OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 31, 2019

आरबसागरे महान् चक्रवातः, 'महा'; केरले अतिजाग्रतानिर्देशः। 
अनन्तपुरी >  आरबसमुद्रे नूतनः महान् चक्रवातः जायमानः अस्तीति पर्यावरणविभागः। अनन्तपुरीतः २२० कि मी दूरे जातः न्यूनमर्दः अद्य अतितीव्रन्यूनमर्दः भूत्वा लक्षद्वीपं प्रविश्य मध्यपूर्वारबसमुद्रे चक्रवातरूपेण परिणमिष्यते। 
 ओमानराष्ट्रेण 'महा' इति कृतनामधेयस्य  अस्य चक्रवातस्य सञ्चारपथे केरलं नागच्छति तथापि तीरमण्डलेषु अतिशक्ताय वातप्रवाहाय साध्यता अस्ति। अतः मत्स्यबन्धनाय पूर्णनिरोधः प्रख्यापितः। मत्स्यबन्धनाय समुद्रं गताः धीवराः प्रत्यागमनाय आदिष्टाः। 
५ जनपदेषु अतितीव्रा वर्षा
  केरलेषु आगामिनिदिनेषु अतिशक्तायाः वर्षायाः साध्यता अस्ति। एरणाकुलं, तृशूर्, मलप्पुरं, कोष़िक्कोड्, इटुक्की जनपदेषु अतिजाग्रता [ओरञ्च्] उद्घुष्टा।
सर्दार् वल्लभाय् पट्टेलः राष्ट्रतत्परः - अमित् शाह्       
    नवदहली > भारतस्य प्रथमः उपप्रधानमन्त्री तथा आभ्यन्तरमन्त्री सर्दार् वल्लभाय् पट्टेलः राष्ट्रहिताय प्रामुख्यं दत्तवान् आसीत्। इति केन्द्राभ्यन्तरमन्त्री अमित् शाह्। पट्टेलस्य ११४ तमे जन्मदिने दहलीनगरे 'रण् फोर् यूणिट्टि ' इति कार्यक्रमस्य उद्घाटनं कृत्वा भाषमाणः आसीत् अमित् शाह्। पट्टेलस्य दृढनिश्चयः साहसिकता धीरता संयोजकनैपुणी च अस्मान् सर्वदा प्रचोदयन्ति इति सः अभिप्राययत्। जम्मूकाश्मीरः लडाक् च अद्य आरभ्य केन्द्रभरणप्रदेशौ भवतः इत्‍येतत् पट्टेलस्य अखण्डभारतम् इति स्वप्नसाक्षात्कारं प्रति एकं पादारोहणं भवतीति तेन अभिप्रेतम्। 'रण् फोर् यूणिट्टि ' इति कार्यक्रममधिकृत्य मोदिना गते 'मन् की बात्' कार्यक्रमे सूचितमासीत्। प्रथममोदिसर्वकारः सर्दार् पट्टेलस्य जन्मदिनं देशीयैकतादिनत्वेन आचरणाय निश्चयः स्वीकृतः आसीत्।
 ३७०तमः अनुच्छेदः भारतस्य आभ्यन्तरविषयः - यूरोपीयसमाजप्रतिनिधयः।
   श्रीनगरम्> भीकरतामुपरि स्वीक्रियमाणेषु व्यवहारेषु भारतेन सह वर्तिष्यति इति यूरोपीयसमाजप्रतिनिधयः। प्रतिनिधयः दिनद्वयस्य जम्मूकाश्मीरसन्दर्शनानन्तरं वार्तामेलनेने भाषमाणाः आसन्। भीकरता इत्येतत् विश्वे सर्वत्र वर्तमाना समस्या भवति, जम्मूकाश्मीरम् अपरमेकम् अफ्गानिस्थानं कर्तुं कस्मैरपि अवसरः न देयः इति ते असूचयन्। अनुच्छेदस्य निष्कासनात्परं जम्मूकाश्मीरस्य सामूहिकम् अन्तरीक्षम् अवगन्तुमेव वयं आगतवन्तः इति ते मेलने अवदन्। २७ प्रतिनिधयः सन्दर्शनसंघे आसन्।
श्रीलङ्कदलं प्रति विंशति२० क्रिकेट्परम्परायाम् ओस्ट्रेलियस्य विजयः।
   ब्रिस्बेन्> ओस्ट्रेलिय-श्रीलङ्‌कयोः विंशति२० क्रिकेट्परम्परा ओस्ट्रेलियदलेन प्राप्ता(२-०)। ह्यः प्रवृतायां द्वितीयक्रीडायां नवक्रीडकैः ओस्ट्रेलियदलं विजयं प्रापयत्। ओस्ट्रेलियदलाय वार्नर् (६०*) स्मित् ( ५३*) च अर्धशतकं प्रापयताम्। परम्परायाः क्रीडकत्‍वेन ओस्ट्रेलियदलस्य डाविड् वार्नर् चितः भवति। अङ्‌कः - श्रीलङ्कदलम् ११७/१०  ओस्ट्रेलियदलम् ११८/१

Wednesday, October 30, 2019

भारत-सौदिराष्ट्रयोः मध्ये सुरक्षामण्डलस्थः सहयोगः दृढीक्रियते।
   रियाद्> भारतप्रधानमन्त्रिणः नरेन्द्रमोदिनः सौदिसन्दर्शनवेलायां सुप्रधानविषयेषु निर्णयः स्वीकरिष्यतीति सूचना। सौदि वार्तामाध्यमेन अरब् न्यूस् इत्यनेन एतत्सम्बन्ध्य वार्ता प्रकाशिता। चर्चासु राष्ट्रसुरक्षा, प्रतिरोधव्यावसायिकमण्डलं, ऊर्जमण्डलम् इत्यादिषु विषयेषु प्रामुख्यं दीयते। तदर्थं मोदी, सौदिराजेन सल्मानेन, अनन्तरकिरीटधारिणा मुहम्मद् बिन् सल्मानेन च सह चर्चां करिष्यति। भारतं सौदि अरेब्यः च समीपस्थानां राष्ट्राणां नासिकाप्रवेशैः सुरक्षासमस्याः अभिमुखीकुर्वती राष्ट्रे भवतः इति मोदिना अभिप्रेतम्। सुरक्षासहयोगाय द्वयोः राष्ट्रयोः प्रतिनिधीः अन्तर्भाव्य समितिः रूपीक्रियते। भारते अधुना वाणिज्याय वातावरणम् अनुकूलं भवतीति मेय्क् इन् इन्ड्या, डिजिटल् इन्ड्या, स्किल् इन्ड्या, स्वच्छ भारत् इत्यादीः परियोजनाः उद्दिश्य मोदिना अभिप्रेतम्।  अरबन्यूस् कृते दत्ते अभिमुखमेलने भाषमाणः आसीत् सः।
एस् ए बोब्डे भारतस्य उच्चतर-न्यायालयाध्यक्षः, शपथग्रहणं नवम्बर्  १८ तमे दिनाङ्के।
       नवदिल्ली> न्यायाधिपः शरद्‌ अरविन्द् बोब्डे भारतस्य उच्चतरन्यायालयस्य ४७ तमः अध्यक्षः भविष्यति। नियुक्तिपत्रे राष्ट्रपतिना रामनाथकोविन्दमहाभागेन हस्ताक्षरं कृतम्। नवम्बर् मासस्य १८ तमे दिनाङ्के सत्यप्रतिज्ञासमारोहः निश्चितः वर्तते। अधुनातनाध्यक्षः रञ्जन् गोगोय् नवम्बर् १७ तमे दिनाङ्के सेवानिवृत्तः भविष्यति। मध्यप्रदेशस्थात् उच्चन्यायालयात् २०१३ तमे वर्षे उच्चतरन्यायालयं प्रविष्टः भवति बोब्डे महोदयः। बोब्डेम् अध्यक्षत्वेन नियमितुम् अधुनातनाध्यक्षेण रञ्जन् गोगोय् महाशयेन राष्ट्रपतिं पत्रं प्रेषितमासीत्।
षकीब् अल् हसनाय अन्ताराष्ट्रक्रिकेट्समितेः निरोधनम्।
    दुबाय्> बङ्‌ग्लादेश् क्रिकेट्दलनायकः षकीब् अल् हसनः अन्ताराष्ट्रक्रिकेट्समित्या निरोधितः। निरोधनेन अनेन अग्रिमं वर्षद्वयकालं यावत् क्रिकेटस्य सर्वेभ्यः विभागेभ्यः सः निरोधितः वर्तते। क्रिकेट्मण्डले कुत्सितमार्गैः धनव्यवहारं कृत्वा क्रीडाफलेषु स्वाधीनं कुर्वन् संघः कतिपयदिनेभ्यः पूर्वं षकीब् अल् हसनेन सह चर्चां करोति स्म। किन्तु कार्यमिदं तेन अन्ताराष्ट्रक्रिकेट्समितिं प्रति न निवेदितम्। समितेः अन्वेषणे इदं स्पष्टमभवत्। एतत् तु निरोधनाय कारणमभवत्। निरोधने दुःखं वर्तते इति विषयेऽस्मिन् माध्यमप्रवर्तकानां प्रश्नान् प्रति सः प्रत्यवदत् च।

Tuesday, October 29, 2019

बस् यानेषु १३००० आरक्षकाणां नियुक्तिः - स्त्रीसुरक्षां शाक्तीकृत्य दहली सर्वकारः।
    नवदहली> स्त्रीसुरक्षां प्रति अतीवश्रद्धां दत्वा केजरिवाल् सर्वकारः। एतदर्थं राज्यस्य सर्वकारस्य बस् यानेषु १३००० आरक्षकाः नियुज्यन्ते इति दहली मुख्यमन्त्री अरविन्द् केजरिवाल्। सुरक्षोद्योगस्थानां मेलने भाषयन्नासीत् सः। अधुना ३४०० बस्सुरक्षोद्योगस्थाः दहल्यां प्रवर्तमानाः वर्तन्ते। पूर्वं दहलीसर्वकारेण स्त्रीभ्यः दहल्यां बस्यानेषु महानगरस्थरेल्यानेषु च धनरहितयात्रा सज्जीकृता आसीत्।
उडानपरियोजनां जनप्रियं कर्तुं  भारतसर्वकारस्य पर्यालोचना।
   नवदहली > लघुव्ययेन विमानयात्रां प्रापयितुम् उडानपरियोजनाम् इतोऽपि जनप्रियं कर्तुं परियोजनामध्ये अधिकान् सहायमूल्यमार्गान् योजयितुं भारतसर्वकारस्य पर्यालोचना। येषु मार्गेषु विमानसेवनस्य तावत् प्राधान्यं नास्ति तेषां मार्गाणाम् अन्यैः मार्गैः सह बन्धनमेव अनया परियोजनया सर्वकारेण उद्दिश्यते। एवम् उडानयोजनया उन्नतरीत्‍या सेवनं क्रियमाणाः १००० व्योममार्गाः सर्वकारेण लक्ष्यीक्रियन्ते। तदर्थं जम्मुकाशमीरः, हिमाचलप्रदेशः, उत्तराखण्डः, उत्तरपूर्वराज्यानि, लक्षद्वीपः, आन्टमाननिकोबारः इत्यादिषु प्रदेशेषु परियोजनायाः अस्याः सेवनं सज्जीकर्तुं सर्वकारेण उद्दिश्यते।
नवचरित्रं विरच्य पापुव न्यू गिनियदलम्।
   कायिकम्/ दुबाय् > विंशति२० क्रिकेट् मध्ये नवचरित्रं विरच्य पापुव न्यू गिनियदलम्। अग्रिमवर्षे ओस्ट्रेलियदेशे सम्पद्यमाने विंशति२० विश्वचषकक्रिकेट्सपर्यायां क्रीडितुं पापुव न्यू गिनियदलाय अवसरः लब्धः। विंशति२० विश्वचषकक्रिकेट्सपर्यायाः योग्यताचक्रे केनियदलं ४५ धावनाङ्कैः पराजित्य एव पापुव न्यू गिनियदलस्य चरित्रपरा प्राप्तिः। अङ्कः - पापुव न्यू गिनिय ११८ केनिय ७३ । एवम् अयर्लण्ड्दलमपि विश्वचषके क्रीडितुं योग्यतां प्रापयत्। अग्रिमवर्षे ओक्टोबर्मासस्य १८ तः नवम्बर् मासस्य १५ पर्यन्तं भवति विंशति (२०) विश्वचषकक्रिकेट्सपर्या।

Monday, October 28, 2019

ऐ एस् नेता बाग्दादी व्यापादितः।

  वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
कालिफोर्णियराज्ये वनाग्निः व्याप्यते  १८०,००० जनाः निष्कास्यन्तेl 
   पारडैस्> कालिफोर्णियराज्ये वनाग्निः व्याप्यते।  शक्तेन वातेन अग्निः अनियन्त्रितरूपेण व्याप्तः। जनवास-मण्डलेषु अग्नेः व्यापनं भविष्ति इत्याशङ्कायां ततः १८०,००० सङ्ख्यान् जनान् सुरक्षितं स्थानं प्रति प्रेषयितुं त्वरितप्रक्रमाः  सर्वकारेण समारब्धाः। अग्निबाधा भविष्यमाणप्रदेशेषु पूर्वसूचना प्रदत्ता अस्ति। ३०,००० एकर् मितेषु प्रदेशेषु अग्निः व्याप्ता इत्यस्ति आवेदनम्। अन्तरिक्षे धूमः व्याप्तः अस्ति। १३०० अग्निशमन-सेना-दलानि अग्निव्यापन-नियन्त्रणाय प्रयत्नं कुर्वन्तः सन्ति। व्रणिताः सन्तीति आवेदनं नास्ति।
ऐ एस् नेता बाग्दादी व्यापादितः। 

