविष्यन्ति।  

            विशेष-श्रेष्ठतायै २०१६ तमे लब्धस्य राष्ट्रियपुरस्कारस्य राशिः एव किशोरः एवं व्ययीकरोति। गणित विषये विद्यमान कौशलस्य सम्मानन रूपपेण आसीत्  राष्ट्रपतिना  दशसहस्रं रुप्यकाणि दत्तानि। 
 राष्ट्रिय, राष्ट्रान्तर गणितस्पर्धासु बहुवारं विजयीभूतः एषः ' लिंका पुस्ति'कायां राष्ट्रियख्यातिः सम्पादितवान्। यु के वेल्ड् रेक्कोर्ड् विश्वविद्यालयात् सुवर्णपतगः तथा ओणररि डाक्टरैट् च चतुर्दशवयस्केन आयुष् किशोरेण सम्प्राप्तः  अस्ति।

Wednesday, January 24, 2018

Episode 74
संस्कृतपत्रकारितायां त्रैमासिक-एडवांसपाठ्यक्रमस्य शुभारम्भ: 
-पुरुषोत्तम शर्मा
      नवदिल्ली>श्रीलालबहादुरशास्त्रीराष्ट्रिय-संस्कृतविद्यापीठेन भारतीयजनसञ्चारसंस्थानेन च संयुक्तरूपेण जनवरी मासस्य षोडशे दिने संस्कृतपत्रकारितायां त्रैमासिक-एडवांस पाठ्यक्रमस्य शुभारम्भो विहित:। अस्मिन् कार्यक्रमे पत्रकारिता जगत: नेके गणमान्या: उपस्थिता: आसन्। विद्यापीठस्य कुलपति: प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्षं निरवहत्। 
    अत्रावसरे मुख्यातिथित्वेन केन्द्रीयपत्रसूचनाकार्यालयस्य अथ च रेलमंत्रालयस्य महानिदेशकेन अनिलकुमारसक्सेनावर्येण संस्कृतभाषाया: वैशिष्ट्यं प्रकटयता पत्रकारिताक्षेत्रे संस्कृतस्यावश्यता सबलम प्रतिपादिता, आङ्गलसङ्गणकाभ्यां सह संस्कृतस्य प्रयोगेण राजभाषाकार्यालयेषु श्रेष्ठतमशब्दावली निर्माणस्य संभावनादृशि युवान: सम्प्रेरिता:। येन संस्कृतयुववर्ग: युवभारतस्य निर्माणे विशेषयोगदानं प्रदद्यु:। 
  सम्मानिततिथिना भारतीयजनसञ्चारसंस्थानस्य महानिदेशके डॉ. के.जी. सुरेशेण स्कृतपत्रकारिताया: भाविस्वरूपो व्याख्यायित:। सारस्वततिथि: दिल्ली संस्कृताकादम्या: अध्यक्षा डॉ. कान्तारानी भाटिया विशिष्टातिथि: पार्थसारथी थपलियाल: डॉ.ऋतुराजपूत: विनोदमल्होत्रा च  पाठ्यक्रमस्य उद्घाटनकार्यक्रमे उपस्थिता: आसन् ।  समागततिथिभि: छात्रेभ्य:  प्रमाणपत्राणि प्रदत्तानि । सममेव पाठ्यक्रमसम्बन्द्धमहत्त्वपूर्णविवरणं च प्रदत्तम्। 
संस्कृतपत्रकारिताया: विद्यार्थिनां आधुनिकपत्रकारितया सह संयोजनदिशि महत्त्वपूर्णपदक्षेपस्य श्रेय: पाठ्यक्रमस्य संयोजिकायै प्रो.कमलाभारद्वाजवर्यायै गच्छति। संस्थानद्वयस्य मिथ: सेतुरूपेस्य पाठ्यक्रमस्य विशेषता वर्तते यत् छात्रा: द्विविधशिक्षकाणां निर्देशनं प्राप्स्यन्ति। अस्मिन् क्रमे विद्यापीठेन विगतवर्षे एकवर्षीय: ( पी.जी डिप्लोमा) पत्रकारिता पाठ्यक्रम: संचालित: आसीत् , यस्मिन् त्रिंशच्छात्रै: अध्ययनं प्राप्य कार्यं प्रारब्धम् ।

Tuesday, January 23, 2018

जनतन्त्रस्य सुस्थितये स्वतन्त्रनियमव्यवस्था अनिवार्या - न्यायाधीशः चेलमेश्वरः
           नवदिल्ली>जनतन्त्रस्य सुस्थितये स्वतन्त्रा पक्षरहिता नियमव्यवस्था अनिवार्या इति न्यायाधीशेन चेलमेश्वरेण उक्तम्। सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशं दीपक् मिश्रां विरुद्ध्य कृतस्य  वार्तामेलनानन्तरं भाषमाणः आसीत् सः। नवदिल्याम् आयोजिते पुस्तकप्रकाशनसन्दर्भे आसीत् तस्य अभिमतप्रकाशनम्। जनानाम् उत्कर्षं लक्षीकृत्य  सर्वोच्चन्यायालयस्य प्रवर्तनानि पोषणीयानि इत्यपि तेन उक्तम्।
सर्वेषु पट्टिकाशकटेषु CCTV छायाग्राही संस्थाप्यते।
        नवदिल्ली> यात्रिकाणां सुरक्षायै सर्वेष्वपि रयिल् यानेषु रयिल् निस्थानेषु च सि सि टि वि छायाग्राही उपयुज्य निरीक्षणं कर्तुं  रयिल् विभागः सज्जः अभवत् । 3000 कोटि रुप्यकाणि एतदर्थं 2017 - 18 तम संवत्सरस्य केन्द्र आर्थिकासूत्रणे निवेश्यते इति वार्ताहरसंस्थया आवेदितम्। 11,000 यानेषु 8,500 रयिल् निस्थानेषु च नूतना छायाग्राही संस्थापयितुम् उद्दिश्यते। 12 लक्षं छायाग्राहिण्यः एतदर्थम् अवश्यकानि। यानस्य प्रति प्रकोष्टं प्रति 8 छायाग्राहिण्यः संस्थापयिष्यन्ते। द्वाराणि तथा विन्यस्तानाम् आसन्धानां मध्यमार्गाः च छायाग्राहिण्यः दृष्टिकोणे अन्तर्भविष्यति।
जर्मनी ईस्रायेल् च उभयसौहृदं शक्तीकुरुतः।
जेरुसलेम्> जर्मनी ईस्रायेल् च उभयसौहृदं शाक्तीकुरुतः। तेन अनुबन्ध्य ईस्रायेल् प्रधानमन्त्रिणा बन्चमिन् नेतन्याहुना सह दर्मन् विदेशकार्यमन्त्री सिग्मर् गब्रियेल साक्षात्कारः करिष्यति। ईस्रायेल् राष्ट्रस्य टेल् अवीव् मध्ये जनुवरी २९ दिनात् ३० पर्यन्तं प्रचाल्यमाने इन्स्टिट्यूट् फोर् नाषणल् सेक्यूरिट्टी स्ट्टीस् इतेयस्य एकादशतमे सम्मेलने भागभाक् कर्तुं जर्मन् विदेशकार्यमन्त्री इस्रायेलं आगच्छति। जनुवरी एकत्रिंशत् तमे ईस्रायेल् राष्ट्रे द्वयोः साक्षात्कारः प्रचलति।

Monday, January 22, 2018

केरले ४५,००० कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं प्राप्नुवन्ति; उद्घाटनम् अद्य। 
        अनन्तपुरी >केरलराज्ये सार्वजनीनशैक्षिकसंरक्षणयज्ञस्य अनुबन्धतया कक्ष्याप्रकोष्ठानि उन्नतपारिभाषिकत्वं [Hi-Tech] प्राप्नुवन्ति। प्रथमसोपाने पञ्चचत्वारिंशत् सहस्रं प्रकोष्ठानि एतद्वैशिष्ट्याय सिद्धानि सन्ति। एतस्य औपचारिकमुद्घाटनम् अद्य अनन्तपुर्यां टागोर् नाट्यशालायां मुख्यमन्त्रिणा पिणरायि विजयेन क्रियते। तथा च एकलक्षं छात्राणां 'लिटिल् कैट्स्' [Little Kites] नामकस्य ऐ टि सङ्गमस्य उद्घाटनमपि सम्पत्स्यते। 
     ४५,००० कक्ष्याप्रकोष्ठेषु 'लाप् टाप्' , 'प्रोजेक्टर्' , 'स्पीक्कर्' , 'ब्राड् बान्ट' अन्तर्जालसुविधा इत्यादिसुविधाः आस्याम् आयोजनायां लप्स्यन्ते। ४७७५ विद्यालयाः Multifunctional printer, Digital camera, Television, Webcam, Surveylance system इत्यादीनि उपकरणान्यपि अध्ययनसुविधायै लभन्ते।
आम् आद्मी सामाजिकानाम् अयोग्यता - राष्ट्रपतिना अङ्गीकृता। 
              नवदिल्ली > आयकरं पदद्वयं युगपद्वहन्ति इत्यारोप्य दिल्लीशासनपक्षे विद्यमानानां २० आम् आद्मी दलसामाजिकानां अयोग्यतां कल्पयितुमुद्दिश्य निर्वाचनसंस्थया समर्पितम् आवेदनं राष्ट्रपतिना रामनाथकोविन्देन अङ्गीकृतम्। नियममन्त्रालयेन तदधिकृत्य विज्ञापना अपि प्रकाशिता।  षण्मासाभ्यन्तरे प्रस्तुतेषु २० मण्डलेषु उपनिर्वाचनं भविष्यति।

Sunday, January 21, 2018

यानचलकानां अश्रद्धया ११०१८ अष्टादशाधिक एकादश सहस्रं प्राणाः विनष्टाः।
         अनन्तपुरी> वाहनचालकानाम् अनवधानतया गत-संवत्सर-त्रयाभ्यन्तरेण अष्टादशाधिक एकादश सहस्रं  मनुष्याणां प्राणाः विनष्टाः। केरळ राज्यस्तरीय गणना भवति इयम् । अष्टादशशतं (१८००) गुरुतरया रीत्या क्षताः च इति आरक्षकाणां गणना
         अनया गणनया  इदानीं  अनुवर्तामानायाः यानचालकाध्ययने  पाठन-अभ्यास प्रणाल्याः अपर्याप्ततायाः  प्रमणमिति  वक्तुं शक्यते। यानचालक-परीक्षा कालानुसृतं परिष्कर्तुं यन्त्रयानविभागोन न उद्युक्तम्। यान चालने प्रथमस्तरे विद्यमानाः अपि परीक्षायाम्  उत्तीर्णतां प्राप्नुवन्ति। यानस्य चालनसमये चलदूरवाणीनाम् उपयोगः, मद्यं पीत्वा यानचालनं च यानादुर्घटनायाः मुख्यकारणत्वेन वदन्ति।

