OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 30, 2022

 महाराष्ट्रं - उद्धवताक्करे त्यागपत्रं समार्पितवान्। 

मुम्बई> बहुदिनानि यावत् अनुवर्तमानस्य राजनैतिकानिश्चितत्वस्य अन्ते महाराष्ट्रस्य मुख्यमन्त्री उद्धवताक्करे पदं त्यक्तवान्। शिवसेनादलस्य विमतानां पृच्छानुसारं विधानसभायां गुरुवासरे विश्वासमतप्रक्रिया करणीया इति राज्यपालस्य निर्देशं प्रति सर्वोच्चन्यायालयस्य प्रतिकूलविधिं समादृत्य एव सः त्यागपत्रं समार्पितवान्।

  २०१९ इति वर्षे शिवसेना, कोण्ग्रस्,एन् सि पि प्रभृतीनां  'महा विकास् अघाडि' इति सख्यस्य नेतृरूपेण उद्धवताक्करे वर्यः महाराष्ट्रस्य मुख्यमन्त्रिपदं स्वीकृतवान्। सार्धद्वयवर्षस्य प्रशासने शिवसेनानेता एकनाथ षिन्डे इत्यस्य नेतृत्वे भूरिशः सदस्याः विमताः अभवन्। भा ज पा दलेन सह प्रशासनं रूपीकर्तुं प्रयत्नः आरब्धः। तस्यानन्तरफलमेव अयं स्थानत्यागः।

Tuesday, June 28, 2022

 यश्वन्तसिंहः नामाङ्कनपत्रिकां समर्पितवान्।


नवदिल्ली> राष्ट्रपतिनिर्वाचने स्पर्धमाानः विपक्षसंघस्य स्थानाशी यश्वन्तसिंहः सोमवासरे नामाङ्कनपत्रिकां समर्पितवान्। राज्यसभायाः कार्यदर्शी पि सि मोदी एव मुख्यवरणाधिकारी। 

  राहुल गान्धी, शरत्पवारः, सीताराम यच्चूरी, डि राजा, अखिलेशयादवः, फरूख् अब्दुल्ला इत्यादयः १६ विपक्षदलनेतारः यश्वन्तसिंहम् अन्वगच्छन्। 

  राष्ट्रपतिस्थानं लक्ष्यीकृत्य एषा स्पर्धा न वैयक्तिकसंबन्धिनी किन्तु आशयसम्बन्धिनी इति पत्रिकासमर्पणानन्तरं स्थानाशिना सह वार्ताहरान् भाषमाणः राहुल गान्धी उक्तवान्।

चतुर्दिनाभ्यन्तरे ९४००० उद्योगार्थिनः आवेदनपत्राणि दत्तवन्तः। अग्निपथे उद्योगार्थिनां प्रवाहः।

नवदिल्ली> गतद्विसप्ताहे राष्ट्रे प्रतिषेधाय संघर्षाय अग्निसादनाय च कारणभूतायां अग्निपथ् परियोजनायां उद्योगार्थिनां प्रवाहः। विज्ञापनप्रकानानन्तरं चतुर्दिने अतिते आवेदनपत्रं प्रेषितानां उद्योगार्थिनां संख्या ९४००० अतीता। व्योमसेनाविभागे ५६९६० आवेदनपत्राणि लब्धानि इति सेनया प्रोक्तम्। जूण् मासे १४ दिनाङ्के एव सेनानियुक्तिविषये ऐतिहासिकः निश्चयः केन्द्रसर्वकारेण बहिः प्रकाशितः।

Monday, June 27, 2022

 बङ्गलादेशस्य दीर्घतमः सेतुः उद्घाटितः। 

धाक्का> बङ्गलादेशस्य दक्षिणोत्तरक्षेत्रं राजधान्या सह संबध्यमानः सेतुः शनिवासरे प्रधानमन्त्रिण्या षैख् हसीनया उद्घाटितः। पद्मानद्याः तिरश्चीनेन  निर्मितः अयं सेतु‌ः ६. १५ किलोमीटर् दीर्घयुक्ता भवति।  रेल्-वीथीयानगमनागमनाय सेतुमिमम्  उपयोक्तुं शक्यते। 

  अस्यै परियोजनायै त्रिंशत्सहस्रं रूप्यकाणि व्ययं कृतानि। विदेशसाह्यं विना पूर्णतया गृहधनराशिव्ययेनैव सेतुरयं निर्मितः इति सविशेषता अस्ति।

 त्रिमासोनाः स्तनन्धयाः चलनचित्रेषु अन्यत्र च अभिनयार्थं न उपयोक्तव्याः इति बालाघिकारसमितिः।

 त्रिमासोनाः स्तनन्धयाः स्तन्यपाययनादीनां  प्रतिरोधचिकित्साविधीनां च बोधानात्मकानि चलनचित्रखण्डानि विहाय अन्येषु वेदिकासु न उपयोक्तव्याः। चलनचित्रेषु, ओ टि टि वेदिकायां,  सामाजिकमाध्यमजालपुटेषु च नवजातशिशुः चलनचित्रस्य चित्रीकरणार्थम् उपयुज्यते इत्यस्मिन् विषये  बालाधिकारसमित्या प्रकाशितां प्रथममार्गनिर्देशपत्रे अन्तर्गतं भवति एषा व्यवस्था।

Sunday, June 26, 2022

 'मेडिसेप्' याथार्थ्यं प्राप्नोति; अधिकमूल्यसमाहरणाय आदेशः दत्तः। 

अनन्तपुरी> केरलराज्ये सर्वकारसेवकानां सेवाविरतानां च कृते प्रख्यापिता मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना प्रवृत्तिपथं प्राप्नोति। जूलाय् प्रथमदिनाङ्के आरभ्यमाणायाः परियोजनायाः उद्घाटनं मुख्यमन्त्री पिणरायि विजयः तस्मिन् दिनाङ्के एव करिष्यति। अस्यां परियोजनायां प्रतिसेवकात् ५०० रूप्यकाणि अधिकमूल्यरूपेण समाहर्तुम् आदेशः बहिरागतः। 

   सेवकानां जूण्मासस्य वेतनात् आरभ्य अधिकमूल्यं समाहरिष्यते। सेवाविरतेभ्यः अधुना चिकित्सासाह्यरूपेण लभमानानि ५०० रूप्यकाणि अधिकमूल्यरूपेण परिगणयिष्यन्ते। ११ लक्षं संख्याकाः सेवकाः सेवाविरताः तथा तेषां परिवाराङ्गाश्च अभिव्याप्य २७ लक्षं जनाः परियोजनायामस्याम् अन्तर्भवन्ति।

 वाराणसी विमानपत्तने विज्ञापनं देवभाषायामपि।

काशी> काशीविश्वनाथं सन्दर्शयितुं वाराणस्यां प्राप्तान् स्वीकर्तुं देवभाषया विज्ञापनं समारब्धम्। देवभाषया विज्ञापनं समारब्धं प्रथमं विमानपत्तनं भवति लाल् बहादूर् शास्त्रि अन्ताराष्ट्रियविमानपत्तनम्। आङ्गलभाषायां राष्ट्रभाषायां तथा देवभाषायामपि विज्ञापनम् आरब्धुं विमानपत्तनाधिकारिभिः निश्चितमस्ति। बनारस् हिन्दु विश्वविद्यापीठस्य सहकारेणैव विमानपत्तनाधिकारिणः विज्ञापनाय पद्धतिः आविष्कृता। संस्कृतभाषां मुख्यधारासु पुनरानेतुं एव अयं शुभारम्भः। कोविड् नियन्त्रणानि आहत्य हिन्दी भाषायाम् आङ्गलभाषायां तथा संस्कृते च विज्ञापयन्ति इति अधिकारिभिः ट्विट्टर् द्वारा आवेदितम्। विमानपत्तनसमुच्चये प्रविष्टानां यात्रिकाणां कृते संस्कृतभाषायाः श्रवणानुभवप्रदानं, संस्कृतभाषादरणं, जनानां मध्ये व्यावहारिकभाषारूपेण प्रचारणं च लक्ष्यीकृत्यैव परियोजनेयं समारब्धा इति विमानपत्तननिर्देशकेन आर्यमा सन्यालेन निगदितम्।