वाषिङ्टण् >  आगोलभीकरसंघटनस्य इस्लामिक् स्टेट् [ऐ एस्] नामकस्य मुख्यनेता अबूबक्कर् अल् बाग्दादी निहतः। अमेरिक्कन् राष्ट्रपतिना डोणाल्ड् ट्रम्पेनैव वार्तेयं प्रख्यापिता। उत्तरपश्चिमसिरियायाः इद्लिब् प्रविश्यायां बारिषग्रामे यू एस् राष्ट्रस्य सविशेष'कमान्डो'सैन्येन कृते आक्रमणे रक्षां प्राप्तुमशक्तः बाग्दादी स्वशरीरस्थापितैः स्फोटकैः विस्फोटितः आसीत् इति ट्रम्पेन निगदितम्।
  विश्वविभीषकस्य विश्वोत्तरभीकरस्य अन्त्यः अतिदयनीयः आसीत्। सैन्यस्य आक्रमणे विनष्टरक्षामार्गः सः कश्चित् शुनक इव रुदन् उच्चैरुत्क्रोशन्  अन्तर्भौमगूढमार्गेण सः अधावत्। विस्फोटने विशीर्णं मृतशरीरं डि एन् ए परीक्षणेनैव मृतः बाग्दादीति  प्रत्यभिज्ञातमिति ट्रम्पेनोक्तम्। तेन सह तस्य पत्नीद्वयं त्रयः पुत्राश्च हताः।
योगाध्यापिका पद्‌मश्री वि.नानाम्माल् दिवङ्गता। 

   कोयम्पत्तूर् > राष्ट्रस्य सर्वाधिकवयस्का योगमातामही इति प्रसिद्धा योगाध्यापिका पद्‌मश्री वि.नानाम्माल् (९९) दिवङ्गता। कोयम्पत्तूर् मध्ये स्वभवने आसीत् मृत्युः। एकमासात्मककालेन सा चिकित्सायाम् आसीत्। ४५ वर्षाभ्यन्तरे १० लक्षाधिकाः जनाः तया योगासनानि परिशीलिताः वर्तन्ते। एक मासात्‍पूर्वमपि सा प्रतिदिनं शताधिकान्‌ जनान् योगासनानि अध्यापयन्ती आसीत्। २०१८ तमे वर्षे राष्ट्रस्य पद्मश्री पुरस्कारेण नानाम्माल् महोदया समादृता भवति।
दीपावलिदिनं धर्मस्वातन्त्र्यस्य स्मारणं भवति - ट्रम्प्।

  वाषिङ्टण्> दीपावलिसमारोहः मानवान् धर्मस्वातन्त्र्यं स्मारयति इति अमेरेक्कस्याध्यक्षः डोणाल्ड् ट्रम्प्। भारतीयानां कृते दत्ते दीपावलिदिनसन्देशे एव ट्रम्पः एवम् अभिप्राययत्। ट्विट्टर्द्वारा दत्तः सन्देशः समारोहदृश्यसहितः भवति। समारोहोऽयम् अन्धकारस्योपरि प्रकाशस्य  अधर्मस्योपरि धर्मस्य अज्ञानस्योपरि ज्ञानस्य च विजयं प्रकाशयति इति सः सन्देशे असूचयत्।

Sunday, October 27, 2019

श्रीशङ्कर नृत्तसङ्गीतोत्सवः - विचारसमीक्षा सम्पन्ना। 
कालटी > अन्ताराष्ट्रिय श्रीशङ्कर नृत्तसङ्गीतोत्सवस्य प्रारम्भरूपेण मासत्रयं  यावत् अनुवर्तमाना मार्गदर्शनसमीक्षा (counseling) सम्पूर्णतामाप्ता। षट्शतं नाट्यनिपुणैः भागभागित्वं क्रियमाणः महोत्सवः विंशत्यधिकद्विशते ईसवीये एप्रिल् मासे सम्पत्स्यते। कथक्, ओडीसी, सत्रिया, कुच्चिप्पुटी, भरतनाट्यं, मोहिनियाट्टं, विदेशनृत्तरूपाणि इत्यादिषु विश्वप्रसिद्धाः कलाकोविदाः भागं वहन्ति। 
  विचारसमीक्षायाः अन्तिमे सत्रे श्रीशङ्करा नृत्तविद्यालयस्य मुख्यकर्ता प्रोफ. पि वी पीताम्बरः, मुख्यसंयोजिका सुधापीताम्बरः, अध्यापकक्षाकर्तृभारवाहिणः इत्यादयः नेतृत्वमवहन्। लोकसभासदस्यः बन्नीबहनानः, विधानसभासामाजिकः रोजी एम् जोण् इत्येतयोः रक्षणाधिकारे विपुला कार्यकर्तृसमितिरपि रूपीकृता।
'भारत् की लक्ष्मी' इति स्त्रीशाक्तीकरणपरियोजनां प्रशंस्य मेरी कोम्।
  नवदिल्ली> स्त्रीशाक्तीकरणाय मोदिसर्वकारेण कल्पितां  ' भारत् की लक्ष्मी ' इति परियोजनां प्रशंस्य विख्याता मुष्टिप्रहरक्रीडका मेरी कोम्। एतादृश्यः परियोजनाः स्त्रीभ्यः लब्धाः अङ्गीकाराः एव, भारताय कठिनपरिश्रमं कर्तुं  प्रचोदनं च ददति, सा अभिप्राययत्। परियोजनाम् इमां प्रशंस्य बाड्मिण्डन् क्रीडके पि.वि.सिन्धू, सैना नेहवाल् च ट्वीट् कृतवत्ये आस्ताम्। परियोजनायाः अस्याः प्रतिनिधित्वेन पि.वि.सिन्धू, अभिनेत्री दीपिका पदुकोण् च गतदिने चिते भवतः। स्त्रीणां मातृकापरान् अङ्गीकारान् सेवनानि च राष्ट्रान्तरेषु ज्ञापनमेव अस्याः परियोजनायाः मुख्यं लक्ष्यम्।
दीपावलीदन शुभाशयाः
दीपावल्याः शुभपर्वणि शुभकामनाः व्याहृत्य भारतस्य राष्ट्रपतिः रामनाथ कोविन्दः उपराष्ट्रपतिः वेङ्कय्यनायिडुः च।

महाराष्ट्रे प्रशासनविरचनप्रयासे 
-पुरुषोत्तमशर्मा
      मुम्बै> महाराष्‍ट्रे नूतनप्रशासनविरचनमुद्दिश्य सर्वाणि प्रमुखराजनीतिकदलानि परस्परं विचार-विमर्शं कुर्वन्ति। शिवसेनाप्रमुखोद्धवठाकरे गतदिने मुम्‍बय्यां दलस्य नवनिर्वाचितविधायकै: साकमुपवेशनमकरोत्। शिवसेनाया: संसत्सदस्य सञ्जयराउतो वार्ताभिकरणान् प्रावोचत् यत् विधायकै: सर्वसम्‍मत्या दलाध्‍यक्षोद्धवठाकरे इत्यस्मै विधायकदलस्य नेतु: चयनाधिकार: प्रदत्त:। शिवसेनाया: विधायक: प्रतापसरनाइक: वार्ताहरान् व्यज्ञापयत् यदुपवेशने ठाकरेवर्येण  भाजपासंयुत्यै प्रशासने समानाधिकारस्य आश्‍वासनमध्यर्थितम्। 
 अत्रान्तरे महाराष्‍ट्रे भाजपादलस्य प्रमुखेण चन्‍द्रकान्तपाटिलेनोक्तं यत् भाजपेति दलस्य राज्‍येकांशेन  नवनिर्वाचितविधायकानामुपवेशनं बुधवासरे समाहूतमस्ति, यस्मिन् सदनस्य नेतु: चयनं करिष्यते। अपरत्र महाराष्‍ट्रे कांग्रेसदलाध्यक्षेण बालासाहबथोराटेन राष्‍ट्रवादिकांग्रेसपार्टीति दलाध्‍यक्षेण शरदपवारेण सह  से बारामत्यां मेलनमाचरितम्।
हरियाणायामद्य नूतनप्रशासनस्य शपथग्रहणसमारोहः
-पुरुषोत्तमशर्मा

   नवदेहली> हरियाणाराज्यस्य मुख्‍यमन्त्री मनोहरलालखट्टर अद्य द्वितीयवारं राज्‍यस्य नूतनमुख्‍यमन्त्रित्वेन पदगोपनीयताया: शपथवचनं स्वीकरिष्यति। राज्‍यपाल: सत्‍यदेवनारायणार्य: चण्डीगढनगरे समायोज्यमाने समारोहे खट्टराय प्रतिज्ञावचांसि प्रतिज्ञापयिष्यति। मनोहरलालखट्टरो भाजपा-जननायक-जनतापार्टीति दलयो: संयुतिप्रशासनस्य प्रमुखो भविष्यति। षण्णां निर्दलीय-विधायकानामपि समर्थनं भाजपेति दलेनावाप्तम्। 

  गतदिने भाजपेतिदलस्य केन्द्रीयपर्यवेक्षकाणां हरियाणायां भाजपाप्रभारिण: अनिलजैनस्य चोपस्थितौ मवोहरलालखट्टरो विधायकदलस्य नेता चित:। दलोपवेशनानन्तरं केन्द्रीयमन्त्रिणा रविशङ्करप्रसादेन स्पष्टीकृतं यत् तद्दलं काण्डा गोपालस्य समर्थनं नैव स्वीकरोति। अपरत्र जननायकपार्टीतिदलस्य विधायकै: दुष्यन्तचौटाला विधायकदलस्य नेता प्रचित:। अत: स्पष्टमस्ति यत् दुष्यन्तचौटाला हरियाणाया: उपमुख्यमन्त्री भविष्यतीति। अत्रान्तरे कांग्रेसदलेन प्रश्नाङ्कनं विधायोक्तं  यदियं संयुति: नोपयुक्ता।
55,547 छात्राः, विश्वस्य बृहत्तमः विद्यालयः इति गिन्नस् पुस्तके नाम लिखित्वा लख्नौस्थः सि. एम्. एस् विद्यालय:। 
      लख्नौ> विद्यार्थिनः सङ्ख्यायाम् वर्धनस्य आधारेण विश्वस्य बृहत्तमः विद्यालयः इति ख्यातिः गिन्नस् पुस्तकेषु सम्प्राप्तः लख्नौ नगरस्थः सि. एम्. एस्. विद्यालयः। 55,547 छाात्राः विद्यालये पठन्ति।  पञ्च छात्रेण सह आरब्धः आसीत् विद्यालयः।  ईदृशख्यातिः लप्स्यते इति स्वप्नेपि न दृष्टा इति विद्यालयस्य स्थापकेन जगदीष् गान्धिना उक्तम्। सामूहिक-शारीरिक सन्तुलनावस्थाम्  अवाप्तुम्  छात्रेभ्यः सहायतां कुर्मः। छात्राषु विद्यमानं कौशलं संवर्धथितुं वैय्यक्तिक-वैशिष्ट्यविकासाय शैक्षिकमानवर्धनाय च भवति अस्माकं श्रद्धा इत्यपि तेनोक्तम्।  इदानीं ‍ 18 विभागेषु  55,547 सङ्खाकाः छात्राः सि एम्‌ एस् विद्यालये अध्ययनं कुर्वन्ति।