दिल्ल्याम् अग्निबाधा - १७ मरणानि।
      नवदिल्ली > उत्तरपश्चिमदिल्ल्यां बवाना उद्योगमण्डले ध्वनकनिर्माणशालायां सञ्जातायाम् अग्निबाधायां सप्तदश जनाः मृताः इति सूच्यते। दशानां मरणम् आरक्षकैः स्थिरीकृतम्। अनेके भवनान्तर्भागे निबद्धाः इति सन्देहः।
अमेरिक्कायाः सर्वकारवित्तकोशः पिहितः।
        वाषिङ्टण् > फेब्रुवरी १९ पर्यन्तं सर्वकारव्यवहारान् सञ्चालयितुम् उद्दिश्यमाणाय आयव्ययपत्राय सेनट् सभया अनुमतिः न दत्ता इत्यतः अमेरिक्कायाः सरवकारवित्तकोशः पिहितः। आयव्ययपत्रविधेयकं सभायां ४८ विरुद्ध्य ५० मतदानैः पराजितमभवत्। वित्तकोशस्य पिधानेन सर्वकारकार्यालयाश्य पिधातुमारब्धाः।
    चतुर्भ्यः वर्षेभ्यः पूर्वं समानः प्रतिसन्घिः अमेरिक्कायां सञ्जात आसीत्। बराक् ओबामा इत्यस्य शासनकाले २०१३तमे १६ दिनानि वित्तकोशः पिहितः भूतः।

Saturday, January 20, 2018

काश्मीरे द्वयोः सैनिकयोः वीरमृत्युः। 
            जम्मू > सीमायां पाक्सैन्यस्य भुषुण्डिप्रयोगे द्वौ भारतसैनिकौ वीरमृत्युं प्राप्तवन्तौ। एकः केरलीयः साम् एब्रहामः, अपरः उत्तरभारतीयः जग्पाल् सिंहश्च। साम् एब्रहामः मद्रास् रजिमेन्ट् विभागस्य लान्स् नायिक् पदस्थः अस्ति। जग्पालसिंहः बि एस् एफ् मध्ये प्रधानारक्षकः अस्ति। भारतसीमीयां सुन्दर्बनि प्रदेशे किमपि प्रकोपनं विनैव पाकिस्थानस्य सैन्येन भुषुण्डिप्रयोगः कृतः। इदानीं भारत-पाक् सीमा संघर्षभरिता वर्तते।
 आम् आदमीदलस्य  २० सामाजिकसदस्यान् अयोग्यान् कर्तुं केन्द्रनिर्वाचनसमित्या: आदेश:।
 -रम्या पि यु
             नवदिल्ली:>दिल्लीप्रशासकस्य आम् आदमीदलस्य प्रतिक्रियारूपेण २० ( विंशति:) सामाजिकसदस्यान् अयोग्यान् कर्तुं केन्द्रनिर्वाचनसमित्या: आदेश:। द्वन्द्वपदवीम् ऊढवत: अयोग्यान् कर्तुं निर्वाचनसमिति: राष्ट्रपतिम् अपेक्षिता। शुक्रवारे प्रात: आयोजितायां निर्वाचनसमित्या: सम्पूर्णयोगे एवं एष: निर्णय: स्वीकृत:। आन्तरिकस‌ङ्घर्षेण निर्मथ्यमानस्य ए ए पी नेतृत्वस्य उपरि महाप्रहर: एष: निर्णय:। संसदसभासचिवत्वेन अपि विराजितवन्त: एते द्वन्द्वपदवीं वहन्ति इति अवलोकनम् अनुवर्त्य एवं समित्या: निर्णय:। समित्या: निर्णयं विरुद्ध्य न्यायालयम् उपेष्यतीति आम् आदमी दल: असूचयत्।  किन्तु सप्तत्यङ्गसभायां षट्षष्टिअङ्गानाम् भूरिपक्षे सति विंशतीनाम् अयोग्यत्वेपि षट्चत्वारिंशदां सहमति: सर्वकारस्य रहते।
वर्तमाने सर्वासां समस्यानां समाधानं भगवद्गीतायामेव नाथूलाल सुमनः।
वार्ताहर: - दीपक शास्त्री
            जयपुरम्> गुरुवासरे १८/०१/२०१८ दिनाङ्के राजगङ्गा चेरिटेबल ट्रस्ट एवं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालय: इत्यनयो: संयुक्ततत्वावधाने गीता-पाठ-प्रतियोगितायाः आयोजनं राजकीय महाराज वरिष्ठोपाध्याय संस्कृत विद्यालये जातम्। प्रतियोगितायामस्यां पञ्चविंशति प्रतिभागिन: भागं गृहीतवन्त:। राष्ट्रियसंस्कृतसंस्थानस्य छात्र: सुखदेव शर्मा प्रतियोगितायां प्रथमं स्थानं प्राप्तवान्। दिल्ली-पब्लिक-विद्यालयस्य छात्रा रानिया सैन द्वितीयं स्थानं तथा स्थानीयविद्यालयस्य छात्र: कौशलेन्द्र जैमिनी तृतीयं स्थानं प्राप्तवान्। पारितोषिकरूपेण प्रथमस्थानस्य कृते एकत्रिंशत् शतं रूप्यकाणि, द्वितीयस्थानस्य कृते एकविंशतिशतं रूप्यकाणि, तृतीयस्थानस्य कृते एकादशशतं रूप्यकाणि पदत्तानि। 
                 कार्यक्रमे राज ट्रस्ट इत्यस्य संस्थापिका डॉ. राजेश्वरी भट्टमहोदया गीतायाः महत्त्वं प्रतिपादितवती। संस्कृत भारती जयपुरप्रांतस्य उपाध्यक्ष: श्री नाथूलाल सुमनमहोदयः उक्तवान् यत् वर्तमाने सर्वासां समस्यानां समाधानं गीतायामेव अस्ति। प्रो. ताराशंकर पाण्डेय महोदय: उक्तवान् यत् सुख-दुःखं वयं समत्वयुक्ताः भवेमः। संस्कृत भारती जयपुरप्रांतस्य अध्यक्ष: श्री हरिशंकर भारद्वाजमहोदयः उक्तवान् यत् गीता विश्वस्य सर्वश्रेष्ठ: ग्रन्थोस्ति। जयपुर महानगरस्य अध्यक्ष: श्री प्रकाश शर्मा महोदयः उक्तवान् यत् गीतायां  सकारात्मक विचाराणां समावेशोस्ति, ते विचाराः वर्तमाने लाभदायकाः सन्ति। निर्णायकरूपेण डॉ. सी. पी. शर्मा महोदयः, श्री के. के. शर्मामहोदयः एवं श्री सन्तोष कुमार शर्मामहोदयः आगतवन्तः। संस्था-प्रभारी डॉ. सन्तोष कुमार शर्मामहोदयः अध्यक्षीयभाषणे सर्वेषाम् अतिथिनां धन्यवादम् आभारञ्च प्रकटितवान्। मञ्चसञ्चालनं प्राध्यापक: डॉ. अवनेन्द्र डागर: एवं डॉ. देविलालशर्मामहोदयौ कृतवन्तौ।

Friday, January 19, 2018

29 वस्तूनां 54 सेवनानां च पण्य-सेवनकरः न्यूनीकृतः।
       नवदिल्ली>केन्द्रतल राज्यतल आर्थिकोपक्रमात् पूर्वं आयोजिते पण्यसेवनकरायोगस्य उपवेशने नवविंशतिः २९ वस्तूनां तथा चतुर्पञ्चाशत् (५४) सेवनानां सेवनकरः न्यूनीकर्तुं निश्चितः। पेट्रोलियं रियल् एस्टेट् मण्डलौ अपि पण्यसेवनकर नियमस्य परिधौ आनेतुं निश्चयः न अभवत्। द्वितीयस्वामित्षु वहनेषु उपयुज्यमानस्य जैवतैलस्य, मधुरापूपानां करः न्यूनीकृतः। नूतनः करादान क्रमः जनुवरिमासस्य पञ्चविंशति दिनाङ्कात् प्रबलं  भविष्यति। केचन कर्मस्य, क्रीडोद्यानप्रवेशस्य च करः न्यूनीकृतः अस्ति।
पेट्रोलियं उत्पन्नानां भूमिव्यापारस्य च कर स्वीकरणम् अधिकृत्य आगामि उपवेशने निश्चयः करिष्यते इति केन्द्रधनमन्त्रिणा अरुण् जैट्लीमहोदयेन उक्तम्।
त्रिपुरा, मेघालया, नागालान्ट् निर्वाचनम् उद्घोषितम्। 
               नवदिल्ली > त्रिपुरा, मेघालया, नागालान्ट् इत्येषां राज्याणां विधानसभानिर्वाचनस्य दिनाङ्काः प्रख्यापिताः। त्रिपुरायां फेब्रुवरी १८, मेघालयायां तथा नागालान्टे च फेब्रुवरी २७ तमे दिनाङ्के निर्वाचनं भविष्यति। त्रिषु राज्येष्वपि मतगणना मार्च् तृतीयदिने भविष्यति। मुख्यनिर्वाचनाधिकारी अचल् कुमार् ज्योतिः निर्वाचनप्रख्यापनं कृतवान्। त्रिष्वपि राज्येषु प्रतिपदं ६० स्थानानि प्रकारेण सन्ति।
संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥   
- रम्या पि यु
          नवदिल्ली> संस्कृतं पठति चेत् धिषणाशक्ति: वर्धते, बुद्धिश्च जागृता भवतीति मतिमुन्नीय गवेषणफलम्। धमनीशास्त्रज्ञ: जयिंस् हार्ट्सेल् एव एतत्सम्बद्धः लेखं 'सयन्टिफिक् अमेरिकन्स जर्णल्' मध्ये प्रसिद्धीकृतवान्। संस्कृतलेखनेन वाचनेन च चिन्ताशक्तिविकास: बुद्धिविकासश्च जायतेति परीक्षणानाम् आधारेण स: प्रस्तौति। हार्वार्ड् सर्वकलाशालाया: संस्कृतम् पठितवान् स:। इटल्या: ट्रेन्टो विश्वविद्यालयस्य  सहप्रवर्तका: हरियानाया: नाशनल् ब्रेयिन् रिसर्च् केन्द्रस्य डो तन्मयनाथ:, डोर नन्दिनी चाटर्जी च मिलित्वा अनुसन्धानं कृतवन्त:। शास्त्रीयरीत्या यजुर्वेदं पठितान् पण्डितानेव अनुसन्धानेषु समायोजयत्।
सर्वकारकोशगृहनियन्त्रणं निराकृतं - आर्थिकप्रतिसन्धिः लघूकृतः।
                   अनन्तपुरी > केरले सर्वकारवित्तकोशगृहेषु अनुवर्तमानम् आर्थिकनियन्त्रणं निराकृतम्। द्विसहस्रंकोटि रूप्यकाणि ऋणरूपेण सङ्कलितानि इत्यत एव धनप्रतिसन्धिः लघूकृत इति राज्यस्य वित्तमन्त्री डो. तोमस् ऐसक्कः उक्तवान्। पञ्चकोटिरूप्यकाणाम् आर्थिकव्यवहारेषु परं नियन्त्रणं न भविष्यति।