जि-७ उच्चशिखरे भागं स्वीकर्तुं प्रधानमन्त्री नरेन्द्रमोदी जर्मन्यां प्राप्तवान्।

नवदिल्ली> जि-७ उच्चशिखरे भागं स्वीकर्तुं प्रधानमन्त्री नरेन्द्रमोदी जर्मनीदेशं प्राप्तवान्। दिनद्वयसन्दर्शनाय अद्य प्रातःकाले म्यूणिक् देशं प्राप्तवान्। विमानपत्तने बवेलियन् मण्डलिकानादघोषेण नरेन्द्रमोदिने स्वागतं व्याजहार। जून्२६, जून्२८ दिनेषु प्रचाल्यमाणे उच्चशिखरमेलने परिस्थितिविषये ऊर्जविषये भक्ष्यसुरक्षाविषये स्वास्थ्यविषये च चर्चा प्रचलिष्यति। अमेरिकायाः राष्ट्रपतिः जोबैडन्, बिट्टण् राष्ट्रस्य प्रधानमन्त्री बोरिस् जोण्सण्, फ्रञ्ज् राष्ट्रस्य राष्ट्रपतिः इम्मानुवल् माक्रोण्, कानडस्य राष्ट्रपतिः जस्ट्टिन् ट्रूडो इत्यादयः उच्चशिखरे भागं स्वीकरिष्यन्ति। जर्मन्याः प्रधानमन्त्रिणा सह च नरेन्द्रमोदी मेलिष्यति।

Saturday, June 25, 2022

 नासया समुद्रसङ्गीतस्य आविष्कारः कृतः।

अमेरिक्कायाः बहिराकाशसंस्थया नासया समुद्रान्तर्भागे निगूढं कौतुकावहं समुद्रसङ्गीतं विश्वस्य पुरतः आविष्कृतम्। नासायाः गोड्डार्ड बहिराकाशडयनकेन्द्रस्य गवेषकः रयन् वान्डर्मीलन्, तस्य सोदरः संगणकयन्त्रकार्यकर्ता जोण् वान्डर्मीलन् च भवति अस्य आविष्कर्तारौ। समुद्रप्रवाहे चलने च सङ्गीतं निगूढं प्रसरति इति तौ प्रत्यभिज्ञातौ।

 द्रौपदी मुर्मू नामाङ्कनपत्रिकां समर्पितवती।

नवदिल्ली> एन् डि ए सख्यस्य राष्ट्रपतिस्थानाशिनी द्रौपदी मुर्मूवर्या नामाङ्कनपत्रिकां समर्पितवती। मुख्यवरणाधिकारी राज्यसभाकार्यदर्शिप्रमुखः पि सी मोदी इत्यस्य सकाशे एव पत्रिकासमर्पणं कृतवती। 

  ह्यः मध्याह्ने संसद्सभायाः ग्रन्थशालामन्दिरं प्राप्तवती  द्रौपदी मुर्मू प्रधानमन्त्रिणा तथा अन्यनेतृभिः सह मिलितवती। तदन्तरं सभामन्दिरस्य समीपे वर्तमानासु महात्मा गान्धी , बी आर् अम्बेदंकरः, बिर्सा मुण्टा इत्येतेषां प्रतिमासु पुष्पार्चनां कृतवती। 

  पत्रिकासमर्पणवेलायां प्रधानमन्त्री नरेन्द्रमोदी, भा ज पा अध्यक्षः जे पि नड्डा, वरिष्ठाः केन्द्रमन्त्रिणः राजनाथसिंहः, अमितशाहः, नितिन् गड्करी, पियूषगोयलः विविधराज्यानां मुख्यमन्त्रिणः इत्येषां सान्निध्यमभवत्।

 केरले प्रतिदिनकोविड्बाधिताः चतुस्सहस्रमतीताः।

अनन्तपुरी> केरलराज्ये प्रतिदिनकोविड्बाधितानां संख्या षण्मासानन्तरं पुनरपि चतुस्सहस्रमतीता। शुक्रवासरे  ४०९८ जनेषु रोगः दृढीकृतः। १० मरणान्यपि आवेदितानि। राज्ये रोगस्थिरीकरणमानं १८ प्रतिशतमिति अवर्धत। 

   अनन्तपुरि जिल्लायां १०३४ जनाः एरणाकुले ९३० जनाः च रोगबाधिताः अभवन्। केरले कोविडेन समं  डेङ्किज्वरः, मूषिकज्वरः इत्यादयः सांक्रमिकज्वराः अपि दृश्यन्ते इत्यतः जनाः जागरूकाः भवेयुः इति राज्यस्वास्थ्यमन्त्रालयेन निगदितम्।

Friday, June 24, 2022

 भारते १३,३१३ नूतनाः कोविड्रोगिणः। 

नवदिल्ली> गुरुवासरे समाप्ते २४होराकाले आराष्ट्रं १३,३१३ जनाः नूतनेन कोविड्बाधिताः अभवन्। ३८ जनाः अस्मिन् कालपरिधौ मृत्युवशं प्राप्तवन्तः। २. ०३ भवति गतदिनस्य रोगस्थिरीकरणमानम्। 

   महाराष्ट्रं, केरलं, दिल्ली इत्यादिषु राज्येषु एव रोगस्थिरीकरणमानम् उच्चस्तरे वर्तते। अधुना ८३,९९० रोगिणः परिचर्यायां वर्तन्ते। १९६. ६२ कोटिसंख्याकाः वाक्सिनमात्राः वितरीताः इति स्वास्थ्यमन्त्रालयेन निगदितम्।

 कोविड्व्यापने जागरूकता आवश्यकी - केन्द्रस्वास्थ्यमन्त्री।

नवदिल्ली> राष्ट्रे कोविड्रोगिणां संख्या उच्चस्थितौ जाते तादृशेषु जनपदेषु अधिकजागरूकता पालनीया इति केन्द्रस्वास्थ्यमन्त्रिणा डो मनसुख माण्डव्यवर्येण निर्दिष्टम्। केषुचित् राज्येषु कोविड्प्रकरणेषु वर्धितेषु विचक्षणैः सह सम्पन्ने कोविडवलोकनोपवेशने आसीत् अयं निर्देशः। 

    आर् टि पि सि आर् नामकपरिशोधना अधिका कर्तव्या। वाक्सिनीकरणस्य शीघ्रता वर्धितव्या। नूतनप्रभेदान् प्रत्यभिज्ञातुं जनितश्रेणीकरणप्रयासः अनुवर्तनीया इत्यादयः निर्देशाः अपि तेन सूचिताः।