Saturday, October 26, 2019

अनुमतिपत्रं विना ब्रसील् सन्दर्शनं साध्यम्।
   ब्रसीलिय> इतःपरं ब्रसील् सन्दर्शनाय भारतीयेभ्यः अनुमतिपत्रं नावश्यकम्‌। ब्रसीलस्य राष्ट्रपतिना जेयिर् बोल्सनारोमहाशयेन कार्यमिदं प्रख्यापितम्। तस्य चैनसन्दर्शनवेलायामेव सः कार्यमिदं न्यवेदयत्। तत्रस्थानामपि आनुकूल्यमिदं लभ्यते। ब्रसील्देशे बोल्सनारो महाशयस्य अधिकारप्राप्तेः परं विकस्वरराष्ट्रेभ्यः अनुमतिपत्रविषये आनुकूल्यादिकं प्रख्यापितमासीत्। तदनुसृत्य वर्षादौ कानड, जप्पान्, यु एस्, ओस्ट्रेलिय इत्यादिभ्यः राष्ट्रेभ्यः आगम्यमानानां विनोदसञ्चारीणां व्यवसायीनां च कृते अनुमतिपत्रसम्बन्धम् आनुकूल्यं दत्तमासीत्।
पाकधीनकाश्मीरदेशः गिलजित् बलतिस्थान देशः च जम्मूकाश्मीरस्य भागौ - बिपिन् राववत्।
  नवदहली > भारतस्य अग्रिमलक्ष्यं पाकधीनकाश्मीरस्य जम्मूकाश्मीरेण सह योजनं भवतीति संसूच्य करसेनाधिपः बिपिन् राववत्। सैनिकाधिपानां मेलने भाषयन्नासीत् सः। अधुना पाकधीनकाश्मीरः इति व्यवह्रियमाणः प्रदेशः पाकिस्थानेन नियममुल्लङ्घ्य  प्राप्तः भवति इति सः अवदत्। प्रदेशोऽयमधुना भीकराणां नियन्त्रणे वर्तते इति सः अभिप्राययत्। काश्मीरस्य शान्तिपूर्णजीवनस्य नाशम् उद्दिश्य पाकिस्थानः सर्वदा प्रकोपं जनयतीत्यपि तेन उक्तम्।गिलजित बलतिस्थानदेशः च
विजय् हसारे क्रिकेट्सपर्या- कर्णाटकदेशः विजेता अभवत्।
    बङ्‌गलुरु> अस्य वर्षस्य विजय् हसारे क्रिकेट्सपर्यायां कर्णाटकदेशः विजयं प्रापयत्। अन्तिमचक्रे तमिल्नाडुदेशं ६० धावनाङ्कैः पराजित्य कर्णाटकदेशः विजेता अभवत्। दुर्बलकालावस्थायां वि जे डि नियमस्य आनुकूल्येनैव जेता निश्चितः वर्तते। अङ्‌कः - तमिल्नाडुः २५२/१०  कर्णाटकः १४६/१

Friday, October 25, 2019

नाटकं, कला च विद्यालयीयपाठ्यपद्धत्याम् अन्तर्भावनीये - भारतस्य उपराष्ट्रपतिः।
   नवदहली> नाटकस्य कलायाः च विद्यालयीयपाठ्यपद्धत्यां प्रवेशः आवश्यकः इति उपराष्ट्रपतिः एम् वेङ्कय्यनायिडु:। दहल्यां ' प्रधानमन्त्री इन्नोवेटीव् लेणिङ् प्रोग्राम् ' इति कार्यक्रमस्य समापनसमारोहे भाषयन्नासीत् सः। भारतस्य शास्त्रीयनवोत्‍थानं सांस्कृतिकपुनरुज्जीवनं च आवश्यकम्, तदर्थं नाटकं, कला इत्यादयः विषयाः अपि पाठ्यपद्धत्याम् अन्तर्भावनीयाः भवन्ति इति सः अभिप्रैति स्म। अस्मिन् मासे बङ्गलुरु मध्ये इस्रो आस्थाने आरब्धा ध्रुव् पद्धतिः शास्त्रं, कला, लेखनम् इत्यादिषु अभिवृद्धिं प्राप्तुं छात्रेभ्यः अवसरं कल्पयतीति उपराष्ट्रपतिना सूचितम्। समग्रे अपि राष्ट्रे शास्त्रप्रदर्शन- शास्त्रपरीक्षण-नृत्तसङ्गीताभ्यसनादीनां स्थिरसंविधानम् आवश्यकमित्यपि सः असूचयत्।
कर्तार्पूर् तीर्थयात्रा - भारतपाकिस्थानयोर्मध्ये  व्यवस्था सम्पन्ना।
     नवदहली> बहुमासपर्यन्तं कृतचर्चाणाम्‌ अन्ते कर्तार्पूर् तीर्थयात्रा व्यवस्थायां भारतपाकिस्थाने हस्ताक्षरम् अकुरुताम्। अनेन भारतीयैः तीर्थाटकैः पाकिस्थानस्थं कर्तार्पूर् सिख् देवालयं सन्दर्शयितुं शक्यते। द्वयोरपि राष्ट्रयोः मध्ये वर्तमानाभिः समस्याभिरेव व्यवस्थेयं विलम्बिताभवत्। पाकिस्थानस्य कर्तार्पूरस्थं दर्बारसाहिबदेवालयं भारतपञ्चाबस्य गुर्दास्पूरजनपदस्थं देरबाबनानाक् देवालयेन सह बन्धनीयः आभ्यन्तरप्रवेशनमार्गः भवति कर्तार्पूर् मार्गः। नूतनव्यवस्थामनुसृत्य भारतीयतीर्थाटकेभ्यः  अनेन मार्गेण पाकिस्थानं प्रति गन्तुम् अनुमतिपत्रस्य आवश्यकता नास्ति।
बङ्‌ग्लादेशं प्रति विंशति२० क्रिकेट् परम्परायाः भारतसंघः प्रख्यापितः - रोहित् शर्म नायकः।
    मुम्बै > बङ्‌ग्लादेशं प्रतिरुद्ध्य क्रीडितुं त्रयाणां विंशति २० क्रिकेट् क्रीडाणां परम्परायां भारतसंघः रोहित् शर्मणा नीयते। विराट् कोह्लये विरामः दत्तः। संघे सञ्जु सांसण् प्रत्यागच्छत्। विजय् हसारे सपर्यायां सञ्जुना केरलाय उत्तमं प्रकटनं कृतम् आसीत्। एवमेव बङ्‌ग्लादेशं प्रति टेस्ट् परम्परायैरपि संघः प्रख्यापितः अस्ति। टेस्ट्संघं विराट् कोह्लिः नेष्यति। द्वयोरपि संघयोः धोनेः चयनं नैव अभवत्।

Thursday, October 24, 2019

बि एस् एन् एल् - एम् टि एन् एल् लयनाय केन्द्रमन्त्रिसभायाः अङ्गीकारः।
  नवदहली> नष्टे वर्तमानयोः बि एस् एन् एल् - एम् टि एन् एल् सामान्यमण्डलस्थस्थापनयोः लयनाय केन्द्रमन्त्रिसभया अङ्गीकारः दत्तः इति वार्ताविनिमयमन्त्री रविशङ्कर् प्रसादः। पुनरुज्जीवनपद्धतेः अनुबन्धतया ऋणपत्रं सज्जीकृत्य सम्पाद्यस्य विक्रयणं च करिष्यति। ऋणपत्रद्वारा १५००० कोटिरुप्यकाणां, सम्पाद्यस्य विक्रयणेन ३८००० कोटिरुप्यकाणां च समाहरणं लक्ष्यीक्रियते। चतुर्वर्षाभ्यन्तरे धनसमाहरणं पूर्तीकरिष्यति। व्ययन्यूनीकरणानुबन्धतया कर्मकरेभ्यः स्वेच्छया विरामस्वीकरणाय च पद्धतिः सज्जीक्रियते।
शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः  आरब्धुम् अनुज्ञा।
    नवदिल्ली> शैलेन्धनमण्डलेषु नूतननिर्णयं स्वीक्रियते भारतसर्वकारेणI शिलातैलोत्पादनशाला नास्ति चेदपि तैलेन्धनकोशः  आरब्धुम् अनुज्ञा प्रदत्ता अस्ति सर्वकारेण। लघुमात्रायाः विक्रयणमण्डले स्पर्धां समारब्धुम् अयं निर्णयः कारणभूतो भविष्यति इति वार्ता-विनिमय-प्रक्षेपणमन्त्रिणा जावडेक्करेण उच्यते।
  २५० कोटिरूप्‌यकाणि विक्रयणेन आयः याभ्यः संस्थाभ्यः सन्ति ताभ्यः एव लघुमात्राविक्रयणे प्रवेष्टुमनुज्ञा लभते। प्रतिशतं पञ्च (५%) विक्रयणकेन्द्राणि ग्रामेषु भवितव्यानि इति व्यवस्था अपि अस्ति। पेट्रोल्, डीज़ल् , एल् एन् जी, सि एन् जि च इन्धनानां गणे सन्ति।
द्व्यधिकापत्येभ्यः सर्वकारनियुक्तिः निषिध्यते - निर्णयः असमसर्वकारस्य। 
 गुहावती >  येषां अपत्यानि द्विसंख्याकमतिरिच्यन्ते तेषां सर्वकारवृत्तिनियुक्तये अर्हता न भवेदिति असमसर्वकारः। सोमवासरे सम्पन्ने मन्त्रिमण्डलोपवेशने आसीदयं निर्णयः। अधुनातनकाले सर्वकारसेवारताः अपि अपत्यद्वयमिति निबन्धनां परिपाल्य आदर्शधीराः भवेयुरिति सर्वकारस्य आदेशे निर्दिश्यते। 
  संवत्सरद्वयात्पूर्वं सर्वकारेण परिग्रहीतस्य जनसङ्ख्यानयस्य आधारे एव नूतनोऽयं नियमः। २०२१ जनुवरिमासादारभ्य नियमः प्राबल्ये भविष्यति। 
  नूतनः भूनयः अपि मन्त्रिमण्डलेन अङ्गीकृतः। एतदनुसृत्य भूरहितानां कृते ४३,२०० चतु.पादपरिमिता भूमिः भवननिर्माणाय कार्षिकोपयोगाय च अनुमोदते। १५ वर्षाणि यावत् भूमेः विक्रयः निरुद्ध्यते इति व्यवस्थाप्यस्ति।
विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय सामान्यपरीक्षासम्प्रदायः- चर्चाः आरब्धाः।
      नवदहली > राष्ट्रस्य विश्वविद्यालयेषु कलालयेषु च प्रवेशनाय देशीयस्तरे सामान्यपरीक्षासम्प्रदायाय पर्यालोचनाः आरब्धाः इति केन्द्रमानवविभवशेषिमन्त्री डा.रमेष्‌ पोख्रियाल्। देशीयपरीक्षाविभागः प्रवेशनपरीक्षां सञ्चालयिष्यति। विविधानां प्रवेशनपरीक्षाणां लेखनेन छात्रैः अनुभूयमानानां क्लेशानां न्यूनीकरणाय नूतनपरीक्षासम्प्रदायः उपकरिष्यतीति मन्त्री अवदत्। देशीयशैक्षिकनयस्य अन्तिमं स्थूलचित्रम् विना विलम्बं सर्वकारः प्रसिद्धीकरिष्यति। तस्मिन् प्रवेशनपरीक्षां सम्बन्ध्य निर्देशानपि अन्तर्भावयितुमेव चर्चाः आरब्धाः। प्रधानमन्त्रिणः आध्यक्षे सम्पद्यमाने मन्त्रिसभामेलने एतत्सम्बन्ध्य निर्णयः स्वीक्रियते।
सौरव् गांगुलिः बि सि सि ऐ अध्यक्षत्वेन अवरोधितः।

   मुम्बै > सौरव् गांगुलिः भारतीयक्रिकेट्नियन्त्रणसंस्थायाः ३९ तमः अध्यक्षः अभवत्। बङ्गाल् क्रिकेट्समितेः अध्यक्षः भवति सः। मुम्बै मध्ये  बि सि सि ऐ आस्थाने सम्पन्ने वार्षिकमेलने सः स्थानमारूढः इति ट्विट्टर् माध्यमद्वारा  बि सि सि ऐ न्यवेदयत्। दशमासात्मकः कालः सः अध्यक्षपदवीम् अलङ्करिष्यति। केन्द्राभ्यन्तरमन्त्रिणः पुत्रः जय् षा कार्यदर्शित्वेन दायित्वमवहच्च।