Thursday, January 18, 2018

दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानि तत्समय-प्रसारणं कुर्वन्ति।
               नवदिल्ली> रक्षाकर्तृभ्यः विद्यालयस्य प्रवर्तनानि यथाकालं दृष्टुम् दिल्लीस्थसर्वकार विद्यालयेषु CCTV उपयुज्य दृश्यानं  तत्समय-प्रसारणं दृष्टुं रक्षाकर्तारः प्रभवेयुः। दिल्लीमुख्यमन्त्रिणा अरविन्द्‌केजरिवाल् महोदयेन ख्यापितम्। सर्वेषु सर्वकारीय विद्यालयेषु मासत्रयाभ्यन्तरेण छायाग्राही स्थापयिष्यते इत्यपि तेन उक्तम्। सर्वेषां रक्षा कर्तॄणाम् स्वस्य अपत्यस्य कक्ष्याप्रकोष्टः समर्थदूरवाणि द्वारा दृष्टुं शक्यते। विद्यार्थिनां सुरक्षायाः भागतया एव अयं प्रक्रमः। गुड्गावस्य वैयक्तिक विद्यालये सप्तवयस्कस्य निधनस्य कारणतया एव इयं सुराक्षा प्रक्रमः। विद्यालय-सुराक्षानुबन्धतया आयोजितः विशेषावलोकनो पवेशनानान्तरमेव आसीत् मुख्यमन्त्रिणः  इदं प्रख्यापनम्।
अतिशैत्येन हिमकणानि पक्ष्मणोः अपि घनीभूतानि। तापमानं -६२ं
       ओम्याकोणः> भूम्यां जनावासप्रदेशेषु अति शैत्यम् अनुभूयमानं भवति सैबीरिया। सैबीरिया देशस्थ ओम्याकोणस्य तापमानः -६२ डिग्री इति न्यूनीभूतः अभवत्। पक्ष्मणोः अपि हिमकणानि घनीभूतानि इत्यस्य प्रमाणत्वेन सामूहिक माध्यमेषु अपि तैः चित्राणि प्रकाशयन्।  तापमानस्य  न्यूनता सामान्य तापमापिन्यः भग्नान्यभवन्। तदा विद्युत्मापिनीम् उपयुज्य मापनं कृतम् । तदा न्यूनतापमानः -६२डिग्री  सेल्स्यस्  इति ज्ञातम् इति सैबीरियस्थ वार्ता पत्रिकया आवेदितम्।
ऐ एस् एल् पादकन्दुकस्पर्धायां केरला ब्लास्टेर्स् पराजितम्।
जम्षट्पूर् > ऐ एस् एल् पादकन्दुकसपर्धापरम्परायां केरला ब्लास्टेर्स् दलं जम्षट्पूर् दलेन पराजितम्। एकं विरुद्ध्य लक्ष्यकन्दुकद्वयेनैव केरलस्य पराजयः।

Wednesday, January 17, 2018

हज्ज् धनानुकूल्यम् अवस्थापितम्।
        नवदिल्ली > भारतस्य  हज्ज्तीर्थाटकेभ्यः कृते दीयमानं धनानुकूल्यं [Subsidy]  अवस्थापयितुं केन्द्रसर्वकारेण निर्णीतम्। अस्मात् वर्षादारभ्य  तीर्थाटकाः धनसाहाय्यं न लभन्ते। केन्द्रस्य न्यूनपक्षक्षेममन्त्रिणा मुख्तार् अब्बास् नख्वि वर्येण इदं वृत्तान्तं स्थिरीकृतम्।
     साहाय्येन विनियुक्तं धनं इस्लाममहिलानां क्षेमाय तथा मुस्लीं बालिकानां अध्ययनकार्याय उपयोक्तुमेव सर्वकारस्य पर्यालोचना। शासनानुशासनपीठस्य २०१२ तमवर्षस्य आदेशमनुसृत्यैव अयं निर्णय इति मन्त्री प्रवोचत्। प्रीणनं विना अभिमानेन न्यूनपक्षशक्तीकरणमिति सर्वकारलक्ष्यमेवानेन उद्दिश्यते -  नख्विना स्पष्टीकृतम्।
मुम्बई उदग्रयानदुरन्तः - वैमानिकस्य मृतशरीरं सन्दृष्टम्।
          मुम्बई > ओ एन् जि सि संस्थायाः उदग्रयानदुरन्ते अन्तर्भूताः सप्त जना अपि मृताः इति स्थिरीकृतम्। दुर्घटनानन्तरं संवृत्ते अन्वेषणे सप्तमं मृतशरीरमपि सन्दृष्टम्। वैमानिकस्य 'वि सि कटोच्चे' नामकस्येदं शरीरमिति प्रत्यभिज्ञातम्। गतशनिवासरे एव मुम्बई समीपे समुद्रे उदग्रयानं पतितम्।
आत्मरक्षार्थं निलीयमानः अभवदिति प्रवीण् तोगाडिया।
      अहम्मदाबाद् > भा ज दलस्य शासने वर्तमानयोः राजस्थान् गुजरात् राज्ययोः आरक्षकदलेन आत्मानं संघट्टनेन अवसादयितुम् उद्यमः कृत इति विश्वहिन्दुपरिषदः अन्ताराष्ट्र कर्माध्यक्षः प्रवीण् तोगाडिया वार्ताहरसम्मेलने आरोपितवान्।
      केषुचित्पुरातनव्यवहारेषु निबन्धनादेशमनुसृत्य परिषदः कार्यालयं प्राप्तमारक्षकबलं वञ्चयित्वा गतदिने गूढगमनं कृतवन्तं तोगाडियावर्यं रात्रौ विवशः सन् आतुरालयं प्रवेशितः आसीत्। आतुरालये संवृत्ते वार्ताहरसम्मेलने आत्मानं विरुद्ध्य गूढालोचना वर्तते इति तेन आरोपितम्।
मध्यप्रदेशस्य मुख्यमन्त्रिणा शिवराजसिंहचौहानेन सुरक्षाकर्मिणोपरी चपेटिकाप्रहार: कृत:
मध्यप्रदेशस्य मुख्यमन्त्रिणा शिवराजसिंहचौहानस्य  सुरक्षाकर्मिणोपरी चपेटिकाप्रहारस्य कथितदृश्यांकनं प्रसरति ।  सरदारपुरायां नैर्वाचनिकजनसभावसरे सुरक्षाकर्मिणे चपेटिकाप्रहारस्य छायाचित्रं यन्त्रे सञ्चितम् । तेन चपेटिकां प्रददता सुरक्षाकर्मी मार्गात् पृथक्कृत: । घटनेयं प्रदेशस्य राजनीतौ चर्चाविषयमुपगता । मध्यप्रदेशे कांग्रेसदलस्यस्य प्रमुखप्रवक्ता केके मिश्रेण  मुख्यमन्त्रिणं विरुध्य 332 अथ च 353 विध्यन्तर्गतं कार्याचरणम् अध्यर्थितम् । अपि चोक्तं यत् दायित्वनिरतेन कर्मचारिणा सह दुर्व्यवहार: अपराधो वर्तते।
Episode 73

Tuesday, January 16, 2018

इन्धनतैलस्य निश्शब्दमूल्यवृद्धिः। 
         कोच्ची > पेट्रोल् डीसल् इत्यादीन्धनतैलानां मूल्यं प्रतिदिनं निश्शब्दं वर्धते। अस्य मूल्यवर्धनस्य अनुरणनानि नित्योपयोगवस्तूनां मूल्यवर्धनरूपेण सामान्यजनानां जीवनक्रमे तालभङ्गं कारयति।  पेट्रोल् तैलस्य मूल्यं गतेषु चतुर्षु संवत्सरेषु उन्नततमं  प्राप्तमस्ति। डीसल् तैलस्य मूल्यं इतःपर्यन्तम् अत्युन्नतं प्राप्तम्। डिसम्बर् २९ दिनाङ्कादारभ्य दिनंप्रति पेट्रोल् तैलस्य १२ पैसा , डीसल् तैलस्य २० पैसा क्रमेण वृद्धिः जायते। राजनैतिकदलनेतारः शासनपक्ष-विपक्षभेदं विना अन्धतां नाटयन्ति। इन्धनतैलस्य प्रतिदिनमूल्यनिर्णयरीतिः २०१७ जूण् १६ दिनाङ्कादारभ्य एव प्रावर्तिकमभवत्।

Monday, January 15, 2018

इस्रायेल् प्रधानमन्त्री भारतसन्दर्शनाय प्राप्तः। 
      नवदिल्ली > षड्दिवसीय भारतसन्दर्शनाय इस्रायेलराष्ट्रस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहू वर्यः भारतं प्राप्तवान्। भारतप्रधानमन्त्री नरेन्द्रमोदी साक्षादागत्य नवदिल्ली विमानपत्तनं सम्प्राप्तं नेतन्याहुवर्यं स्वीकृतवान्। २००३ तमे वर्षे एरियल् षारोण् वर्यस्य आगमनानन्तरं इदानीमेव इस्रयेल् प्रधानमन्त्रिणः भारतसन्दर्शनं सम्पद्यते। 
     कृषिः, साङ्केतिकविद्या, शास्त्रं, बहिराकाशः, जलं, संरंभकत्वम् इत्यादिविषयेषु परस्परसहयोगमधिकृत्य चर्चा भविष्यतीति विदेशकार्यमन्त्रालयवक्ता अब्रवीत्। १३० अङ्गसंघैः सह एव नेतन्याहुवर्यस्य भारतपर्यटनम्। गुजरात् मुम्बई प्रदेशेषु अपि तस्य सन्दर्शनं भविष्यति।

Sunday, January 14, 2018

विद्यालयस्तरादारभ्य योगः अध्येतव्य इति केन्द्रविभावनम् – मन्त्री श्रीपादः। 
               कोच्ची > विद्यालयस्तरादारभ्य योगशास्त्रं पाठ्यविषयत्वेन स्वीकरणीयमिति केन्द्रसर्वकारस्य नयः इति केन्द्र आयुष्मन्त्रिणा श्रीपाद यशोनायिक् वर्येणोक्तम्। कोच्चीमध्ये 'पतञ्जलि योग ट्रयिनिंग् आन्ड् रिसर्च् सेन्टर्' संस्थायाः "नमामि योगम् २०१८" नामकं साधकसङ्गमं योगपैतृकपुरस्कारसमर्पणं च उद्घाटनं कुर्वन् भाषमाण आसीत् केन्द्रमन्त्री। 
               योगशास्त्रस्य अधिकप्रचाराय प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रयत्नः केन्द्रमन्त्रिणा संस्तुतः। सज्जीवनस्य मार्गः एव योगपरिशीलनेन सिद्ध्यति। मारकरोगान् प्रतिरोद्धुं च योगानुशीलनेन साध्यते इति तेनोक्तम्।
तैल-प्रकृतिवातकनिगमस्य उदग्रयानं समुद्रे पतित्वा ५ मृताः , द्वावदृष्टौ। 
        मुम्बई > तैल-प्रकृतिवातकनिगमस्य [ओ एन् जि सि] अधीशत्वे वर्तमानम् उदग्रयानं विशीर्य समुद्रे पतितम्। निगमस्य पञ्च वरिष्ठाधिकारिणः तथा द्वौ वैमानिकौ उदग्रयानमुपस्थिताः आसन्। तेषु पञ्चानां मृतदेहाः लब्धाः। केषां मृतशरीराणीति स्थिरीकरणं न लब्धम्। 
       मुम्बय्यां जूहू तटात् 'मुम्बई है'स्थं तैलखनन-पर्यवेषणकेन्द्रं प्रति प्रस्थितं पवनहंसनामकम् उदग्रयानं शनिवासरे प्रभाते सार्धत्रिवादने एव प्रभञ्ज्य समुद्रे अपतत्। दुर्घटनाविधेयेषु त्रयः केरलीयाः सन्ति। ते ओ एन् जि सी संस्थायाः उत्पादनविभागे उपमहाप्रबन्धकाः आसन्।