ब्रिक्स् उच्चशिखरमेलने भारतस्य राजदूतः चीनस्य विदेशमन्त्रिणा सह अमिलत्। 

बेय्जिङ्> भारतस्य राजदूतः प्रदीपकुमाररावत्तः चीनस्य विदेशमन्त्रिणा वाङ्षिणा  सह मिलितवान् । वाङ्षेः उपचारपूर्वक्षणानुसारमेव रावत्तः मेलने भागं स्वीकृतवान्। राष्ट्रपतिः षिचिन् पिङ् इत्यस्य आध्यक्षे समारप्स्यमाणे ब्रिक्स् उच्चशिखरमेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी भागं स्वीकरिष्यति। तत् पुरस्कृत्यैव मेलनमिदम्। मार्च् मासे बेय्जिङ् मध्ये भारतस्य राजदूतरूपेण स्थानारोहणानन्तरं प्रथमसन्दर्शनमिदमिति भारतस्य दूतावासकार्यालयेन आवेदितम्। राष्ट्रसीमायां शान्ति - समता पालनमधिकृत्य परस्परं चर्चितौ।

Thursday, June 23, 2022

 राष्ट्रपतिनिर्वाचनं - द्रौपदी मुर्मू , यश्वन्त सिंहश्च स्थानाशिनौ। 


नवदिल्ली> जूलाय् १८ तमे दिनाङ्के सम्पत्स्यमानाय भारतराष्ट्रपतिनिर्वाचनाय शासनपक्ष-विपक्षस्थानाशिनौ प्रख्यापितौ। प्रशासनपक्षस्य एन् डि ए संघस्य स्थानाशिरूपेण द्रौपदी मुर्मू वर्या निर्णीता। ६४ वयस्का एषा ओडीषायां भा ज पा दलस्य वनवासिविभागस्य नेत्री झार्खण्डराज्यस्य भूतपूर्वा राज्यपालिका च अस्ति। 

  विपक्षसंघस्य स्थानाशिरूपेण भूतपूर्वः केन्द्रमन्त्री यश्वन्त सिंहः प्रख्यापितः। गतदिने एन् सि पि दलाध्यक्षस्य शरत् पवारस्य नेतृत्वे संवृत्ते १३ विपक्षदलानां समुपवेशने आसीत् ८४ वयस्कः यश्वन्त सिंहः स्वेषां स्थानाशिरूपेण निश्चितः। 

  अनेन भारते राष्ट्रपतिनिर्वाचनसंबन्धचित्रं सुव्यक्तं जातम्।

Tuesday, June 21, 2022

 अन्ताराष्ट्रिययोगदिनस्य शुभकामनाः।

योगेन चित्तस्य पदेन वाचां, 
मलं शरीरस्य च वैद्यकेन। 
योऽपाकरोत् तं प्रवरं मुनीनां, 
पतंजलिं प्राञ्जलिरानतोस्मि॥


Monday, June 20, 2022

 प्रणोयः पराजितः। 

जक्कार्ता> इन्डोनेष्या ओपण्  पिच्छकन्दुकक्रीडायाः उपान्त्यचक्रे भारतक्रीडकः प्रणोयः पराजितोSभवत्। चीनस्य सावो जुन् पेङ् इत्येनं प्रति २१-१६, २१-१५ इति क्रमेण सः पराभवं स्वीकृतवान्। 'सीड्'पदरहितौ द्वावपि श्रेष्ठतरेण क्रीडाप्रभावेणैव उपान्त्यचक्रं प्राप्तवन्तौ। रविवासरे सम्पद्यमाने अन्तिमद्वन्द्वे सावो जुन् पेङः विश्वस्य प्रथमस्थानीयेन डेन्मार्क् देशीयेन विक्टर् अक्सल्सः इत्यनेन सह स्पर्धिष्यते।

 तटित्प्रहरः - त्रिषु राज्येषु २४ मरणानि। 

नवदिल्ली> रविवासरे प्रपन्नेन तीव्रेण तटित्प्रहरेण ओडीषा, बिहारं, छत्तीसगढ राज्येषु २४ जनाः मृत्युमुपगताः। 

  बिहारे १७ जनाः मृताः। भगत्पुरे जनपदे अष्ट ,वैशाल्यां त्रीणि, बङ्क, बगारिय जनपदयोः द्विक्रमेण, मुन्गर्, कतिहार्, मधेपुरं, सहर्सा जनपदेषु एकैकश्च मृत्युवशं गताः। 

  ओडीषायां महिलामभिव्याप्य चतुर्णां प्राणाः विनष्टाः। द्वौ व्रणितौ अभवताम्। छत्तीसगढे गरियाबाद् मुङ्गेलि भटपार जनपदेषु त्रयः विनष्टप्राणाः जाताः। सहस्पुरग्रामे चरन्तः ५२ अजाः अपि मृताः।

इन्धनं नास्ति। श्रीलङ्कायां विद्यालयान् कार्यालयान् च कीलयितुं सर्वकारः सज्जते।

कोलम्बो> नगरपरिधौ सर्वकारीयविद्यालयाः निजीयविद्यालयाः च आगामि वासरे न उद्घाटयिष्यन्ति इति शिक्षामन्त्रालयस्य परिपत्रे विशदयति। इन्धनस्य दौर्लभ्यः, सामान्यगमनागमनस्य न्यूनता तथा निजीययात्रासुविधायाः अप्रायोगिकता च परिगणय्य सोमवासरादारभ्य कार्यालयेषु केवलम् अवश्यकर्मकराः एव सन्निहिताः भवितव्याः इति गृहमन्त्रालयेन आदेशो दत्तः। स्वास्थ्यमण्डलस्थाः कर्मकराः पूर्ववत् सेवायै आगन्तव्याः इति निर्देशः अस्ति।

प्रगति मैदान् गमनागमनसुरङ्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः।

नवदिल्ली> प्रगति मैदान् नाम संयोजितगमनागमनसुरङ्गः प्रधानमन्त्रिणा नरेन्द्रमोदिना राष्ट्राय समर्पितः। उद्घाटनानन्तरं सुरङ्गसन्दर्शनावसरे प्रधानमन्त्रिणा तत्रस्थानि मालिन्यानि निर्मार्जयन्तं दृश्यमपि त्वरितप्रसारणमभवत्। सुरङ्गसन्दर्शनावसरे अधः क्षिप्तां पलस्तिककूपीं, तथा अन्यानि मालिन्यानि च निर्माजयन्तं दृश्यमेव चलनचित्रखण्डे द्रष्टुं शक्यते। स्वच्छभारत अभियोजनां प्रति प्रधानमन्त्रिणः प्रतिज्ञाबद्धतां प्रकटयति इदं दृश्यम् इति सूचयन् बहवः जनाः तम् अभिनन्द्य पुरतः आगताः।

Sunday, June 19, 2022

 अग्निपथे रोषाग्निः प्रज्वालयति; शीतीकर्तुं सर्वकारः। 

नवदिल्ली> अग्निपथप्रकरणे चतुर्थदिनेSपि अनुवर्तमानं देशव्याप्तप्रक्षोभं शीतीकर्तुं केन्द्रसर्वकारेण आरक्षणानि लाघवानि च प्रख्यापितानि। अग्निपथप्रकारेण वर्षचतुष्टयं सेवामनुष्ठीयमानेभ्यः अग्निवीरेभ्यः तेषां योग्यतायाः आधारेण रक्षामन्त्रालयस्य विविधेषु विभागेषु १० प्रतिशतम् आरक्षणमनुमोदितम्। अर्धसैनिकविभागेषु  आरक्षणं दास्यतीति गृहमन्त्रालयेनापि  प्रख्यापितम्। अग्निवीराणां वयःपरिधिः २६ संवत्सराणीति दीर्घितम्। 