Wednesday, October 23, 2019

जनसञ्चार-माध्यमानां नियत्रणम् - २०२० जनुवरिमासाभ्यन्तरे नियमः प्रबलः  भविष्यति।
     नवदहली > सामूहिकमाध्यमेषु दीयमानं विवरणम् आधार् रेखया सह बन्धनीयमिति निर्देशमधिकृत्य २०२० जनुवरिमासाभ्यन्तरे नियमनिर्माणं करिष्यतीति केन्द्रसर्वकारस्य कृते उच्चतरन्यायालये तुषार् मेहता विशदयत्। केन्द्रसर्वकारस्य नूतनपरिष्कारस्योपरि उन्नीतानां निवेदनानाम् उच्चतरन्यायालयस्य परिगणनावेलायामेव केन्द्रसर्वकारस्य विशदीकरणम्। सामूहिकमाध्यमस्थविवराणाम् आधार् रेखया सह बन्धनं, व्यक्तेः स्वातन्त्र्यं प्रति सर्वकारस्य प्रवेशमिव व्याख्यानं नैव उचितम् इत्यपि सर्वकारपक्षतः विशदीकृतम्। देशसुरक्षां राष्ट्रस्य परमाधिकारसंरक्षणं च पुरस्कृत्यैव नूतनपरिष्कारः, व्यक्तिस्वातन्त्र्यमित्येतत् आतङ्गवादिभ्यः नैव देयम् इति केन्द्रसर्वकारस्य नियमकार्यप्रतिपुरुषेण के के वेणुगोपालेनापि अभिप्रेतम्। अन्तर्जालोपयोगेन सामूहिकमाध्यमैः च राष्ट्रविरुद्धप्रवर्तनानि, विद्वेषकप्रभाषणानि, व्याजवार्ताप्रसारणं, नियमविरुद्धप्रवर्तनानि च वर्धयन्तीति उच्चतरन्यायालये केन्द्रसर्वकारेण सत्यप्रस्तावना कृता आसीत्। विषयेऽस्मिन् विविधेषु उच्चन्यायालयेषु वर्तमानानि निवेदनानि उच्चतरन्यायालयस्य परिधौ आनीयानि इति फेस्बुक् सामूहिकमाध्यमेन उच्चतरन्यायालयं प्रति अभ्यर्थितमासीत्।
तृतीयक्रिकेट्टेस्ट्- भारतस्य इन्निङ्स् विजयः।
   राञ्ची> अद्भुतप्रकटनं किमपि न सञ्जातम्। एकस्यापि धावनाङ्कस्य आयुरपि सन्दर्शकदलाय लब्धः। भारतम् एकेन इन्निङ्सेन २०२ धावनाङ्कैः च विजयं प्रापयत्। कोह्लिः संघः च त्रयाणां क्रीडाणां परम्परायां सम्पूर्णविजयं च प्रापयत्। ह्यः अवशेषितौ द्वौ क्रीडकौ नदिं निष्कासयत्। सन्दर्शकदलस्य प्रथमेन्निङ्सस्य अनुवर्तनमिव आसीत् द्वितीयम् इन्निङ्स् अपि। भारतेन आभ्यन्तरपरम्परासु अनुस्यूततया प्राप्ता एकादशी परम्परा भवति इयम्।
भीकरवादिभिः सह पाकिस्थानेन क्रियमाणः सहयोगः चर्चायै भङ्‌गः भवति - अमेरिक्क।
  वाषिङ्टण्> भारत-पाकिस्थानयोः मध्ये वर्तमानानां समस्यानां परिहाराय पाकिस्थानेन भीकरवादिनामुपरि स्वीक्रियमाणः अनुकूलव्यवहारः भङ्गं सृजति इति अमेरिक्क। सीमामुल्लङ्घ्य भीकरवादप्रवर्तनानि कुर्वतां लष्कर् इ तोय्बा, जेय्षे मुहम्मद् सदृशाना संघानां कृते पाकिस्थानस्य पक्षतः लभ्यमानः सहयोगः निराशाजनक एवेति यु एस् राज्यस्तरीयोपकार्यदर्शी आलिस् जि वेल्स् अभिप्रायत्। १९७२ तमे वर्षे हस्ताक्षरेण कृतायाः षिम्ला व्यवस्थायाः आधारेण समस्याः परिहरिष्यतीति  विश्वासः नैव नष्टः इत्यपि सा अवदत्। द्वयोरपि राष्ट्रयोः मध्ये परस्परविश्वासः आर्जनीयः एव भवति। तथापि भीकरवादिभिः सह पाकिस्थानेन अनुवर्तमानः सहयोगः सर्वदा विघातः एव इत्यपि सा असूचयत्।

Tuesday, October 22, 2019

समयनिष्ठां प्रति गो एयर् विमानसेवा संस्थायाः  कृते त्रयोदशः पुरस्कारः।
  मुम्बै> समयनिष्ठां प्रति  गो एयर् विमानसेवासंस्थायाः कृते  अनुसूततया त्रयोदशः पुरस्कारः। आभ्यन्तर-व्योमयानविभागस्य  आवेदनानुसारं २०१९ सितम्बर् मासस्य समयपरिपालने गो एयर् विभागेन प्रथमस्थानं संरक्षितम्। ८५.४% समयपालनप्रकटनं पुरस्कारप्राप्त्यर्थम् संस्थायै उपकृतम्। सितम्बर्मासे १३.२७ लक्षं जनाः विमानयात्रायै गो एयर् संस्थायाः सेवनं स्वीकृतं वर्तते।
केरले उपनिर्वाचनं - वर्षादानम् अतिशक्तं, मतदानं दुर्बलम्। 
कोच्ची > केरलस्य पञ्चसु विधानसभामण्डलेषु सोमवासरे सम्पन्नेषु उपनिर्वाचनेषु चतुर्षु मण्डलेषु अतिशक्तया वर्षया प्रतीक्षितः मतदानविनियोगः नाभवत्। प्रसन्ने वातावतरणे मतदानं सम्पन्ने 'मञ्चेश्वरं' विधानसभामण्डले ७६% मतदायकाः स्वाधिकारं विनियुक्तवन्तः! अन्येषु सर्वेषु मण्डलेषु पूर्वस्याः निशाया‌ आरभ्य मतदानदिनस्य मध्याह्नपर्यन्तं वर्षा शक्ता आसीत्। अतः पूर्वसम्पन्नं लोकसभानिर्वाचनम् अपेक्ष्य मतदानं दुर्बलमासीत्। एरणाकुलं मण्डले ५७.८९ एव मतदानशतमानम्। २०१९ लोकसभानिर्वाचने एतत् ७३.२९% आसीत्! अन्येषु मण्डलेषु मतदानविनियोगः शतमानसूचिकायाम्! कोष्ठके लोकसभानिर्वाचनस्य मतदानम्! 
अरूर् - ८०.४७ (८३.६५), कोन्नी - ७०.०७ (७४.२४), वट्टियूर्क्काव् - ६२.६६ (६९.३४)!
२४ तमदिनाङ्के मतगणना भविष्यति।
विधानसभानिर्वाचनं - महाराष्ट्रं - ६०.२५%, हरियाना - ६५% !
नवदिल्ली > गतदिने विधानसभानिर्वाचनं सम्पन्नयोः महाराष्ट्रं हरियाना राज्ययोः तारतम्येन उत्कृष्टं मतदानं सम्पन्नम्। निर्वाचनायोगेन बहिर्नीतया प्राथमिकसूचनया महाराष्ट्रे प्रतिशतं ७०.२५ मतदायकाः मतदानं कृतवन्तः। हरियानायां तु ६५% जनाः स्वकीयं मतदानाधिकारं विनियुक्तवन्तः। 
   विनैतत् विविधेषु राज्येषु ५१ विधानसभामण्डलेषु द्वयोः कोकसभामण्डलयोश्च उपनिर्वाचनानि सम्पन्नानि।
पञ्चवर्षाभ्यन्तरे विश्वस्य आर्थिकपुरोगतौ भारतस्यापि उत्तमस्थानं भविष्यति।
      लण्डण्> अग्रिमपञ्चवर्षाणि विश्वस्य समस्तानामपि राष्ट्राणां निर्णायकानि भवन्ति। कारणन्तु पञ्चवर्षाभ्यन्तरे अनुभूयमाना आर्थिकी प्रतिसन्धिरेव भवति। अन्ताराष्ट्र-नाण्यनिधेः सूचनानुसारम् आगते ब्लूं बेर्ग् अवलोकने विश्वस्य ९०% राष्ट्राण्यपि आर्थिकीं प्रतिसन्धिम् अभिमुखीकरिष्यन्त्येव। तथापि अस्याः प्रतिसन्धेः तरणं भारतेन साध्यं भवतीत्यपि अवलोकनं सूचयति। पञ्चवर्षाभ्यन्तरे विश्वस्य आर्थिकपुरोगतौ चीनदेशस्य अंशे ४.४% न्यूनतां प्राप्य ३२.७% इति भविष्यति। अमेरिक्कस्य अंशः १३.८% तः २०२४ तमे वर्षे केवलं ९.२% भविष्यति। किन्तु भारतं तु १५.५% इति संवर्ध्य अमेरिक्कस्य उपरि स्थानं प्राप्स्यति इति अन्ताराष्ट्रनाण्यनिधिः सूचयति। इन्तोनेष्य, यु के, रष्य, जप्पान्, ब्रसील्, जर्मनी, टर्की, मेक्सिको, पाकिस्थान्, सौदि अरेब्या इत्यादीनि राष्ट्राण्यपि विश्वस्य आर्थिकपुरोगतौ भागभागिनः वर्तन्ते।
यु ए इ मध्ये लुलु संघस्याभिमुख्ये काश्मीर् प्रचारसप्ताहः आयोज्यते।
   नवदहली > गल्फ् राष्ट्रेषु प्रवर्तमानेषु लुलु वाणिज्यकेन्द्रेषु इतःपरं काश्मीरस्य सेवम् अपि लभ्यते। काश्मीरस्थानाम् उत्पन्नानां क्रयविक्रयणाय यु ए इ मध्ये लुलु वाणिज्यकेन्द्रेषु काश्मीर् प्रचारसप्ताहः आयोज्यते। प्रधानमन्त्रिणः नरेन्द्रमोदिनः यु ए ई सन्दर्शनवेलायां लुलु संघाध्यक्षः एम् ए यूसफ् अलिः विषयेऽस्मिन् मोदिना सह चर्चां कृतवान् आसीत्। तदानीं लुलु वाणिज्यकेन्द्रेषु काश्मीरस्थानाम् उत्पन्नानां साक्षात् क्रीणनं करिष्यतीति तेन वाचा उक्तमासीत्। तदनुसृत्य २०० टण्‌ सेवफलं काश्मीरात् साक्षात् क्रीणनं कर्तुम् अनुमतिः लुलु संघेन प्राप्ता। काश्मीर् प्रचारसप्ताहे एवं क्रीणनं कृतानां काश्मीरसेवानां विक्रयणं भविष्यति। अनेन काश्मीरस्थानां सेवकर्षकानाम् आशङ्का अपि दूरीकृता। अन्यानि कार्षिकोत्पन्नानि क्रेतुमपि लुलु संघः उद्युक्तः भवति। तदर्थं श्रीनगरे सम्भरणशालामारब्धुमपि संघेन आलोच्यते।
तृतीयक्रिकेट्टेस्ट्-भारतम् इन्निङ्स् विजयं प्रति।
   राञ्ची > दक्षिणाफ्रिक्कदलं प्रति तृतीयक्रिकेट्टेस्ट् मध्ये भारतस्य इन्निङ्स् विजयप्रतीक्षा। प्रथमेन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १६२ धावनाङ्काभ्यन्तरे निष्कास्य भारतेन ३३५ धावानाङ्कानाम् अग्रिमत्‍वं प्राप्तम्। भारताय उमेष् यादवः ३ क्रीडकान्, षमिः नदिं जडेजः च क्रमेण द्वाै क्रीडकौ च प्रापयन्। ततः सन्दर्शकदलाय भारताङ्कान् अनुगन्तुं पुनरपि अवसरः दत्तः। तत्रापि द्वितीये इन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १३२/८ इत्यङ्केन पराजयम् अभिमुखीकुर्वदस्ति। द्वितीये इन्निङ्स् मध्ये षमी (३क्रीडकान्), उमेष्‌ यादवः ( २ क्रीडकान्) च दक्षिणाफ्रिक्कदलस्य अन्तकौ जातौ। अस्यां टेस्ट्सपर्यायां द्वाै विजयौ प्राप्य भारतम् अग्रिमं वर्तते।