Saturday, January 13, 2018

 युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः , - डाँ. के.साम्बशिवमूर्तिः
वार्ताहरः - दीपक शास्त्री

       जीवने सर्वदा स्वामीविवेकानन्दस्य इव आचरणं कर्तव्यपालनम् च करणीयम्। गुरुं प्रति निष्ठावन्तःभवेयु:। नवभारतस्य निर्माणे संस्कृतशिक्षकाणां संस्कृतछात्राणां च मुख्यं दायित्वं वर्तते। युगेऽस्मिन् संस्कृतक्षेत्रात् भविष्यति नवविवेकानन्दः इति डॉ साम्बशिव मूर्तिना  उक्तम् । जगद्गुरु रामानन्दाचार्य राजस्थानसंस्कृत विश्वविद्यालये जनवरी मासस्य द्वादश  दिनांके स्वामीविवेकानंदस्य एकशताधिक पंचपंचाशत् जयन्त्या: उपलक्ष्ये कार्यक्रमस्य आयोजने अध्यक्षभाषणं कुर्वन्  आसीत्  सः।  विशिष्टातिथि: व्याकरण विभागाध्यक्ष: डॉ प्रमोदशर्मणा उक्तं यत् चरित्रनिर्माणम् एव जीवनस्य निर्माणं वर्तते जीवने चरित्रस्य मूल्यं महत्वपूर्णमस्ति उत्तमेन चरित्रेण वयं जीवने सर्वस्वं प्राप्तुं शक्नुम: अस्मिन् अवसरे सारस्वतातिथि: अशोकतिवारी महोदयेन  उक्तं यत् यदा अस्माकम् इच्छा विवेकानंदस्य सदृशी भविष्यति  तदा अस्मान् रामकृष्णपरमहंस: सदृश: गुरो: प्राप्तिर्भविष्यति । भारतीयाः स्वकीयाध्यात्मबलेन विश्वं जेतुं प्रभवन्ति । मानवदेहस्य  मुख्य-तत्वानि ज्ञातृत्व मन्तृत्व कर्तृत्वानि सन्ति। अनन्तरं मुख्यवक्ता डॉ विनोदशर्मणा उक्तं यत् हिंदूधर्म: अतीव समुन्नत:। हैन्दवाणां सभ्यता अतीव समृद्धास्ति सर्वेषां जनानां दायित्वं अस्ति यत् स्वामीविवेकानन्दः येन प्रकारेण अस्माकं संस्कृति वैश्विकस्तरे प्रतिष्ठापिता ।   भारत: विश्वगुरु: स्यात् अतः वयं कटिबद्धाः भवेम:। अनन्तरं कार्यक्रमे विभागीय  छात्रः मोहित: पूनम् शाक्य घनश्यामः शिवानी शर्मा  भूपेश चौबीसा जुगलव्यास: चंद्रहंसः अमित कुमार झा दीनदयाल: मोहनः लोकेशःदेवन्द्रः निखिलादयः स्वकीय विचारान् अप्रकटयन्। सर्वेषाम् विभागाणां शिक्षकवृंदा: छात्रा:कार्यक्रमे समुपस्थिता: आसन्। मंच संचालनम् विभागीयछात्रौ आशीषगजेन्द्रौ कृतवन्तौ।
राष्ट्रस्य परमोन्नततीतिपीठे विश्वासप्रतिसन्धिः। 
नवदिल्ली > राष्ट्रस्य परमोन्नतनीतिपीठस्य विश्वास्यतां कण्टकाग्रे संस्थाप्य सर्वोच्चन्यायालयस्य शासनसंविधानं मुख्यन्यायाधिपं च विरुध्य तत्रस्थाः चत्वारः वरिष्ठन्यायमूर्तिनः रङ्गप्रवेशं कृतवन्तः। न्यायाधिपाः जे. चेलमेश्वरः, रञ्जन् गोगोय्, मदन् बि लोकुर्, कुर्यन् जोसफः इत्येते गतदिनस्य न्यायालयकार्यक्रमान् स्थगयित्वा वार्ताहरसम्मेलनं कृतवन्तः। यदि नीतिन्यायसंविधानं न संरक्षिष्यति तर्हि जनाधिपत्यस्य दुर्घटना भविष्यतीति तैः तीव्रभाषया उक्तम्।

Friday, January 12, 2018

भारतस्य १०० तमः उपग्रहः बाह्याकाशं प्राप्तः भारतानां अभिमाननिमेषः।
           श्रीहरिक्कोट्ट> भारतस्य शततम उपग्रहः भ्रमणपथं प्राप्यात्‌ ऐ एस् आर् ओ संस्थया। अद्य प्रातः ९: ४५ वादने आसीत् विक्षेपणम्। कार्टो साट् २ श्रेणीस्थः उपग्रहेन सह त्रिशत् उपग्रहाः आसन्।  भारतस्य द्वाै उपहौ आस्तां अस्मिन् विक्षेपणे। अन्ये उपग्रहाः अन्येषां राष्ट्राणामेव। पि एस् एल् वि सि ५० इतिआकाश बाणः भवति  उपग्रहाणां वाहकः। विक्षिप्ते उपग्रहयो: भारतभूविभागस्य सुव्यक्त चित्र-ग्रहणाय विशेषचित्रग्राही अपि स्तः इति विशेषता।  एतयोः भारः 710 किलोग्रॉ मितः । भूमीतः505 किलोमीट्टर् दूरे भवति एतयोः भ्रमणपथः । 
वयः चत्वारः पुस्तकशतं पठति प्रतिदिनम्।
-विशेष वार्ताः
काव्यशास्त्रविनोदेन 
कालोगच्छति धीमताम्।
व्यसनेन च मूर्खाणां
निद्रया कलहेन वा ॥
                 इति श्लोकः प्रसिद्धः खलु ?    पुस्तकवाचने उत्सुकाः लोके बहवः सन्ति। किन्तु प्रतिदिनं शतम् पुस्तकानि वाचयितुं शाक्यते वा ? शक्यते इत्यस्य निदर्शनभूतः चतुर्वयस्कः बालकः अस्ति। चिक्कागो नगरस्थः कलेब् ग्रीन् इति नामकः बालकः।
               एकस्मिन् दिने तेन उक्तम्  तस्मै वाचनाय शतं पुस्तकानि आवश्यकानि इति। तस्य पित्रा सैलसेन सा क्रीड़ा-वाक्यमिति चिन्तितम्। पुत्रस्य दृढनिश्चयेन प्रभावितः पिता तस्मै साहाय्यमकरोत्। सार्धद्विहोराभ्यः पुस्तकशतं वाचयितुं तस्य प्रयत्नः सफलतामवाप। तथा कलेब् ग्रीनस्य वाचनं तस्य पिता सैलसः एव मुखपुस्तिकायं तस्मिन्नेव काले प्रसारयत् ।
                मम नाम कलेब् ग्रीन् अहं शतं पुस्तकानि इदानीं पठामि इति उक्त्वा एव चलनमुद्रिका प्रारभते। त्रयघण्डा-परिमितं चलन मुद्रिका सम्प्रेषणं दृष्वा बहवः जनाः रोचते इति मुद्रया मुखपुस्तिकायाम् मुद्राङ्कनम् अकरोत् ।

Thursday, January 11, 2018

कनककिरीटं कोष़िक्कोट् जनपदाय।
         तृश्शिवपेरूर् > केरलराज्यस्तरीयविद्यालयकलोत्सवः समाप्तः। अघिकतमाङ्कप्राप्तस्य जनपदस्य कृते दीयमानं सुवर्णकिरीटं कोष़िक्कोट् जनपदेन प्राप्तम्। तैः ८९५ अङ्काः प्राप्ताः। ८९३ अङ्कैः पालक्काट् जनपदेन द्वितीयस्थानमवाप्तम्। तृतीयचतुर्थस्थाने यथाक्रमं मलप्पुरं तृश्शूर् जनपदाभ्यां प्राप्ते।  आगामिवर्षस्य कलोत्सवः आलप्पुष़ा जिल्लायां प्रचलिष्यति।
       राज्यविपक्षनेता रमेश् चेन्नित्तला समाप्तिसम्मेलनस्य उद्घाटनंनिरवहत्। शिक्षामन्त्री प्रोफ. सि. रवीन्द्रनाथः कृषिमन्त्री वि एस् सुनिल्कुमारः डि पि ऐ मोहन्कुमारः इत्यादयः कार्यक्रमे सन्निहिताः आसन्।
भारतस्य ८.३ प्रतिशतं वर्द्धितमिति विश्व आर्थिकालयः। एवं भारतं चैनां पारं गच्छति।
               वाषिड्डण्< सर्वकारस्य आर्जवं प्रशंस्य विश्वार्थिकालयेन भारतस्य विकासः भविष्यतीति उक्तम्। नरेद्रमोदिनः तथा भा जा पा सर्वकारं ऊर्जदायकमस्ति विश्वार्थिकालयस्य इयमुक्तिः।  आर्थिकपरिष्करणैः २०१८ तमे वर्षे भारतं ७.३ प्रतिशतं वर्षद्वयानन्तरं ७.५ प्रतिशतं च वृद्धिः प्राप्स्यति इति विश्वार्थिकालयः प्रतीक्ष्यते। २०१७ संवत्सरे ६.७ प्रतिशतं आसीत् वृद्धिः। किन्तु भारतं एतत् सर्वं अतिक्रामति इति आगोलार्थिकदर्शन प्रतिवेदने विश्वार्थिकालयः वदति।
           भारतस्य वृद्धिः बृहती  भवति। चैनायाः वृद्धिः मन्दरूपेण भवति। विश्वार्थिकालयस्य निदेशकः अय्खान् कोस् अवदत्। २०१७ तमे चैनायाः वृद्धिः ६.८ प्रतिशतमासीत्। २०१८ तमे वर्षे ६.४ प्रतिशतं च भविष्यति गणयति। आगामिनि वर्षेषु यथाक्रमं ६.३, ६.२ प्रतिशतं च भविष्यति। विश्वस्य पञ्चमं आर्थिकशक्तिरूपेण भारतं परिणमति इति सेण्टर फोर् इक्कणोमिक्स् आण्ड् बिसिनस् रिसर्च् कण्सल्टन्सी संस्थायाः प्रतिवेदने वदति। ब्रिट्टन् फ्रान्स् इत्यादि राष्ट्रौ अतिक्रम्य भारतं एनं स्थानं प्राप्स्यति। पञ्चदशवर्षाभ्यन्तरे विश्वस्य दश आर्थिकशक्तिषु ऐषियन् राष्ट्राणि पुरोगमिष्यन्तीति संस्तुत्यां वदति।