   किन्तु प्रक्षोभः अधिकराज्येषु व्याप्तमस्ति। गतदिने कर्णाटकं केरलम् इत्यादिषु राज्येषु अपि प्रतिषेधाः संवृत्ताः। ह्यः अपि उत्तरभारतराज्येषु रेल् यानानि अन्यानि वाहनानि च आक्रमितानि। बीहारे प्रख्यापितं बन्द् सम्पूर्णमासीत्।

Saturday, June 18, 2022

 केरलेषु पाठ्ययोजना परिष्कारः समारब्धः। 

तिरुवनन्तपुरम्> सार्वजनिकशिक्षायाः अभ्युत्थानाय विद्यालयानां मानकीकरणं गुणवत्ता-निर्धारणं च करणीयम् इति अनुशंसितम्। एतत् राज्यस्तरीय विद्यालयपाठ्यक्रमस्य पूर्वसङ्कल्पे उक्तम् अस्ति।

   इदमपि प्रस्तावितं यत् उच्चगुणवत्तायुक्तानां महाविद्यालयानाम् कृते नाक् (NAAC) मान्यतायाः समानं मान्यतायाः समानं मूल्यदानेन तरतमत्वविवेचनं तदनुसारेण मूल्याङ्कनं च विद्यालयानां कृते दातव्यम्। नूतनपाठ्यक्रमे डिजिटल् शिक्षा, व्यावसायिकप्रशिक्षणं च केन्द्रितं भविष्यति। विषयेऽस्मिन् तिरुवनन्तपुरे कार्यशाला आरब्धा अस्ति। नवीनं पाठ्यक्रमं पाठ्यपुस्तकानि च चतुविंशत्युत्तर द्विसहस्रतमे (२०२४) शैक्षणिकवर्षात् उपलभ्यन्ते। पाठ्यप्रणाल्यः केन्द्रीयशिक्षानीतेः अनुरूपाः सन्ति। पाठ्यपुस्तकान्तर्गतानि तथ्यानि विमर्श्य स्वयमेव निपुणतां प्राप्तुं छात्रेभ्यः शक्नोति।

 काबूले गुरुद्वारे भीकराक्रमणम्। सुरक्षाभटः निहतः।

काबूलः> अफ्गानिस्थानस्य राजधान्यां काबूलनगरे गुरुद्वारस्योपरि भीकराणाम् आक्रमणम्। 'कारते परवान्' नाम गुरुद्वारम् अतिक्रम्य प्रविष्टाः भीकराः कारणं विना गोलिकाप्रहारं कृतवन्तः। गुरुद्वारस्य अन्तर्भागे नैके विस्फोटाः अभवन् इति प्रतिवेदनानि सूचयन्ति। आक्रमणे अस्मिन् गुरुद्वारस्य एकः सुरक्षाभटः निहतः इति दृग्साक्षिणम् उद्धृत्य प्रादेशिकमाध्यमैः आवेदितम्। आक्रमणस्य पृष्टतः ऐ एस् भीकराः इति सूचना अस्ति।

 इन्डोनेष्या ओपण् पिच्छकन्दुकः - प्रणोय् उपान्त्यचक्रे। 

जक्कार्ता> इन्डोनेष्या ओपण् पिच्छकन्दुकक्रीडाश्रृङ्खलायां भारतस्य एछ् एस् प्रणोयः उपान्त्यचक्रं प्रविष्टवान्। शुक्रवासरे रात्रौ सम्पन्नायां क्रीडायां डेन्मार्कदेशस्य क्रीडकं रास्मस् गंके नामकं केरलीयोSयं  पराजितवान्। उपान्त्यस्पर्धायां चीनस्य सावो जुन् पेङ् प्रतियोगी भविष्यति।

 अग्निपथप्रक्षोभः व्याप्यते। 

नवदिल्ली> केन्द्रसर्वकारेण उद्घुष्टं ह्रस्वकालीनां सैनिकनियुक्तिपरियोजनां अग्निपथनामिकां विरुध्य गतदिने अपि राष्ट्र व्यापकप्रक्षोभः प्रचालितः। सर्वकारेण प्रख्यापिताः अनुनयनिर्देशाः निष्फलाः जाताः। सैनिकानां सेवाकालः २३ वयःपर्यन्तमिति परिष्कृत्य निगदितमासीत्। 

     पूर्वम् उत्तरभारतीयराज्येषु आपन्नाः अक्रमघटनाः गतदिने दक्षिणभारतमपि व्यापिताः। बिहारं, ओडीशा, उत्तरप्रदेशः, हरियानं, मध्यप्रदेशः इत्यादीनि राज्यानि विना तेलङ्काने अपि प्रतिषेधः अक्रमासक्तः अभवत्। रेल् यानानि इतरवाहनान्यपि प्रक्षोभकैः अग्निसात्कृतानि। 

   तेलङ्काने सेक्कन्दराबादे आरक्षकसेनया कृते भुषुण्डिप्रयोगे राकेशो नाम युवकः हतः। परियोजनां प्रतिषिध्य बिहारे अद्य विपक्षसंघटनैः 'बन्द' नामकं प्रतिषेधान्दोलनम् आचरिष्यते।

Friday, June 17, 2022

 अग्निपथः प्रज्वालयति -  उत्तरभारते व्यापकप्रतिषेधः। 

नवदिल्ली> केन्द्रसर्वकारस्य निर्दिष्टम् अग्निपथं नामिकां परियोजनां विरुध्य आराष्ट्रं प्रतिषेधः प्रवर्तते। केषुचित् स्थानेषु प्रतिषेधः अक्रमासक्तः अभवत्। राष्ट्रस्य सायुधसेनासु युवकानां वर्षचतुष्टयं यावत् ह्रस्वकालनियुक्तिं दीयमाना परियोजना अस्त्येषा। 

   बिहारः, उत्तरप्रदेशः, हरियानं, राजस्थानं, मध्यप्रदेशः, जम्मु, उत्तराखण्डः, हिमाचलप्रदेशः इत्येषु उत्तरभारतीयराज्येषु युवकाः वीथिं प्राप्य तीव्रं प्रतिषेधं प्राकटयन्। बिहारे त्रीणि रेल् यानानि अग्निसात्कृतानि। बहुत्र राजमार्गाः रेल्मार्गाश्च उपरुद्धाः। 

  परियोजनां प्रति प्रतिषेधस्य कारणानि एतानि - स्थिरनियुक्तिः नास्ति, पूर्वसेवावेतनादिकानि आनुकूल्यानि नार्हन्ति, कार्यकालः सप्तदशवयः आरभ्य २१ वयःपर्यन्तमित्यतः उन्नतशिक्षां बाधते, वर्षचतुष्टयानन्तरं अव्यक्तता वर्तते, वर्षचतुष्टयानन्तरं ७५% सैनिकाः अवश्यं सेवातः निवर्तयितव्याः।

Thursday, June 16, 2022

 परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी राष्ट्रिय-शोधसंगोष्ठी हरिद्वारे 


  महाविष्णोः अंशावतारस्य भगवतः परशुरामस्य व्यक्तित्व-कृतित्व-विषयिणी द्विदिवसीया राष्ट्रिय-शोधसंगोष्ठी मासेऽस्मिन् १९-२०-दिनाङ्कयोः हरिद्वारे भगवत्याः भागीरथ्याः तटे प्राचीनावधूत-मण्डलाश्रमे सम्पत्स्यते।