Monday, October 21, 2019

भारतराष्ट्रस्य विदेशनाण्यसञ्चितम् उन्नतसूचिकयाम्‌।
  मुम्बै> राष्ट्रस्य विदेशनाण्यसम्पादनं १८७.९ कोटि डोलर् संवर्धितम्। अन्ताराष्ट्रनाण्यनिधौ वर्तमाने भारतसम्पादने अपि वर्धनं जातम्। तथापि, सुवर्णसम्पादनसूचिकायां न्यूनता दृश्यते। तेन च सम्पादनं ४३९७१.२ कोटि डोलर् इति सर्वोत्तमसूचिकां प्रापयत्। एतत्तु ओक्टोबर् ११ पर्यन्तं वर्तमानायाः आरक्षणवित्तकोशरेखायाः आधारेण भवति। मूल्यनिर्णयसम्प्रदायः यु एस् डोलर् आधारेण एव वर्तते चेदपि भारतस्य विदेशनाण्यसम्पादने यूरो, पौण्ट्, येन् इत्यादिकमपि वर्तते।
दहल्यां भीकराक्रमणभीषा- सुरक्षा शाक्तीकृता।
  दहली >  दीपावलिदिनेषु दहल्यां भीकराक्रमणानि भविष्यन्ति इति रहस्यान्वेषणविभागस्य सूचनायाः आधारेण जनबाहुल्यकेन्द्रेषु सुरक्षा शाक्तीकृता। पाकिस्थाने प्रवर्तमानायाः जय्षे मुहम्मद् आतङ्गवादसंघः दीपावलिवेलासु आक्रमणाय गूढसंविधानं करोति इति रहस्यान्वेषणविभागेन सूचितम्। एतदनुसारं दह्लेः प्रधानमण्डलेषु सुरक्षा शाक्तीकृता। नियमनिर्माणसभामन्दिरं, प्रधानमन्त्रिणः कार्यालयः, राष्ट्रपतिभवनं, सेनाभवनम् इत्यादिषु अतीवसुरक्षा क्रमीकृता। प्रधाननगरप्रदेशाः, व्यापारवाणिज्यकेन्द्राणि, आराधनालयाः, रेल्यानकेन्द्राणि इत्येवं जनबाहुल्यं प्रतीक्षमाणेषु मण्डलेषु अपि सुरक्षा शाक्तीकृता।
संस्कृतभाषया ट्वीट् कृत्वा विख्यातपोप् गायिका लेडी गागा।
  न्यूयोर्क्> विश्वस्य नानाभागस्थानां लक्षाधिकानां सङ्गीतास्वादकानाम् इष्टगायिका भवति अमेरिक्कस्य विख्यातपोप् गायिका लेडी गागा। इदानीम् एकट्वीट्द्वारा भारतीयाराधकान् सन्तोषयन्ती भवति लेडी गागा। ट्विट्टर् माध्यमद्वारा तया संस्कृतभाषया कृतम् एकं ट्वीट् एव आराधाकानां सन्तोषस्य कारणम्। गतदिने गागायाः पक्षतः संस्कृतभाषया आगतं 'लोकाः समस्ताः सुखिनो भवन्तु'  इति ट्वीट् भारतीयैः आराधकैः आह्लादपूर्वकं स्वीकृतं वर्तते। केचन, वाक्यमिदं तस्याः नूतनसड्गीतखण्डस्य नाम भवतीति अभिप्रयन्। कैश्चित् आराधकैस्तु 'जय् श्रीराम्' इति प्रतिवचनट्वीट् कृतं दृश्यते
अमेरिक्केन सह व्यापारव्यवस्थासम्बन्धाः चर्चाः शुभावहाः - निर्मला सीतारामः।
   वाषिङ्‌टण् > भारत-अमेरिक्कयोः व्यापारव्यवस्थासम्बन्धाः चर्चाः द्रुतगत्‍याम् अग्रेसरन्त्यः इति केन्द्रधनमन्त्री निर्मला सीतारामः अभिप्रयत्। ऐ एम् एफ् आस्थानकेन्द्रे यु एस् धनभण्डागार-कार्यदर्शिना सह कृतचर्चायाः परं वार्तामेलने भाषयन्ती आसीत् सा। अग्रिममासे प्रथमसप्ताहे यु एस् प्रतिनिधयः व्यापारसंघेन साकं भारतं सन्दर्शयिष्यन्ति। 'आयुष्मान् भारत्' सदृशानां सामूहिकपरिरक्षापद्धतीनां लब्धः अङ्गीकारः विषयेऽस्मिन् शुभप्रतीक्षां एव कल्पयति, अतः व्यापारव्यवस्थां सम्बन्ध्य अचिरादेव अन्तिमनिर्णयः भविष्यति इत्यपि मन्त्री असूचयत्।
ऐ एस् एल् पादकन्दुकक्रीडा - प्रथमविजयः केरलब्‍लास्टेर्स् कृते।
    कोच्चि> ऐ एस् एल् पादकन्दुकक्रीडायाः षष्ठे खण्डे प्रथमविजयः केरलब्‍लास्टेर्स्दलेन प्राप्तः। ए टि के कोत्कत्तादलं २-१ इत्यङ्के केरलब्‍लास्टेर्स्दलं पराजयत। ब्लास्टेर्स् कृते नायकः ओग्बचे वारद्वयं (३०,४५ निमेषयोः) लक्ष्यं प्रापयत्। कोल्कत्तादलाय क्रीडायाः षष्ठे निमेषे कात्माक् हग् लक्ष्यं प्रापयत्।
‘संस्कृतभारती’ वैश्विकं सम्मेलनम् आयोजयति।
संस्कृतभाषां जनभाषां कर्तुं निरन्त प्रयत्नरतं किञ्चन संघटनम् अस्ति ‘संस्कृतभारती’। 
   नवदिल्ली> संस्कृतभाषायाः जनभाषाकरणरूपम् एतत् उदात्तलक्ष्यं सफलीकर्तुं प्रयत्नरताः सहस्रशः कार्यकर्तारः निर्मिताः अनया ‘संस्कृतभारती’ इत्याख्यया संस्थया। तेषु कार्यकर्तृषु केचन प्रतिदिनम् एकहोरात्मकं कालम्, केचन द्विहोरात्मकं केचन त्रिहोरात्मकम् इत्येवं क्रमेण केचन चतुर्विंशतिहोरात्मकं कालम् अपि अस्मै संस्कृतकार्याय समर्पयन्तः सन्ति। इत्थं निरन्तरं प्रयत्नेन एव अधुना लोके सहस्रशः जनाः दैनन्दिनजीवने संस्कृतेन व्यवहरन्तः सन्ति । ‘संस्कृतभारती’ वर्षत्रये एकवारं सर्वेषां कार्यकर्तृणाम् किञ्चन वैश्विकं सम्मेलनम् आयोजयति। तदेव सम्मेलनं ‘वैश्विकम् अधिवेशनम्’ इति नाम्ना व्यवह्रियते । आगच्छन्तु ! अस्य वैश्विक-अधिवेशनस्य काँश्चन मुख्यबिन्दून् पश्यामः ।

संस्कृतकुटुम्बम्
 अस्मिन् अधिवेशने तादृशाः बहवः कुटुम्बजनाः आगमिष्यन्ति ये परस्परं संस्कृतेन एव सम्भाषणं कुर्वन्ति। एतादृशेषु कुटुम्बेषु लब्धजन्मनां शिशूनाम् अपि मातृभाषा संस्कृतम् एव भवति। संस्कृतम् एव मातृभाषारूपेण व्यवहरन्तः बालाः अपि अस्मिन् अधिवेशने उपस्थिताः भविष्यन्ति।
     विश्वस्य सप्तदशसु (17) देशेषु यत्र कुत्रचिदपि संस्कृतभारत्याः दायित्ववन्तः कार्यकर्तारः एव अस्मिन् अधिवेशने भागं स्वीकुर्वन्ति ।

प्रदर्शनी
अस्य अधिवेशनस्य मुख्यम् आकर्षणकेन्द्रं “प्रदर्शनी” भविष्यति। अस्याः त्रयः भागाः भविष्यन्ति –
१. आङ्ग्लशासकानाम् आगमनात् प्राग् भारते संस्कृतस्य स्थितिः कीदृशी आसीत् ?
२. आङ्ग्लशासकानाम् आगमनानन्तरं भारते संस्कृतस्य स्थितिः कीदृशी अभवत् ?
३. संस्कृतभारत्याः उद्भवस्य अनन्तरम् अस्मिन् क्षेत्रे किं परिवर्तनं जातम् ?

   अस्याः प्रदर्शन्याः दर्शनेन जनेषु ‘अस्माकं प्राचीन-गौरवस्य पुनरुद्धारः सम्भवति’ इति विश्वासः पुनः जागरितः भविष्यति। मुक्तसत्रम् रविवासरे मुक्तसत्रस्य आयोजनं भविष्यति यस्मिन् सर्वे नागरिकाः भागग्रहणं कर्तुं शक्नुवन्ति। मुक्तसत्रं विहाय अधिवेशनस्य अन्येषु सत्रेषु अभिव्यक्तेः माध्यमभाषा संस्कृतमेव भविष्यति।

संस्कृत-सम्बद्ध-पुस्तकानाम् आपणाः
     संस्कृत-सम्बद्ध-पुस्तकानाम् आपणाः अस्मिन् अधिवेशनपरिसरे भविष्यन्ति। यत्र संस्कृतप्रेमिणः पुस्तकालयप्रबन्धकाः पठनव्यसनिनः च पुस्तकक्रयणस्य महान्तम् अवसरं प्राप्स्यन्ति।
    सर्वेषां संस्कृतप्रेमिणाम् अपि मुक्तहस्तेन दानं कृत्वा प्रत्यक्षरूपेण परोक्षरूपेण वा अपि अस्मिन् अधिवेशने भागं कर्तुम् अवसरः अस्ति ।

दिनाङ्काः - 09.11.2019 तः 11.11.2019 पर्यन्तम्
स्थानम् - देहली
तृतीयक्रिकेट्टेस्ट्-भारतं सुशक्तम्।
  राञ्ची > दक्षिणाफ्रिक्कादलेन साकं प्रवृत्तमानायां तृतीयक्रिकेट्टेस्ट्क्रीडायां भारतं सुरक्षितस्थाने वर्तते। प्रथमेन्निङ्स् मध्ये भारतं रोहित् शर्मणः द्विशतकस्य (२१२) अजिङ्क्य रहानस्य शतकस्य (११५) च साह्येन ४९७/९ इत्यङ्के समापितम्। भारताय जडेजः अर्धशतकं(५१) प्रापयत् च। द्वितीयदिनस्य सायं प्रतिक्रीडनसमये दक्षिणाफ्रिक्कादलं ९/२ इति दुर्घटावस्थायां वर्तते। सन्दर्शकदलस्य आरम्भकक्रीडकौ द्वावपि बहिर्गतौ वर्तेते।

Sunday, October 20, 2019

भारतस्य प्रत्याक्रमणम् - पाकधीनकाश्मीरे भीकरसङ्केताः नाशिताः।
   श्रीनगर् > सीमनि पाकिस्थानेन क्रियमाणानाम् आक्रमणानां शक्तं प्रत्याक्रमणं कृत्वा भारतसैन्यम्। प्रत्याक्रमणे पाकधीन-काश्मीरे भीकरकेन्द्राणि नाशितानि। पाकधीन-काश्मीरस्य नीलं गिरितटे वर्तमानानि चत्वारि भीकरकेन्द्राणि एव सैन्येन नाशितानि।
गौतं गम्भीरस्य सम्पर्कः- हृदयशस्त्रक्रियायै भारतमागन्तुं पाकिस्थानबालिकायै अनुमतिः।
   नवदहली> हृदयशस्त्रक्रियायै भारतमागन्तुं पाकिस्थानबालिकायै तस्याः कुटुम्बाय च विदेशकार्यमन्त्रालयेन अनुमतिः दत्ता। विषयेऽस्मिन् विदेशकार्यमन्त्रिणा सह गौतं गम्भीरेण चर्चा कृता आसीत्। चिकित्सायै भारतमागन्तुम् अनुमतिपत्राय बालिकायाः कुटुम्बस्य च प्रतिबन्धः आसीत्। एतस्य परिहाराय गम्भीरेण सम्पर्कः कृतः आसीत्। एतत्सम्बन्ध्य इस्लामाबादस्थं भारतप्रतिनिधिं प्रति प्रेषिते लेखनसन्देशे बालिकायै कुटुम्बाय च अनुमतिपत्रं दातुं विदेशकार्यमन्त्रिणा सूचितम्। कार्यमिदं गम्भीरः ट्विट्टर्सामूहिकमाध्यमद्वारा न्यवेदयत्। 'एका पुत्री अपि स्वगृहं प्रत्यागच्छति' इत्यपि सः सचित्रम् अभिप्रयत्।
रोहित् शर्मणः पुनरपि शतकम्।
     राञ्ची > दक्षिणाक्रिक्कादलेन सह प्रवृत्तमानायां तृतीयक्रिकेट्क्रीडायां भारतस्य रोहित् शर्म शतकं (११७*) प्रापयत्। वृष्टिवशात् शीघ्रम् अवसिते प्रथमदिने रोहित् शर्मणः प्रकटनेन भारतं २२४/३ इत्यङ्कैः सुशक्तं वर्तते। शर्मणः उत्तमसहयोगं कृत्वा उपनायकः अजिङ्क्य रहाने (८३*) क्रीडन् वर्तते। ३९ धावनाङ्काभ्यन्तरे नायकस्य कोह्लेः सहितं त्रयः बहिर्गताः आसन्। ततः आरब्धः शर्म-रहाने सहयोगः १८५ धावनाङ्कैः सह क्रीडन् वर्तते। वृष्टिः शान्ता चेत् द्वितीयदिने भारतेन महान् अङ्कः प्राप्तुं शक्यते च।
सैनिकविद्यालयेषु अध्ययनाय बालिकाभ्यः अपि अनुज्ञा।
  नवदिल्ली> सैनिकविद्यालयेषु बालिकाः अपि अध्येतव्य इति निर्देशः केन्द्र-प्रतिरोधमन्त्रिणा राजनाथसिंहेन प्रदत्तः। 2020-21 अध्ययन संवत्सरादारभ्य निर्देशोऽयं  प्रबलं भविष्यति। वर्षद्वयात् पूर्वं मिजोरामस्थे चिङ्चिप् सैनिकविद्यालये परीक्षणरूपेण आसीत् बालिकानां प्रथमप्रवेशः। अस्य योजनायाः सम्पूर्णविजयः अभवत् इत्यतः प्रतिरोधमन्त्रालयस्य अयं निर्णय इति  एन्.डि.टि.वि. आवेदयति।

  परियोजनायाः क्रियान्वयनाय आवश्यकाः सुविधाः तथा सैनिकविद्यालयेषु वनिताकर्मकराणां नियुक्तिः च विना विलम्बं भविष्यति। केन्द्रसर्वकारस्य 'बेठी पठाओ वेठी बचाओ' इति आन्दोलनं, लिङ्गसमत्वं, सायुधसेनासु स्त्रीणां प्रातिनिध्यं च लक्ष्यीकृत्य भवति  नूतनोऽय निर्णयः। आराष्ट्रं भारते 33 सैनिकविद्यालयाः सन्ति। 2017 तमे वर्षे इदं प्रथमतया षट् बालिकाः सेनिकविद्यालये प्रविष्टाः आसन्।

