OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 8, 2018

कलोत्सवनगर्यां संस्कृतप्रदर्शिनी अद्भुतम् उद्पादयति। 
-दिलीप् वयनाट्
नटी मालविका संस्कृत प्रदर्शिन्याः उद्‌घाटनं करोति।
     तृश्शिवपेरूर् > केरलस्य कौमारकलोत्सवेन जाज्वल्यमानायां 'पूरनगर्यां' संस्कृतोत्सवमनुबध्य विशिष्टा संस्कृतप्रदर्शिनी सज्जीकृता। ५८ तम राज्यस्तरीय विद्यालय-कलोत्सवस्य प्रथमवेदिकायाः समीपे आरब्धा प्रदर्शिनी प्रशस्तचलनचित्राभिनेत्र्या मालविकया उद्घाटिता।
         अत्र संस्कृतभाषायां विद्यमानानां मासिकीनां तथा 'आन्ट्रोय्ड् आप्' सङ्केतानां, चित्रीकरणानां, ह्रस्वचलच्चित्राणां, संस्कृतचलच्चित्राणां च विपुलं प्रदर्शनं सम्पद्यते।संस्कृतोत्सवायोजनसमित्याः नेतृत्वे 'भरतमुद्रा' संस्कृतमासिक्याः 'नः लैव् सान्क्रिट्' इत्यस्य च सहयोगेनैव प्रदर्शिनी समायोजिता।  केरले प्रथमतया अस्ति  शताधिकसंस्कृतमासिकीनाम् एतादृशं प्रदर्शनं सज्जीकृतम्। तथा च समीपकाले एव प्रदर्शनाय सिद्ध्यमानानां संस्कृतचलच्चित्राणां ह्रस्वचित्राणां विवरणात्मकप्रदर्शनानां च लघुविवरणमपि प्रदर्शितानि सन्ति।