  राष्ट्रिय-परशुराम-परिषदा आयोज्यमाने अस्मिन् विद्वत्-सन्त-समागमे देशस्य विभिन्नेभ्यः भागेभ्यः समागताः विद्वान्सः महात्मानश्च भगवतः परशुरामस्य गहन-चरित्रस्य विषये स्व-स्वानुसन्धान-विचारान् प्रस्तोष्यन्ति। अत्र सुज्ञातः संस्कृतवार्ता-प्रवाचकः तथा विश्वसंस्कृत-पत्रकारिता-परिषदः राष्ट्रियाध्यक्षः डॉ.बलदेवानन्द-सागरः ‘वैदिक-संस्कृतेः अप्रतिमः संरक्षकः – भगवान् श्रीपरशुरामः’ इति कृत्वा स्वीयान् विचारान् उपस्थापयिष्यति।

 भारत - इजरायल - यूएई- अमेरिका राष्ट्राणां मध्ये नूतन संबन्धः। आगामिमासे प्रथमं शिखरसम्मेलनम्।

वाशिङ्गटन्> भारत-इजरायल-यूएई-अमेरिका राष्ट्राणां मध्ये निर्मितस्य नूतनस्य संबन्धस्य प्रथम-समागमः आगामिमासे भविष्यति इति वैट् हाउस् इत्यतः घोषितम्। नूतन सख्याः विश्वराष्ट्रेण सह विद्यमान संबन्धस्य दृढीकरणाय पोषणाय च भवति। बैडनस्य प्रशासनस्य विशेषप्रयत्नः भवति अयम्। I2U2 इति भवति नूतनसख्यस्य नाम। 

    विश्वविपण्यां भारतस्य उत्पन्नानां विशेषमानकानि सन्ति। अतः वस्तूनां अवश्यकता अधिकतया अस्ति। नूतनसंगठनेन विविधमण्डलेषु संयुक्तपदन्यासाय सन्दर्भः अस्ति इति वैट्हौस् इत्यस्य प्रवक्ता नेड् प्रैस् अवदत्।

 राष्ट्रपतिनिर्वाचनं - पत्रसमर्पणमारब्धम्। 

नवदिल्ली> भारते आगामिनि मासे सम्पत्स्यमानाय राष्ट्रपतिनिर्वाचनाय नामाङ्कनपत्रसमर्पणम् आरब्धम्। अस्य मासस्य २९तम दिनाङ्कपर्यन्तं पत्रसमर्पणाय समयः अस्तीति निर्वाचनायोगेन निगदितम्। 

   सूक्ष्मपरिशोधना त्रिंशे दिनाङ्के भविष्यति। पत्रनिराकरणाय जूलाय् द्वितीयदिनाङ्कपर्यन्तं सन्दर्भः अस्ति। मतदानप्रक्रिया १८तमे , मतगणना २१ तमे दिनाङ्के च भविष्यति। 

   वर्तमानस्य राष्ट्रपतेः कार्यकालः जूलाय् २४ तमे दिनाङ्के समाप्स्यते।

Wednesday, June 15, 2022

 प्रोफ. टि प्रदीपाय अन्तर्राष्ट्रीय जलपुरस्कारः। 


चेन्नै> जलसम्बन्धिने गवेषणाय दीयमानः 'प्रिन्स् सुल्त्तान् बिन् अब्दुल् असीस्' अन्ताराष्ट्रजलपुरस्कारः प्रोफसर् टि प्रदीपाय लभते। केरलस्य मलप्पुरं प्रदेशीयः अयं मद्रास् ऐ ऐ टि मध्ये प्राचार्यः अस्ति। 

   'नानो तन्त्रविज्ञान'मुपयुज्य पानजलात् आर्सनिक् नामकं विषांशम् अपाकर्तुं तन्त्रमनेन आविष्कृतम्। विविधेषु राज्येषु १२ लक्षं जनाः अस्य तन्त्रविज्ञानस्य गुणफलमाश्रित्य आर्सनिक् विमुक्तं शुद्धजलं पिबन्ति। पानजले अन्तर्भूताः अन्ये विषांशाः अपि डा प्रदीपस्य नानोतन्त्रविज्ञानीयेन अपाकृताः सन्ति। 

   २,६६,००० डोलर् मूल्ययुक्तं पुरस्कारं सेप्टम्बर् १२ तमे दिनाङ्के न्यूयोर्कस्थे संयुक्तराष्ट्रसभायाः आस्थाने सम्पत्स्यमाने कार्यक्रमे दास्यति।

Tuesday, June 14, 2022

 वङ्गदेशे इतः परं मुख्यमन्त्रिणी कुलाधिपतिः। 



कोल्कत्ता> विश्वविद्यालयानां कुलाधिपतित्वम् इतः परं मुखमन्त्रिण्ये भवति। वङ्गदेशस्य विधानसभया विधेयकम् इदम् अङ्गीकृतम्। इतः पर्यन्तं विश्वविद्यालयस्य कुलाधिपतिः राज्यपालः आसीत्। सामान्येन भारते सर्वत्र कुलाधिपतित्वं राज्यपालस्य दायित्वमेव भवति। गुर्जरे तमिल्नाट् राज्ये च एतादृशं विधेयकं तत्रत्ययोः विधानसभाभ्यां पूर्वमेव अङ्गीकृतं चेदपि अधुनापि कुलाधिपतेः दायित्त्वपालनं राज्यपालाभ्याम् अनुवर्तते। विश्वविद्यालयेषु अध्यापकनियुक्तेः अनुबन्धतया जायमानात् अलीकारोपणात् जनानां श्रद्धां विपरिणमयितुम् उद्दिश्य भवति इदं विधेयकम् इति राज्यपालेन जगदीप-धनकरेण उक्तम्। अध्यापकनियुक्ति संबन्धिते अलीकव्यवहारे सि बि ऐ संस्थया अन्वेषणम् अनुवर्तमानम् अस्ति।

 केरले सर्वकारसेवकानां कृते 'मेडिसेप्' जूलाय् मासे आरभते। 

कोट्टयं> केरलराज्यस्य सर्वकारसेवकानां सेवानिवृत्तानां च कृते मेडिसेप् नामिका स्वास्थ्यक्षेमपरियोजना जूलाय् प्रथमदिनाङ्कतः आरभ्यते इति राज्यवित्तमन्त्री के एम् बालगोपालः निवेदितवान्। Kerala Gazetted Officers' Association नामकसंघटनस्य राज्यस्तरीयसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।प्रतिसंवत्सरं लक्षत्रयरूप्यकाणां साहाय्यं  लभते।

Monday, June 13, 2022

प्राचीनकालात् आरभ्य वैज्ञानिकक्षेत्रे भारतम् अद्वितीयम्। 


नवदिल्ल्यां कुत्तब् मिनारस्य समीपे विद्यमानः अयस्तंभः भारतीयानां वैज्ञानिकक्षमतायाः निदर्शनस्त्वेन विराजते। राज्ञः चन्त्रगुप्तमौर्यस्य शसनकाले निर्मितः भवति अयम् विष्णु स्तंभः इति कालगणना वैज्ञानिकाः वदन्ति। षट्शताधिक-एकसहस्रं संवत्सरात् पूर्वं निर्मितः अयं अयस्तंभः अधुनापि  अयःपकङ्कं विना  नाशरहितो भूत्वा तिष्ठन् अस्ति। आविश्वं वैज्ञानिकानां मनसि अत्भुतं जनयन् अस्ति इयं विशेषता। पौराणिक-भारतीयेषु वैज्ञानिकप्रभावः कियन्मात्रमस्ति इत्यस्य निदर्शनत्वेन विराजते अयं विष्णुस्तंभः।