Saturday, October 19, 2019

केरलेषु संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्।
कोष़िक्कोट् जनपदस्य प्रतिषेधमेलनम्।
    कोच्ची > संस्कृतशिक्षकैः अनुभूयमानां विविधानां समस्यानां परिहाराय केरलेषु केरला संस्कृताध्यापकफेडरेषनस्य (के एस् टि एफ् डि&पि) नेतृत्वे संस्कृतशिक्षकैः प्रतिषेधदिनम् आचरितम्। सर्वास्वपि जनपदेषु शैक्षिकोपनिदेशककार्यालयं केन्द्रीकृत्य आसीत्  प्रतिषेधः।
एरणाकुलम् जनपदस्य मेलनम्
 प्राथमिकस्तरे अध्यापकनियुक्तिः, सर्वेषु विद्यालयेषु संस्कृताध्ययनाय छात्रेभ्यः अवसरकल्पनं, अंशकालीनाध्यापकानां भविष्यनिधेः (provident fund)   पुनःस्थापनं, भाषाशिक्षक-छात्रसंख्यानुपातसंग्रहः,
जनपदस्तरीयेषु शैक्षिकपरिशीलनकेन्द्रेषु संस्कृविभागस्यारम्भः इत्यायारभ्य विविधानां त्रयोदश (१३) समस्यानाम् उचितः परिहारः सर्वकारेण कार्यः इति अभ्यर्थ्य आसीत् प्रतिषेधदिनाचरणम्। प्रतिषेधमेलनेषु के एस् टि एफ् डि&पि नेतारः नेतृत्वम् अवहन्।

उत्तरप्रदेशे कलालयेषु विश्वविद्यालयेषु च जङ्गमदूरवाणी निरोधिता।
   लख्नौ> उत्तरप्रदेशराज्ये समस्तविश्वविद्यालयेषु तथा कलालयेषु च पठनानुकूलान्तरिक्षस्य वर्धनाय आदित्यनाथसर्वकारस्य परिष्कारः। तदर्थम् सर्वकारेण राज्यस्य उन्नतशैक्षिकसमितेः निर्देशानुसारं विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाण्याः निरोधनं कृतं वर्तते। एतत्सम्बन्ध्य आगतं विज्ञापनमनुसृत्य अध्यापकानध्यापकैः छात्रैः च विश्वविद्यालयेषु कलालयेषु च जङ्गमदूरवाणी न उपयोक्तव्या।
चतुर्मासाभ्यन्तरे भीकरप्रवर्तनानि समापनीयानि - पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य अन्तिमं व्यवस्थाप्रख्यापनम्।
    पारीस् > भीकरप्रवर्तनेभ्यः दीयमानम् आर्थिकं साह्यं चतुर्मासाभ्यन्तरे समापयितुं पाकिस्थानं प्रति आर्थिकदौत्यसंघस्य सम्मर्दः। पूर्वं दत्तायाः कर्मपद्‌धतेः प्रवृत्तिपथमानयनम् अचिरादेव करणीयम्, अन्यथा प्रत्याघातः कठिनः भवेत् इत्यपि आर्थिकदौत्यसंघेन शासितम्। २०५ राष्ट्राणां तथा ऐ एम् एफ्, यु एन्, विश्ववित्तकोशः इत्येतेषां प्रतिनिधीनां मेलनानन्तरमेव अन्तिमं व्यवस्थाप्रख्यापनम् अभवत्। प्रस्तुतमेलने पाकिस्थानं ग्रे पट्टिकायां स्थितीकृतम्।

Friday, October 18, 2019

ओक्टोबर् २२-तमे दिनाङ्के वित्तकोशकर्मकराणां देशीयसंग्राम:।
    नवदहली > ओक्टोबर् २२-तमे दिनाङ्के राष्ट्रे समस्तेषु वित्तकोशेषु कर्मकराः कर्मणः विरामं स्वीकुर्वन्ति।  वित्तकोशकर्मकराणां द्वाभ्यां संस्थाभ्यां नेतृत्वे एव संग्रामाय आह्वानं कृतं वर्तते। संग्रामे राष्ट्रस्य वित्तकोशकर्मकराः पूर्णतया भागभागिनः भविष्यन्तीति अखिलेन्ट्या बाङ्क् एम्प्लोयीस् असोसियेषन्, बाङ्क् एम्प्लोयीस् फेटरेषन् ओफ् इन्ट्या इत्यनयोः द्वयोः संस्थयोः नेतारः वार्तामेलने अवदन्।
अन्तरिक्षमलिनीकरणम्-दहल्यां पुनरपि वाहननियन्त्रणम्।
   नवदहली> राजधानीनगर्याम् अन्तरिक्षमलिनीकरणं रूक्षतां प्राप्ते सन्दर्भे पुनरपि वाहनसंख्याम् एक-द्वयरीत्या परिगणय्य परिष्काराय दहलीसर्वकारः। नवम्बर् मासस्य ४ दिनाङ्कादारभ्य १५ दिनाङ्कपर्यन्तं परिष्कारः अनुवर्तते। नियन्त्रणमिदं न केवलं दहलीस्थानां वाहनानाम् अपि तु दहलीं सन्दर्श्यमानानां सर्वेषामपि वाहनानां बाधकं भवति। प्रातः ८ खण्डादारभ्य रात्रौ ८ खण्डापर्यन्तं वाहननियन्त्रणं भविष्यति। किन्तु अस्मात् नियन्त्रणपरिष्कारात् द्विचक्रिकाः,दिव्याङ्गानां वाहनानि,स्त्रीणां वाहनानि च परित्यक्तानि भवन्ति।
कोह्ल्येः नेतृत्वे भारतेन इतोऽपि अग्रेसर्तव्यम् - गांगुलिः।
    कोल्कत्ता > अन्ताराष्ट्रक्रिकेट्समितेः (ऐ सि सि) बृहत्तरासु सपर्यासु विजयं प्राप्तुं कोह्लिः संघः च श्रद्धां करोतु इति नियुक्त बि सि सि ऐ अध्यक्षः सौरव् गांगुलिः। 'तदर्थं महान् परिश्रमः करणीय एव,तदेव मम मुख्यं लक्ष्यम्' तेन स्पष्टीकृतम्। इतःपूर्वं २०१३ तमे वर्षे एव भारतेन एका ऐ सि सि सपर्या प्राप्ता वर्तते।

Thursday, October 17, 2019

बिहारे साङ्क्रमिकरोगाः। २००० जनाः चिकित्सायां वर्तन्ते। 
  पट्न> प्रलयानन्तरं बिहारे रोगाः संक्रमन्ति। डेङ्कुज्वरेण १९२३ जनाः चिकित्सायां वर्तन्ते। पट्ना देशे भवन्ति ज्वरबाधितेषु अधिकाः। १४१० जनाः ज्वर बाधिताः सन्ति इत्यस्ति आवेदनम् I
  कङ्कड् बाग्, गर्दानि बाग्, डाक् बंग्लाव्, एस् के पुरि इत्येतेषु निम्न प्रदेशेषु  डेङ्कु ज्वरः आवेदितः। अतिवृष्ट्या, प्रलयेन च प्रदेशोऽयं जले निमग्ना आसीत्। प्रलयानन्तरावस्थायाः अवलोकनाय मुख्यमन्त्रिणा नीतीष कुमारेण रविवासरे उन्नत-तलोपवेशनं निमन्त्रितम् आसीत्।
काश्मीरे सङ्घर्षे त्रयः आतङ्गवादिनः मृताः।
   श्रीनगर्> काश्मीरे अनन्तनागजनपदे सुरक्षासेनया त्रयः आतङ्गवादिनः हताः। एते सर्वेऽपि तद्देशीयाः एव भवन्ति। अनन्तनाग्, बिजबेहरा,कुल्गाम् इत्यादिभ्यः जनपदेभ्यः आतङ्‌गवादिसंघेषु प्रवर्तमानाः अबूहनान्, साहिद् अहम्मद्‌ लाण्, आखिब् अहम्मद्‌ हाजम् इत्यादयः एव हताः। दक्षिणकाश्मीरे प्रवृत्ते अन्यस्मिन् सङ्घर्षे एकः कर्मकरः आतङ्गवादिभिरपि हतः। सन्दर्भेऽस्मिन् हयात् अहम्मद् भट्ट् इति नामकः काश्मीरवासी आरक्षकबन्धने अभवत् च।

Wednesday, October 16, 2019

पारपत्रम् वा अनुमतिसन्देशपत्रं वा विना यात्रा साध्या।
  दुबाय् > इतःपरं पारपत्रम् वा अनुमतिसन्देशपत्रं वा विना विमानयात्रा शक्या। एतत्सम्बन्ध्य नूतनसाङ्केतिकविद्या दुबाय्देशे सम्पन्ने गैटेक्स् २०१९ मध्ये प्रदर्शिता। यात्रानुमतिपत्ररहिता मुखप्रत्यभिज्ञानविद्या भवति नूतनपरिष्कारः। अचिरादेव विद्येयं सज्जीक्रियते। तेन च यात्रानुमतिपत्रम् अनुमतिसन्देशपत्रम् अङ्गुलीचिह्नं वा विना विमानयात्रा सुसाध्या भविष्यति। २०२० वर्षादारभ्य दुबाय् वैमानिकसङ्केते इमां विद्याम् उपयुज्य यात्रादिकमारभ्यते  इति अधिकारिभिः सूचितम्।
विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे भारतस्य तुल्यता।
   कोल्कत्ता > खत्तर् मध्ये सम्पत्स्यमानायाः विश्वचषकपादकन्दुकक्रीडायाः योग्यताक्रीडाचक्रे बङ्‌ग्लादेशं प्रति भारतस्य तुल्यता (१-१)। क्रीडायाः अन्तिमवेलायां ८९ तमे निमेषे भारताय आदिल्खान् तुल्यतायै लक्ष्यं प्रापयत्। प्रथमपादे ४२ तमे निमेषे  साद् उदिन् बङ्‌गलादेशाय लक्ष्यं प्रापयत्। तेन लक्ष्येण बङ्‌गलादेशः विजयं प्रतीक्षयन् समये आसीत् भारतरक्षकत्वेन आदिल्खानस्य अविश्वसनीयं प्रकटनम्।
सूपर् ओवर् परिष्कृत्‍य ऐ सि सि।
  दुबाय् > परिमितओवर्  क्रिकेट्क्रीडासु उपान्तिम-अन्तिमचक्रयोः इतःपरं फलपर्यन्तं सूपर् ओवर् अनुवर्तयितुम् अन्ताराष्ट्रक्रिकेट्समित्या (ऐ सि सि) निर्णयः स्वीकृतः। प्रगत-विश्वचषक-सपर्यायाम् अन्तिमचक्रे जेतारं निर्णेतुं स्वीकृतः सीमोल्लङ्घन-संख्यासम्प्रदायः महते विवादाय कारणमासीत्। सः विवादः नियमपरिष्काराय अपि कारणमभवत्। इतःपरं बृहत्क्रिकेट् सपर्यासु नूतनपरिष्कारः प्रयुज्यते।

Tuesday, October 15, 2019

सौरव् गांगुलिः बि सि सि ऐ अध्यक्षः।
  मुम्बै > भारतीयक्रिकेट्नियन्त्रणसमितेः नूतनाध्यक्षत्वेन भूतपूर्वः भारतसंघनेता सौरव् गांगुलिः चितः। ऐककण्ठ्येनासीत् तस्य चयनम्। अस्य मासस्य २३ दिनाङ्के सम्पद्यमाने बि सि सि ऐ वार्षिकमेलने एतत्सम्बन्ध्य औपचारिकं प्रख्यापनं भविष्यति। कार्यसचिवत्‍वेन केन्द्राभ्यन्तरमन्त्रिणः अमित्षा महोदयस्य पुत्रः जय् षा अपि चितः वर्तते।
मार्गान् श्मशानीकर्तुम् अनुज्ञा नास्ति- उच्चन्यायालयः।
     कोच्ची-गोश्रीपुरम् >मार्गान् श्मशानीकर्तुम् अधिकारः दातुं नशक्यते इति केरलस्य उच्चन्यायालयेन उक्तम्। वाहनापघातानां कारणानि कारणभूतान् च प्रत्यभिज्ञातुं सार्वजनिक-वाहनेषु चलनछायाग्राहिणः स्थापनीयाः। पूर्वमेव तस्याः स्थापनायाः आवश्यकता आसीत्l इदानीं कालः अतीतः वर्तते इति न्यायालयेन अभिप्रेतम्I  
      कोष़िक्कोट् जनपदे पेराम्प्रदेशे बस् यानस्य घट्टनेन दुरापन्ने स्त्रियः अपमृत्यौ गृहीतस्य यानचालकस्य समाश्वास-याचिकायाः परिगणनवेलायां आसीत् न्यायालयस्य परामर्शःI
2000 इति रूप्यकपत्रस्य  मुद्रणम् अवसितम् इति आवेदनम्।
    नवदिल्ली> रूप्यकपत्रेषु २००० इत्यस्य  मुद्रणं अवसितम् इति आवेदनम् अस्ति। न्यू इन्द्यन् एक्स् प्रस् इत्यस्यै दैनिकपत्रिकायै सूचनाधिकारनियमानुसारं भारतीय रिज़र्व वित्तकोशतः लब्धे प्रत्युत्तरे रूप्यकपत्राणां मुद्रणम् अवसितं भवति इति लिखितम्। अस्याम् आर्थिकसंवत्सरे २००० रूप्यकाणां एकमात्रमपि न मुद्रितमित्यपि लिखितम् अस्ति। 
     धनादानयन्त्रात् धनस्वीकरण समये २००० इत्यस्य रूप्यकपत्रस्य संख्या न्यूना जाता। व्याजधनस्य विनिमय-निवारणं लक्षीकृत्य भवति अतिमूल्य रूप्यकपत्राणां निर्व्यापनम् इति मन्यते।