करीबिय समुद्रेषु भूकम्पः। ७.६ तीव्रता। होण्डुरास देशे सुनामि (समुद्रक्षोभः) पूर्व सूचना दत्ता ।
            टेगुसिगल्प> करीबिय समुद्रेषु ७.६ तीव्रतायां भूकम्पः सञ्जातः इत्यनेन मध्य अमेरिका भूखण्डस्थ करीबियराष्ट्रे सुनामि पूर्वसूचना प्रदत्ता अस्ति। यु एस् जियोलजिक्कल् सर्वे नाम संस्थया एव  भूकम्पः आवेदितः। मनुष्याणां मृत्युः नाभवत् इति प्राथमिक विवरणम् ।
             आलयानां भित्तिभ्रंशानां चित्राणि सामूहिकमाध्यमेषु प्रचलितानि वर्तन्ते। उत्तर अमेरिकायाः करीबिय प्रतलस्य मध्यभागे  आपन्नः भ्रंशनमेव भूकम्पस्य कारणं इति वदन्ति।

Wednesday, January 10, 2018

अन्येषां वस्तुसम्पत् भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली > अन्येषां सम्पद् भारतं न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानां राष्ट्रान्तर-लोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः। भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृष्ट्युन्मुखभावः एव भारतेन प्रदर्श्यते।।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥
अन्येषां निधिः भारताय न आवश्यकी। भारतस्य प्रधानमन्त्री।
      नव दिल्ली >  अन्येषां सम्पद् भारतः न वाञ्चति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। भारतवंशजानांराष्ट्रान्तरलोकसभा सामाजिकानां  मेलने भाषमाणः आसीत् सः । भारतस्य संबन्धः लाभनष्टानाम्  अन्तरं दृष्ट्वा न। मानवीक मूल्येषु अधिष्ठिता एव। सीमायां भारत चीनयोः विवादघटनायाः पूर्वानुभवः मनसि निधाय आसीत्  प्रधानमन्त्रिणः परामर्शः। सृजनात्मकभावः एव भारतेन प्रदर्श्यते।  आतङ्कवादान् प्रतिरोद्धुं महात्मागान्धिना अहिंसा, सत्यग्रहः च अनुष्ठितः। कौशलवर्द्धने विभवानां विकासे च भवति भारतस्य श्रद्धा इत्यपि तेन उक्तम्॥
आशंसाप्रकाशनाय संस्कृते 'मोबैल् आप्' प्रकाशितम्। 
         तृश्शिवपेरूर् > "सम्प्रति वार्ताः श्रूयन्ताम् ....." संस्कृताभिमानिनः मनसि अद्यापि नर्तमानं भारतस्य आकाशवाणीद्वारा अवतार्यमाणायाः संस्कृतवार्तायाः प्रवेशकवाक्यं भवत्येतत्। तथा इतःपरं "शतं जीव शरतो वर्धमानः" इति जन्मदिनाशंसां, "शुभमस्तु पन्थाः" इत्यादिकं यात्रामङ्गलं, ... सर्वाः आशंसाः संस्कृतभाषायां प्रकाशयितुम् अनुरूपः SansGreet नामकः जङ्गमदूरवाणीसङ्केतः [Mobile App]  प्रकाशितः। गतदिने विद्यालयकलोत्सवनगर्यां संस्कृतोत्सवस्य प्राङ्कणे राज्यस्य मन्त्रिणा वि एस् सुनिल् कुमारेण सङ्केकस्य प्रकाशनं कृतम्।

          केरलस्य केषाञ्चन संस्कृताध्यापकानां नेतृत्वे संस्कृतभाषां नूतनसाङ्केतिकाभिलाषान् प्रति संयोजयितुमुद्दिश्य प्रवर्तमानः 'नः लैव् सान्स्कृट्' नामकसंघ एवास्याः प्रणाल्याः प्रणेता। डो.एस्.एन् महेष्बाबु,डो .जे अभिलाष्, नन्दकिषोर्.आर्, विनायक्.सी.बी, दिलीप्  एम्.डी, राजेष् पी.पी,ई, सिजोय् .ई.ए लिबि पुरनाट्टुकरा, सन्दीप् के. एस् इत्यादीनां अध्यापकानां नेतृत्वे एव एषः तन्त्रांशः सज्जीकृतः।

Tuesday, January 9, 2018

राज्यसभायासदस्यानां निर्वाचनम्
पुरुषोत्तमशर्मा
                नवदिल्ली>राज्यसभानिर्वाचनाय (आम-आदमी-पार्टीति) आपदलस्य प्रत्याशित्रयं निर्विरोधिन: प्रचिता:। सञ्जयसिंह: सुशीलगुप्‍त: एन.डी.गुप्‍तश्च निर्विरोधिन: निर्वाचिता: समुद्घोषिता:। दिल्लीत: राज्यसभाया: आसनत्रयाणां कृते प्रत्याशित्रयेण नामाङ्कनं प्रपूरितमासीत्। निर्वाचनयोगेन आपदलेन प्रस्तावितानां नामानि विजेतृरूपेणोघोषितितानि।
सैन्यप्रमुखेण सैन्यबलानामाधुनिकीकरणं सबलं प्रतिपादितम् 
 पुरुषोत्तम शर्मा
          नव दिल्ली> सेनाध्‍यक्षेण जनरलबिपिनरावतेनोक्तं यत् अरुणाञ्चलप्रदेशे अवैधप्रवेशं विधाय चीनस्य श्रमिकाणां रेलपथनिर्माणसम्बद्धा घटना समीसाधिता। जनरल रावतेन नवदिल्‍ल्याम् एकस्मिन् कार्यक्रमे वार्ताहरै: सह संवादसमये प्रोक्तं यत् घटनाया: समाधानमभवत्।

        सिक्किमे अपि भारत-चीनसीम्नि स्थितिविषय् सेनाध्‍यक्षेण निगदितं यत् चीनक्षेत्रे सुरक्षाबलानां संख्‍यायां न्यूनता सञ्जाता । इत: पूर्वं  नवदिल्‍ल्यां सेना सम्बन्धिते प्रौद्योगिकी सम्‍मेलने जनरलरावत: सैन्यबलानाम्   आधुनिकीकरणं सबलं प्रतिपादितवान् ।
गान्धिवधः - पुनरन्वेषणं नावश्यकमिति 'अमिक्कस् क्यूरी'। 
               नवदिल्ली > नाथुराम् गोड्से इत्यस्मादृते न कोऽप्यन्यः महात्मागान्धिनं प्रति भुशुण्डिप्रयोगं कृतवान् इत्यस्य प्रमाणं न विद्यते, अतः अस्मिन् प्रकरणे पुनरन्वेषणं नावश्यकमिति सर्वोच्चन्यायालयेन नियुक्तः 'अमिक्कस् क्यूरी' अमरेन्द्रशरणः न्यवेदयत्।  जनुवरि १२ दिनाङ्के अस्मिन् विषये सर्वोच्चन्यायालयस्य निर्णयः भवेत्। 
               महात्मागान्धिनः हत्यामधिकृत्य पुनरन्वेषणं निवेदयन् मुम्बईस्थायाः अभिनव भारत ट्रस्ट् इत्यस्यायाः समित्याः धरन्धरः गवेषकश्च डो. पङ्कज् फड्निस् नामकेन याचिका दत्ता आसीत्। सप्ततिसंवत्सरेभ्यः पूर्वं जातं कृत्यमधिकृत्य पुनरन्वेषणयाचिकाकारस्य उद्देश्यशुद्धिं विमर्श्य गान्धिनः पौत्रः तुषारगान्धी न्यायालयं प्राप्तवानासीत्। अस्मिन् विषये सर्वोच्चन्यायालयस्य साहाय्यार्थमेव अमिक्कस् क्यूरी नियुक्तः।
 पश्चिमवंगे व्याप्यते संस्कृतम् 
               पश्चिमवङ्गानाम् उत्तरचब्बिशपरगनामण्डलस्य बारासतजनपदे महता समारोहेण २०१८वर्षीयं संस्कृतसम्मेलनं समायोजितम्। पौषकृष्णषष्ठीतिथौ जनवरीमासस्य सप्तमे दिने अपराह्णे त्रिवादनतः आयोजितस्य सम्मेलनस्य शुभारम्भः उपस्थितै अतिथिभिः दीपप्रज्वालनेन कृतः। दीपस्तुतिः अभिजित्-भट्टाचार्येण कृता। ततः सौगतमुखोपाध्यायेन सामगानेन कार्यक्रमस्य मङ्गलाचरणं विहितम्। आबीरलालगङ्गोपाध्यायेन कृतेन शिवपञ्चाक्षरस्तोत्रेण समवेताः सामाजिकाः मन्त्रमुग्धाः एव आसन्। सम्मेलनस्य प्रयोजनं प्रतिपादितवान् विप्लवचक्रवर्तिमहोदयः। संस्कृतस्य प्रसाराय प्रोत्साहनं कृतवान् विपद्भञ्जनपालमहोदयः संस्कृतसाहित्यस्य समृद्धये समाजाय वार्ता प्रेषितवान्। संस्कृतप्रसारे संस्कृतभारत्याः प्रयासानां परिचयम् अददात् संस्कृतभारत्याः दक्षिणवङ्गप्रान्तस्य सचिवः श्रीस्वपनविश्वासमहोदयः। संस्कृते अनूदितेन रवीन्द्रसङ्गीतेन अरिजिद्-गुप्तः; स्तोत्रपाठेन कल्याणपण्डाः, मौ-सुदेष्णा-सुपर्णा-मानसमहोदयाः; बालगीतेन रूपसाशर्मवर्या, रियाघोषवर्या, शतद्रीमल्लिकमहोदया च; नृत्येन प्रीतिः अन्वेषा स्नेहा रूपसा च  कार्यक्रमं रुचिकरम् अकुर्वन्। संस्कृतेन कथां कथयित्वा अष्टमवर्गीयः बालः रोहणपालः सर्वेषां मनांसि अहरत्। मौ-अभिनन्दा-प्रीति-प्रियाङ्का-रोहणैः प्रस्तुतं श्रुतिनाटकं सर्वान् अरञ्जयत्। बारासतयोगाश्रमस्य अध्यक्षपादैः स्वामिसुसिद्धानन्दसरस्वतीयतिवरैः आशीर्वादैः संस्कृतसेवकाः सनाथीकृताः। हास्यरसाश्रितं संस्कृतनाटकं श्रीरामविट्ठलविरचितं वञ्चकः शृगाल इति सर्वेषां संस्कृतप्रेमिणां हर्षम् अजनयत्। सम्मेलनसमितेः अध्यक्षेण रवीन्द्रनाथरायमहोदयेन अध्यक्षीयप्रतिवेदनस्य प्रस्तावनात् परं सम्पादकेन प्रशान्तदेवर्येण सर्वेभ्यः कार्तज्ञ्यं प्रकटितम्। अन्ते शान्तिपाठः राष्ट्रगीतं च उपस्थितैः सर्वैः समवेततया कृतम्। समग्रस्य कार्यक्रमस्य सुन्दरं सञ्चालनं