Sunday, June 12, 2022

 'एष्यन् चषकपादकन्दुकक्रीडा' - भारताय विजयः। 

कोल्कोत्ता> एष्यन् चषकपादकन्दुकक्रीडायाः योग्यतापादस्पर्धायाम् अफ्गानिस्थानं विरुध्य भारतस्य विजयः। 'डि'नामके संघे अफ्गानिस्थानं २-१ इति लक्ष्यकन्दुकक्रमेण भारतं विजयं प्राप। स्थगितसमीकरणसमये सहल् अब्दुल् समद् इत्यनेन प्राप्तेन लक्ष्यकन्दुकेनैव भारतं विजयपदं प्राप्तवत्। 

   पूर्वं ८६तमे निमिषे भारतनायकः सुनिल् छेत्री प्रथमतया भारतमग्रं प्राप्तवान्। किन्तु निमिषद्वये सुबायिर् अमिरि इत्यनेन अफ्खानक्रीडकेण समावस्था  सम्प्राप्ता। अनन्तरं नष्टपरिहारकालस्य आद्यनिमिषे एव सहलस्य लक्ष्यकन्दुकेन भारतस्य विजयप्राप्तिरभवत्। 

    भारतस्य द्वितीयो विजय एवायम्। प्रथमे द्वन्द्वे कम्बोडियां अभिभूतवत्। अस्मिन् चक्रे भारतस्य अन्तिमक्रीडा १४तमे दिनाङ्के होङ्कोङ्ङं प्रति भविष्यति।

Saturday, June 11, 2022

 राज्यसभानिर्वाचनं - महाराष्ट्रे  हरियाने च मतगणना स्थगिता। 

नवदिल्ली> मतदानवेलायां निर्वाचनानुशीलनानि लङ्घितानि इत्यारोपेण महाराष्ट्रे  हरियाने च मतगणना स्थगिता। अद्य उषसि आगतं निर्वाचनायोगस्य औद्योगिकफलप्रख्यापनमनुसृत्य हरियानस्य स्थानद्वयमपि भाजपादलेन प्राप्तम्। विजयप्रतिक्षामवलम्बितः कोण्ग्रस् स्थानाशी अजयमाक्कः पराजितः। महाराष्ट्रस्य औद्योगिकं फलं नागतम्।

 राज्यसभानिर्वाचनं सम्पन्नम्।

नवदिल्ली> चतुर्षु राज्येषु राज्यसभायाः १६ स्थानानि प्रति सम्पन्नं निर्वाचनं घटनावैविध्येन समाप्तम्। महाराष्ट्रं - ६, राजस्थानं -४, हरियानं -२, कर्णाटकं - ४ इत्येवं १६ स्थानेभ्यः आसीत् निर्वाचनम्। 

  राजस्थानस्य त्रीणि स्थानानि कोण्ग्रस् दलेन एकं स्थानं भा ज पा दलेन च प्राप्तानि। कर्णाटके त्रिषु  स्थानेषु भा ज पा दलेन प्राप्तेषु एकं स्थानं कोण्ग्रस् दलेन प्राप्तम्। वित्तमन्त्रिणी निर्मलासीतारामः कर्णाटकतः  विजितेषु प्रमुखा भवति।

 बहिराकाशदौत्येषु भारतीय बहिराकाश - अनुसन्धान-संस्थया साकम् अन्याः निजीयसंस्थाः च। इन्स्पेस् आस्थानमन्दिरम् उद्घाटितम्।

 अहम्मदाबाद्>विश्वस्मिन् बहिराकाशविपण्यां भारतस्य योगदानं संवर्धनीयम्। तदर्थं निजीय मण्डलाय नूतनाशयाय च वेदिकां दातव्यमस्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। इन्स्पेस् आस्थानमन्दिरं उद्घाटनं कृत्वा भाषमाणः आसीत् सः। बहिराकाशदौत्येषु भागं स्वीकर्तुं निजीयसंस्थाभ्यः सौकर्यं प्रददातुमेव इन्स्पेस् इत्यस्य प्रारम्भः कृतः।तद्वारा राष्ट्रे विविध निजीयसंस्थायाः ऐ एस् आर् ओ संस्थया सह मिलित्वा प्रवर्तयितुं अवसरो लभते। बहिराकाशानुसन्धानदौत्येषु तथा नूतनसूचनप्रौद्योगिकविद्याविकसन प्रवर्तनेषु च ऐ एस् आर् ओ संस्थायाः सौकर्याणि अपि उपयोक्तुं इन्स्पेस् साहाय्यं प्रदास्यति। बहिराकाशमण्डले निजीयनिक्षेपाणां तथा नूतनाशयानां च प्रोत्साहनार्थं भारतसर्वकारेण गुजरात् राज्ये स्थापितं भवति इन्स्पेस्।

Friday, June 10, 2022

 'ट्रोलिंग्' निरोधः आरब्धः। 

अनन्तपुरी> केरलराज्ये समुद्रस्य गभीरतायां सयन्त्रनौकाद्वारा बृहज्जालानि उपयुज्य मत्स्यबन्धनं गतरात्रावारभ्य निरुद्धम्। जूलाय्मासस्य ३१ दिनाङ्कपर्यन्तमेव निरोधः। किन्तु परम्परागतमत्स्यबन्धनाय निरोधः नास्ति।

 मिताली राजः निवृत्ता। 


नवदिल्ली>  महिलाक्रिक्कट्दलाय भासमानं मुखं सङ्केतं च दत्तवती भारतस्य महिलाक्रिक्कट्दलस्य नायिका मिताली राजः क्रीडायाः सर्वेभ्यः प्रकारेभ्यः निवर्तते इति ट्विट्टर् द्वारा प्रख्यापितवती। 

    १९९९ तमे वर्षे स्वस्याः १६ तमे वयसि अयर्लान्डं विरुध्य एकदिनक्रीडया अन्तर्राष्ट्रीयक्रिक्कट्क्रीडाक्षेत्रे प्रारम्भं कृतवती मिताली २३ संवत्सराणि क्रीडाङ्कणेषु अभिमानार्हाभिः क्रीडाभिः प्रशोभितवती। एकदिनेषु निकषास्पर्धासु च भारतदलस्य नायिका आसीत्। १०,८६८ धावनाङ्कैः महिलाक्रिक्कट्क्रीडासु अधिकतमधावनाङ्कप्राप्ता इति श्रेष्ठपदं च प्राप्तवती। वनिताएकदिनस्पर्धासु अधिकतमधावनाङ्कार्हा च [७८०५] अभवत्।

Thursday, June 9, 2022

 राष्ट्रे कोविड् प्रकरणानि वर्धन्ते। विमानेषु मुखावरणम् अनिवार्यम् ।

नवदिल्ली> राष्ट्रे कोविड् प्रकरणानि अनुदिनं वर्धन्ते इत्यतः विमान-यात्रिकेभ्यः मुखावरणम् अनिवार्यम् अकरोत्। निर्देशं दत्वा अपि मुखावरणं धर्तुं विमुखेभ्यः यात्रिकेभ्यः निश्चितकालपर्यन्तं  मार्गे स्थगनं विमानप्रवेशरोधनं च कर्तव्यम् इति व्योमयाननिर्देशकालयेन विमानसंस्थाधिकारिणः आदिष्टाः। एतेभ्यः यात्रिकेभ्यः दण्डशुल्कः दापनीयः इत्यपि निर्देशकालयेन आदिष्टः। मुखावरणधारणे विमुखान् प्रति कठिनप्रक्रमाः स्वीकरणीयाः इति नवदिल्ली उच्च-न्यायालयस्य आदेशानुसारेण भवति व्योमयानमन्त्रालयस्य अयं निर्देशः ।