Monday, October 14, 2019

 दक्षिणाफ्रिक्कदलं प्रति भारतीयवनितानामपि विजयः।
 वडोदरा > दक्षिणाफ्रिक्कदलं प्रति तिसृणाम् एकदिनात्मक-क्रिकेट्क्रीडाणां परम्परा भारतीयवनितासंघेन प्राप्ता।तिसृष्‍वपि क्रीडासु भारतीयवनिताभिः विजयःप्राप्तः। तृतीयक्रीडायां ६ धावनाङ्कैः भारतदलं विजयं प्रापयत्। भारतदलेन केवलं १४६ धावनाङ्काभ्यन्तरे बहिर्गतं चेदपि कन्दुकक्षेपिकाणाम् उत्तमं प्रकटनं विजयाय उपकृतम्।
वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतस्य मञ्चू राण्याः रजतपतकम्l
    उलान्-उदे(रष्य)> भारतस्य मञ्जू राणी वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां रजतपतकं समपादयत्। तस्याः प्रथमा विश्वचषकसपर्या भवति इयम्। वनितानां ४८ किलो परिमितविभागे भूतपूर्वजेत्रीं तायलाण्डस्य चुतामत् रक्सातां ४-१ इत्यङ्के मञ्जू पराजित्वा अन्तिमचक्रं प्राविशत्। किन्तु अन्तिमचक्रे सा रष्यदेशस्य एकटेरीना पाल्ट्सेवां प्रति (१-४) पराजिता अभवत्। वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतेन एकरजतपतकसहितं चत्वारि पतकानि प्राप्तानि।
ऐक्यराष्ट्रसभायाः आर्थिकी प्रतिसन्धिः- अङ्गराष्ट्रैः धनांशः दातव्यः।
    नवदहली> ऐक्यराष्ट्रसभायाः आर्थिकीं प्रतिसन्धिम् अधिकृत्‍य सूचनाः प्रगतदिने बहिरागताः आसन्। २०१९ वर्षस्य व्ययगणनपत्रिकायाः आधारेण ऐक्यराष्ट्रसभां प्रति अङ्गराष्ट्रैः अंशत्‍वेन दातव्यं धनं बहुभिः राष्ट्रैः इतोऽपि नैव दत्तम् इति सूचना। १९३ अङ्गराष्ट्रेषु ६४ राष्ट्रैः धनांशः दातव्यः भवति। किन्तु, केवलं ३५ राष्ट्रैरेव धनांशः दत्तः वर्तते। तत्रापि बहुभिः केवलं ७०% धनमेव दत्तं वर्तते । एतदेव प्रतिसन्धेः मुख्यं कारणम् अभवत्। तथापि भारतेन धनांशः पूर्णतया दत्तः अस्तीति ऐक्यराष्ट्रसभायाः भारतप्रतिनिधिना सैद् अक्बरूदिनेन सूचितम्‌।
पुण्यश्लोका मरियं त्रेस्या विशुद्धगणं सम्प्राप्तवती। 
    वत्तिक्कान् > 'होली फैमिली' नामकसन्यासिनिसमूहस्थापिका भारतीया क्रैस्तवपुण्यश्लोका मरियं त्रेस्या अद्य विशुद्धपदं संप्राप्तवती। वत्तिक्कानस्थे सेन्ट् पीटेर्स् चत्वरे आयोजिते धार्मिककार्यक्रमे  फ्रान्सिस् मार्पापावर्यः भगिनी मरियं त्रेस्यार्या विशुद्धा इति उद्घोषितवान्। मरियं महाभागया सह जोण् हेन्टि न्यूमान् [इङ्गलण्ट्], भगिनी ज्यूसेपिना वानीनि [इटली], भगिनी डल्चे लोप्पस् पोन्टस् [ब्रसील्], मर्गरीता बेय्स् [स्विट्सर्लान्ट्] इत्येते च विशुद्धाः इत्यपि  प्रख्यापिताः। 
  केरलीया मरियं त्रेस्या> विशुद्धपदप्राप्ता मरियं त्रेस्या केरलराज्यस्थे तृश्शिवपेरूर् जनपदे कुष़िक्काट्टुश्शेरि ग्रामे लब्धजन्मा अभूत्। एतस्याः पूर्वं त्रयः केरलीयाः  विशुद्धाः पूर्वगामिनः सन्ति। अल्फोण्साम्बा, कुर्याक्कोस् चावरा एलियास् पिता, एवुप्रास्याम्बा च।
वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतस्य मञ्चू राणी अन्तिमचक्रे।
  उलान्-उदे(रष्य) > अविश्वसनीयजयेन भारतस्य मञ्जू राणी वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां अन्तिमचक्रं प्रविष्टा। तस्याः प्रथमा विश्वचषकसपर्या भवति इयम्। वनितानां ४८ किलो परिमितविभागे भूतपूर्वजेत्रीं तायलाण्डस्य चुतामत् रक्सातां ४-१ इत्यङ्के मञ्जू पराजयत्।

Sunday, October 13, 2019

द्वितीयटेस्ट्क्रिकेट्क्रीडायां भारतस्य विजयः।
  पूने > दक्षिणाफ्रिक्कदलं प्रति द्वितीयटेस्ट्क्रिकेट्क्रीडायां भारतम् इन्निङ्सेन तथा १३७ धावनाङ्कैः च विजयं समपादयत्। भारतस्य विजयवेलायां क्रीडायाः एकदिनमपि अवशिष्टं वर्तते इत्येतत् विजयस्य माधुर्यं वर्धयति। द्वितीये इन्निङ्स् मध्ये दक्षिणाफ्रिक्कदलं १८९ धावनाङ्काभ्यन्तरे बहिः प्रेषितम्। केशवमहाराजः फिलान्टर् च तुल्यतायै परिश्रमम् अकुरुतां, तथापि पराजयं प्रतिरोद्धुं सः परिश्रमः अपर्याप्तः अभवत्। भारताय जडेजः (५२/३), उमेष् यादवः (२२/३) च विजये निर्णायकं भागभागित्वम् अवहताम्। अनेन विजयेन भारतं तिसृणां क्रीडाणां परम्परां च प्रापयत्।
तटपरिपालननियममुल्लङ्घ्य निर्मितानि भवनसमुच्चयानि उच्छिद्यन्ते। 
उच्छेदनं सर्वोच्चनीतिपीठस्य आदेशेन। 
सर्वोच्चनीतिपीठस्य अन्त्यशासनानुसारं उच्छेदनीयानि ४ भवनसमुच्चयानि। 
कोच्ची> केरले तीरपरिपालनव्यवस्थाः उल्लङ्घ्य निर्मीय निवासाय उपयुज्यमानानि चत्वारि भवनसमुच्चयानि पूर्णतया उच्छेदयितुं प्रक्रमाः आरब्धाः। सर्वोच्चन्यायालयस्य तीक्ष्णादेशः उच्छेदनप्रक्रमान् त्वरितीकर्तुं राज्यसर्वकारं प्रेरयामास। भवनसमुच्चयनिवासिनां प्रादेशिकप्रशासनानां च अभियाचिकाः सर्वोच्चनीतिपीठेन निरस्ताः आसन्। मुम्बईस्थम् एडिफिस् एञ्चिनीयरिंङ् , चेनैैस्थं विजय् स्टील्स् इत्येते संस्थे अवसादनकर्मणि नियुक्ते वर्तेते।  
  'गोल्डण् कायलोरं' , 'जयिन् कोरल् कोव्' , आल्फा सेरिन्' , 'होली फेय्त् एछ् २ ओ' इत्येतानि उच्छेदनीयानि भवनसमुच्चयानि। एतानि एरणाकुलं जनपदस्थे मरट् नगरसभाप्रदेशे एव वर्तन्ते। आगामिनि सप्ताहे अवसादनप्रक्रमाः आरभ्य जनवरी मासस्य नवमदिनाङ्कात्पूर्वं पूर्तीकरिष्यतीति केरलसर्वकारेण वाग्दत्तमस्ति। भवनवासिनां पुनरधिवासाय उच्छेदनसुरक्षाप्रक्रमेभ्यश्च एककोटिरूप्यकाणि अनुमोदितानि।
भारतीयान् कन्दुकक्षेपकान् परीक्ष्य महाराजः फिलान्टर् च , अन्ते पराजितौ च।
  पूने> द्वितीयटेस्ट्क्रिकट् मध्ये दक्षिणाफ्रिक्कदलस्य अन्तिमक्रीडकानां शक्तः प्रतिरोधः। नवमे सख्ये महाराजः(७२) फिलान्टर् (४४*) च १०९ धावनाङ्कान्‌ प्राप्तवन्तौ। अन्ते, सख्यस्य भङ्गः अश्विनेन कृतः। दक्षिणाफ्रिक्कदलाय नायकः डुप्लेसिस् (६४) अर्धशतकं समपादयत्। भारताय अश्विनः४, उमेष् यादवः३ च क्रीडकान् निष्कासितवन्तौ। दक्षिणाफ्रिक्कदलेन २७५ धावनाङ्कान् सम्पाद्य बहिर्गतम्। भारतस्य अधुना ३२६ धावनाङ्कानां पुरोगितः वर्तते।

Saturday, October 12, 2019

बङ्गाली कवयित्रीं कामिनी रोयीम् आदरं प्रकट्य गूगिल् डूडिल्।
   कोल्कत्ता > प्रसिद्धां बङ्गाली कवयित्रीं कामिनी रोयीं तस्याः १५५-तमे जन्मदिने आदरं प्रकट्य गूगिल् डूडिल्।सा यद्यपि कवयित्री तथापि स्त्रीपक्षवादी, सामूहिकप्रवर्तका, शैक्षिकविचक्षणा इत्येवं प्रमुखा आसीत्। "सामूहिकप्रवर्तकओणेर्स् " इति बिरुदं प्राप्ता प्रथमा भारतीयवनिता भवति कामिनी रोय्। सा, "बङ्गिया नारी समाजः" इति बङ्‌गालस्थसंस्थायाः प्रमुखा प्रवर्तका आसीत्।महाश्वेता, पुण्डोरिक्, पौराणिकी, दीप् ओ धूप्, जीबोण् पथे, निर्मल्य, मल्य ओ निर्मल्य, धर्मपुत्र इत्यादयः तस्याः प्रशस्ताः रचनाः भवन्ति।
वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां मेरी कों कृते कांस्यपतकम्।
   मोस्को > वनितानां विश्वमुष्टिप्रहरप्रतिक्रीडायां भारतीयवनितायाः मेरी कोमायाः तृतीयं स्थानं लब्धम्। सेमिफैनल् चक्रे युरोप् जेत्र्या ककिरोग्ल्या सह प्रवृत्तायां क्रीडायां मेरी कों पराजिता अभवत्। मेरी कोमायाः अष्टमं विश्वपतकं भवति इदम्। मेरी कों विश्वमुष्टिप्रहरप्रतिक्रीडायां षट्वारं जेत्री अभवत्। विश्वमुष्टिप्रहरप्रतिक्रीडाचरित्रे अष्ट पतकानि इत्येतत् अपूर्वा प्राप्तिः भवति।
बहिराकाशे प्रथमतया पद्भ्याम् अटतः मनुष्यः दिवङ्गतः।
  मोस्को > मानवस्य आकाशयात्रां प्रति नूतनं मानं रचितः रष्यदेशीयः वैज्ञानिकः अलक्सि लियनोव् ८५-तमे वयसि दिवङ्गतः। ५४ बर्षेभ्यः पूर्वं १९६५ मार्च् मासस्य १८ दिनाङ्के आसीत् लियनोवस्य चरित्रप्रसिद्धा यात्रा। वोषकोड् २ नामके वाहने आसीत् यात्रा। किन्तु, अस्याः यात्रायाः दशवर्षानन्तरमेव  वैज्ञानिलोकं प्रति यात्रामधिकृत्य ज्ञानं लब्धम्। तथापि, अतिसाहसिकी आसीत् लियनोवस्य यात्रा इति वैज्ञानिकानाम् अभिप्रायः। लियनोवस्य निधने रष्यदेशस्य बहिराकाशव्यवहारशाखा रोस्कोस्मोस्, अमेरिक्कदेशस्य नासा च अनुशोचनं न्यवेदयताम्।
विश्वशान्ति-नोबेल् पुरस्कारः एत्योप्यास्य प्रधानमन्त्रिणे
 स्टोक् होम् > विश्वशान्तये कृतप्रयत्नाय २०१९ तम वर्षस्य नोबेल् पुरस्कारः  एत्योप्यास्य प्रधानमन्त्रिणे अबि अहम्मद् अलिवर्याय लभते। एरित्रियया सह विद्यमान सीमाधिकारवादे  अबि अहम्मद् अलिवर्येण स्वीकृतानि शान्तिदूतप्रवर्तनानि सम्माननस्य अर्हतायाः निकषः अभवत्।
  स्वीडनस्य परिस्थिति प्रवर्तका ग्रेट्टातुन्बेर्ग् अपि पुरकारसमितेः परिगणनायाम् आसीत्l २२३ व्यक्तयः ७८ संस्थाः च स्पर्धायाम् आसीत्। २०१८ एप्रिल् मासे आसीत् अबि अहम्मद् अलि महोदयस्य प्रधानमन्त्रिपद नियुक्तिःI  स्थानारोहणानन्तरं षण्मासाभ्यन्तरे चिरकालीनेन शत्रुराष्ट्रेण सह शान्त्रिभाषणं कृतवान्। एरित्रा एत्योप्यायाः मध्ये विद्यमानाः शत्रुता एवं शीघ्रं विलीना। अस्य महोदयस्य नयतन्त्रक्षमता भवति अस्य शान्ति व्यापनस्य  पृष्टतः इति पुरस्कार-समित्यङ्गाः निर्णीताः
द्वितीयक्रिकट्टेस्ट्-भारतं सुशक्तम्।
  पूने > द्वितीयक्रिकट्टेस्ट् मध्ये दक्षिणाफ्रिक्कदलं प्रति भारतस्य बृहदङ्कः। द्वितीयदिने ६०१/५ इत्यङ्के क्रीडां समाप्य भारतेन दक्षिणाफ्रिक्कदलं क्रीडनाय आमन्त्रितम्। भारताय नायकः कोह्ली शतकद्वयं (२५४*) समपादयत्। उपनायकः रहाने (५९), जडेजः (९१) च नायकम् उचितं सहयोगं दत्तवन्तौ। प्रतिक्रीडनमारब्धस्य दक्षिणाफ्रिक्कदलस्य ३६ धावनाङ्काभ्यन्तरे ३ क्रीडकाः बहिर्गताः। भारताय उमेष् यादवः २,षमी १ च क्रीडकान् निष्कासितवन्तौ।