Monday, January 8, 2018

पाकिस्थानस्य आक्रमणान् प्रतिरोद्धुं भूगर्भकवचाः निर्मीयन्ते ।
          नव दिल्ली > जम्मू मण्डलस्य सीमावासिनः सुरक्षायै एव इयं योजना । नियन्त्रण-रेखायां तथा राष्ट्रान्तरसीमायां च 14,460 भूगर्भकवचाः एवं निर्मीयन्ते । 415.73 कोटि रुप्यकाणि व्ययीकृत्य निर्मीयमाणैः कवचै: सार्धैकलक्षं कोटि  जनानां सुरक्षा प्रदास्यते। नियत्रण-रेखायां पूँच्, रजौरी
जनपदे 7298, राष्ट्रान्तर-सीमायां जम्मु, कठ्व,  साम्ब जनपदेषु 7162 संख्यकाः भूगर्भ कवचाः निर्मीयन्ते। अप्रतीक्षिते आक्रमणे अपि आत्मरक्षायै जनानां उपकारकाः  भवन्ति एते भूगर्भवासस्थानानि। गतवर्षे पाकिस्थानस्य आक्रमणेन प्रदेशेऽस्मिन् 35 संख्यकाः जनाः हताः। अस्मिन् गणनायां सैनिकाः अपि अन्तर्भवन्ति।
अमितवेगेन आपन्नायां कार् यानदुर्घटनायां ५ पञ्च भारोद्वहन-क्रीडापटवः मृताः।
       नव दिल्ली> अतिकठिनेन हिमधूमपटलेन अमितवेगेन च कारयानं मार्गभित्तिषु विघट्य एव दुर्घटना जाता। दिल्ली -चण्डिघट् मार्गे रविवासरे प्रभाते आसीत् दुर्घटना। घटनायां पञ्च भारोद्वहन-क्रीडापटवः मृताः एकः क्षतः च।  मोस्को नगरे गतवर्षे सम्पन्नायां भारोद्वहन-स्पर्धायां प्रथमस्थानं प्राप्तः साक्षंयादवः नामकः अपि मृतः । याने आहत्य षट् जनाः आसन्। मृतेषु  एकः  कः इति न  प्रत्यभिज्ञातः । यानस्य उपरिभागः पूर्णतया भग्नः अभवत् ।
कलोत्सवनगर्यां संस्कृतप्रदर्शिनी अद्भुतम् उद्पादयति। 
-दिलीप् वयनाट्
नटी मालविका संस्कृत प्रदर्शिन्याः उद्‌घाटनं करोति।
     तृश्शिवपेरूर् > केरलस्य कौमारकलोत्सवेन जाज्वल्यमानायां 'पूरनगर्यां' संस्कृतोत्सवमनुबध्य विशिष्टा संस्कृतप्रदर्शिनी सज्जीकृता। ५८ तम राज्यस्तरीय विद्यालय-कलोत्सवस्य प्रथमवेदिकायाः समीपे आरब्धा प्रदर्शिनी प्रशस्तचलनचित्राभिनेत्र्या मालविकया उद्घाटिता।
         अत्र संस्कृतभाषायां विद्यमानानां मासिकीनां तथा 'आन्ट्रोय्ड् आप्' सङ्केतानां, चित्रीकरणानां, ह्रस्वचलच्चित्राणां, संस्कृतचलच्चित्राणां च विपुलं प्रदर्शनं सम्पद्यते।संस्कृतोत्सवायोजनसमित्याः नेतृत्वे 'भरतमुद्रा' संस्कृतमासिक्याः 'नः लैव् सान्क्रिट्' इत्यस्य च सहयोगेनैव प्रदर्शिनी समायोजिता।  केरले प्रथमतया अस्ति  शताधिकसंस्कृतमासिकीनाम् एतादृशं प्रदर्शनं सज्जीकृतम्। तथा च समीपकाले एव प्रदर्शनाय सिद्ध्यमानानां संस्कृतचलच्चित्राणां ह्रस्वचित्राणां विवरणात्मकप्रदर्शनानां च लघुविवरणमपि प्रदर्शितानि सन्ति।
 एकताया: अखण्डतायाश्च कृते संस्कृतम् आवश्यकम् - एस.डी. शर्मा
वार्ताहर: - दीपक् शास्त्री

              जयपुरम् > संस्कृतभारती जयपुरपक्षत: जनवरीमासस्य षष्टदिनाङ्के मानसरोवरे स्थिते आदर्श-विद्या-मन्दिरे "जनपद-संस्कृतसम्मेलनस्य" आयोजनम् अभवत्। सम्मेलनस्य अध्यक्षरूपेण राजस्थान-सार्वजनिक-प्रन्यास-मण्डलस्य सभापति: श्री एस.डी.शर्मणा उक्तं यत् भारतस्य एकताया: अखण्डतायाश्च कृते संस्कृतभाषायाः आवश्यकता अस्ति। भारत: पुनः विश्वगुरु करणार्थं संस्कृतस्य प्रचार-प्रसार: आवश्यक: वर्तते। मुख्यातिथि: आईएएस के.के.पाठकेन संस्कृतभाषायाः महत्वविषये उक्तं यत् संस्कृतभाषाया: विश्वस्य सर्वा: भाषा: उद्धृताः सन्ति। एषा अद्यतनीया वैज्ञानिकि भाषा अस्ति आगामी बौद्धिकतायाः युगः वर्तते। अस्मिन् अवसरे प्रान्तस्य सम्पर्कप्रमुख: श्रीरघुवीर शर्मणा उक्तं यत् अद्यतनीय समाजे यदि संस्कृतं व्यवहारिकी भाषा न भविष्यति तर्हि आगामी संतते: संस्कृते: नाशस्य आक्षेप: अस्माकमुपरि आरोपिष्यति।
                कार्यक्रमस्य संयोजनम् श्रीप्रकाश शर्मणा कृतम्। समारोहे अन्ये अतिथय: जगद्गुरु-अवधबिहारी देवाचार्य:, संस्कृत-भारत्या: क्षेत्रीय-सङ्गठनमंत्री: श्री हुल्लास चन्दः, आरएसएससङ्गठनस्य क्षेत्रीय-बौद्धिकशिक्षणप्रमुख: श्रीकैलाशचन्दः, राजस्थानसंस्कृतविश्वविद्यालयस्य साहित्यविभागस्य सहायकाचार्य: डॉ• उमेश नेपाल: च एते सर्वेSपि स्वकीय विचारान् अप्रकटयन् । उभयो: सत्रयो: मध्ये मनमोहकेन सांस्कृतिककार्यक्रमेण सर्वेषाम् जानानाम् मानोरंजनं कारितम्। सम्मेलनस्य प्रतिवेदनं जयपुरमहागरस्य मन्त्री: श्रीसन्तोष: शर्मणा प्रस्तुतम्। सम्मेलनस्य सम्पूर्ण-प्रबंधनं जयपुर-प्रान्तस्य प्रचारप्रमुख: जनपदस्य पालक: च घनश्याम हरदेनियाँ इत्येनेन दृष्टम्। कार्यक्रमे प्रान्तमंत्री: श्री चन्द्रशेखर: शर्मा, प्रान्तप्रचार-प्रमुख: , विभाग-संयोजक: श्रीकानाराम जाट:, सहसंयोजक: श्रीअभिनव उपाध्याय:,सम्मेलन समिते: अध्यक्ष: बिरदीचन्द चौधरी: उपाध्यक्ष: अजय रावत:, अमितभारद्वाज:, मनीषशर्मा, महेंद्रशर्मा, रविशर्मा, दीपकशास्त्री आदय: बहवः कार्यकर्तार: संस्कृतप्रेमिणश्च उपस्थिता: आसन्।

Sunday, January 7, 2018

उत्तरभारते अतिशैत्येन ७१ मरणानि। 
         लख्नौ > उत्तरप्रदेशसहितेषु उत्तरभारतराज्येषु अतिशैत्यं प्रबलमनुवर्तते। उत्तरप्रदेशे गतदिने न्यूनतमः तापमानः डिग्रीत्रयपरिमितः आसीत्। विविधेषु जनपदेषु अतिशैत्यं शीतवायुवातनं च वर्तते।  यूपि राज्ये इतःपर्यन्तं ७१ जनाः अतिशैत्येन मृतिमुपगताः। सर्वकारस्य निर्देशमनुसृत्य वीथीपार्श्ववासिनाम् अनाथानां कृते अभयस्थानानि सज्जीकृतानि।
गोखाद्यकुम्भकोणं - लालुप्रसादस्य सार्धत्रिसंवत्सराणां कारागारदण्डः। 
           राञ्ची > गोखाद्यकुम्भकोणविषये द्वितीये व्यवहारे आर् जे डि दलस्य अध्यक्षः तथा बीहारस्य भूतपूर्वमुख्यमन्त्री लालुप्रसादयादवः सार्धत्रिसंवत्सराणां कारागारवासाय दशलक्षं रूप्यकाणां आर्थिकशुल्काय च दण्डितः। राञ्चीस्थस्य सविशेषसिबिऐ न्यायालयस्यायं विधिः। लालुं विना इतरे १५ पुरुषाः अपि दण्डिताः। 
        पशुपरिपालनपरिचयः वर्तते इत्यतः अपराधिनां विवृतं कारागृहम् उचितमिति न्यायाधीशेन शिवपालसिंहेन निरीक्षितम्। लालुप्रसादः अधुना व्याजविधेयकानि उपयुज्य सर्वकारवित्तकोशात् ८९.२७लक्षं रूप्यकाणि अपहृतवान् इत्यस्मिन् व्यवहारे दण्डितः सन् राञ्च्यां 'बिर्सा मुण्डा' सेन्ट्रल् कारागृहे बन्धितः अस्ति।