 भारते प्रतिदिनकोविड्बाधा ७००० अतीता। 

नवदिल्ली> राष्ट्रे ९३ दिनानामनन्तरं प्रतिदिनकोविड्व्यापनं ह्यः ७००० अतीतम्। बुधवासरे प्रभाते समाप्ते २४ होराकाले ५२३३ जनाः नूतनतया कोविड्बाधिताः अभवन्। १. ६७ प्रतिशतमेव प्रतिदिनरोगस्थिरीकरणमानम्। 

    अनेन राष्ट्रे सम्पूर्णे आहत्य कोविड्बाधिताः ४,३१,९०,२८२ जाताः। इदानीं २८,८५७ रोगिणः परिचर्यायां वर्तन्ते।गतदिने सप्त जनाः मृताः। आहत्य ५,२४,१५ जनाः मृत्युवशं प्राप्ताः। आराष्ट्रं १९४. ४३ कोटि प्रत्यौषधमात्राः वितरीताः।

Wednesday, June 8, 2022

 केरले कोविड्प्रकरणानि वर्धन्ते।

अनन्तपुरी> केरलराज्ये कोविड्प्रकरणानि अनुदिनं वर्धन्ते। ह्यः २२३१ जनाः रोगबाधिताः अभवन्। गतसाप्ताहिके प्रतिदिनसंख्या  सहस्रातीता अनुवर्तमाना आसीत्। एरणाकुलं, तिरुवनन्तपुरं, कोट्टयं, तृश्शिवपेरूर् जनपदेषु एव नूतनाः कोविड्बाधिताः अधिकतया दृश्यन्ते। 

  रोगः तीव्रस्वभावरूपः नास्तीति स्वास्थ्यविभागेन निगदितम्। किन्तु मुखावरक-हस्तप्रक्षालनादिकानि कोविडनुशीलनानि पालनीयानीति निर्दिष्टमस्ति।

अष्टादश रोगिणः अर्बुदरोगात् मुक्तिं प्राप्तवन्तः । परीक्षणौषधम् फलप्रदम्।


न्यूयोर्क्> चरित्रे इदंप्रथमतया अर्बुदरोगचिकित्सापरीक्षणे भागं स्वीकृताः सर्वे रोगिणः रोगात् मुक्तिं प्राप्तवन्तः। मलाशयार्बुदबाधिताः अष्टादश रोगिणः पूर्णतया रोगात् मुक्तिं प्राप्तवन्तःइति न्यूयोर्क् टैम्स् वार्तामाध्यमेन प्रतिवेदितम्। डोस्टार्लिमाब् नाम औषधं षण्मासं यावत् स्वीकृत्यानन्तरं सर्वेषु रोगिषु अर्बुदकोशाः अप्रत्यक्षाः जाताः इति न्यूयोर्क् टैम्स् वार्तामाध्यमेन प्रतिवेदितम्।

Tuesday, June 7, 2022

भारतेन पुनरपि अग्नि -४ नाम क्षेपणास्त्रं विजयरूपेण परीक्षितम्। 


भुवनेश्वरम्> आणवायुधवाहक-क्षमतायुक्तम् अग्नि ४ नाम दीर्घदूरक्षेपणास्त्रं भारतेन विजयरूपेण परीक्षितम्। ओडिषायाः तीरे डो. अब्दुल् कलाम् द्वीपस्थे इन्टग्रेड् टेस्ट् रेञ्ज् इति स्थानात् सायङ्काले सार्धसप्त वादने आसीत् विक्षेपणम्। स्ट्राट्टजिक् फोर् कमाण्ड् इत्यस्य नेतृत्वे समायोजितस्य नित्यपरिशीलनस्य भागतया एव परीक्षणमिदं समायोजितम्। परीक्षणं सम्पूर्णतया विजयप्रदमिति प्रतिरोधमन्त्रालयेन आवेदितम्।

 'फ्रञ्च् ओपण् टेन्निस्' - पुरुषकिरीटं राफेल नदालेन  प्राप्तं; महिलाकिरीटं इगा स्वियाटेक् इत्यनया च।

पारीस्> फ्रञ्च् ओपण् नामके टेन्निस् खेलने पुरुषाणाम् एकलस्पर्धायाः अन्तिमचक्रे स्पेयिन् देशीयः रफेल् नडालः किरीटं प्राप्तवान्। नोर्वे राष्ट्रस्य कास्पर् रूड् इत्येनं [६-३, ६-३, ६-०] इति क्रमेण नडालः अभिभूतवान्। तस्य १४तमं फ्रञ्च् ओपण् किरीटं भवत्येतत्। २२ तमः 'ग्रान्ड् स्लां' लाभश्च।

  महिलानां फ्रञ्च् ओपण् प्रतियोगितायां पोलण्ट् देशीया इगा स्विया टेक् नामिका अमेरिक्कायाः कोको गाफ् इत्येनां [६-१, ६-३] इति क्रमेण पराजितवती। २१ वयस्का इगा द्वितीयवारमेव फ्रञ्च् ओपण् विजितवती।

Sunday, June 5, 2022

 काश्मीरि पण्डितविभागानां कृते सविशेषसुरक्षा दास्यते। 

 नवदिल्ली> जम्मु-काश्मीरे 'पण्डित'नामकविभागे अन्तर्भूताः जनाः निरन्तरं  भीकराक्रमणविधेयाः भवन्ति इत्यतः तेषां कृते सविशेषसुरक्षां दास्यति। गृहमन्त्रिणः अमितषाहस्य नेतृत्वे सम्पन्ने उच्चस्तरीयोपवेशने आसीदयं निर्णयः। भीकराक्रमणं प्रतिरोद्धुं कर्कशप्रक्रमान् अवलम्बितुमपि निर्णीतम्। 

  अमर्नाथतीर्थाटनं प्रति भीकराक्रमणसाध्यता वर्तते इत्यतः सुरक्षाशक्तीकरणाय गुप्तचरविभागविन्यासाय अपि निर्णयः कृतः। उपवेशने राष्ट्रियसुरक्षाउपदेष्टा अजित् डोवलः, स्थलसेनाधिकारी जन. मनोज् पाण्डे, जम्मु-काश्मीरस्य लफ्टनन्ट् राज्यपालः मनोज सिंहः इत्यादयः भागं स्वीकृतवन्तः।

Saturday, June 4, 2022

 विधानसभा उपनिर्वाचनानि - उत्तरखण्डे मुख्यमन्त्री विजयीभूतः। 

अन्यस्मिन् स्थानद्वये वर्तितदलश्च। 

नवदिल्ली> राष्ट्रे गते ३१तमे दिनाङ्के सम्पन्नानां त्रयाणां विधानसभाउपनिर्नाचनानां मतगणनाफलं प्रख्यापितम्। उत्तराखण्डस्य चम्पावत विधानसभामण्डले सम्पन्ने उपनिर्वाचने मुख्यमन्त्री पुष्करसिंहधामी विजयीभूतः। 