Friday, October 11, 2019

रेल् विभागे पुनरपि निजीयत्वपरिष्कार:।
   नवदहली > १५० रेल्यानानि, ५० रेल् सङ्केतान् च निजीयत्वपरिष्कारेण विकासयितुं केन्द्रसर्वकारस्य पर्यालोचना। एतदर्थं उन्नतस्तरीयसमितेः रूपीकरणम् आवश्यकमिति नीति आयोगस्य अध्यक्षः अमिताभ् कान्त् रेल् विभागाध्यक्षं न्यवेदयत्। समित्यां आर्थिकनगरविकसनमन्त्रालययोः कार्यदर्शिनावपि भवेताम्। विश्वोत्तररीत्या रेल्मार्ग-यानविकसनमेव मुख्यं लक्ष्यमिति अधिकारिभिः सूचितम्।
द्वितीयटेस्ट्क्रीडायां भारतं सुरक्षितस्थाने।
   पूने > दक्षिणाफ्रिक्कदलं प्रति द्वितीयटेस्ट्क्रीडायां प्रथमदिनं भारतं २७३/३ इत्यङ्के समापयत्। भारताय मयङ्क् अगर्वाल् पुनरपि शतकं (१०८) प्रापयत्। चेतेश्वर पूजारः (५८) तं उत्तमं सहयोगम् अदात्। ६३ धावनाङ्कैः सह नायकः कोह्ली, १८ धावनाङ्कैः सह उपनायकः रहाने च क्रीडतः।

Thursday, October 10, 2019

एप्रिल् मासादारभ्य भारते 'बि एस् ६' इन्धनम्। 
  जयपुरम् >  २०२० एप्रिल् मासादारभ्य भारतस्य प्रमुखनगरेषु भारत स्टेज् - ६ [बि एस् - ६] नामकं नूतनं परिस्थित्यनुकूलं पेट्रोलेन्धनं लभ्यमानं भविष्यतीति केन्द्र -परिस्थितिमन्त्रिणा प्रकाश् जावदेक्करेण निगदितम्। अन्तरिक्षमालिन्यन्यूनकोपकारकाय संस्कृतं मृत्तैलेन्धनं भवति बि एस् - ६। 
   बि एस् - ६ पेट्रोलस्य उपयोगक्षमानि वाहनानि आगामिनि संवत्सरे विपण्यामागमिष्यन्ति। एतदर्थं ६०,००० कोटि रूप्यकाणि कल्पितानि। प्रतिशतं ८० - ९० अन्तरिक्षमालिन्यन्यूनीकरणाय समर्थं भवति एतदिन्धनम्। 'सल्फर' नामकस्य रासवस्तुनः न्यूनता एव बि एस् ६ इन्धनस्य वैशिष्यम्।
केरलीयवित्तकोशाय भारतीयारक्षणवित्तकोशस्य अनुमतिः।
      तिरुवनन्तपुरम् > केरलीयवित्तकोशाविष्करणाय भारतीयारक्षणवित्तकोशेन अनुमतिः दत्ता वर्तते। केरलोत्पत्तिदिने नवम्बर् प्रथमदिनाङ्के केरलीवित्तकोशः प्रवर्तनमारभते। केरलीयान् १४ सहकरणवित्तकोशान् संयोज्य एव केरलीयवित्तकोशस्य आयोजनम।
केन्द्रसर्वकारकर्मकरेभ्यः मूल्यवर्धितवेतने ५% वर्धनम्।
   नवदहली> केन्द्रसर्वकारकर्मकराणां उपजीवनप्रतिकरवेतने ५% संवर्ध्य केन्द्रसर्वकारः। तेन च दुर्लभतावेतनं १२% तः १७% इति वर्धितम्। ५० लक्षं कर्मकरेभ्यः अस्य प्रयोजनं लभ्यते। प्रधानमन्त्रिणः आध्यक्षे जाते मन्त्रिसभामेलने एव निर्णयः स्वीकृतः। वर्धनस्य जूलैमासादारभ्य पूर्वकालप्राबल्यमपि वर्तते। अनेन वर्धनेन सर्वकारस्य १६००० कोटि रूप्यकाणाम् अधिकव्ययः प्रतीक्ष्यते।
मोदी-षी जिन् पिङ् अभिमुखं शुक्रवासरे।
   नवदहली > द्वितीयं भारत-चीनराष्ट्रयोः अनौपचारिकमेलनं शुक्रवासरे सम्पद्यते। चेन्नै राज्यस्य महाबलिपुरे एव मेलनम्। मेलनार्थं महाबलिपुरं सुसज्जंभवति। सुरक्षाक्रमीकरणादिकं पूर्णं जातम्।  विश्वराष्ट्राणि मेलनमिदम् आकाङ्क्षापूर्वकं निरीक्षन्ते। काश्मीरविषयः सूक्ष्मतया निरीक्षते इति प्रगतदिने चीनाध्यक्षेण षी जिन् पिङ् महोदयेन सूचितम्। किन्तु काश्मीरविषयः भारतस्य आभ्यन्तरविषय एव भवति, एतादृशाभ्यन्तरविषयेषु अन्यस्य राष्ट्रस्य नासिकाप्रवेशः नावश्यकः इति विदेशकार्यमन्त्रालयवक्त्रा रवीष्कुमारेण अभिप्रेतम्। तथापि, व्यापार-सीमासुरक्षाविषयेषु प्रधाननिर्णयादिकं मेलने स्वीक्रियते इत्‍येव प्रतीक्षा।

Wednesday, October 9, 2019

त्रयाणां कृते वैद्यशास्त्रनोबेल् पुरस्कार:।
स्टोक् होम् > मानवजीवनस्य आधारभूतं प्राणवायुं सम्बन्ध्य निर्णायकम् अध्ययनफलम् आविष्कृतवतां त्रयाणां वैज्ञानिकानां कृते अस्य वर्षस्य वैद्यशास्त्रविभागस्थः नोबेल् पुरस्कारः प्रख्यापितः। विल्यं जि केयिलिन्, पीट्टर् जे राट्स्लिफ्, ग्रेग् एल् सेमन्सा इत्यादिभ्यः वैज्ञानिकेभ्यः एव पुरस्कारः। शरीरकोशेषु लभ्यमानस्य प्राणवायोः स्तरं ज्ञात्वा उचितरीत्‍या प्रतिकरणाय आवश्यकम् अनुक्रमम् अधिकृत्य कृतेभ्यः अनुसन्धानेभ्यः एव पुरस्कारः प्रख्यापितः वर्तते। जेयिम्स् पीबिल्स्, मैक्किल् मेयर्, दिदियेर् क्वलोस् इत्यादयः भौतिकशास्त्रनोबेल् पुरस्कारेण आदृताः।
विश्वमुष्टिप्रहरक्रीडायां मेरी कोमस्याः विजयः।
    मोस्को > रष्यायां प्रचाल्यमानायां विश्वमुष्टिप्रहरक्रीडायां भारतवनितायाः मेरी कोमस्याः उज्वलविजयः। ताय्लाण्टस्य जूटामास् जिट्पोड़ां ५-० इत्यङ्के सा पराजयत्। अनेन विजयेन मेरी कों क्वार्टर् फैनल् चक्रं प्राविशत्। ५१ किलोपरिमितविभागे एव मेरी कोमस्याः भागभाक्त्वम्।
भारतेन ८७-तमं व्योमसेनादिनम् समाचरितम्।
    गासियाबाद् > तेजस्, चिनूक्, अपाचे, सुखोय् इत्यादिभिः बहुभिः युद्धविमानैः स्वशक्तिं प्रकट्य भारतीयव्योमसेना। गासियाबादस्य हिन्डोण् व्योमकेन्द्रे दिनाचरणकार्यक्रमाः अभवन्। व्योम-भू-नाविकसेनानाम् अध्यक्षाः दिनाचरणकार्यक्रमेषु सन्निहिताः। राष्ट्रस्य सुरक्षा, लक्ष्यं, परमाधिकारः च संरक्षितुं वयं प्रतिज्ञाबद्धाः इति व्योमसेनायाः अध्यक्षः राकेष् कुमारसिंहः अभिप्रयत्। दिनाचरणानुबन्धतया सैनिकाभ्यासप्रकटनानि च अभवन्। राष्ट्रपतिः रामनाथकोविन्दः प्रधानमन्त्री नरेन्द्रमोदी इत्यादयः प्रमुखाः व्योमसेनां प्रति आशंसाः समर्पितवन्तः। विश्वस्य चतुर्था बृहत्तमा व्योमसेना भवति भारतीयव्योमसेना।

Tuesday, October 8, 2019

अनधिकृतसम्पत्प्राप्तवतां प्रथमपट्टिकां समर्प्य स्विट्सर्लान्ट्।
  नवदहली> अनधिकृतसम्पत्प्राप्तवतां बन्धनाय मोदिसर्वकारस्य प्रयत्नः लक्ष्यं प्राप्नोति। स्विस् वित्तकोशे अनधिकृतमार्गेण प्राप्तस्य धनस्य निक्षेपं कृतवतां भारतीयानां पट्टिकां स्विट्सर्लान्ट् भारतसर्वकारम् अदात्। द्वयोरपि राष्ट्रयोः मध्ये स्वीकृतेन स्वयंप्रेरितवृत्तान्तविनिमयनामकेन सम्मतपत्रेण (ओटोमाटिक् एक्स्चेञ्च् ओफ् इन्फर्मेषन्)भारतीयानां अनधिकृतसम्पत्प्राप्तवतां क्रयविक्रयवृत्तान्तादिकं सर्वं भारतं समर्पयिष्यतीति स्विस्सर्वकारेण पूर्वमेव सूचितमासीत्। स्विट्सर्लान्टस्य संयुक्तकरनिर्णयनिर्वहणविभागेन (फेटरल् टाक्स् अड्मिनिस्ट्रेषन्) सूक्ष्मतया परीक्ष्यैव वृत्तान्तादिकं दत्तं वर्तते।
एकदिनश्रेण्यां द्वितीयस्थानं संरक्ष्य भारतीयः वनितासंघः।
    मुम्बै > अन्तःराष्ट्रक्रिकेट्समितेः वनितानां श्रेण्यां भारतीयसंघेन द्वितीयस्थानं संरक्षितम्। श्रेण्याम् ओस्ट्रेलियसंघः प्रथमस्थानं प्रापयत्। तृतीयस्थाने इङ्ग्लण्ट् वर्तते। अधुना भारतस्य १२५ अङ्काः वर्तन्ते।
पाकिस्थानं प्रति आर्थिकदौत्यसंघः। (फिनान्ष्यल् टास्क् फोर्स्)
    इस्लामाबाद् > हाफिस् सयीद्‌ सदृशानां भीकरानामुपरि दण्डनकार्यस्वीकरणे विलम्बं करोति इत्यारोप्य आर्थिकदौत्यसंघः (फिनान्ष्यल् टास्क् फोर्स्)। आतङ्वादनियन्त्रणकार्येषु पाकिस्थानस्य समीपनम् अड्गीकर्तुं नैव शक्यते इति संघेन सूचितम्। अन्तःराष्ट्रस्तरे आर्थिकसाहाय्यादिकं लब्धुं आर्थिकदौत्यसंघस्य उत्तमावलोकनरेखा आवश्यकी। संघस्य प्रस्तुतपरामर्शः पाकिस्थानाय दोषः इव भवति इत्येव अन्तःराष्ट्रसमूहस्य मतम्। मुम्बै आतङ्गवादाक्रमणस्य मुख्यसूत्रधारः अयं हाफिस् सयीद् अधुनापि पाकिस्थाने सुरक्षितजीवनं नयतीत्‍यपि संघः अधिक्षेपमकरोत्।