Saturday, January 6, 2018

अन्तर्जालस्य शक्तिः वर्धापयितुम् बृहत्तरः उपग्रहः विक्षिप्यते- ऐ एस् आर् ओ।
‍    नवदिल्ली > प्रधानमन्त्रिणः नरेन्द्रमोदिनः 'डिजिट्टल् इन्त्या' योजना सक्षात्कर्तुमुद्दिश्य बृहत्तमः उपग्रहः विक्षेपणाय सज्जः अभवत् । षट् टण् भारमितः अस्य नाम जि साट्ट् ११ इति एवI भारतेन निर्मितेषु उपग्रहेषु अधिक-भारयुक्तः उपग्रहः भवति अयम् । ग्राम ग्रामान्तरेषु उपग्रहाधिष्ठितः अन्तर्जालसेवा उत्कृष्ठरीत्या  प्रदातुं शक्यते अनेन।
       फ्रञ्च् एरियन् ५ इति उपग्रह विक्षेपणिम् उपयुज्य भविष्यति विक्षेपणम् । ५०० कोटि रुप्यकव्ययेन निर्मिते उपग्रहे चतुर्मीट्टर् बृहद्दीर्घाकारेण निर्मितः चत्वारि सौरोर्जपुटानि सन्ति। भारतेन इतःपर्यन्तं विक्षिप्तानां  उपग्रह-वार्ता-विनिमयोपग्रहाणाम् आहत्य या क्षमता अस्ति सा क्षमता अस्य उपग्रहस्य अस्तीति अस्य विशेषता।.
 भारतं गतचतुस्संवत्सरेभ्यः न्यूनतमं वृद्धिमानमुपगच्छति। 
           नवदिल्ली > वर्तमाने आर्थिकसंवत्सरे भारतस्य आर्थिकवृद्धिः प्रतिशतं ६.५ परिमितं न्यूनीभविष्यतीति 'सेन्ट्रल् स्टाटिस्टिक्स्' कार्यालयेन अनुमीयते। गतचतुर्षु संवत्सरेषु भविष्यमाणं न्यूनतमं वृद्धिमानं [जि डि पि] भविष्यति एतत्।   मुद्रानिरासस्य अनन्तरं जि एस् टि शुल्कविन्यासस्य आयोजन  च भारतीयार्थिकव्यवस्थायाः पश्चाद्गमनस्य कारणमिति सामान्यतया निर्णीयते।
नवं दशरूप्यकपत्रं अवतरिति।     
लिषा सि आर्
          नवदिल्ली> भारतीय रिज़र्व् बैंक् नव दशरूप्यकचीकाः अवतरति। महात्मागांधी श्रेणिस्थानि नूतनानि रूप्यकपत्राणि  चाकलेयस्य कपिशवर्णयुक्तानि भवन्ति। रुप्यकपत्राणां पृष्टभागे  अशोकचक्रस्य चित्रं च आलिखितम्।
        प्रथमे  वारे शतकोटिः रुप्यकपत्राणि एव अवतार्यन्ते। इदानीं प्रचलितानां  दशरूप्यकाणां पत्राणांं उपयोगः अनुवर्तयितुं शक्नुमः इति भारतीय रिज़र्व्  बैंक् संस्थया  ज्ञापितम्। २००५ तमे वर्षे एव इदानीं प्रचाल्यमानानां रुप्यकपत्राणां रूपरचना अभवत्।
केरलस्य 'पूरनगर्याम्'  कौमारोत्सवस्य अद्य प्रारम्भः।
      तृश्शिवपेरूर् > एष्याभूखण्डस्य बृहत्तमा कौमारमेला इति प्रसिद्धा केरल-राज्यस्तरीय विद्यालयकलोत्सवः अस्मिन् वारे पूरनगरी  (उत्सवनगरी) इतित प्रसिद्धे तृश्शिवपेरूर् नगरे षष्ठदिनाङ्कादारभ्य दशमदिनपर्यन्तं प्रचलिष्यति। ५८ तमा राज्यस्तरीयोत्सवः भवत्ययम्।
            'तेक्किन् काट्' क्रीडाङ्कणे सज्जीकृतायां मुख्यवेदिकायां अद्य प्रभाते दशवादने मुख्यमन्त्री पिणरायि विजयः कलोत्सवस्य उद्घाटनं करिष्यति। विजयिनां कृते प्रथम-द्वितीयादि स्थाननिर्णयः नास्ति। प्रतिशतं ८० अङ्काः यैः प्राप्स्यन्ते तेषां सर्वेषां  'A' Grade तथा चषकश्च  लभते।
कोलाहलेन सभाक्रमाः  स्तंभनं क्रियते इति राज नीतिः न। - वेङ्कय्यनायिडु:
         प्रतिषेधप्रक्रमाणाम् आयोजनेन विधानसभायाः प्रवर्तनेषु विघ्नं कृताः सामाजिकाः स्वात्मचिननं करणीयम् । सभायाः स्तम्भनं  सर्वदा क्रियते इत्येतत् न शोभना राजनीतिः। राज्यसभाध्यक्षः वेङ्कय्यनायिडुः उक्वान्I विधानसभायाः शीतकालीनोपवेशनस्य समापनात् पूर्वं भाषमाणः आसीत् उपराष्ट्रपतिः। प्रधानमन्त्री अपि अवसरेस्मिन् सन्निहितः आसन् । सभायाः ३४ मूल्यभूताः प्रवर्तनहोराः एवं  विपक्षिदलानां कोलाहलेन विनष्टाः इति उपराष्ट्रपतिना उक्तम्।
सभाङ्कणं राजनैतिक दलानां कलहप्रदर्शनाय वेदिका मा भवतुI पौरधर्माणां पालनमेव अस्माकं कर्तव्यम् इति च तेन उक्तम् I

Friday, January 5, 2018

शिला तैलस्य मूल्यं त्रिंशन्मासाद् उच्चावस्थायां - सर्वेषां मूल्याधिक्यं फलम्
      दोह > राष्ट्रान्तर-विपण्यां शिलातैलस्य मूल्ये वर्धनं गतेभ्यः त्रिंशत् मासेभ्यः उच्चस्थरे अभवत् । 'ब्रेन्ट् क्रूड'स्य मूल्यं  गत दिने बारल् मितस्य (१५९ लिट्टर्) ६८.१३ डोलर् अभवत्। २०१५ मेय् मासस्य मूल्यक्रमे एव अधुनातन व्यापारः प्रचलति। तस्मिन् समये मूल्यम् बारल् परिमितस्य ६८.१९ डोलर्  आसीत्I 'ओपेक्' राष्ट्राणि तथा रष्या  च उत्पादने नियन्त्रणमकरोत् इत्यनेन, इतरे प्रमुखोत्पादकराष्ट्रे इराने सम्पन्नानि आक्रमणानि च मूल्यवर्धनस्य कारणत्वेन उच्यते। एष्या प्रत्यांश विपण्यां सम्पन्नं सूचिकावर्धनम् , अमेरिक्का, जापानः जर्मानी राष्ट्रेभ्यः लभ्यमानं अनुकूलं आर्थिकावेदनं च शिलातैलस्य मुल्यवर्धनाय साहायकानि कारणानि अभवन्।

Thursday, January 4, 2018

भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।
भारतसीमां प्रति चीनायाः वीथीनिर्माणम्। 
           नवदिल्ली > भारतसीमामतिक्रम्य चीनाराष्ट्रेण वीथीनिर्माणं कृतम्। अरुणाचलप्रदेशस्य जनसान्निध्यरहितं सीमाप्रदेशं लक्ष्यीकृत्य एव नूतनमार्गः निर्मितः। अनतिविदूरे भारत-तिबटन् सीमारक्षणसैन्यस्य केन्द्रं वर्तते अपि द्वादशपादपरिमितं विस्तारे षट्शतं मीटर् परिमितं दीर्घयुक्तं मार्गं निर्मीय एव भारतस्य दृष्टिपथमागतम्।
           वीथीनिर्माणाय चीनासर्वकारस्य साक्षादेव बन्धः अासीदिति न प्रत्यभिज्ञातम्। किन्तु डिसम्बर् २६ तमे दिनाङ्के वीथीनिर्माणमारब्धमिति सूच्यते।

Wednesday, January 3, 2018

त्रितलाखविधेयकम् अद्य राज्यसभायाम्। 
              नवदिल्ली > एकवारतलाखत्रितयं अभिशंसापराधीयमानं विधेयकमद्य राज्यसभायां प्रस्तूयते। राज्यसभायां शासनपक्षस्य सुदृढा भूरिसंख्यता नास्तीत्यतः सर्वकारेण अनुरञ्जनश्रमः आरब्धः। परन्तु कोण्ग्रस् दलनेतृत्वे विपक्षदलैः विधेयकं 'सेलक्ट् कम्मिट्टि' समक्षसमर्पणाय  निर्देष्टुं निर्णयः कृतः।
सचिवालयेषु उपस्थितेः पञ्जीकरणं तर्जनीग्राही उपयुज्य प्रारब्धम् ।
                अनन्तपुरी> केरलस्य सचिवालये तर्जनीग्रहीम् उपयुज्य सर्वकारीयोद्योगिनां पञ्जीकरणं समारब्धम्। उद्योगिनां निष्कृतिः पञ्जीकरण-संविधानेन निबद्धः इत्यनेन सर्वे यथाकालं कार्यालये प्रविष्ठाः।  केचनानां विलम्बः अभन्। रेल्यानानि बिलम्बेन धावन्ति इत्येनन एव भवन्ति केचनानां विलम्बः। मन्त्रिणां  वैय्यक्तिक-कार्यकर्तॄणां कृते पञ्जीकरणे निर्बन्धः नास्ति। तथापि  केचन जनाः आंगुली पञ्जीकरणं कृतम् । मन्त्रिणः प्रधानसचिवः च  पञ्जीकरणात् विमुक्ताः। पञ्जीकरणोपकरणानि बहिः स्थापितम् इत्यनेन पञ्जीकरणानन्दरं केचन अन्यत्र गच्छन्ति। एतत् अपि परिहरणीयः अस्ति
परिसमाप्तः कार्यानुभव प्रशिक्षणवर्ग:
         त्रिश्शिवपेरूर्> राष्ट्रियसंस्कृतसंस्थानस्य गुरुवायूर परिसरे डिसम्बर 24तः समारब्ध:  केन्द्रीयविद्यालयसंस्कृाध्यापकानां कार्यानुभवप्रशिक्षणवर्ग: जनुवरि 2 दिनाङ्के परिसमाप्तःI  दशदिनात्मकप्रशिक्षणवर्गस्यास्य समापनसत्रे संस्कृतसंवर्धनप्रतिष्ठानस्य निदेशक: श्रीमान् चान्दकिरणसलूजा महोदय: समारोपभाषणमकरोत् । यदि संस्कृतं संस्कृतेन पाठयामः तर्हि संस्कृतस्य भविष्यम् उज्ज्वलॅ भविष्यति। तत् कार्यम् अध्यापकाधीनमेवl तदर्थमुपकारकमेवायंवर्गः। गुरुवायूर् परिसरस्य प्राचार्यस्य श्री - के पी केशवन् महोदयस्याध्यक्षे प्रवृत्तोऽयं कार्यक्रम: ॥