   कृतेषु मतदानेषु ९२.९४% संलभ्य एव सः मुख्यमन्त्रिपदं दृढीकृतवान्। मुख्यप्रतियोगी कोण्ग्रस्दलस्य निर्मला गह्तोरी इत्येनमपेक्ष्य ५५,००० मतदानानि धामिने अधिकतया लब्धानि। विगते विधानसभानिर्वाचने भा ज पी दलाय शासनाधिकारः पुनर्लब्धोSपि खातिमामण्दडले स्पर्धितः भाजपादलस्य मुख्यमन्त्रिस्थानाशी  धामी पराजितः आसन्। किन्तु धामी एव मुख्यमन्त्रिरूपेण दलेन नियुक्तः। ततः मुख्यमन्त्रिणः स्पर्धायै भाजपादलप्रतिनिधी विधानसभाङ्गः कैलाष चन्द्र गह्तोरी स्वस्थानं परित्यक्तवान्। तत्रैव धामी उज्वलविजयं प्राप्तवान्। 

  अन्ययोः मण्डलयोः वर्तितस्य राजनैतिकदलस्य प्रतिनिधिः एव विजितः। ओडीषायां ब्रजराजनगरविधानसभामण्डले प्रशासनदलस्य बिजु जनता दलस्य अलक मोहन्ती विजयीभूतः। तथा च केरले तृक्काक्कर मण्डले कोण्ग्रस् दलस्य  स्थानाशिनी उमातोमसः उज्वलविजयेन स्वदलस्य मण्डलं सुरक्षितमकरोत्।

हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका यात्रिकाणां कृते उद्घाटिता। 


हिमालयेषु नानावर्णैः अलङ्कृतानां पुष्पाणाम् उपत्यका सहृदयानां मनांसि हठात् आकर्षत् विराजते। उत्तराखण्डे चमोलि जनपदे हिमालयस्य उपत्यकायां संभूता पुष्पवाटिका सन्दर्शकाणां कृते उद्घाटिता। प्रथमदिने ७६ सन्दर्शकाः उपत्यकायाम् आगताः। तेषु एकः विदेशीयः अपि अस्ति। 
   युनेस्को संस्थायाः पैतृकपट्टिकायाम् अन्तर्गता भवति १००० पादमितोन्नता एषा उपत्यका। इयं ८७.५ चतुरश्रपादविस्तृता भवति। ५०० विधानि पुष्पवैविध्यानि जून् मासादारभ्य ओक्टोबर् मासपर्यन्तं प्रफुल्लन्ति। ओक्टोबर् मासस्य एकत्रिंशत् दिनपर्यन्तं वाटिका सन्दर्शकानां कृते सुसज्जा भविष्यति। अत्यपूर्वं हिमालयसौन्दर्यंमपि आस्वादयितुं शक्यते इत्यतः एषा उपत्यका सहृदयानां यात्रिकाणां प्रियङ्करी भवति।

Friday, June 3, 2022

 तुर्कीराष्ट्रं नूतनं नाम स्वीकृतम्; संयुक्तराष्ट्रसंख्येन अङ्गीकृतम्।


तुर्कीदेशः पुरातनः तुर्कीदेशः नास्ति। 'तुर्की' इति नाम अपि परिवर्तितम्। संयुक्तराष्ट्रसङ्घस्य अभिलेखेषु नूतनं नाम भविष्यति। तुर्की-सर्वकारस्य अनुरोधेन संयुक्तराष्ट्रसङ्घेन अस्य नामपरिवर्तनस्य अनुमोदनं कृतम्। संयुक्तराष्ट्रसङ्घस्य प्रवक्ता अवदत् यत् विषयेऽस्मिन् तुर्कीदेशस्य विदेशमन्त्रिणः पत्रं प्राप्तम्। इतःपरं सर्वत्र 'तुर्की' इत्यस्य स्थाने 'तुर्कीये' इत्यस्य उपयोगं कर्तुं संप्रार्थितम् आसीत्। यू एन् प्रवक्ता उक्तवान् यत् पत्रं प्राप्तात् क्षणात् एव देशस्य नामपरिवर्तनं प्रवर्तते। तुर्कीये-सर्वकारेण उक्तं यत् अन्याभ्यः अन्ताराष्ट्रीयसंस्थाभ्यः अन्येभ्यः देशेभ्यः च नाम परिवर्तनस्य विषये शीघ्रमेव सूचयिष्यति इति। 
    नूतनं नाम देशस्य सर्वोत्तममार्गं प्रतिनिधानं करोति इति राष्ट्रपतिः तैय्यप् एर्दोगानः अवदत्। देशस्य जनानां संस्कृतिं, सभ्यतां, मूल्यानि च समाहितं भवति नूतनं नाम इति तेनोक्तम्। देशात् निर्यातितेषु सर्वेषु उत्पादेषु "मेड् इन् तुर्कीये" इति योजितम् अस्ति। अस्मिन् वर्षे प्रारम्भे 'हेलो तुर्कीये' इति पर्यटन-अभियानं प्रारब्धम् आसीत्। इतः परं सर्वासु भाषासु देशस्य वर्णनार्थं "तुर्कीये" इति शब्दस्य प्रयोगं कर्तुं जनसमुदायेन आग्रहः क्रियते। सः राज्यसंस्थाभ्यः अपि स्वपत्राचारेषु तुर्कीयेदेशनामस्य उपयोगं कर्तुं राष्ट्रपतिः तैय्यप् एर्दोगानः निर्देशितवान्।

Thursday, June 2, 2022

 संस्कृतपत्रकारितादिने सम्प्रतिवार्ताः अपि सफला जाता।

महर्षिपाणिनिवैदिकविश्वविद्यालयेन संरचितं चित्रम्।

१८६६-वर्षे जूनमासे प्रथमदिने 'काशीविद्यासुधानिधिः' इति पत्रिका प्रथमतया प्रकाशिता जाता। ततः परं आधुनिक-संस्कृत-पत्रकारिता प्रवर्तिता। शुभं भवतु सर्वेषाम्।

Wednesday, June 1, 2022

 केरलराज्ये कोविड्-प्रकरणेषु महती वृद्धिः; 

तिरुवनन्तपुरम्> अद्यत्वे ११६१ जनाः अस्मिन् रोगेण पीडिताः सन्ति। एर्णाकुलम् जनपदे भवन्ति अधिके रोगिणः। प्रायः ३६५ जनाः अद्य रोगबाधिताः सन्ति। द्वौ मृतौ। अन्येषु जनपदेषु अपि कोविड् प्रकरणाः वर्धमानाः सन्ति। सम्प्रति देशे सर्वत्र १७८८३ कोविड्-रोगिणः चिकित्सां स्वीकुर्वन्ति। रोगबाघितेषु केवलं ०.०४% एव चिकित्सा स्वीक्रियन्ते। विगत२४ होरासु २१३४ जनाः स्वस्थतां प्राप्तवन्तः। एतेन रोगान्मुक्तानां संख्या ४२६१५५७४ अभवत्। अनेन रोगमुक्तिमानः प्रतिशतं ९८.७४ भवति। विगत २४ होरासु २३३८ नूतनाः प्रकरणानि प्राप्तानि। दैनिकं रोगव्यापनमानः प्रतिशतं ०.६४ इति भवति। साप्ताहिकं रोगव्यापनमानं प्रतिशतं ०.६१ इत्यपि भवति। केन्द्रसर्वकारस्य गणनानुसारम् इतः पर्यन्तं ८५.०४ कोटिः कोविड् परीक्षाः कृताः, विगत २४ होरासु ३६३८८३ परीक्षणानि कृतानि च।