Tuesday, January 2, 2018

वेदगणितस्य साहाय्येन क्क्वाण्डम् कम्पूट्टिङ् गवेषणम् आरब्धम्।
डॉ पि के शङ्करनारायणः
            नवदिल्लि>भारतेषु नवसाङ्गेतिकविज्ञानमण्डले क्वाण्डम् विद्यायाः प्रवेशः। केन्द्र-शास्त्रसाङ्गेतिक -मन्त्रालयस्य अधीने वर्तमानम् क्वाण्डम् इन्फरमेषन् सयनस् आन्ड् डेक्नोलजि (QISAT) भवति अस्य नेतृत्वे। अनया संस्थया पूर्वमेव एदर्थम् निर्देशाः स्वीकृताः आसीत्।
          विविध सूप्पर् सङ्गणनम्  अपि अतिरिच्य क्वाण्डम् कम्पूट्टर् प्रवर्तते। साधारणतया कम्पूट्टर् यन्त्रद्वारा गणनावसरे बैनरिसंविधान-सहित बीट्ट् संविधानस्य उपयोगः प्रचलति। किन्तु  क्वाण्डे तु क्युबीट्टस्य उपयोगः भवति । उदाहरणतया अतीव  राससंयुक्तस्य घटना, प्रवर्तनं च विशदीकर्तुम् अत्यल्पसमयम् पर्याप्तम् ।
           उत्‍कृष्टयुक्त औषधस्य निर्माणम् अनेन साध्यम्। भारतमागतः सत्यनादल्ले अस्य सङ्गणकस्य भविष्यक्काल साध्यतां शलखितवान् । एतदर्थम् वेदगणितस्य योजनमपि ते चिन्तयन्तः सान्ति ।
सिन्धूनदीजलं पाकिस्थानाय प्रदातुं प्रक्रमाः दृढीक्रियते।
         काश्मीरम्> सिन्धू नद्याःजलं काश्मीरस्य कुतुवजनपदे संभरणं कर्तुं पद्धतिः आयोक्ष्यते भारतेन। भारतं प्रति आतङ्कवाद प्रसारणं कुर्वाणं पाकिस्थानं प्रति नयतन्त्रतले सुबलाः प्रक्रमाः स्वीकरोतिI षष्ट्यधिक एकोन विंशतिशततमे (१९६०) भारत पाकिस्थानौ मिलित्वा कृत सन्धिपत्रानुसारं सिन्धूनद्याः पोषकनद्याः जलं पूर्णतया उपयोक्तुम् अधिकारः भारतस्य अस्ति। सन्ध्यनुसारं एव पोषकनद्याः जलस्य उपयोगः क्रियते । सीमामुल्लंख्य नद्याः प्रवाहः स्तगयितुमुद्दिश्य लघुलघु सेतवः निमीय ३०००० हेक्टर्मितं भूमिः जलसेचनेन पुष्टीकरोति । द्विशतं मेगा वाट् विद्युच्छक्तिः च उत्पादयितुं च नवीनया याेजनया शक्यते। केन्द्र-जल-विभव आयोगेन पद्धतिः सर्वकारस्य पुरतः समर्पितः अस्ति।

Monday, January 1, 2018

आविश्वं जनाः नवसंवत्सरस्य स्वागतम् अकुर्वन्I  
               भारतसमयः सायं सार्धत्रिवादने पसफिक् समुद्रे किरिबात्ति द्वीपे आसीत् २०१८ संवत्ससरस्य प्रथम सन्दर्शनम्। तत्रत्यानां जनानाम् उपचारान् स्वीकृत्य ततः सार्ध चतुर्वादने न्यूसिलन्टस्य समावत्तिदेशे समागतः  संवत्सरः। ओक् लान्टस्य कै स्तम्भं परितः पञ्चनिमेषपर्यन्तं जायमान विस्फोटकादि आह्लाद निमिषेण दशसहस्रशाः जनाः २०१८ संवत्सरं स्वागतमकुर्वन्। 
एक घण्डाभ्यन्तरे ओस्ट्रेलिया देशस्य सिड्णि मेल्बण् नगरं प्रापवान् संवत्सरः।  विस्फोटकेन इन्द्रचापरूपं विरच्य आसीत् तत्रत्यानां स्वागत-समारोहः। अनन्तरम् एक घण्डाभ्यन्तरेण चीना, सिंहपुरम्, इन्टोनेष्या बंग्लादेशं च संक्रम्य भारतदेशं प्राप्तः।  भारतस्य प्रधान नगरेषु तारनिशादयः आयोजिताः आसन्।  भारतीयानाम् अर्घ्योपचारक्रमानास्वाद्य सार्ध एकवादने दुबाय् नगरं प्राप्तः।
 एक घण्डाभ्यन्तरेण मोस्को, माण्ड्रिड् च । यामस्य अन्तिमकालांशे सार्धचतुर्वादने रेम् नगरे पारीसे च प्राप्तः नवसंवत्सरः। पञ्च चत्वारिंशत् वादने लन्टनस्थाः तेषां स्वागतं सानन्दम् अकुर्वन्। इदानीं समयः सार्धदशवादनः अमेरिक्कां प्राप्य तत्रत्यानां स्नेहोष्मलतां लब्ध्वा सानन्दमास्वाद्य व्याप्यतेकालः विश्वमखिलम्।


सर्वेषां कृते सम्प्रतिवार्ता-पत्रिकायाः शुभकामनाः। गुरुपादैः अनुगृहीताः वयं भवन्तं अभिवादयामहे। 
“मनोगतम्”  [सोपानम् ३९] 
 - नरेन्द्रमोदी        
    
[“मनोगतम्” - “मन की बात”- इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ] 
(प्रसारण-तिथि:- 31.12.2017)                          
 - भाषान्तर-कर्ता -  डॉ बलदेवानन्द-सागरः (संस्कृत वार्ता प्रसारकः)

            मम प्रियाः देशवासिनः ! नमस्कारः | इदं ‘मन की बात’-प्रसारणं हि, अस्य वर्षस्य अन्तिमोऽयं कार्यक्रमः, तथा च संयोगं पश्यन्तु यत् अद्य, सप्तदशोत्तर-विंशति-शत-तमस्य वर्षस्य अपि अन्तिमो दिवसोऽस्ति | सम्पूर्णेsपि वर्षेऽस्मिन् अनेके विषयाः अस्माभिः भवद्भिः च संविभाजिताः | ‘मन की बात’-प्रसारणस्य कृते भवद्भिः प्रेषितानां बहूनां पत्राणाम्, अनेकासां टिप्पणीनां, विविधानां च विचाराणाम् आदान-प्रदानम्, मम कृते तु सदा नूतनायाः ऊर्जायाः प्रदायकं सिद्ध्यति | 
      कासाञ्चन होराणाम् अनन्तरं वर्षमिदं परिवर्तिष्यते, परञ्च अस्मदीयः एषः कथा-क्रमः इतः परमपि एवमेव प्रवर्तिता| आगमिष्यमाणे वर्षे वयं, नवीनाः कथाः करिष्यामः, नूतनान् अनुभवान् च संविभाजयिष्यामः | भवद्भ्यः सर्वेभ्यः अष्टादशोत्तर-विंशति-शत-तम-वर्षस्य कृते भूरिशो मङ्गल-कामनाः | नातिचिरं डिसेम्बर-मासे पञ्चविंशति-तमे दिनाङ्के अशेष-जगति क्रिस्मस्-पर्व सोत्साहम् आमानितम् | भारतेsपि जनैः सोत्साहं पर्वेदम् आमानितम् | क्रिस्मस्-पर्वणि वयं ईसा-मसीहस्य बहुमूल्यान् उपदेशान् स्मरामः, तथा च, ईसा-मसीहेन यस्मै विषयाय सर्वाधिकं बलं प्रदत्तम्, सः आसीत्  - “सेवा-भावः” | सेवा-भावनायाः सारं वयं बाइबले अपि पश्यामः |  “The Son of Man has come, not to be served, But to serve, And to give his life, as blessing, To all humankind.”   अर्थात् मानव-पुत्रः समायातः, सेवा-प्राप्तये नैव, अपि तु सेवा-कार्यार्थम्, आशीर्भूतं स्वीयं जीवनं मानवतायै अर्पयितुम्” 
        इदं द्योतयति यत् किं नाम सेवायाः माहात्म्यम् ? भवतु नाम विश्वस्य काचिदपि जातिः, कश्चन अपि धर्मः, परम्परा, वर्णः वा, परञ्च सेवाभावो हि मानवीय-मूल्यानाम् अनुपम-अभिज्ञानत्वेन प्रवर्तते | अस्मदीये देशे ‘निष्काम-कर्म’-विषये सुबहु श्रूयते अर्थात् तादृशी सेवा या हि काञ्चिदपि अपेक्षां विना क्रियते | अस्माकं ग्रन्थेषु तु प्रोक्तमेव– “सेवा परमो धर्मः” | ‘जीव-सेवा एव शिव-सेवा’ तथा च, गुरुदेवः रामकृष्ण-परम-हंसः तु कथयति – शिव-भावेन जीव-सेवां कुर्यात् अर्थात् विश्वस्मिन् विश्वे एतानि सर्वाणि मानवीय-मूल्यानि तुल्यानि एव सन्ति | आगच्छन्तु, वयं सर्वे एतान् महापुरुषान्, पवित्र-दिवसान् च स्मरन्तः, अस्मदीयायै अस्यै महत्यै मूल्य-परम्परायै नूतनां चेतनां, नवीनाञ्च ऊर्जाम् आनयेम तथा च, स्वयमपि एनां जीवितुं
जपुरे आवासीय संस्कृतभाषाबोधनवर्गस्य उद्घाटनम् जातम्
-दीपक्  शास्त्री
             जयपुरम्>स्कृत-भारती जयपुरविभागेन आवासीय-संस्कृत-भाषाबोधन-वर्ग: दिसम्बरमासस्य त्रिंशद्दीनाङ्कत: जनवरीमासस्य षड्दिनाङ्कपर्यन्तम् आयोज्यमानोऽस्ति। वर्गस्य उद्घाटनं रविवासरे प्रातः नववादने आदर्श- विद्यामन्दिरे, किरणपथ मानसरोवरे जातम्। उद्घाटनसत्रे मुख्यातिथिरूपेण स्थानीय:पार्षद: श्रीविष्णु लाटा, वर्गाधिकारीरूपेण श्रीप्रकाश शर्मा, जयपुरप्रांतस्य मन्त्री श्रीचन्द्रशेखर शर्मा, जयपुरविभागस्य सहसंयोजक: श्री अभिनव उपाध्यायश्च मञ्चे आसन्। कार्यक्रमस्यारम्भ: सरस्वतीवन्दना-ध्येयमन्त्र-वर्गगीतैश्च विधाय सञ्जातः। कार्यक्रमस्य मंचसञ्चालनम् रविशर्मणा कृतम्।
अतिथि जनै: संस्कृतं कथं जनभाषा भविष्यति? संस्कृतं किमर्थम् आवश्यकम्? वर्तमाने संस्कृतस्य का स्थितिः? संस्कृतज्ञानां किं दायित्वम्? इत्यादिकं सर्वं विषये सम्यक्तया आलोचितम्। श्रीविष्णु लाटा महोदयेन शिक्षार्थिन: संस्कृतं आध्यात्मिकञ्च प्रति प्रेरिता:। शिबिरस्य प्रतिवेदनं श्री प्रकाशशर्मणा उक्तम् अन्ते च सर्वेषां आगन्तुकानां धन्यवादज्ञापनम् कृतवान्। वर्गेस्मिन् राजस्थानराज्यस्य अनेकेभ्यः जनपदेभ्य: शिक्षार्थिन: भागं स स्वीकुर्वन्ति।
        उद्घाटनावसरे जयपुरप्रांतस्य सहमंत्री श्रीहजारी बैरवा, जयपुरप्रान्त-प्रचारप्रमुख: श्रीघनश्याम हरदेनिया, प्रान्त-सम्पर्कप्रमुख: श्रीरघुवीर शर्मा, जयपुरविभाग-संयोजक: श्रीकानाराम जाट, जयपुरमहानगर-मंत्री श्रीसन्तोष शर्मा, सहमंत्री श्रीमनोज शर्मा अन्ये च कार्यकर्तार: आसन्।